प्रमुखा विकल्पसूचिः उद्घाट्यताम्

नरवाहनदत्तजननं नाम चतुर्थो लम्बकः ।

80
इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना-
त्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।
प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो
धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ।।
कर्णतालबलाघातसीमन्तितकुलाचलः ।
पन्थानमिव सिद्धीनां दिशञ्जयति विघ्नजित् ।। १
ततो वत्सेश्वरो राजा स कौशान्त्यामवस्थितः ।
एकातपत्रां बुभुजे जितामुदयनो महीम् ।। २
विधाय सरुमण्वत्के भारं यौगन्धरायणे ।
विहारैकरसश्चाभूद्वसन्तकसखः सुखी ।। ३
स्वयं स वादयन्वीणां देव्या वासवदत्तया ।
पद्मावत्या च सहितः संगीतकमसेवत ।। ४
देवीकाकलिगीतस्य तद्वीणानिनदस्य च ।
अभेदे वादनाङ्गुष्ठकम्पोऽभूद्भेदसूचकः ।। ४
हर्म्याग्रे निजकीर्त्येव ज्योत्स्नया धवले च सः ।
धाराविगलितं सीधु पपौ मदमिव द्विषाम् ।। ६
आजह्रुः स्वर्णकलशैस्तस्य वाराङ्गना रहः ।
स्मरराज्याभिषेकाम्भ इव रागोज्ज्वलं मधु ।। ७
आरक्तसुरसस्वच्छमन्तःस्फुरिततन्मुखम् ।
उपनिन्ये द्वयोर्मध्ये स स्वचित्तमिवासवम् ।। ८
ईर्ष्यारुषामभावेऽपि भङ्गुरभ्रुणि रागिणि ।
न मुखे तत्तयो राज्ञोस्तद्दृष्टिस्तृप्तिमाययौ ।। ९
समधुस्फटिकानेकचषका तस्य पानभूः ।
बभौ बालातपारक्तसितपद्मेव पद्मिनी ।। १०
अन्तरा च मिलद्व्याधः पलाशश्यामकञ्चुकः ।
स सबाणासनो भेजे स्वोपमं मृगकाननम् ।। ११
जघान पङ्ककलुषान्वराहनिवहाञ्शरैः ।
तिमिरौघानविरलैः करैरिव मरीचिमान् ।। ११
वित्रस्तप्रसृतास्तस्मिन्कृष्णसाराः प्रधाविते ।
बभुः पूर्वाभिभूतानां कटाक्षाः ककुभामिव ।। ९३
रेजे रक्तारुणा चास्य मही महिषघातिनः ।
सेवागतेव तच्छृङ्गपातमुक्ता वनाब्जिनी ।। १४
व्यात्तवक्त्रपतत्प्रासप्रोतेष्वपि मृगारिषु ।
सान्तर्गर्जितनिष्क्रान्तजीवितेषु तुतोष सः ।। १५
श्वानः श्वभ्रे वने तस्मिंस्तस्य वर्त्मसु वागुराः ।
सा स्वायुधैकसिद्धेऽभूत्प्रक्रिया मृगयारसे ।। १६
एवं सुखोपभोगेषु वर्तमानं तमेकदा ।
राजानमास्थानगतं नारदो मुनिरभ्यगात् ।। १७
निजदेहप्रभाबद्धमण्डलो मण्डनं दिवः ।
कृतावतारस्तेजस्विजातिप्रीत्यांशुमानिव ।। १८
स तेन रचितातिध्यो मुहुः प्रह्वेण भूभृता ।
प्रीतः क्षणमिव स्थित्वा राजानं तमभाषत ।। १९
शृणु संक्षिप्तमेतत्ते वत्सेश्वर वदाम्यहम् ।
बभूव पाण्डुरिति ते राजा पूर्वपितामहः ।।२
