प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ततः स सेनाविश्रान्त्यै तत्र लावाणके स्थितः ।
रहस्युवाच वत्सेशो राजा यौगन्धरायणम् ।। १
त्वद्बुद्ध्या निर्जिताः सर्वे पृथिव्यां भूभृतो मया ।
उपायस्वीकृतास्ते च नैव व्यभिचरन्ति मे ।। २
वाराणसीपतिस्त्वेष ब्रह्मदत्तो दुराशयः ।
जाने व्यभिचरत्येको विश्वासः कुटिलेषु कः ।। ३
इति वत्सेश्वरेणोक्त आह यौगन्धरायणः ।
न राजन्ब्रह्मदत्तस्ते भूयो व्यभिचरिष्यति ।। ४
आक्रान्तोपनतस्त्वेष भृशं संमानितस्त्वया ।
शुभाचारस्य कः कुर्यादशुभं हि सचेतनः ।। ५
कुर्वीत वा यस्तस्यैव तदात्मन्यशुभं भवेत् ।
तथा च श्रूयतामत्र कथां ते वर्णयाम्यहम् ।। ६
बभूव पद्मविषये पुरा कोऽपि द्विजोत्तमः ।
ख्यातिमानग्निदत्ताख्यो भूभृद्दत्ताग्रहारभुक् ।। ७
तस्यैकः सोमदत्ताख्यः पुत्रो ज्यायानजायत ।
द्वितीयश्चाभवद्वैश्वानरदत्ताख्यया सुतः ।। ८
आद्यस्तयोरभून्मूर्खः स्वाकृतिर्दुर्विनीतकः ।
अपरश्चाभवद्विद्वान्विनीतोऽध्ययनप्रियः ।। ९
कृतदारावुभौ तौ च पितर्यस्तं गते ततः ।
तदीयस्याग्रहारादेरर्धमर्धं विभेजतुः ।। १०
तन्मध्यात्स कनीयांश्च राज्ञा संमानितोऽभवत् ।
ज्येष्ठस्तु सोमदत्तोऽभूच्चपलः क्षत्रकर्मकृत् ।। ११
एकदा बद्धगोष्ठीकं शूद्रैः सह विलोक्य तम् ।
सोमदत्तं पितृसुहृद्द्विजः कोऽप्येवमब्रवीत् ।। १२
अग्निदत्तसुतो भूत्वा शूद्रवन्मूर्ख चेष्टसे ।
निजमेवानुजं दृष्ट्वा राजपूज्य न लज्जसे ।। १३
तच्छ्रुत्वा कुपितः सोऽथ सोमदत्तः प्रधाव्य तम् ।
विप्रं पादप्रहारेण जघानोज्झितगौरवः ।। १४
तत्र विप्रः स कृत्वान्यान्साक्षिणस्तत्क्षणं द्विजान् ।
गत्वा पादाहतिक्रुद्धो राजानं तं व्यजिज्ञपत् ।। १५
राजापि सोमदत्तस्य बन्धाय प्राहिणोद्भटान् ।
ते च निर्गत्य तन्मित्त्रैर्जघ्निरे शस्त्रपाणिभिः ।। १६
ततो भूयो बलं प्रेष्यावष्टब्धस्यास्य भूपतिः ।
क्रोधान्धः सोमदत्तस्य शूलारोपणमादिशत् ।। १७
आरोप्यमाणः शूलायामथाकस्मात्स च द्विजः ।
प्रक्षिप्त इव केनापि निपपात ततः क्षितौ ।। १८
रक्षन्ति भाविकल्याणं भाग्यान्येव यतोऽस्य ते ।
अन्धीबभूवुर्वधकाः पुनरारोपणोद्यताः ।। १९
तत्क्षणं श्रुतवृत्तान्तस्तुष्टो राजा कनीयसा ।
भ्रात्रास्य कृतविज्ञप्तिर्वधादेनममोचयत् ।। २०
ततो मरणनिस्तीर्णः सोमदत्तो गृहैः सह ।
गन्तुं राजावमानेन देशान्तरमियेष सः ।। २१
यदा च नैच्छन्गमनं समेतास्तस्य बान्धवाः ।
त्यक्तराजाग्रहारार्धां प्रतिपेदे तदा स्थितिम् ।। २२
ततो वृत्त्यन्तराभावात्कर्तुं स चकमे कृषिम् ।
तद्योग्यां च भुवं द्रष्टुं शुभेऽहन्यटवीं ययौ ।। २३
तत्र लेभे शुभां भूमिं संभाव्य फलसंपदम् ।
तन्मध्ये च महाभोगमश्वत्थतरुमैक्षत ।। २४
तं कल्याणघनच्छायाच्छन्नसूर्यांशुशीतलम् ।
प्रावृट्कालमिवालोक्य कृष्यर्थी तोषमाप सः ।। २५
योऽधिष्ठातात्र तस्यैव भक्तोऽस्मीत्यभिधाय च ।
कृतप्रदक्षिणोऽश्वत्थवृक्षं तं प्रणनाम सः ।। २६
संयोज्याथ बलीवर्दयुगं रचितमङ्गलः ।
कृत्वा बलिं तस्य तरोरारेभे कृषिमत्र सः ।। २७
तस्थौ तस्यैव चाधस्ताद्द्रुमस्य स दिवानिशम् ।
भोजनं तस्य चानिन्ये तत्रैव गृहिणी सदा ।। २८
काले तत्र च पक्वेषु तस्य सस्येष्वशङ्कितम् ।
सा भूमिः परराष्ट्रेण दैवादेत्य व्यलुण्ट्यत ।। २९
