प्रमुखा विकल्पसूचिः उद्घाट्यताम्

द्वितीयस्तरङ्गः ।
अथ वासवदत्ताया वत्सेशहृदयोत्सवः ।
संबभूवाचिराद्गर्भः कामांशावतरोज्ज्वलः ।। १
सा बभौ लोलनेत्रेण मुखेनापाण्डुकान्तिना ।
शशाङ्केनेव गर्भस्थकामप्रेमोपगामिना ।। २
आसीनायाः पतिस्नेहाद्रतिप्रीती इवागते ।
रेजतुः प्रतिमे तस्या मणिपर्यङ्कपार्श्वयोः ।। ३
भाविविद्याधराधीशगर्भसेवार्थमिष्टदाः ।
मूर्ता विद्या इवायाताः सख्यस्तां पर्युपासत ।। ४
विनीलपल्लवश्याममुखौ साथ पयोधरौ ।
सूनोर्गर्भाभिषेकाय बभार कलशाविव ।। ५५
स्वच्छस्फुरितसच्छायमणिकुट्टिमशोभिनः ।
सुखशय्यागता मध्ये मन्दिरस्य रराज सा ।। ६
भावितत्तनयाक्रान्तिशङ्काकम्पितवारिभिः ।
उपेत्य सेव्यमानेव समन्ताद्रत्नराशिभिः ।। ७
तस्या विमानमध्यस्थरत्नोत्था प्रतिमा बभौ ।
विद्याधरश्रीर्नभसा प्रणामार्थमिवागता ।। ८
मन्त्रसाधनसंनद्धसाधकेन्द्रकथासु च ।
बभूव सा दोहदिनी प्रसङ्गोपनतासु च ।। ९
सरसारब्धसंगीता विद्याधरवराङ्गनाः ।
स्वप्ने तामम्बरोत्सङ्गमारूढामुपतस्थिरे ।। १०
प्रबुद्धा सेवितुं साक्षात्तदेवाभिललाष सा ।
नभःक्रीडाविलसितं लक्ष्यभूतलकौतुकम् ।। ११
तं च दोहदमेतस्या देव्या यौगन्धरायणः ।
यन्त्रमन्त्रेन्द्रजालादिप्रयोगैः समपूरयत् ।। १२
विजहार च सा तैस्तैः प्रयोगैर्गगनस्थिता ।
पौरनारीजनोत्पक्ष्मलोचनाश्चर्यदायिभिः ।। १३
एकदा वासकस्थायास्तस्याश्च समजायत ।
हृदि विद्याधरोदारकथाश्रवणकौतुकम् ।। १४
ततस्तयार्थितो देव्या तत्र यौगन्धरायणः ।
तस्याः सर्वेषु शृण्वत्सु निजगाद कथामिमाम् ।। १५
अस्त्यम्बिकाजनयिता नगेन्द्रो हिमवानिति ।
न केवलं गिरीणां यो गुरुर्गौरीपतेरपि ।। १६
विद्याधरनिवासे च तस्मिन्विद्याधराधिपः ।
उवास राजा जीमूतकेतुर्नाम महाचले ।। १७
तस्याभूत्कल्पवृक्षश्च गृहे पितृक्रमागतः ।
नाम्नान्वर्थेन विख्यातो यो मनोरथदायकः ।। १८
कदाचिच्च स जीमूतकेतू राजाभ्युपेत्य तम् ।
उद्याने देवतात्मानं कल्पद्रुममयाचत ।। १९
सर्वदा प्राप्यतेऽस्माभिस्त्वत्तः सर्वमभीप्सितम् ।
तदपुत्राय मे देहि देव पुत्रं गुणान्वितम् ।। २०
ततः कल्पद्रुमोऽवादीद्राजन्नुत्पत्स्यते तव ।
जातिस्मरो दानवीरः सर्वभूतहितः सुतः ।। २१
तच्छ्रुत्वा स प्रहृष्टः सन्कल्पवृक्षं प्रणम्य तम् ।
गत्वा निवेद्य तद्राजा निजां देवीमनन्दयत् ।। २२
अथ तस्याचिरादेव राज्ञः सूनुरजायत ।
जीमूतवाहनं तं च नाम्ना स विदधे पिता ।। २३
ततः सहजया साकं सर्वभूतानुकम्पया ।
जगाम स महासत्त्वो वृद्धिं जीमूतवाहनः ।। २४
क्रमाच्च यौवराज्यस्थः परिचर्याप्रसादितम् ।
लोकानुकम्पी पितरं विजने स व्यजिज्ञपत् ।। २५
जानामि तात यद्भावा भवेऽस्मिन्क्षणभङ्गुराः ।
स्थिरं तु महतामेकमाकल्पममलं यशः ।। २६
परोपकृतिसंभूतं तदेव यदि हन्त तत् ।
किमन्यत्स्यादुदाराणां धनं प्राणाधिकप्रियम् ।। २७
संपच्च विद्युदिव सा लोकलोचनखेदकृत् ।
लोला क्वापि लयं याति या परानुपकारिणी ।। २८
तदेष कल्पविटपी कामदो योऽस्ति नः स चेत् ।
परार्थं विनियुज्येत तदाप्तं तत्फलं भवेत् ।। २९
तत्तथाहं करोमीह यथैतस्य समृद्धिभिः ।
अदरिद्रा भवत्येषा सर्वार्थिजनसंहतिः ।। ३०
इति विज्ञाप्य पितरं तदनुज्ञामवाप्य सः ।
जीमूतवाहनो गत्वा तं कल्पद्रुममब्रवीत् ।। ३१
देव त्वं शश्वदस्माकमभीष्टफलदायकः ।
तदेकमिदमद्य त्वं मम पूरय वाञ्छितम् ।। ३२
अदरिद्रां कुरुष्वैतां पृथिवीमखिलां सखे ।
स्वस्त्यस्तु ते प्रदत्तोऽसि लोकाय द्रविणार्थिने ।। ३३
इत्युक्तस्तेन धीरेण कल्पवृक्षो ववर्ष सः ।
कनकं भूतले भूरि ननन्दुश्चाखिलाः प्रजाः ।। ३४