तवेव तस्य द्वे एव भव्ये भार्ये बभूवतुः ।
एका कुन्ती द्वितीया च माद्री नाम महौजसः ।। २१
स पाण्डुः पृथिवीमेतां जित्वा जलधिमेखलाम् ।
सुखी कदाचित्प्रययौ मृगयाव्यसनी वनम् ।। २२
तत्र किन्दमनामानं स मुनिं मुक्तसायकः ।
जघान मृगरूपेण सभार्यं सुरतस्थितम् ।। २३
स मुनिर्मृगरूपं तत्त्यक्त्वा कण्ठविवर्तिभिः ।
प्राणैः शशाप तं पाण्डुं विषण्णं मुक्तकार्मुकम् ।। २४
स्वैरस्थो निर्विमर्शेन हतोऽहं यत्त्वया ततः ।
भार्यासंभोगकाले ते मद्वन्मृत्युर्भविष्यति ।। २५
इत्याप्तशापस्तद्भीत्या त्यक्तभोगस्पृहोऽथ सः ।
पत्नीभ्यामन्वितः पाण्डुस्तस्थौ शान्ते तपोवने ।। २६
तत्रस्थोऽपि स शापेन प्रेरितस्तेन चैकदा ।
अकस्माच्चकमे माद्रीं प्रियां प्राप च पञ्चताम् ।। २७
तदेवं मृगया नाम प्रमादो नृप भूभृताम् ।
क्षपिता ह्यनयान्येऽपि नृपास्ते ते मृगा इव ।। २८
घोरनादामिषैकाग्रा रूक्षा धूम्रोर्ध्वमूर्धजा ।
कुन्तदन्ता कथं कुर्याद्राक्षसीव हि सा शिवम् ।। २९
तस्माद्विफलमायासं जहीहि मृगयारसम् ।
वन्यवाहनहन्तॄणां समानः प्राणसंशयः ।। ३०
त्वं च त्वत्पूर्वजप्रीत्या प्रियः कल्याणपात्र मे ।
पुत्रश्च तव कामांशो यथा भावी तथा शृणु ।। ३१
पुरानङ्गाङ्गसंभूत्यै रत्या स्तुतिभिरर्चितः ।
तुष्टो रहसि संक्षेपमिदं तस्याः शिवोऽभ्यधात् ।। ३२
अवतीर्य निजांशेन भूमावाराध्य मां स्वयम् ।
गौरी पुत्रार्थिनी कामं जनयिष्यत्यसाविति ।। ३३
अतश्चण्डमहासेनसुता देवी नरेन्द्र सा ।
जाता वासवदत्तेयं संपन्ना महिषी च ते ।। ३४
तदेषा शंभुमाराध्य कामांशं सोष्यते सुतम् ।
सर्वविद्याधराणां यश्चक्रवर्ती भविष्यति ।। ३५
इत्युक्तेनादृतवचा राज्ञा पृथ्वीं तदर्पिताम् ।
प्रत्यर्प्य तस्मै स ययौ नारदर्षिरदर्शनम् ।। ३६
तस्मिन्गते वत्सराजः स तद्वासवदत्तया ।
जातपुत्रेच्छया साकं निन्ये तच्चिन्तया दिनम् ।। ३७
अन्येद्युस्तं स वत्सेशमुपेत्यास्थानवर्तिनम् ।
नित्योदिताख्यः प्रवरः प्रतीहारो व्यजिज्ञपत् ।। ३८
शिशुकद्वयसंयुक्ता ब्राह्मणी कापि दुर्गता ।
द्वारि स्थिता महाराज देवदर्शनकाङ्क्षिणी ।। ३९
तच्छ्रुत्वैवाभ्यनुज्ञाते तत्प्रवेशे महीभृता ।
ब्राह्मणी सा विवेशात्र कृशपाण्डुरधूसरा ।। ४०
मानेनेव विशीर्णेन वाससा विधुरीकृता ।
दुःखदैन्यनिभावङ्के बिभ्रती बालकावुभौ ।। ४१
कृतोचितप्रणामा च सा राजानं व्यजिज्ञपत् ।
ब्राह्मणी कुलजा चाहमीदृशीं दुर्गतिं गता ।। ४२
दैवाद्युगपदेतौ च जातौ द्वौ तनयौ मम ।