ततः परबले याते नष्टे सस्ये स सत्त्ववान् ।
आश्वास्य रुदतीं भार्यां किंचिच्छेषं तदाददौ ।। ३०
प्राग्वत्कृतबलिस्तस्थौ तत्रैवाथ तरोरधः ।
निसर्गः स हि धीराणां यदापद्यधिकं दृढाः ।। ३१
अथ चिन्ताविनिद्रस्य स्थितस्यैकाकिनो निशि ।
तस्याश्वत्थतरोस्तस्मादुच्चचार सरस्वती ।। ३२
भोः सोमदत्त तुष्टोऽस्मि तव तद्गच्छ भूपतेः ।
आदित्यप्रभसंज्ञस्य राष्ट्रं श्रीकण्ठदेशगम् ।। ३३
तत्र तस्यानवरतं द्वारदेशे महीपतेः ।
वदेः पठित्वा संध्याग्निहोत्रमन्त्रानिदं वचः ।। ३४
फलभूतिरहं नाम्ना विप्रः शृणुत वच्मि यत् ।
भद्रकृत्प्राप्नुयाद्भद्रमभद्रं चाप्यभद्रकृत् ।। ३५
एवं वदंश्च तत्र त्वं महतीमृद्धिमाप्स्यसि ।
संध्याग्निहोत्रमन्त्रांश्च मत्त एव पठाधुना ।। ३६
अहं च यक्ष इत्युक्त्वा स्वप्रभावेण तत्क्षणम् ।
तमध्याप्य च तान्मन्त्रान्वटे वाणी तिरोदधे ।। ३७
प्रातः स सोमदत्तश्च प्रतस्थे भार्यया सह ।
फलभूतिरिति प्राप्य नाम यक्षकृतं कृती ।। ३८
अतिक्रम्याटवीस्तास्ता विषमाः परिवर्तिनीः ।
दुर्दशा इव संप्राप श्रीकण्ठविषयं च सः ।। ०९
तत्र संध्याग्निकार्यादि पठित्वा द्वारि भूपतेः ।
यथावन्नाम संश्राव्य फलभूतिरिति स्वकम् ।। ४०
सोऽवादीद्भद्रकृद्भद्रमभद्रं चाप्यभद्रकृत् ।
प्राप्नुयादिति लोकस्य कौतुकोत्पादकं वचः ।। ४१
मुहुश्च तद्वदन्तं तं तत्रादित्यप्रभो नृपः ।
बुद्ध्वा प्रवेशयामास फलभूतिं कुतूहली ।। ४२
सोऽपि प्रविश्य तस्याग्रे तदेव मुहुरब्रवीत् ।
जहास तेन स नृपस्तदा पार्श्वस्थितैः सह ।। ४३
ससामन्तश्च वस्त्राणि दत्त्वा चाभरणानि सः ।
ग्रामान्राजा ददौ तस्मै न तोषो महतां मृषा ।। ४४
एवं च तत्क्षणं प्राप गुह्यकानुग्रहेण सः ।
फलभूतिः कृशो भूत्वा विभूतिं भूभृदर्पिताम् ।। ४५
सदा तदेव च वदन्पूर्वोक्तं प्राप भूपतेः ।
वाल्लभ्यमीश्वराणां हि विनोदरसिकं मनः ।। ४६
क्रमाद्राजगृहे चास्मिन्राष्ट्रेष्वन्तःपुरेषु च ।
राजप्रिय इति प्रीतिं बहुमानामवाप सः ।। ४७
कदाचिदथ सोऽटव्याः कृत्वाखेटकमागतः ।
आदित्यप्रभभूपालः सहसान्तःपुरं ययौ ।। ४८
द्वाःस्थसंभ्रमसाशङ्काः प्रविश्यैव ददर्श सः ।
देवीं देवार्चनव्यग्रां नाम्ना कुवलयावलीम् ।। ४९
दिगम्बरामूर्ध्वकेशीं निमीलितविलोचनाम् ।
स्थूलसिन्दूरतिलकां जपप्रस्फुरिताधराम् ।। ५०
विचित्रवर्णकन्यस्तमहामण्डलमध्यगाम् ।
असृक्सुरामहामांसकल्पितोग्रबलिक्रियाम् ।। ५१
सापि प्रविष्टे नृपतौ संभ्रमाकलितांशुका ।
तेन पृष्टा क्षणादेवमवोचद्याचिताभया ।। ५२
तदैवोदयलाभार्थं कृतवत्यस्मि पूजनम् ।
अत्र चागमवृत्तान्तं सिद्धिं च शृणु मे प्रभो ।। ५३
पुराहं पितृवेश्मस्था कन्या मधुमहोत्सवे ।
एवमुक्ता वयस्याभिः समेत्योद्यानवर्तिनी ।। ५४
अस्तीह प्रमदोद्याने तरुमण्डलमध्यगः ।
दृष्टप्रभावो वरदो देवदेवो विनायकः ।। ५५
तमुपागत्य भक्त्या त्वं पूजय प्रार्थितप्रदम् ।
येन निर्विघ्नमेवाशु स्वोचितं पतिमाप्स्यसि ।। ५६
तच्छ्रुत्वा पर्यपृच्छ्यन्त सख्यस्ता मौग्ध्यतो मया ।
कन्या लभन्ते भर्तारं किं विनायकपूजया ।। ५७
अथ ताः प्रत्यवोचन्मां किमेतत्त्वयोच्यते ।
तस्मिन्नपूजिते नास्ति सिद्धिः कापीह कस्यचित् ।। ५८
तथा चैतत्प्रभावं ते वर्णयामो वयं शृणु ।