दयालुर्बोधिसत्त्वांशः कोऽन्यो जीमूतवाहनात् ।
शक्नुयादर्थिसात्कर्तुमपि कल्पद्रुमं कृती ।। ३५
इति जातानुरागासु ततो दिक्षु विदिक्ष्वपि ।
जीमूतवाहनस्योच्चैः पप्रथे विशदं यशः ।। ३६
ततः पुत्रप्रथाबद्धमूलं राज्यं समत्सराः ।
दृष्ट्वा जीमूतकेतोस्तद्गोत्रजा विकृतिं ययुः ।। ३७
दानोपयुक्तसत्कल्पवृक्षमुक्तास्पदं च तत् ।
मेनिरे निष्प्रभावत्वाज्जेतुं सुकरमेव ते ।। ३८
ततः संभूय युद्धाय कृतबुद्धिषु तेषु च ।
पितरं तमुवाचैवं धीरो जीमूतवाहनः ।। ३९
यथा शरीरमेवेदं जलबुद्बुदसंनिभम् ।
प्रवातदीपचपलास्तथा कस्य कृते श्रियः ।। ४०
ता अप्यन्योपमर्देन मनस्वी कोऽभिवाच्छति ।
तस्मात्तात मया नैव योद्धव्यं गोत्रजैः सह ।। ४१
राज्यं त्यक्त्वा तु गन्तव्यमितः क्वापि वनं मया ।
आसतां कृपणा एते मा भूत्स्वकुलसंक्षयः ।। ४२
इत्युक्तवन्तं जीमूतवाहनं स पिता ततः ।
जीमूतकेतुरप्येवं जगाद कृतनिश्चयः ।। ४३
मयापि पुत्र गन्तव्यं का हि वृद्धस्य मे स्पृहा।
राज्ये तृण इव त्यक्ते यूनापि कृपया त्वया ।। ४४
एवमुक्तवता साकं सभार्येण तथेति सः ।
पित्रा जगाम जीमूतवाहनो मलयाचलम् ।। ४५
तत्राधिवासे सिद्धानां चन्दनच्छन्ननिर्झरे ।
स तस्थावाश्रमपदे परिचर्यापरः पितुः ।। ४६
अथ सिद्धाधिराजस्य वशी विश्वावसोः सुतः ।
मित्त्रं मित्त्रावसुर्नाम तस्यात्र समपद्यत ।। ४७
तत्स्वसारं च सोऽपश्यदेकान्ते जातु कन्यकाम् ।
जन्मान्तरप्रियतमां ज्ञानी जीमूतवाहनः ।। ४८
तत्कालं च तयोस्तुल्यं यूनोरन्योन्यदर्शनम् ।
अभून्मनोमृगामन्दवागुराबन्धसंनिभम् ।। ४९
ततोऽकस्मात्समभ्येत्य त्रिजगत्पूज्यमेकदा ।
जीमूतवाहनं प्रीतः स मित्त्रावसुरभ्यधात् ।। ५०
कन्या मलयवत्याख्या स्वसा मेऽस्ति कनीयसी ।
तामहं ते प्रयच्छामि ममेच्छां मान्यथा कृथाः ।। ५१
तच्छ्रुत्वैव स जीमूतवाहनोऽपि जगाद तम् ।
युवराज ममाभूत्सा भार्या पूर्वेऽपि जन्मनि ।। ५२
त्वं च तत्रैव मे जातो द्वितीयं हृदयं सुहृत् ।
जातिस्मरोऽस्म्यहं सर्वं पूर्वजन्म स्मरामि तत् ।। ५३
इत्युक्तवन्तं तत्कालं मित्रावसुरुवाच तम् ।
जन्मान्तरकथां तावच्छंसैतां कौतुकं हि मे ।। ५४
एतन्मित्रावसोः श्रुत्वा तस्मै जीमूतवाहनः ।
सुकृती कथयामास पूर्वजन्मकथामिमाम् ।। ५५
अस्ति पूर्वमहं व्योमचारी विद्याधरोऽभवम् ।
हिमवच्छृङ्गमार्गेण गतोऽभूवं कदाचन ।। ५६
ततश्चाधः स्थितस्तत्र क्रीडन्गौर्या समं हरः ।
शशापोल्लङ्घनक्रुद्धो मर्त्ययोनौ पतेति माम् ।। ५७
प्राप्य विद्याधरीं भार्यां नियोज्य स्वपदे सुतम् ।
पुनर्वैद्याधरीं योनिं स्मृतजातिः प्रपत्स्यसे ।। ५८
एवं निशम्य शापान्तमुक्त्वा शर्वे तिरोहिते ।
अचिरेणैव जातोऽहं भूतले वणिजां कुले ।। ५९
नगर्यां बलभीनाम्न्यां महाधनवणिन्सुतः ।
वसुदत्ताभिधानः सन्वृद्धिं च गतवानहम् ।। ६०
कालेन यौवनस्थश्च पित्रा कृतपरिच्छदः ।
द्वीपान्तरं गतोऽभूवं वणिज्यायै तदाज्ञया ।। ६१
आगच्छन्तं ततोऽटव्यां तस्करा विनिपत्य माम् ।
हृतस्वमनयन्बद्ध्वा स्वपल्लीं चण्डिकागृहम् ।। ६२
विलोलदीर्घया घोरं रक्तांशुकपताकया ।
जिघत्सतः पशुप्राणान्कृतान्तस्येव जिह्वया ।। ६३
तत्राहमुपहारार्थमुपनीतो निजस्य तैः ।
प्रभोः पुलिन्दकाख्यस्य देवीं पूजयतोऽन्तिकम् ।। ६४
स दृष्ट्वैवार्द्रहृदयः शबरोऽप्यभवन्मयि ।
वक्ति जन्मान्तरप्रीतिं मनः स्निह्यदकारणम् ।। ६५
ततो मां मोचयित्वैव वधात्स शबराधिपः ।
ऐच्छदात्मोपहारेण कर्तुं पूजासमापनम् ।। ६६
मैवं कृथाः प्रसन्नास्मि तव याचस्व मां वरम् ।
इत्युक्तो दिव्यया वाचा प्रहृष्टश्च जगाद सः ।। ६७