तद्देव नास्ति मे स्तन्यमेतयोर्भोजनं विना ।। ४३
तेनेह कृपणा नाथ शरणागतवत्सलम् ।
प्राप्तास्मि देवं शरणं प्रमाणमधुना प्रभुः ।। ४४
तच्छ्रुत्वा सदयो राजा स प्रतीहारमादिशत् ।
इयं वासवदत्तायै देव्यै नीत्वार्प्यतामिति ।। ४५
ततश्च कर्मणा स्वेन शुभेनेवाग्रयायिना ।
नीताभून्निकटं देव्याः प्रतीहारेण तेन सा ।। ४६
राज्ञा विसृष्टां बुद्ध्वा तां प्रतीहारादुपागताम् ।
देवी वासवदत्ता सा ब्राह्मणीं श्रद्दधेतराम् ।। ४७
युग्मापत्यां च पश्यन्ती दीनामेतां व्यचिन्तयत् ।
अहो वामैकवृत्तित्वं किमप्येतत्प्रजापतेः ।। ४८
अहो वस्तुनि मात्सर्यमहो भक्तिरवस्तुनि ।
नाद्याप्येकोऽपि मे जातो जातौ त्वस्यां यमाविमौ ।। ४९
एवं संचिन्तयन्ती च सा देवी स्नानकाङ्क्षिणी ।
ब्राह्मण्याश्चेटिकास्तस्याः स्नपनादौ समादिशत् ।। ५०
स्नपिता दत्तवस्त्रा च ताभिः स्वादु च भोजिता ।
ब्राह्मणी साम्बुसिक्तेव तप्ता भूः समुदश्वसत् ।। ५१
समाश्वस्ता च सा युक्त्या कथालापैः परीक्षितुम् ।
क्षणान्तरे निजगदे देव्या वासवदत्तया ।। ५२
भो ब्राह्मणि कथा काचित्त्वया नः कथ्यतामिति ।
तच्छ्रुत्वा सा तथेत्युक्त्वा कथां वक्तुं प्रचक्रमे ।। ५३
पुराभूज्जयदत्ताख्यः सामान्यः कोऽपि भूपतिः ।
देवदत्ताभिधानश्च पुत्रस्तस्योदपद्यत ।। ५४
यौवनस्थस्य तस्याथ विवाहं तनयस्य सः ।
विधातुमिच्छन्नपतिर्मतिमानित्यचिन्तयत् ।। ५५
वेश्येव बलवद्भोग्या राजश्रीरतिचञ्चला ।
वणिजां तु कुलस्त्रीव स्थिरा लक्ष्मीरनन्यगा ।। ५६
तस्माद्विवाहं पुत्रस्य करोमि वणिजां गृहात् ।
राज्येऽस्य बहुदायादे येन नापद्भविष्यति ।। ५७
इति निश्चित्य पुत्रस्य कृते वव्रे स भूपतिः ।
वणिजो वसुदत्तस्य कन्यां पाटलिपुत्रकात् ।। ५८
वसुदत्तोऽपि स ददौ श्लाघ्यसबन्धवाञ्छया ।
दूरदेशांन्तरेऽप्यस्मै राजपुत्राय तां सुताम् ।। ५९
पूरयामास च तथा रत्नैर्जामातरं स तम् ।
अगलद्बहुमानोऽस्य यथा स्वपितृवैभवे ।। ६०
अवाप्ताढ्यवणिक्पुत्रीसहितेनाथ तेन सः ।
तनयेन समं तस्थौ जयदत्तनृपः सुखम् ।। ६१
एकदा तत्र चागत्य सोत्कः संबन्धिसद्मनि ।
स वणिग्वसुदत्तस्तां निनाय स्वगृहं सुताम् ।। ६२
ततोऽकस्मात्स नृपतिर्जयदत्तो दिवं ययौ ।
उद्भूय गोत्रजैस्तस्य तच्च राज्यमधिष्ठितम् ।। ६३
तद्भीत्या तस्य तनयो जनन्या निजया निशि ।
देवदत्तस्तु नीतोऽभूदन्यदेशमलक्षितः ।। ६४
तत्राह राजपुत्रं तं माता दुःखितमानसा ।