इत्युक्त्वा च वयस्या मे कथामकथयन्निमाम् ।। ५९
पुरा पुरारेस्तनयं सेनान्यं प्राप्तुमिच्छति ।
तारकोपद्रुते शक्रे दग्धे च कुसुमायुधे ।। ६०
ऊर्ध्वरेतसमत्युग्रं सुदीर्घतपसि स्थितम् ।
गौरी कृततपाः प्रार्थ्य प्राप्य च त्र्यम्बकं पतिम् ।। ६१
आचकाङ्क्ष सुतप्राप्तिं मदनस्य च जीवितम् ।
न च सस्मार सिद्ध्यर्थं सा विघ्नेश्वरपूजनम् ।। ६२
अभीष्टाभ्यर्थिनीं तां च कान्तामित्यवदच्छिवः ।
प्रिये प्रजापतेः पूर्वं मानसादजनि स्मरः ।। ६३
कं दर्पयामीति मदाज्जातमात्रो जगाद च ।
तेन कंदर्पनामानं तं चकार चतुर्मुखः ।।
६४
अतिदृप्तोऽसि चेत्पुत्र तत्त्रिनेत्रस्य लङ्घनम् ।
एकस्य रक्षेर्मा नाम मृत्युं तस्मादवाप्स्यसि ।। ६५
इत्थं स वेधसोक्तोऽपि संक्षोभायागतः शठः ।
मया दग्धो न तस्यास्ति सदेहस्योद्भवः पुनः ।। ६६
भवत्यास्तु स्वशक्त्यैव पुत्रमुत्पादयाम्यहम् ।
नहि मे मदनोत्साहहेतुका लोकवत्प्रजा ।। ६७
एवं वदत एवास्य पार्वतीं वृषलक्ष्मणः ।
आविर्बभूव पुरतो ब्रह्मा शतमखान्वितः ।। ६८
तेन स्तुत्वा स विज्ञप्तस्तारकासुरशान्तये ।
अङ्गीचक्रे शिवः स्रष्टुं देव्यामात्मजमौरसम् ।। ६९
अनुमेने च कामस्य जन्म चेतसि देहिनाम् ।
सर्गविच्छेदरक्षार्थममूर्तस्यैव तद्गिरा ।। ७०
ददौ च निजचित्तेऽपि सोऽवकाशं मनोभुवः ।
तेन तुष्टो ययौ धाता मुदं प्राप च पार्वती ।। ७१
ततो यातेषु दिवसेष्वेकदा रहसि स्थितः ।
सिषेवे सुरतक्रीडामुमया सह शंकरः ।। २
यदा नाभूद्रतान्तोऽस्य गतेष्वब्दशतेष्वपि ।
तदा तदुपमर्देन चकम्पे भुवनत्रयम् ।। ७३
ततो जगन्नाशभयाद्रतविघ्नाय शूलिनः ।
वह्निं स्मरन्ति स्म सुराः पितामहनिदेशतः ।। ७४
सोऽप्यग्निः स्मृतमात्रः सन्नधृष्यं मदनान्तकम् ।
मत्वा पलाय्य देवेभ्यः प्रविवेश जलान्तरम् ।। ७५
तत्तेजोदह्यमानाश्च तत्र भेका दिवौकसाम् ।
विचिन्वतां शशंसुस्तमग्निमन्तर्जलस्थितम् ।। ७६
ततस्ताननभिव्यक्तवाचः शापेन तत्क्षणम् ।
भेकान्कृत्वा तिरोभूय भूयोऽग्निर्मन्दरं ययौ ।। ७७
तत्र तं कोटरान्तस्थं देवाः शम्बूकरूपिणम् ।
प्रापुर्गजशुकाख्यातं स चैषां दर्शनं ददौ ।। ७८
कृत्वा जिह्वाविपर्यासं शापेन शुकदन्तिनाम् ।
प्रतिपेदे च देवानां स कार्यं तैः कृतस्तुतिः ।। ७९
गत्वा च स्वोष्मणा सोऽग्निर्निवार्य सुरताच्छिवम् ।
शापभीत्या प्रणम्यास्मै दैवकार्यं न्यवेदयत् ।। ८०
शर्वोऽप्यारूढवेगोऽग्नौ तस्मिन्वीर्यं स्वमादधे ।
तद्धि धारयितुं शक्तो न वह्निर्नाम्बिकापि वा ।। ८१
न मया तनयस्त्वत्तः संप्राप्त इति वादिनीम् ।
स्वेदकोपाकुलां देवीमित्युवाच ततो हरः ।। ८२
विघ्नोऽत्र तव जातोऽयं विना विघ्नेशपूजनम् ।
तदर्चयैनं येनाशु वह्नौ नो जनिता सुतः ।। ८३
इत्युक्ता शंभुना देवी चक्रे विघ्नेश्वरार्चनम् ।
अनलोऽपि सगर्भोऽभूत्तेन वीर्येण धूर्जटेः ।। ८४
तत्तेजः शांभवं बिभ्रत्स तदा दिवसेष्वपि ।
अन्तःप्रविष्टतिग्मांशुरिव सप्तार्चिराबभौ ।। ८५
उद्ववाम च गङ्गायां तत्तेजः सोऽथ दुर्धरम् ।
गङ्गैनमत्यजन्मेरौ वह्निकुण्डे हराज्ञया ।। ८६
तत्र संरक्ष्यमाणः सन्स गर्भः शांभवैर्गणैः ।
निःसृत्याब्दसहस्रेण कुमारोऽभूत्षडाननः ।। ८७
ततो गौरीनियुक्तानां कृत्तिकानां पयोधरान् ।
षण्णां षड्भिर्मुखैः पीत्वा स्वल्पैः स ववृधे दिनैः ।। ८८