त्वं प्रसन्ना वरः कोऽन्यस्तथाप्येतावदर्थये ।
जन्मान्तरेऽपि मे सख्यमनेन वणिजास्त्विति ।। ६८
एवमस्त्विति शान्तायां वाचि मां शबरोऽथ सः ।
प्रदत्तसविशेषार्थं प्रजिघाय निजं गृहम् ।। ६९
मृत्योर्मुखात्प्रवासाच्च ततः प्रत्यागते मयि ।
अकरोज्ज्ञातवृत्तान्तः पिता मम महोत्सवम् ।। ७०
कालेन तत्र चापश्यमहं सार्थावलुण्ठनात् ।
वष्टभ्यानायितं राज्ञा तमेव शबराधिपम् ।। ७१
तत्क्षणं पितुरावेद्य विज्ञप्य च महीपतिम् ।
मोचितः स्वर्णलक्षेण स मया वधनिग्रहात् ।। ७२
प्राणदानोपकारस्य कृत्वैवं प्रत्युपक्रियाम् ।
आनीय च गृहं प्रीत्या पूर्णं संमानितश्चिरम् ।। ७३
सत्कृत्य प्रेषितश्चाथ हृदयं प्रेमपेशलम् ।
निधाय मयि पल्लीं स्वां प्रायात्स शबराधिपः ।। ७४
तत्र प्रत्युपकारार्थं चिन्तयन्प्राभृतं मम ।
स्वल्पं स मेने स्वाधीनं मुक्ताकस्तूरिकाद्यपि ।। ७५
ततः सातिशयं प्राप्तं मुक्तासारं स यत्कृते ।
धनुर्द्वितीयः प्रययौ गजान्हन्तुं हिमाचलम् ।। ७६
भ्रमंश्च तत्र तीरस्थदेवागारं महत्सरः ।
प्राप तुल्यैः कृतप्रीतिस्तदब्जैर्मित्त्ररागिभिः ।।
तत्राशङ्क्याम्बुपानार्थमागमं वन्यहस्तिनाम् ।
छन्नः स तस्थावेकान्ते सचापस्तज्जिघांसया ।। ७८
तावत्तत्र सरस्तीरगतं पूजयितुं हरम् ।
आगतामद्भुताकारां कुमारीं सिंहवाहनाम् ।। ७९
स ददर्श तुषाराद्रिराजपुत्रीमिवापराम् ।
परिचर्यापरां शंभोः कन्यकाभाववर्तिनीम् ।। ८०
दृष्ट्वा च विस्मयाक्रान्तः शबरः स व्यचिन्तयत् ।
केयं स्याद्यदि मर्त्यस्त्री तत्कथं सिंहवाहना ।। ८१
अथ दिव्या कथं दृश्या मादृशैस्तदियं ध्रुवम् ।
चक्षुषोः पूर्वपुण्यानां मूर्ता परिणतिर्मम ।। ८२
अन्यया यदि मित्त्रं तं योजयेयमहं ततः ।
काप्यन्यैव मया तस्य कृता स्यात्प्रत्युपक्रिया ।। ८३
तदेतामुपसर्पामि तावज्जिज्ञासितुं वरम् ।
इत्यालोच्य स मित्त्रं मे शबरस्तामुपाययौ ।। ८४
तावच्च सावतीर्यैव सिंहाच्छायानिषादिनः ।
कन्यागत्य सरः पद्मान्यवचेतुं प्रचक्रमे ।। ८५
तं च दृष्ट्वान्तिकप्राप्तं शबरं सा कृतानतिम् ।
अपूर्वमतिथिप्रीत्या स्वागतेनान्वरञ्जयत् ।। ८६
कस्त्वं किं चागतोऽस्येतां भूमिमत्यन्तदुर्गमाम् ।
इति पृष्टवतीं तां च शबरः प्रत्युवाच सः ।। ८७
अहं भवानीपादैकशरणः शवराधिपः ।
आगतोऽस्मि च मातङ्गमुक्ताहेतोरिदं वनम् ।। ८८
त्वां च दृष्ट्वाधुनात्मीयो देवि प्राणप्रदः सुहृत् ।
सार्थवाहसुतः श्रीमान्वसुदत्तो मया स्मृतः ।। ८९
स हि त्वमिव रूपेण यौवनेन च सुन्दरि ।
अद्वितीयोऽस्य विश्वस्य नयनामृतनिर्झरः ।। ९०
सा धन्या कन्यका लोके यस्यास्तेनेह गृह्यते ।
मैत्त्रीदानदयाधैर्यनिधिना कङ्कणी करः ।। ९१
तत्त्वदाकृतिरेषा चेत्तादृशेन न युज्यते ।
व्यर्थं वहति तत्कामः कोदण्डमिति मे व्यथा ।। ९२
इति व्याधेन्द्रवचनैः सद्योऽपहृतमानसा ।
साभूत्कुमारी कदर्पमोहमन्त्राक्षरैरिव ।। ९३
उवाच तं च शबरं प्रेर्यमाणा मनोभुवा ।
क्व स ते सुहृदानीय तावन्मे दर्श्यतामिति ।। ९४
तच्छ्रुत्वा च तथेत्युक्त्वा तामामत्र्य तदैव सः ।
कृतार्थमानी मुदितः प्रतस्थे शबरस्ततः ।। ९५
प्राप्य स्वपल्लीमादाय मुक्तामृगमदादिकम् ।
भूरि भारशतैर्हार्यमस्मद्गृहमथाययौ ।। ९६
सर्वैः पुरस्कृतस्तत्र प्रविश्य प्राभृतं च तत् ।
मत्पित्रे स बहुस्वर्णलक्षमूल्यं न्यवेदयत् ।। ९७
उत्सवेन च यातेऽस्मिन्दिने रात्रौ स मे रहः ।
कन्यादर्शनवृत्तान्तं तमामूलादवर्णयत् ।। ९८
एहि तत्रैव गच्छाव इत्युक्त्वा च समुत्सुकम् ।
ममादाय निशि स्वैरं स प्रायाच्छबराधिपः ।। ९९
प्रातश्च मां गतं क्वापि बुद्ध्वा स शबराधिपम् ।