देवोऽस्ति चक्रवर्ती नः प्रभुः पूर्वदिगीश्वरः ।। ६५
तत्पार्श्वं व्रज राज्यं ते साधयिष्यति वत्स सः ।
इत्युक्तः स तदा मात्रा राजपुत्रो जगाद ताम् ।। ६६
तत्र मां निष्परिकरं गतं को बहु मंस्यते ।
तच्छ्रुत्वा पुनरप्येवं सा माता तमभाषत ।। ६७
श्वशुरस्य गृहं गत्वा त्वं हि प्राप्य ततो धनम् ।
कृत्वा परिकरं गच्छ निकटं चक्रवर्तिनः ।। ६८
इति स प्रेरितो मात्रा सलज्जोऽपि नृपात्मजः ।
क्रमात्प्रतस्थे सायं च प्राप तच्छ्वाशुरं गृहम् ।। ६९
पितृहीनो विनष्टश्रीर्बाष्पपाताभिशङ्कया ।
अकाले नाशकच्चात्र प्रवेष्टुं लज्जया निशि ।। ७०
निकटे सत्त्रबाह्येऽथ स्थितः श्वशुरमन्दिरात् ।
नक्तं रज्ज्वावरोहन्तीमकस्मात्स्त्रियमैक्षत ।। ७१
क्षणाच्च भार्यां स्वामेव तां रत्नद्युतिभास्वराम् ।
उल्कामिवाभ्रपतितां परिज्ञायाभ्यतप्यत ।। ७२
सा तु तं धूसरक्षामं दृष्ट्वाप्यपरिजानती ।
कोऽसीत्यपृच्छत्तच्छ्रुत्वा पान्थोऽहमिति सोऽब्रवीत् ।। ७३
ततः सा सत्त्रशालान्तः प्रविवेश वणिक्सुता ।
अन्वगाद्राजपुत्रोऽपि स तां गुप्तमवेक्षितुम् ।। ७४
सा चात्र पुरुषं कंचिदुपागात्पुरुषोऽपि ताम् ।
त्वं चिरेणागतासीति पादघातैरताडयत् ।। ७५
ततः सा द्विगुणीभूतरागा पापा प्रसाद्य तम् ।
पुरुषं तेन सहिता तत्र तस्थौ यदृच्छया ।। ७६
तद्दृष्ट्वा तु स सुप्रज्ञो राजपुत्रो व्यचिन्तयत् ।
कोपस्यायं न कालो मे साध्यमन्यद्धि वर्तते ।। ७७
कथं च प्रसरत्वेतच्छस्त्रं कृपणयोर्द्वयोः ।
शत्रुयोग्यं स्त्रियामस्यामस्मिन्वा नृपशौ मम ।। ७८
किमेतया कुवध्वा वा कृत्यमेतद्धि दुर्विधेः ।
मद्धैर्यालोकनक्रीडानैपुण्ये दुःखवर्षिणः ।। ७९
अतुल्यकुलसंबन्धः सैषा किं वापराध्यति ।
मुक्त्वा बलिभुजं काकी कोकिले रमते कथम् ।। ८०
इत्यालोच्य स तां भार्यामुपैक्षत सकामुकाम् ।
सतां गुरुजिगीषे हि चेतसि स्त्रीतृणं कियत् ।। ८१
तत्कालं च रतावेगवशात्तस्याः किलापतत् ।
वणिक्सुतायाः श्रवणात्सन्मुक्ताढ्यं विभूषणम् ।। ८२
तच्च सा न ददर्शैव सुरतान्ते च सत्वरा ।
ययौ यथागतं गेहमापृच्छ्योपपतिं ततः ।। ८३
तस्मिन्नपि गते क्वापि द्रुतं प्रच्छन्नकामुके ।
स राजपुत्रो दृष्ट्वा तद्रत्नाभरणमग्रहीत् ।। ८४
स्फुरद्रत्नशिखाजालं धात्रा मोहतमोपहम् ।
हस्तदीपमिव प्रत्तं प्रणष्टश्रीगवेषणे ।। ८५
महार्घं च तदालोक्य राजपुत्रः स तत्क्षणम् ।
निर्गत्य सिद्धकार्यः सन्कान्यकुब्जं ततो ययौ ।। ८६