अत्रान्तरे देवराजस्तारकासुरनिर्जितः ।
शिश्रिये मेरुशृङ्गाणि दुर्गाण्युज्झितसंगरः ।। ८९
देवाश्च साकमृषिमिः षण्मुखं शरणं ययुः ।
षण्मुखोऽपि सुरान्रक्षन्नासीत्तैः परिवारितः ।। ९०
तद्बुद्ध्वा हारितं मत्वा राज्यमिन्द्रोऽथ चुक्षुभे ।
योधयामास गत्वा च कुमारं स समत्सरः ।। ९१
तद्वज्राभिहतस्याङ्गात्षण्मुखस्योद्बभूवतुः ।
पुत्रौ शाखविशाखाख्यावुभावतुलतेजसौ ।। २९
सपुत्रं च तमाक्रान्तशतक्रतुपराक्रमम् ।
उपेत्य तनयं शर्वः स्वयं युद्धादवारयत् ।। ९३
जातोऽसि तारकं हन्तुं राज्यं चेन्द्रस्य रक्षितुम् ।
तत्कुरुष्व निजं कार्यमिति चैनं शशास सः ।। ९४
ततः प्रणम्य प्रीतेन तत्क्षणं वृत्रवैरिणा ।
सैनापत्याभिषेकोऽस्य कुमारस्योपचक्रमे ।। ९५
स्वयमुत्क्षिप्तकलशस्तब्धबाहुरभूद्यदा ।
ततः शक्रः शुचमगादथैनमवदच्छिवः ।। ९६
न पूजितो गजमुखः सेनान्यं वाच्छता त्वया ।
तेनैष विघ्नो जातस्ते तत्कुरुष्व तदर्चनम् ।। ९७
तच्छ्रुत्वा तत्तथा कृत्वा मुक्तबाहुः शचीपतिः ।
अभिषेकोत्सवं सम्यक्सेनान्ये निरवर्तयत् ।। ९८
ततो जघान नचिरात्सेनानीस्तारकासुरम् ।
ननन्दुः सिद्धकार्याश्च देवा गौरी च पुत्रिणी ।। ९९
तदेवं देवि देवानामपि सन्ति न सिद्धयः ।
हेरम्भेऽनर्चिते तस्मात्पूजयैनं वरार्थिनी ।। १००
इत्युक्ताहं वयस्याभिरुद्यानैकान्तवर्तिनम् ।
आर्यपुत्र पुरा गत्वा विघ्नराजमपूजयम् ।। १०१
पूजावसाने चापश्यमकस्माद्गगनाङ्गणे ।
उत्पत्य विहरन्तीस्ताः स्वसखीर्निजसिद्धितः ।। १०२
तद्दृष्ट्वा कौतुकाद्व्योम्नः समाहूयावतार्य च ।
मया सिद्धिस्वरूपं ताः पृष्टाः सद्योब्रुवन्निदम् ।। १०३
इमा नृमांसाशनजा डाकिनीमन्त्रसिद्धयः ।
कालरात्रिरिति ख्याता ब्राह्मणी गुरुरत्र नः ।। १०४
एवं सखीभिरुक्ताहं खेचरीसिद्धिलोलुभा ।
नृमांसाशनमीता च क्षणमासं ससंशया ।। ५५
अथ तत्सिद्धिलुब्धत्वादवोचं ताः सखीरहम् ।
उपदेशो ममाप्येष युष्मामिर्दाप्यतामिति ।। १०६
ततो मदभ्यर्यनया गत्वा तत्क्षणमेव ताः ।
आनिन्युः कालरात्रिं तां तत्रैव विकटाकृतिम् ।। १०७
मिलद्भुवं कातराक्षीं न्यञ्चच्चिपिटनासिकाम् ।
स्थूलगण्डीं करालोष्ठीं दन्तुरां दीर्घकंधराम् ।। १०८
लम्बस्तनीमुदरिणीं विदीर्णोत्फुल्लपादुकाम् ।
धात्रा वैरूप्यनिर्माणवैदग्धीं दर्शितामिव ।। १०९
सा मां पादानतां स्नातां कृतविघ्नेश्वरार्चनाम् ।
विवस्त्रां मण्डले भीमां भैरवार्चामकारयत् ।। ११०
अभिषिच्य च सा मह्यं तांस्तान्मन्त्रान्निजान्ददौ ।
भक्षणाय नृमांसं च देवार्चनबलीकृतम् ।। १११
आत्तमन्त्रगणा भुक्तमहामांसा च तत्क्षणम् ।
निरम्बरैवोत्पतिता ससखीकाहमम्बरम् ।। ११२
कृतक्रीडावतीर्याथ मगनाद्गुर्वनुज्ञया ।
गताभूवमहं देव कन्यकान्तःपुरं निजम् ।। १९३
एवं बाल्येऽपि जाताहं डाकिनीचक्रवर्तिनी ।
भक्षितास्तत्र चास्माभिः समेत्य बहवो नराः ।। ११४
अस्मिन्कथान्तरे चैतां महाराज कथां शृणु ।
विष्णुस्वामीत्यभूत्तस्याः कालरात्र्याः पतिर्द्विजः ।। ११५
स च तस्मिन्नुपाध्यायो देशे नानादिगागतान् ।
शिष्यानध्यापयामास वेदविद्याविशारदः ।। ११६
शिष्यमध्ये च तस्यैको नाम्ना सुन्दरको युवा ।
बभूव शिष्यः शीलेन विराजितवपुर्गुणः ।। ११७
तमुपाध्यायपत्नी सा कालरात्रिः कदाचन ।
वव्रे रहसि कामार्ता पत्यौ कापि बहिर्गते ।। ११८