तत्प्रीतिप्रत्ययात्तस्थौ धृतिमालम्ब्य मत्पिता ।। १००
अहं च प्रापितोऽभूवं क्रमात्तेन तरस्विना ।
शबरेण तुषाराद्रिं कृताध्वपरिकर्मणा ।। १०१
तच्च प्राप्य सरः सायं स्नात्वा स्वादुफलाशनौ ।
अहं च स च तामेकां वने तत्रोषितौ निशाम् ।। १०२
लताभिः कीर्णकुसुमं भृङ्गीसंगीतसुन्दरम् ।
शुभगन्धवहं हारि ज्वलितौषधिदीपिकम् ।। १०३
रतेस्तद्वासवेश्मेव विश्रान्त्यै गिरिकाननम् ।
आवयोरभवन्नक्तं पित्रतोस्तत्सरोजलम् ।। १०४
ततोन्येद्युः प्रतिपदं तत्तदुत्कलिकाभृता ।
प्रत्युद्गतेव मनसा मम तन्मार्गधाविना ।। १०५
चक्षुषा दक्षिणेनापि सूचितागमनामुना ।
दिदृक्षयेव स्फुरता सा कन्यात्रागताभवत् ।। १०६
सटालसिंहपृष्ठस्था सुभ्रूर्दृष्टा मया च सा ।
शरदम्भोधरोत्सङ्गसङ्गिनीवेन्दवी कला ।। १०७
विलसद्विस्मयौत्सुक्यसाध्वसं पश्यतश्च ताम् ।
ममावर्तत तत्कालं न जाने हृदयं कथम् ।। १०८
अथावतीर्य सिंहात्सा पुष्पाण्युच्चित्य कन्यका ।
स्नात्वा सरसि तत्तीरगतं हरमपूजयत् ।। १०९
पूजावसाने चोपेत्य स सखा शबरो मम ।
प्रणम्यात्मानमावेद्य तामवोचत्कृतादराम् ।। ११०
आनीतः स मया देवि सुहृद्योग्यो वरस्तव ।
मन्यसे यदि तत्तुभ्यं दर्शयाम्यधुनैव तम् ।। १११
तच्छ्रुत्वा दर्शयेत्युक्ते तया स शबरस्ततः ।
आगत्य निकटं नीत्वा मां तस्याः समदर्शयत् ।। ११२
सापि मां तिर्यगालोक्य चक्षुषो प्रणयस्नुता ।
मदनावेशवशगा शबरेशं तमभ्यधात् ।। ११३
सखा ते मानुषो नायं काम कोऽप्ययमागतः ।
मद्वञ्चनाय देवोऽद्य मर्त्यस्यैषाकृतिः कुतः ।। ११४
तदाकर्ण्योक्तवानस्मि तां प्रत्याययितुं स्वयम् ।
सत्यं सुन्दरि मर्त्योऽहं किं व्याजेनार्जवे जने ।। ११५
अहं हि सार्थवाहस्य वलभीवासिनः सुतः ।
महाधनाभिधानस्य महेश्वरवरार्जितः ।। ११६
तपस्यन्स हि पुत्रार्थमुद्दिश्य शशिशेखरम् ।
समादिश्यत तेनैवं स्वप्ने देवेन तुष्यता ।। ११७
उत्तिष्ठोत्पत्स्यते कोऽपि महात्मा तनयस्तव ।
रहस्यं परमं चैतदलमुक्त्वात्र विस्तरम् ।। ११८
एतच्छ्रुत्वा प्रबुद्धस्य तस्य कालेन चात्मजः ।
अहमेष समुत्पन्नो वसुदत्त इति श्रुतः ।। ११९
अयं च शबराधीशः स्वयंवरसुहृन्मया ।
देशान्तरगतेन प्राक्प्राप्तः कृच्छ्रैकबान्धवः ।। १२०
एष मे तत्त्वसंक्षेप इत्युक्त्वा विरते मयि ।
अभाषताथ कन्या सा लज्जयावनतानना ।। १२१
अस्त्वेतन्मा च जानेऽद्य स्वप्नेऽर्चितवती हरः ।
प्रातः प्राप्स्यसि भर्तारमिति तुष्टः किलादिशत् ।। १२२
तस्मात्त्वमेव मे भर्ता भ्रातायं च भवत्सुहृत् ।
इति वाक्सुधया सा मामानन्द्य विरताभवत् ।। १२३
संमन्त्र्याथ तया साकं विवाहाय यथाविधि ।
अकार्षं निश्चयं गन्तुं समित्त्रोहं निजं गृहम् ।। १२४
ततः सा सिंहमाहूय वाहनं तं स्वसंज्ञया ।
अत्रारोहार्यपुत्रेति मामभाषत सुन्दरी ।। १२५
अथाहं तेन सुहृदानुयातः शबरेण तम् ।
सिंहमारुह्य दयितामुत्सङ्गे तां गृहीतवान् ।। १२६
ततः प्रस्थितवानस्मि कृतकृत्यो निजं गृहम् ।
कान्तया सह सिंहस्थो मित्रे तस्मिन्पुरःसरे ।। १२७
तदीयशरनिर्भिन्नहरिणामिषवृत्तयः ।
क्रमेण ते वयं सर्वे संप्राप्ता वलभीं पुरीम् ।। १२८
तत्र मामागतं दृष्ट्वा सिंहारूढं सवल्लभम् ।
साश्चर्यस्तद्द्रुतं गत्वा मम पित्रेऽब्रवीज्जनः ।। १२९
सोऽपि प्रत्युद्गतो हर्षादवतीर्णं मृगेन्द्रतः ।
पादावनम्रं दृष्ट्वा मामभ्यनन्दत्सविस्मयः ।। १३०
अनन्यसदृशीं तां च कृतपादाभिवन्दनाम् ।
पश्यन्ममोचितां भार्यां न माति स्म मुदा क्वचित् ।। १३१
प्रवेश्य मन्दिरं चास्मान्वृत्तान्तं परिपृच्छ्य च ।
प्रशंसञ्शबराधीशसौहार्दं चोत्सवं व्यधात् ।। १३२