तत्र बन्धाय दत्त्वा तत्स्वर्णलक्षेण भूषणम् ।
क्रीत्वा हस्त्यश्वमगमत्स पार्श्वं चक्रवर्तिनः ।। ८७
तद्दत्तैश्च बलैः साकमेत्य दत्वा रिपून्रणे ।
प्राप तत्पैतृकं राज्यं कृती मात्राभिनन्दितः ।। ८८
तच्च बन्धाद्विनिर्मोच्य भूषणं श्वशुरान्तिकम् ।
प्राहिणोत्प्रकटीकर्तुं रहस्यं तदशङ्कितम् ।। ०९
सोऽपि तच्छ्वशुरो दृष्ट्वा स्वसुताकर्णभूषणम् ।
तत्तथोपागतं तस्यै संभ्रान्तः समदर्शयत् ।। ९०
सापि पूर्वपरिभ्रष्टं चारित्रमिव वीक्ष्य तत् ।
बुद्ध्वा च भर्त्रा प्रहितं व्याकुलैव समस्मरत् ।। ९१
इदं मे पतितं तस्यां रात्रौ सत्त्रगृहान्तरे ।
यस्यां तत्र स्थितो दृष्टः स कोऽपि पथिको मया ।। ९२
तन्नूनं सोऽत्र भर्ता मे शीलजिज्ञासया ययौ ।
मया तु स न विज्ञातस्तेनेदं प्रापि भूषणम् ।। ९३
इत्येवं चिन्तयन्त्याश्च दुर्नयव्यक्तिविक्लवम् ।
वणिक्सुताया हृदयं तस्याः कातरमस्फुटत् ।। ९४
ततस्तस्या रहस्यज्ञां पृष्ट्वा चेटीं स्वयुक्तितः ।
तत्पिता स वणिग्बुद्ध्वा तत्त्वं तत्याज तच्छुचम् ।। ९५
राजपुत्रोऽथ संप्राप्तराज्यो लब्ध्वा गुणार्जिताम् ।
स चक्रवर्तितनयां भार्यां भेजेऽपरां श्रियम् ।। ९६
तदित्थं साहसे स्त्रीणां हृदयं वज्रकर्कशम् ।
तदेव साध्वसावेगसंपाते पुष्पपेलवम् ।। ९७
तास्तु काश्चन सद्वंशजाता मुक्ता इवाङ्गनाः ।
याः सुवृत्ताच्छहृदया यान्ति भूषणतां भुवि ।। ९८
हरिणीव च राजश्रीरेवं विप्लविनी सदा ।
धैर्यपाशेन बन्द्धुं च तामेके जानते बुधाः ।। ९९
तस्मादापद्यपि त्याज्यं न सत्त्वं संपदेषिभिः ।
अयमेवात्र वृत्तान्तो ममात्र च निदर्शनम् ।।
यन्मया विधुरेऽप्यस्मिंश्चारित्रं देवि रक्षितम् ।
युष्मद्दर्शनकल्याणप्राप्त्या तत्फलितं हि मे ।। १०१
इति तस्या मुखाच्छ्रुत्वा ब्राह्मण्यास्तत्क्षणं कथाम् ।
देवी वासवदत्ता सा सादरा समचिन्तयत् ।। १०२
ब्राह्मणी कुलवत्येषा ध्रुवमस्या ह्युदारताम् ।
भङ्गिः स्वशीलोपक्षेपे वचःप्रौढिश्च शंसति ।। १०३
राजसंसत्प्रवेशेऽस्याः प्रावीण्यमत एव च ।
इति संचिन्त्य देवीं तां ब्राह्मणीं पुनरब्रवीत् ।। १०४
भार्या त्वं कस्य को वा ते वृत्तान्तः कथ्यतां त्वया ।
तच्छ्रुत्वा ब्राह्मणी भूयः साथ वक्तुं प्रचक्रमे।। १०५
मालवे देवि कोऽप्यासीदग्निदत्त इति द्विजः ।
निलयः श्रीसरस्वत्योः स्वयमात्तधनोऽर्थिभिः ।। १०६
तस्य च स्वानुरूपौ द्वावुत्पन्नौ तनयौ क्रमात् ।
ज्येष्ठः शंकरदत्ताख्यो नाम्ना शान्तिकरोऽपरः ।। १०७