तूनं विरूपैरधिकं हासनैः क्रीडति स्मरः ।
यत्सानवेक्ष्य स्वं रूपं चक्रे सुन्दरकस्पृहाम् ।। ११९
77
स तु सर्वात्मना नैच्छदर्थ्यमानोऽपि विप्लवम् ।
स्त्रियो यथा विचेष्टन्तां निष्कम्पं तु सतां मनः ।। १२०
ततः सापसृते तस्मिन्कालरात्रिः क्रुधा तदा ।
स्वमङ्गं पाटयामास स्वयं दन्तनखक्षतैः ।। १२१
विकीर्णवस्त्रकेशान्ता रुदती तावदास्त च ।
गृहं यावदुपाध्यायो विष्णुस्वामी विवेश सः ।। १२२
प्रविष्टं तमवादीच्च पश्य सुन्दरकेण मे ।
अवस्था विहिता स्वामिन्बलात्काराभिलाषिणा ।। १२३
तच्छ्रुत्वा स उपाध्यायः क्रुधा जज्वाल तत्क्षणम् ।
प्रत्ययः स्त्रीषु मुष्णाति विमर्शं विदुषामपि ।। १२४
सायं च तं सुन्दरकं गृहप्राप्तं प्रधाव्य सः ।
सशिष्यो मुष्टिभिः पादैर्लगुडैश्चाप्यताडयत् ।। १२५,
किं च प्रहारनिश्चेष्टं शिष्यानादिश्य तं बहिः ।
त्याजयामास रथ्यायां निरपेक्षतया निशि ।। १२६
ततः शनैः सुन्दरकः स निशानिलवीजितः ।
तथाभिभूतमात्मानं पश्यन्नेवमचिन्तयत् ।। १२७
अहो स्त्रीप्रेरणा नाम रजसा लङ्घितात्मनाम् ।
पुंसां वात्येव सरसामाशयक्षोभकारिणी ।। १२८
येनाविचार्य वृद्धोऽपि विद्वानपि च तत्तथा ।
अतिक्रोधादुपाध्यायो विरुद्धमकरोन्मयि ।। १२९
अथवा दैवसंसिद्धावा सृष्टेर्विदुषामपि ।
कामक्रोधौ हि विप्राणां मोक्षद्वारार्गलावुभौ ।। १३०
तथा हि किं न मुनयः स्वदारभ्रंशशङ्किनः ।
देवदारुवने पूर्वमपि शर्वाय चुक्रुधुः ।। १३१
न चैनं विविदुर्देवं कृतक्षपणकाकृतिम् ।
उमायै दर्शयिष्यन्तमृषीणामप्यशान्तताम् ।। १३२
दत्तशापाश्च ते सद्यस्त्रिजगत्क्षोभकारणम् ।
बुद्ध्वा तं देवमीशानं तमेव शरणं ययुः ।। १३३
तदेवं कामकोपादिरिपुषड्वर्गवञ्चिताः ।
मुनयोऽपि विमुह्यन्ति श्रोत्रियेषु कथैव का ।। १३४
इति सुन्दरकस्तत्र ध्यायन्दस्युभयान्निशि ।
आरुह्य शून्यगोवाटहर्म्ये तस्थौ समीपगे ।। १३५
तत्रैकदेशे यावच्च क्षणं तिष्ठत्यलक्षितः ।
तावत्तत्रैव हर्म्ये सा कालरात्रिरुपाययौ ।। १३६
आकृष्टवीरच्छुरिका मुक्तफूत्कारभीषणा ।
नयनाननवान्तोल्का डाकिनीचक्रसंगता ।। १३७
तां दृष्ट्वा तादृशीं तत्र कालरात्रिमुपागताम् ।
सस्मार मन्त्रान्रक्षोघ्नान्भीतः सुन्दरकोऽथ सः ।। १३८
तन्मन्त्रमोहिता चाथ तं ददर्श न सा तदा ।
भयसंपिण्डितैरङ्गैरेकान्ते निभृतस्थितम् ।। १३९
अथोत्पतनमन्त्रं सा पठित्वा ससखीजना ।
कालरात्रिः सगोवाटहर्म्यैवोदपतन्नभः ।। १४०
तं च मन्त्रं स जग्राह श्रुत्वा सुन्दरकस्तदा ।
सहर्म्या सापि नभसा क्षिप्रमुज्जयिनीं ययौ ।। १४६
तत्रावतार्य हर्म्यं सा मन्त्रतः शाकवाटके ।
गत्वा स्मशाने चिक्रीड डाकिनीचक्रमध्यगा ।। १४२
तत्क्षणं च क्षुधाक्रान्तः शाकवाटेऽवतीर्य सः ।
तत्र सुन्दरकश्चक्रे वृत्तिमुत्खातमूलकैः ।। १४३
कृतक्षुत्प्रतिघातेऽस्मिन्प्राग्वद्गोवाटमाश्रिते ।
प्रत्याययौ कालरात्री रात्रिमध्ये निकेतनात् ।। १४४
ततोऽधिरूढगोवाटा पूर्ववन्मन्त्रसिद्धितः ।
आकाशेन सशिष्या सा निशि स्वगृहमाययौ ।। १४५
स्थापयित्वा यथास्थानं तच्च गोवाटवाहनम् ।
विसृज्यानुचरीस्ताश्च शय्यावेश्म विवेश सा ।। १४६
सोऽपि सुन्दरको नीत्वा तां निशां विघ्नविस्मितः ।
प्रभाते त्यक्तगोवाटो निकटं सुहृदां ययौ ।। १४७
तत्राख्यातस्ववृत्तान्तो विदेशगमनोन्मुखः ।