ततो मौहूर्तिकादेशादन्येद्युर्वरकन्यका ।
सा मया परिणीताभून्मिलिताखिलबन्धुना ।। १३३
तदालोक्य च सोऽकस्मान्मद्वधूवाहनस्तदा ।
सिंहः सर्वेषु पश्यत्सु संपन्नः पुरुषाकृतिः ।। १३४
किमेतदिति विभ्रान्ते जने. तत्र स्थितेऽखिले ।
स दिव्यवस्त्राभरणो नमन्मामेवमब्रवीत् ।। १३५
अहं चित्राङ्गदो नाम विद्याधर इयं च मे ।
सुता मनोवती नाम कन्या प्राणाधिकप्रिया ।। १३६
एतामङ्के सदा कृत्वा विपिनेन भ्रमन्नहम् ।
प्राप्तवानेकदा गङ्गां भूरितीरतपोवनाम् ।। १३७
तपस्विलङ्घनत्रासात्तस्या मध्येन गच्छतः ।
अपतन्मम दैवाच्च पुष्पमाला तदम्भसि ।। १३८
ततोऽकस्मात्समुत्थाय नारदोऽन्तर्जलस्थितः ।
पृष्ठे तया पतितया क्रुद्धो मामशपन्मुनिः ।। ९३९
औद्धत्येनामुना पाप गच्छ सिंहो भविष्यसि ।
हिमाचले गतश्चैतां सुतां पृष्ठेन वक्ष्यसि ।। १४०
यदा च मानुषेणैषा सुता ते परिणेष्यते ।
तदा तद्दर्शनादेव शापादस्माद्विमोक्ष्यसे ।। १४१
इत्यहं मुनिना शप्तः सिंहीभूय हिमाचले ।
अतिष्ठं तनयामेतां हरपूजापरां वहन् ।। १४२
अनन्तरं यथा यत्नाच्छबराधिपतेरिदम् ।
संपन्नं सर्वकल्याणं तथा विदितमेव ते ।। १४३
तत्साधयामि भद्रं वस्तीर्णः शापो मयैष सः ।
इत्युक्त्वा सोऽभ्युदपतत्सद्यो विद्याधरो नभः ।। १४४
ततस्तद्विस्मयाक्रान्तो नन्दत्स्वजनबान्धवः ।
श्लाघ्यसंबन्धहृष्टो मे पिताकार्षीन्महोत्सवम् ।। १४५
को हि निर्व्याजमित्त्राणां चरितं चिन्तयिष्यति ।
सुहृत्सु नैव तृप्यन्ति प्राणैरप्युपकृत्य ये ।। १४६
इति चात्र न को नाम सचमत्कारमभ्यधात् ।
ध्यायं ध्यायमुदारं तच्छबराधिपचेष्टितम् ।। १४७
राजापि तत्तथा बुद्ध्वा तत्रत्यस्तस्य सन्मतेः ।
अतुष्यदस्मत्स्नेहेन शबराधिपतेः परम् ।। १४८
तुष्टश्च तस्मै मत्पित्रा दापितः सहसैव च ।
अशेषमटवीराज्यं रत्नोपायनदायिना ।। १४९
ततस्तया मनोवत्या पत्न्या मित्रेण तेन च ।
कृतार्थः शबरेन्द्रेण तत्रातिष्ठमहं सुखी ।। १५०
स च श्लथीकृतात्मीयदेशवासरसस्ततः ।
भूयसास्मद्गृहेष्वेव न्यवसच्छबराधिपः ।। १५१
परस्परोपकारेषु सर्वकालमतृप्तयोः ।
स द्वयोरगमत्कालो मम तस्य च मित्त्रयोः ।। १५२
अचिराच्च मनोवत्यां तस्यामजनि मे सुतः ।
बहिष्कृतः कुलस्येव कृत्स्नस्य हृदयोत्सवः ।। १५३
हिरण्यदत्तनामा च स शनैर्वृद्धिमाययौ ।
कृतविद्यो यथावच्च परिणीतोऽभवत्ततः ।। १५४
तद्दृष्ट्वा जीवितफलं पूर्णं मत्वा च मत्पिता ।
वृद्धो भागीरथीं प्रायात्सदारो देहमुज्झितुम् ।। १५५
ततोऽहं पितृशोकार्तः कथंचिद्बान्धवैर्धृतिम् ।
ग्राहितो गृहभारं स्वमुद्वोढुं प्रतिपन्नवान् ।। १५६
तदा मनोवतीमुग्धमुखदर्शनमेकतः ।
अन्यतः शबरेन्द्रेण संगमो मां व्यनोदयत् ।। १५७
ततः सत्पुत्रसानन्दाः सुकलत्रमनोरमाः ।
सुहृत्समागमसुखा गतास्ते दिवसा मम ।। १५८
कालेनाथ प्रवृद्धं मामग्रहीच्चिबुके जरा ।
किं गृहेऽद्यापि पुत्रेति प्रीत्येव ब्रुवती हितम् ।। १५९
तेनाहं सहसोत्पन्नवैराग्यस्तनयं निजम् ।
कुटुम्बभारोद्वहने वनं वाञ्छन्नयोजयम् ।। १६०
सदारश्च गतोऽभूवं गिरिं कालञ्जरं ततः ।
मत्स्नेहत्यक्तराज्येन समं शबरभूभृता ।। १६१
तत्र प्राप्तेन चात्मीया जातिर्वैद्याधरी मया ।
शापश्च प्राप्तपर्यन्तः स शार्वः सहसा स्मृतः ।। १६२
तच्च पत्न्यै मनोवत्यै तदैवाख्यातवानहम् ।
सख्ये च शबरेन्द्राय मुमुक्षुर्मानुषीं तनुम् ।। १६३
भार्यामित्त्रे इमे एव भूयास्तां स्मरतो मम ।
अन्यजन्मन्यपीत्युक्त्वा हृदि कृत्वा च शंकरम् ।। १६४
मया गिरितटात्तस्मान्निपत्य प्रसभं ततः ।
ताभ्यां स्वपत्नीमित्त्राभ्यां सह मुक्तं शरीरकम् ।। १६५