तयोः शान्तिकरोऽकस्माद्विद्यार्थी स्वपितुर्गृहात् ।
स बाल एव निर्गत्य गतः क्वापि यशस्विनि ।। १०८
द्वितीयश्च स तद्भ्राता ज्येष्ठो मां परिणीतवान् ।
तनयां यज्ञदत्तस्य यज्ञार्थभृतसंपदः ।। १०९
कालेन तस्य मद्भर्तुः सोऽग्निदत्ताभिधः पिता ।
वृद्धो लोकान्तरं यातो भार्ययानुगतः स्वया ।। ११०
तीर्थोद्देशाच्च मद्भर्ता धृतगर्भां विमुच्य माम् ।
गत्वा सरस्वतीपूरे शोकेनान्धो जहौ तनुम् ।। १११
वृत्तान्ते कथिते चास्मिन्नेत्य तत्सहयायिभिः ।
स्वजनेभ्यो मया लब्धं नानुगन्तुं सगर्भया ।। ११२
ततो मय्यार्द्रशोकायामकस्मादेत्य दस्युभिः ।
अस्मन्निवासः सकलोऽप्यग्रहारो विलुण्ठितः ।। ११३
तत्क्षणं तिसृभिः सार्धं ब्राह्मणीभिरहं ततः ।
शीलभ्रंशभयादात्तस्वल्पवस्त्रा पलायिता ।। ११४
देशभङ्गाद्विदूरं च गत्वा देशं तदन्विता ।
मासमात्रं स्थिताभूवं कृच्छ्रकर्मोपजीविनी ।। ११५
श्रुत्वा चानाथशरणं लोकाद्वत्सेश्वरं ततः ।
सब्राह्मणीका शीलैकपाथेयाहमिहागता ।। ११६
आगत्यैव प्रसूतास्मि युगपत्तनयावुभौ ।
स्थितासु चासु तिसृषु ब्राह्मणीषु सखीष्वपि ।। ११७
शोको विदेशो दारिद्र्यं द्विगुणः प्रसवोऽप्ययम् ।
अहो अपावृतं द्वारमापदां मम वेधसा ।। ११८
तदेतयोर्गतिर्नास्ति बालयोर्वर्धनाय मे ।
इत्यालोच्य परित्यज्य लज्जां योषिद्विभूषणम् ।। ११९
मया प्रविश्य वत्सेशो राजा सदसि याचितः ।
कः शक्तः सोढुमापन्नबालापत्यार्तिदर्शनम् ।। १२०
तदादेशेन च प्राप्तं मया त्वच्चरणान्तिकम् ।
विपदश्च निवृत्ता मे द्वारात्प्रतिहता इव ।। १२१
इत्येष मम वृत्तान्तो नाम्ना पिङ्गलिकाप्यहम् ।
आबाल्याग्निक्रियाधूमैर्यन्मे पिङ्गलिते दृशौ ।। १२२
स तु शान्तिकरो देवि देवरो मे विदेशगः ।
कुत्र तिष्ठति देशेऽसाविति नाद्यापि बुध्यते ।। १२३
एवमुक्तस्ववृत्तान्तां कुलीनेत्यवधार्य ताम् ।
प्रीत्यैनां ब्राह्मणीं देवी सा वितर्क्यैवमब्रवीत् ।। १२४
इह शान्तिकरो नाम स्थितोऽस्माकं पुरोहितः ।
वैदेशिकः स जानेऽहं देवरस्ते भविष्यति ।। १२५
इत्युक्त्वा ब्राह्मणीमुत्कां नीत्वा रात्रिं तदैव ताम् ।
देवी शान्तिकरं प्रातरानाय्यापृच्छदन्वयम् ।। १२६
उक्तान्वयाय तस्मै च सा संजातसुनिश्चया ।
इयं ते भ्रातृजायेति ब्राह्मणीं तामदर्शयत् ।। १२७
जातायां च परिज्ञप्तौ ज्ञातबन्धुक्षयोऽथ सः ।
ब्राह्मणीं भ्रातृजायां तां निन्ये शान्तिकरो गृहम् ।। १२८
तत्रानुशोच्य पितरौ भ्रातरं च यथोचितम् ।