तैः समाश्वासितो मित्त्रैस्तन्मध्ये स्थितिमग्रहीत् ।। १४८
उपाध्यायगृहं त्यक्त्वा भुञ्जानः सत्रसद्मनि ।
उवास तत्र विहरन्स्वच्छन्दः सखिभिः सह ।। १४९
एकदा निर्गता क्रेतुं गृहोपकरणानि सा ।
ददर्श तं सुन्दरकं कालरात्रिः किलापणे ।। १५०
उपेत्य च जगादैनं पुनरेव स्मरातुरा ।
भज सुन्दरकाद्यापि मां त्वदायत्तजीविताम् ।। १५१
एवमुक्तस्तया सोऽथ साधुः सुन्दरकोऽब्रवीत् ।
मैवं वादीर्न धर्मोऽयं माता मे गुरुपत्न्यसि ।। १५२
ततोऽब्रवीत्कालरात्रिर्धर्मं चेद्वेत्सि देहि तत् ।
प्राणान्मे प्राणदानाद्धि धर्मः कोऽभ्यधिको भवेत् ।। १५३
अथ सुन्दरकोऽवादीन्मातर्मैवं कृथा हृदि ।
गुरुतल्पाभिगमनं कुत्र धर्मो भविष्यति ।। १५४
एवं निराकृता तेन तर्जयन्ती च तं रुषा ।
पाटयित्वा स्वहस्तेन स्वोत्तरीयमगाद्गृहम् ।। १५५
पश्य सुन्दरकेणेदं धावित्वा पाटितं मम ।
इत्युवाच पतिं तत्र दर्शयित्वोत्तरीयकम् ।। १५६
स च तस्याः पतिः क्रोधाद्गत्वा वध्यमुदीर्य च ।
सत्त्रे सुन्दरकस्याशु वारयामास भोजनम् ।। १५७
ततः सुन्दरकः खेदात्तं देशं त्यक्तुमुद्यतः ।
जानन्नुत्पतने व्योम्नि मन्त्रं गोवाटशिक्षितम् ।। १५८
ततोऽवरोहेऽप्यपरं शिक्षितुं श्रुतविस्मितम् ।
तदेव शून्यगोवाटहर्म्यं निशि पुनर्ययौ ।। १५९
तत्र तस्मिन्स्थिते प्राग्वत्कालरात्रिरुपेत्य सा ।
तथैवोत्पत्य हर्म्यस्था व्योम्नैवोज्जयिनीं ययौ ।। १६०
तत्रावतार्य मन्त्रेण गोवाटं शाकवाटके ।
जगाम रात्रिचर्यायै पुनः सा पितृकाननम् ।। १६१
तं च सुन्दरको मन्त्रं भूयः श्रुत्वापि नाग्रहीत् ।
विना हि गुर्वादेशेन संपूर्णाः सिद्धयः कुतः ।। १६२
ततोऽत्र भुक्त्वा कतिचिन्मूलकान्यपराणि च ।
नेतुं प्रक्षिप्य गोवाटे तत्र तस्थौ स पूर्ववत् ।। १६३
अथैत्यारूढगोवाटा सा गत्वा नभसा निशि ।
विवेश कालरात्रिः स्वं सद्म स्थापितवाहना ।। १६४
सोऽपि सुन्दरकः प्रातर्गोवाटान्निर्गतस्ततः ।
ययौ भोजनमूल्यार्थी विपणीमात्तमूलकः ।। १६५
विक्रीणानस्य तस्यात्र मूलकं राजसेवकाः ।
मालवीया विना मूल्यं जह्रुर्दृष्ट्वा स्वदेशजम् ।। १६६
ततः स कलहं कुर्वन्बद्ध्वा सुहृदनुद्रुतः ।
पाषाणघातदायीति राजाग्रं तैरनीयत ।। १६७
मालवात्कथमानीय कान्यकुज्जेऽत्र मूलकम् ।
विक्रीणीषे सदेत्येष पृष्टोऽस्माभिर्न जल्पति ।। १६८
हन्ति प्रत्युत पाषाणैरित्युक्तस्तैः शठैर्नृपः ।
तं तदद्भुतमप्राक्षीत्ततस्तत्सुहृदोऽब्रुवन् ।। १६९
अस्माभिः सह यद्येष प्रासादमधिरोप्यते ।
तदैतत्कौतुकं देव कृत्स्नं जल्पति नान्यथा ।। १७०
तथेत्यारोपितो राज्ञा सप्रासादोऽस्य पश्यतः ।
उत्पपात स मन्त्रेण सद्यः सुन्दरको नभः ।। १७१
समित्रस्तेन गत्वा च प्रयागं प्राप्य च क्रमात् ।
श्रान्तः कमपि राजानं स्नान्तं तत्र ददर्श सः ।। १७२
संस्तभ्य चात्र प्रासादं गङ्गायां खान्निपत्य च ।
विस्मयोद्वीक्षितः सर्वैस्तं स राजानमभ्यगात् ।। १७३
कस्त्वं किं चावतीर्णोऽसि गगनादिति शंस नः ।
राज्ञा प्रह्वेण पृष्टः सन्नेवं सुन्दरकोऽब्रवीत् ।। १७४
अहं मुरजको नाम गणो देवस्य धूर्जटेः ।
प्राप्तो मानुषभोगार्थी त्वत्सकाशं तदाज्ञया ।। १७५
तच्छ्रुत्वा सत्यमाशङ्क्य सस्याढ्यं रत्नपूरितम् ।
सस्त्रीकं सोपकरणं ददौ तस्मै पुरं नृपः ।। १७६