सोऽहं ततः समुत्पन्नो नाम्ना जीमूतवाहनः ।
विद्याधरकुलेऽमुष्मिन्नेष जातिस्मरोऽधुना ।। १६६
स चापि शबरेन्द्रस्त्वं जातो मित्रावसुः पुनः ।
त्र्यक्षप्रसादात्सिद्धानां राज्ञो विश्वावसोः सुतः ।। १६७
सापि विद्याधरी मित्त्र मम भार्या मनोवती ।
तव स्वसा समुत्पन्ना नाम्ना वलयवत्यसौ ।। १६८
एवं मे पूर्वपत्न्येषा भगिनी ते भवानपि ।
पूर्वमित्त्रमतो युक्ता परिणेतुमसौ मम ।। १६९
किं तु पूर्वमितो गत्वा मम पित्रोर्निवेदय ।
तयोः प्रमाणीकृतयोः सिद्ध्यत्येतत्तवेप्सितम् ।। १७०
इत्थं निशम्य जीमूतवाहनात्प्रीतमानसः ।
गत्वा मित्रावसुः सर्वं तत्पितृभ्यां शशंस तत् ।। १७१
अभिनन्दितवाक्यश्च ताभ्यां हृष्टस्तदैव सः ।
उपगम्य तमेवार्थं स्वपितृभ्यां न्यवेदयत् ।। १७२
तयोरीप्सितसंपत्तितुष्टयोः सत्वरं च सः ।
युवराजो विवाहाय संभारमकरोत्स्वसुः ।। १७३
ततो जग्राह विधिवत्तस्या जीमूतवाहनः ।
पाणिं मलयवत्याः स सिद्धराजपुरस्कृतः ।। १७४
बभूव चोत्सवस्तत्र चञ्चद्दयुचरचारणः ।
संमिलत्सिद्धसंघातो वल्गद्विद्याधरोद्धुरः ।। १७५
कृतोद्वाहस्ततस्तस्थौ तस्मिञ्जीमूतवाहनः ।
मलयाद्रौ महार्हेण विभवेन वधूसखः ।। १७६
एकदा च श्वशुर्येण स मित्रावसुना सह ।
वेलावनानि जलधेरवलोकयितुं ययौ ।। १७७
तत्रापश्यच्च पुरुषं युवानं विग्नमागतम् ।
निवर्तयन्तं जननीं हा पुत्रेति विराविणीम् ।। १७८
अपरेण परित्यक्तं भटेनेवानुयायिना ।
पुरुषेण पृथूतुङ्गं प्रापय्यैकं शिलातलम् ।। १७९
कस्त्वं किमीहसे किं च माता त्वां शोचतीति तम् ।
स पप्रच्छ ततः सोऽपि तस्मै वृत्तान्तमब्रवीत् ।। १८०
पुरा कश्यपभार्ये द्वे कद्रूश्च विनता तथा ।
मिथः कथाप्रसङ्गेन विवादं किल चक्रतुः ।। १८१
आद्या श्यामान्रवेरश्वानवादीदपरा सितान् ।
अन्योन्यदासभावं च पणमत्र बबन्धतुः ।। १८२
ततो जयार्थिनी कद्रूः स्वैरं नागैर्निजात्मजैः ।
विषफूत्कारमलिनानर्कस्याश्वानकारयत् ।। १८३
तादृशांश्चोपदर्श्यैतान्विनतां छद्मना जिताम् ।
दासीचकार कष्टा हि स्त्रीणामन्यासहिष्णुता ।। १८४
तद्बुद्ध्वागत्य विनतातनयो गरुडस्तदा ।
सान्त्वेन मातुर्दासत्वमुक्तिं कद्रूमयाचत ।। १८५
ततः कद्रूसुता नागा विचिन्त्यैवं तमब्रुवन् ।
भो वैनतेय क्षीराब्धिः प्रारब्धो मथितुं सुरैः ।। १८६
ततः सुधां समाहृत्य प्रतिवस्तु प्रयच्छ नः ।
मातरं स्वीकुरुष्वाथ भवान्हि बलिनां वरः ।। १८७
एतन्नागवचः श्रुत्वा गत्वा च क्षीरवारिधिम् ।
सुधार्थं दर्शयामास गरुडो गुरु पौरुषम् ।। १८८
ततः पराक्रमप्रीतो देवस्तत्र स्वयं हरिः ।
तुष्टोऽस्मि ते वरं कंचिद्वृणीष्वेत्यादिदेश तम् ।। १८९
नागा भवन्तु मे भक्ष्या इति सोऽपि हरेस्ततः ।
वैनतेयो वरं वव्रे मातुर्दास्येन कोपितः ।। १९०
तथेति हरिणादिष्टो निजवीर्यार्जितामृतः ।
स चैवमथ शक्रेण गदितो ज्ञातवस्तुना ।। १९१
तथा पक्षीन्द्र कार्यं ते यथा मूढैर्न भुज्यते ।
नागैः सुधा यथा चैनां तेभ्यः प्रत्याहराम्यहम् ।। १९२
एतच्छ्रुत्वा तथेत्युक्त्वा स वैष्णववरोद्धुरः ।
सुधाकलशमादाय तार्क्ष्यो नागानुपाययौ ।। १९३
वरप्रभावभीतांश्च मुग्धानाराज्जगाद तान् ।
इदमानीतममृतं मुक्त्वाम्बां मम गृह्यताम् ।। १९४
भयं चेत्स्थापयाम्येतदहं वो दर्भसंस्तरे ।
उन्मोच्याम्बां च गच्छामि स्वीकुरुध्वमितः सुधाम् ।। १९५
तथेत्युक्ते च तैर्नागैः स पवित्रे कुशास्तरे ।
सुधाकलशमाधत्त ते चास्य जननीं जहुः ।। १९६
दास्यमुक्तां च कृत्वैवं मातरं गरुडे गते ।
यावदाददते नागा निःशङ्कास्तत्किलामृतम् ।। १९७