आश्वासयामास स तां बालकद्वितयान्विताम् ।। १२९
देवी वासवदत्तापि तस्यास्तौ बालकौ सुतौ ।
पुरोहितौ स्वपुत्रस्य भाविनः पर्यकल्पयत् ।। १३०
ज्येष्ठस्तयोः शान्तिसोमो नाम्ना वैश्वागरोऽपरः ।
कृतस्तयैव देव्या च वितीर्णबहुसंपदा ।। १३१
अन्धस्येवास्य लोकस्य फलभूमिं स्वकर्मभिः ।
पुरोगैर्नीयमानस्य हेतुमात्रं स्वपौरुषम् ।। १३२
यदेत्य लब्धविभवास्तत्र सर्वेऽपि संगताः ।
बालकौ तौ तयोः सा च माता शान्तिकरश्च सः ।। १३३
ततो गच्छत्सु दिवसेष्वेकदा पञ्चभिः सुतैः ।
सहागतामुपादाय शरावान्कुम्भकारिकाम् ।। १३४
दृष्ट्वा स्वमन्दिरे कांचिद्देव्या वासवदत्तया ।
सा ब्राह्मणी पिङ्गलिका जगदे पार्श्ववर्तिनी ।। १३५
पञ्चैतस्याः सुतोऽद्यापि नैको मे सखि दृश्यताम् ।
पुण्यानामीदृशं पात्रमीदृश्यपि न मादृशी ।। १३६
ततः पिङ्गलिकावादीद्देवि दुःखाय जायते ।
प्रजेयं पापभूयिष्ठा दरिद्रेष्वेव भूयसी ।। १३७
युष्मादृशेषु जायेत यः स कोऽप्युत्तमो भवेत् ।
तदलं त्वरया प्राप्स्यस्यचिरात्स्वोचितं सुतम् ।। १३८
इति पिङ्गलिकोक्तापि सोत्सुका सुतजन्मनि ।
अभूद्वासवदत्ता सा तच्चिन्ताक्रान्तमानसा ।। १३९
गिरिशाराधनप्राप्यं पुत्रं ते नारदोऽभ्यधात् ।
तद्देवि वरदोऽवश्यमाराध्यः स शिवोऽत्र नः ।। १४०
इत्युक्ता वत्सराजेन तत्कालं चागतेन सा ।
देवी लब्धाशयेनाशु चकार व्रतनिश्चयम् ।। १४१
तस्यामात्तव्रतायां तु स राजापि समन्त्रिकः ।
सराष्ट्रश्चापि विदधे शंकराराधनव्रतम् ।। १४२
त्रिरात्रोपोषितौ तौ च दंपती स विभुस्ततः ।
प्रसादप्रकटीभूतः स्वयं स्वप्ने समादिशत् ।। १४३
उत्तिष्ठत स युवयोः कामांशो जनिता सुतः ।
नाथो विद्याधराणां यो भविता मत्प्रसादतः ।। १४४
इति वचनमुदीर्य चन्द्रमौलौ सपदि तिरोहिततां गते प्रबुध्य ।
अधिगतवरमाशु दंपती तौ प्रमदमकृत्रिममापतुः कृतार्थौ ।। १४५
उत्थाय चोषसि ततः प्रकृतीर्विधाय तत्स्वप्रकीर्तनसुधारसतर्पितास्ताः ।
देवी च सा नरपतिश्च सबन्धुभृत्यौ बद्धोत्सवौ विदधतुर्व्रतपारणानि ।। १४६
कतिपयदिवसापगमे तस्याः स्वप्ने जटाधरः पुरुषः ।
कोऽप्यथ देव्या वासवदत्तायाः फलमुपेत्य ददौ ।। १४७
ततः स विनिवेदितस्फुटतथाविधस्वप्नया सह प्रमुदितस्तया समभिनन्दितो मन्त्रिभिः ।
विचिन्त्य शशिमौलिना फलनिभेन दत्तं सुतं मनोरथमदूरगं गणयति स्म वत्सेश्वरः ।। १४८
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे नरवाहनदत्तजननलम्बके प्रथमस्तरङ्गः ।