प्रविश्याथ पुरे तस्मिन्नुत्पत्य दिवि सानुगः ।
चिरं सुन्दरकः स्वेच्छं निर्दैन्यं विचचार सः ।। १७७
शयानो हेमपर्यङ्के वीज्यमानश्च चामरैः ।
सेव्यमानो वरस्त्रीभिरैन्द्रं सुखमवाप सः ।। १७८
अथैकदा ददौ तस्मै मन्त्रं व्योमावरोहणे ।
सिद्धः कोऽपि किलाकाशचारी संजातसंस्तवः ।। १७९
प्राप्तावतारमन्त्रः स गत्वा सुन्दरकस्ततः ।
कान्यकुब्जे निजे देशे व्योममार्गादवातरत् ।। १८०
सपुरं पूर्णलक्ष्मीकमवतीर्णं नभस्तलात् ।
बुद्ध्वा तत्र स्वयं राजा कौतुकात्तमुपाययौ ।। १८१
परिज्ञातश्च पृष्टश्च राजाग्रे सोऽथ कालवित् ।
कालरात्रिकृतं सर्वं स्ववृत्तान्तं न्यवेदयत् ।। १८२
ततश्चानाय्य पप्रच्छ कालरात्रिं महीपतिः ।
निर्भया साप्यविनयं स्वं सर्वं प्रत्यपद्यत ।। १८३
कुपिते च नृपे तस्याः कर्णौ च च्छेत्तुमुद्यते ।
सा गृहीतापि पश्यत्सु सर्वेष्वेव तिरोदधे ।। १८४
ततः स्वराष्ट्रे वासोऽस्यास्तत्र राज्ञा न्यषिध्यत ।
तत्पूजितः सुन्दरकः शिश्रिये च नभः पुनः ।। १८५
इत्युक्त्वा तत्र भर्तारमादित्यप्रभभूपतिम् ।
अभाषत पुनश्चैनं राज्ञी कुवलयावली ।। १८६
भवन्त्येवंविधा देव डाकिनीमन्त्रसिद्धयः ।
एतच्च मत्पितुर्देशे वृत्तं सर्वत्र विश्रुतम् ।। १८७
कालरात्रेश्च शिष्याहमित्यादौ वर्णितं मया ।
पतिव्रतात्वात्सिद्धिस्तु ततोऽप्यभ्यधिका मम ।। १८८
भवता चाद्य दृष्टाहं श्रेयोऽर्थं ते कृतार्चना ।
उपहाराय पुरुषं मन्त्रेणाक्रष्टुमुद्यता ।। १८९
तदस्मदीयेऽत्र नये त्वमपि प्रविशाधुना ।
सिद्धियोगजितानां च राज्ञां मूर्ध्नि पदं कुरु ।। १९०
तच्छ्रुत्वा क्व महामांसभोजनं डाकिनीनये ।
क्व च राजत्वमित्युक्त्वा स राजा निषिषेध तत् ।। १९१
प्राणत्यागोद्यतायां तु राज्ञ्यां तत्प्रत्यपद्यत ।
विषयाकृष्यमाणा हि तिष्ठन्ति सुपथे कथम् ।। १९२
ततः सा तं प्रवेश्यैव मण्डले पूर्वपूजिते ।
गृहीतसमयं सन्तं राजानमिदमब्रवीत् ।। १९३
य एष फलभूत्याख्यः स्थितो विप्रस्तवान्तिके ।
स मयात्रोपहारार्थमाक्रष्टुमुपकल्पितः ।। १९४
आकर्षणं च सायासं तत्कश्चित्सूपकृद्वरम् ।
नयेऽत्र स्थाप्यतां यस्तं स्वयं हन्ति पचत्यपि ।। १९५
न कार्या च घृणा यस्मात्तन्मांसबलिभक्षणात् ।
समापितेऽर्चने पूर्णा सिद्धिः स्यादुत्तमो हि सः ।। १९६
इत्युक्तः प्रियया राजा पापभीतोऽपि तत्पुनः ।
अङ्गीचकार धिगहो कष्टां स्त्रीष्वनुरोधिताम् ।। १९७
आनाय्य सूपकारं च ततः साहसिकाभिधम् ।
विश्वास्य दीक्षितं कृत्वा दंपती तौ सहोचतुः ।। १९८
राजा देवीद्वितीयोद्य भोक्ष्यते तत्त्वरां कुरु ।
आहारस्येति योऽभ्येत्य त्वां ब्रूयात्तं निपातयेः ।। १९९
79
तन्मांसैश्च रहः कुर्याः प्रातर्नौ स्वादु भोजनम् ।
इति सूपकृतादिष्टस्तथेत्युक्त्वा गृहं ययौ ।। २००
प्रातश्च फलभूतिं तं प्राप्तं राजा जगाद सः ।
गच्छ साहसिकं ब्रूहि सूपकारं महानसे ।। २०१
राजा देवीद्वितीयोऽद्य भोक्ष्यते स्वादु भोजनम् ।
अतस्त्वरितमाहारमुत्तमं साधयेरिति ।। २०२
तथेति निर्गतं तं च फलभूतिं बहिस्तदा ।
एत्य चन्द्रप्रभो नाम राज्ञः पुत्रोऽब्रवीदिदम् ।। २०३
अनेन शीघ्रं हेम्ना मे कारयाद्यैव कुण्डले ।
यादृशे भवता पूर्वमार्य तातस्य कारिते ।। २०४
इत्युक्तो राजपुत्रेण फलभूतिस्तदैव सः ।