तावन्निपत्य सहसा तान्विमोह्य स्वशक्तितः ।
तं सुधाकलशं शक्रो जहार कुशसंस्तरात् ।। १९८
विषण्णास्तेऽथ नागास्तं लिलिहुर्दर्भसंस्तरम् ।
कदाचिदमृतश्च्योतलेपोऽप्यस्मिन्भवेदिति ।। १९९
तेन पाटितजिह्वास्ते वृथा प्रापुर्द्विजिह्वताम् ।
हास्यादृते किमन्यत्स्यादतिलौल्यवतां फलम् ।। २००
अथालब्धामृतरसान्नागान्वैरी हरेर्वरात् ।
तार्क्ष्य प्रववृते भोक्तुं तान्निपत्य पुनः पुनः ।। २०१
तदापाते च पातालं त्रासनिर्जीवराजिलम् ।
प्रभ्रष्टगर्भिणीगर्भमभूत्क्षपितपन्नगम् ।। २०२
तं दृष्ट्वा चान्वहं तत्र वासुकिर्भुजगेश्वरः ।
कृत्स्नमेकपदे नष्टं नागलोकममन्यत ।। २०३
ततो दुर्वारवीर्यस्य सद्यस्तस्य विचिन्त्य सः ।
समयं प्रार्थनापूर्वं चकारैवं गरुत्मतः ।। २०४
एकमेकं प्रतिदिनं नागं ते प्रेषयाम्यहम् ।
आहारहेतोः पक्षीन्द्र पयोधिपुलिनाचले ।। २०५
पाताले तु प्रवेष्टव्यं न त्वया मर्दकारिणा ।
नागलोकक्षयात्स्वार्थस्तवैव हि विनश्यति ।। २०६
इति वासुकिना प्रोक्तस्तथेति गरुडोऽन्वहम् ।
तत्प्रेषितमिहैकैकं नागं भोक्तुं प्रचक्रमे ।। २०७
तेन क्रमेण चासंख्याः फणिनोऽत्र क्षयं गताः ।
अहं च शङ्खचूडाख्यो नागो वारो ममाद्य च ।। २०८
अतोऽहं गरुडाहारहेतोर्वध्यशिलामिमाम् ।
मातुश्च शोच्यतां प्राप्तो नागराजनिदेशतः ।। २०९
इति तस्य वचः श्रुत्वा शङ्खचूडस्य दुःखितः ।
सान्तःखेदः स जीमूतवाहनस्तमभाषत ।। २१०
अहो किमपि निःसत्त्वं राजत्वं बत वासुकेः ।
यत्स्वहस्तेन नीयन्ते रिपोरामिषतां प्रजाः ।। २११
किं न प्रथममात्मैव तेन दत्तो गरुत्मते ।
क्लीवेनाभ्यर्थिता केयं स्वकुलक्षयसाक्षिता ।। २१२
उत्पद्य कश्यपात्पापं तार्क्ष्योऽपि कुरुते कियत् ।
देहमात्रकृते मोहः कीदृशो महतामपि ।। २१३
तदहं तावदद्यैकं रक्षामि त्वां गरुत्मतः ।
स्वशरीरप्रदानेन मा विषादं कृथाः सखे ।। २१४
तच्छ्रुत्वा शङ्खचूडोऽपि धैर्यादेतदुवाच तम् ।
शान्तमेतन्महासत्त्व मा स्मैवं भाषथाः पुनः ।। २१५
न काचस्य कृते जातु युक्ता मुक्तामणेः क्षतिः ।
न चाप्यहं गमिष्यामि कथां कुलकलङ्किताम् ।। २१६
इत्युक्त्वा तं निषिध्यैव साधुर्जीमूतवाहनम् ।
मत्वा गरुडवेलां च स क्षणान्तरगामिनीम् ।। २१७
शङ्खचूडो ययौ तत्र वारिधेस्तीरवर्तिनम् ।
अन्तकाले नमस्कर्तुं गोकर्णाख्यमुमापतिम् ।। २१८
गते तस्मिन्स कारुण्यनिधिर्जीमूतवाहनः ।
तत्त्राणायात्मदानेन बुबुधे लब्धमन्तरम् ।। २१९
ततस्तद्विस्मृतमिव क्षिप्रं कृत्वा स्वयुक्तितः ।
कार्यापदेशाद्व्यसृजन्निजं मित्त्रावसुं गृहम् ।। २२०
तत्क्षणं च समासन्नतार्क्ष्यपक्षानिलाहता ।
तत्सत्त्वदर्शनाश्चर्यादिव सा भूरघूर्णत ।। २२१
तेनाहिरिपुमायान्तं मत्वा जीमूतवाहनः ।
परानुकम्पी तां वध्यशिलामध्यारुरोह सः ।। २२२
क्षणाच्चात्र निपत्यैव महासत्त्वं जहार तम् ।
आहत्य चञ्च्वा गरुडः स्वच्छायाच्छादिताम्बरः ।। २२३
परिस्रवदसृग्धारं च्युतोत्स्वातशिखामणिम् ।
नीत्वा भक्षयितुं चैनमारेभे शिखरे गिरेः ।। २२४
तत्कालं पुष्पवृष्टिश्च निपपात नभस्तलात् ।
तद्दर्शनाच्च किं न्वेतदिति तार्क्ष्यो विसिस्मिये ।। २२५
तावत्स शङ्खचूडोऽत्र नत्वा गोकर्णमागतः ।
ददर्श रुधिरासारसिक्तं वध्यशिलातलम् ।। २२६
हा धिङ्मदर्थं तेनात्मा दत्तो नूनं महात्मना ।
तत्कुत्र नीतस्तार्क्ष्येण क्षणेऽस्मिन्स भविष्यति ।। २२७
अन्विष्यामि द्रुतं तावत्कदाचित्तमवाप्नुयाम् ।
इति साधुः स तद्रक्तधारामनुसरन्ययौ ।। २२८
अत्रान्तरे च हृष्टं तं दृष्ट्वा जीमूतवाहनम् ।
गरुडो भक्षणं मुक्त्वा सविस्मयमचिन्तयत् ।। २२९