कृतानुरोधः प्रहितो ययौ कुण्डलयोः कृते ।। २०५
राजपुत्रोऽप्यगात्स्वैरं कथितं फलभूतिना ।
राजादेशं गृहीत्वा तमेकाक्येव महानसम् ।। २०६
तत्रोक्तराजादेशं तं स्थितसंवित्स सूपकृत् ।
राजपुत्रं छुरिकया सद्यः साहसिकोऽवधीत् ।। २०७
तन्मांसैः साधितं तेन भोजनं च कृतार्चनौ ।
अभुञ्जातामजानन्तौ तत्त्वं राज्ञी नृपस्तथा ।। २०८
नीत्वा च सानुतापस्तां रात्रिं राजा ददर्श सः ।
प्रातः कुण्डलहस्तं तं फलभूतिमुपागतम् ।। २०९
विभ्रान्तः कुण्डलोद्देशात्तं च पप्रच्छ तत्क्षणम् ।
तेनाख्यातस्ववृत्तान्तः पपात च भुवस्तले ।। २१०
हा पुत्रेति च चक्रन्द निन्दन्भार्यां सहात्मना ।
पृष्टश्च सचिवैः सर्वं यथातत्त्वमवर्णयत् ।। २११
उवाच चैतदुक्तं तत्प्रत्यहं फलभूतिना ।
भद्रकृत्प्राप्नुयाद्भद्रमभद्रं चाप्यभद्रकृत् ।। २१२
कन्दुको भित्तिनिःक्षिप्त इव प्रतिफलन्मुहुः ।
आपतत्यात्मनि प्रायो दोषोऽन्यस्य चिकीर्षितः ।। २१३
पापाचारैर्यदस्माभिर्ब्रह्महत्यां चिकीर्षुभिः ।
स्वपुत्रघातनं कृत्वा प्राप्तं तन्मांसभक्षणम् ।। २१४
इत्युक्त्वा बोधयित्वा च मन्त्रिणः स्वानधोमुखान् ।
तमेव फलभूतिं च निजे राज्येऽभिषिच्य सः ।। २१५
राजा प्रदत्तदानः सन्नपुत्रः पापशुद्धये ।
सभार्यः प्रविवेशाग्निं दग्धोऽप्यनुशयाग्निना ।। २१६
फलभूतिश्च तद्राज्यं प्राप्य पृथ्वीं शशास सः ।
एवं भद्रमभद्रं वा कृतमात्मनि कल्प्यते ।। २१७
इति वत्सेश्वरस्याग्रे कथयित्वा कथामिमाम् ।
यौगन्धरायणो भूयो भूपतिं तमभाषत ।। २१८
तस्मात्तत्र स राजेन्द्र जित्वाप्याचरतः शुभम् ।
ब्रह्मदत्तो विकुर्वीत यदि हन्यास्त्वमेव तम् ।। २१९
इत्युक्तो मन्त्रिमुख्येन तद्वाक्यमभिनन्द्य सः ।
उत्थाय दिनकर्तव्यं वत्सेशो निरवर्तयत् ।। २२०
अन्येद्युश्च स संपन्नसर्वदिग्विजयः कृती ।
लावाणकादुदचलत्कौशाम्बीं स्वपुरीं प्रति ।। २२१
क्रमेण नगरीं प्राप क्षितीशः सपरिच्छदः ।
उत्पताकाभुजलतां नृत्यन्तीमुत्सवादिव ।। २२२
विवेश चैनां पौरस्त्रीनयनोत्पलकानने ।
वितन्वानः प्रतिपदं प्रवातारम्भविभ्रमम् ।। २२३
चारणोद्गीयमानश्च स्तूयमानश्च बन्दिभिः ।
नृपैः प्रणम्यमानश्च राजा मन्दिरमाययौ ।। २२४
ततो विनम्रेष्वधिरोप्य शासनं स वत्सराजोऽखिलदेशराजसु ।
पूर्वं निधानाधिगतं कुलोचितं प्रसह्य सिंहासनमारुरोह तत् ।। २२५
तत्कालमङ्गलसमाहततारधीरतूर्यारवप्रतिरवैश्च नभः पुपूरे ।
तन्मन्त्रिमुख्यपरितोषितलोकपालदत्तैरिव प्रतिदिशं समसाधुवादैः ।। २२६
विविधमथ वितीर्य वीतलोभो वसु वसुधाविजयार्जितं द्विजेभ्यः ।
अकृत कृतमहोत्सवः कृतार्थं क्षितिपतिमण्डलमात्ममन्त्रिणश्च ।। २२७
क्षेत्रेषु वर्षति तदानुगुणं नरेन्द्रे तस्मिन्ध्वनद्धनमृदङ्गनिनादितायाम् ।
संभाव्य भाविबहुधान्यफलं जनोऽपि तस्यां पुरि प्रतिगृहं विहितोत्सवोऽभूत् ।। २२८
एवं विजित्य जगतीं स कृती रुमण्वद्यौगन्धरायणनिवेशितराज्यभारः ।
तस्थौ यथेच्छमथ वासवदत्तयात्र पद्मावतीसहितया सह वत्सराजः ।। २२९
कीर्तिश्रियोरिव तयोरुभयोश्च देव्योर्मध्यस्थितः स वरचारणगीयमानः ।
चन्द्रोदयं निजयशोधवलं सिषेवे शत्रुप्रतापमिव सीधु पपौ च शश्वत् ।। २३०
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके षष्टस्तरङ्गः ।
समाप्तश्चायं लावाणकलम्बकस्तृतीयः ।