कश्चित्किमन्य एवायं भक्ष्यमाणोऽपि यो मया ।
विपद्यते न तु परं धीरः प्रत्युत हृष्यति ।। २३०
इत्यन्तर्विमृशन्तं च तार्क्ष्यं तादृग्विधोऽपि सः ।
निजगाद निजाभीष्टसिद्ध्यै जीमूतवाहनः ।। २३१
पक्षिराज ममास्त्येव शरीरे मांसशोणितम् ।
तदकस्मादतृप्तोऽपि किं निवृत्तोऽसि भक्षणात् ।। २३२
तच्छ्रुत्वाश्चर्यवशगस्तं स पप्रच्छ पक्षिराट् ।
नागः साधो न तावत्त्वं ब्रूहि तत्को भवानिति ।। २३३
नाग एवास्मि भुङ्क्ष्वत्वं यथारब्धं समापय ।
आरब्धा ह्यसमाप्तैव किं धीरैस्त्यज्यते क्रिया ।। २३४
इति यावच्च जीमूतवाहनः प्रतिवक्ति तम् ।
तावत्स शङ्खचूडोऽत्र प्राप्तो दूरादभाषत ।। २३५
मा मा गरुत्मन्नैवैष नागो नागो ह्यहं तव ।
तदेनं मुञ्च कोऽयं ते जातोऽकाण्डे बत भ्रमः ।। २३६
तच्छ्रुत्वातीव विभ्रान्तो बभूव स खगेश्वरः ।
वाञ्छितासिद्धिखेदं च भेजे जीमूतवाहनः ।। २३७
ततोऽन्योन्यसमालापक्रन्दद्विद्याधराधिपम् ।
बुद्ध्वा तं भक्षितं मोहाद्गरुत्मानभ्यतप्यत ।। २३८
अहो बत नृशंसस्य पापमापतितं मम ।
किं वा सुलभपापा हि भवन्त्युन्मार्गवृत्तयः ।। २३९
श्लाघ्यस्त्वेष महात्मैकः परार्थप्राणदायिना ।
ममेति मोहैकवशं येन विश्वमधः कृतम् ।। २४०
इति तं चिन्तयन्तं च गरुडं पापशुद्धये ।
वह्निं विविक्षुं जीमूतवाहनोऽथ जगाद सः ।। २४१
पक्षीन्द्र किं विषण्णोऽसि सत्यं पापाद्बिभेषि चेत् ।
तदिदानीं न भूयस्ते भक्ष्या हीमे भुजंगमाः ।। २४२
कार्यश्चानुशयस्तेषु पूर्वभुक्तेषु भोगिषु ।
एषोऽत्र हि प्रतीकारो वृथान्यच्चिन्तितं तव ।। २४३
इत्युक्तस्तेन स प्रीतस्तार्क्ष्यो भूतानुकम्पिना ।
तथेति प्रतिपेदे तद्वाक्यं तस्य गुरोरिव ।। २४४
ययौ चामृतमानेतुं नाकाज्जीवयितुं जवात् ।
क्षताङ्गं तत्र तं चान्यानस्थिशेषानहीनपि ।। २४५
ततश्च साक्षादागत्य देव्या सिक्तोऽमृतेन सः ।
जीमूतवाहनो गौर्या तद्भार्याभक्तितुष्टया ।। २४६
तेनाधिकतरोद्भूतकान्तीन्यङ्गानि जज्ञिरे ।
तस्य सानन्दगीर्वाणदुन्दुभिध्वनिभिः सह ।। २४७
स्वस्थोत्थिते ततस्तस्मिन्नानीय गरुडोऽपि तत् ।
कृत्स्ने वेलातटेऽप्यत्र ववर्षामृतमम्बरात् ।। २४८
तेन सर्वे समुत्तस्थुर्जीवन्तस्तत्र पन्नगाः ।
बभौ तच्च तदा भूरिभुजंगकुलसंकुलम् ।। २४९
वेलावनं विनिर्मुक्तवैनतेयभयं ततः ।
पातालमिव जीमूतवाहनालोकनागतम् ।। २५०
ततोऽक्षयेण देहेन यशसा च विराजितम् ।
बुद्ध्वाभ्यनन्दत्तं बन्धुजनो जीमूतवाहनम् ।। २५१
ननन्द तस्य भार्या च सज्ञातिः पितरौ तथा ।
को न प्रहृष्येद्दुःखेन सुखत्वपरिवर्तिना ।। २५३
विसृष्टस्तेन च ययौ शङ्खचूडो रसातलम् ।
स्वच्छन्दमविसृष्टं च लोकांस्त्रीनपि तद्यशः ।। २५३
ततः प्रीतिप्रह्वामरनिकरमागत्य गरुडं प्रणेमुस्तं विद्याधरतिलकमभ्येत्य सभयाः ।।
स्वदायादाः सर्वे हिमगिरिसुतानुग्रहवशान्मतङ्गाख्याद्या ये सुचिरमभजन्नस्य विकृतिम् ।। २५४
तैरेव चार्थ्यमानः सुकृती जीमूतवाहनः स ततः ।
मलयाचलादगच्छन्निजनिलयं तुहिनशैलतटम् ।। २५५
तत्र पितृभ्यां सहितो मित्रावसुना च मलयवत्या च ।
धीरश्चिराय बुभुजे विद्याधरचक्रवर्तिपदम् ।। २५६
एवं सकलजगत्त्रयहृदयचमत्कारकारिचरितानाम् ।
स्वयमनुधावन्ति सदा कल्याणपरम्पराः पदवीम् ।। २५७
इत्याकर्ण्य कथां किल देवी यौगन्धरायणस्य मुखात् ।
मुमुदे वासवदत्ता गर्भभरोदारदोहदिनी ।। २५८
तदनु तदनुषङ्गप्राप्तया प्रीतिभाजामनवरतनिदेशप्रत्ययाद्देवतानाम् ।
निजपतिनिकटस्था भाविविद्याधरेन्द्रस्वतनयकथया तं वासरं सा निनाय ।। २५९
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे नरवाहनदत्तजननलम्बके द्वितीयस्तरङ्गः ।