प्रमुखा विकल्पसूचिः उद्घाट्यताम्

इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।

प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ।।

तर्जयन्निव विघ्नौघान्नमितोन्नमितेन यः ।
मुहुर्विभाति शिरसा स पायाद्वो गजाननः ।। १
नमः कामाय यद्बाणपातैरिव निरन्तरम् ।
भाति कण्टकितं शंभोरप्युमालिङ्गितं वपुः ।। २
इत्यादिदिव्यचरितं कृत्वात्मानं किलान्यवत् ।
प्राप्तविद्याधरैश्वर्यो यदा मूलात्स्वयं जगौ ।। ३
नरवाहनदत्तोऽत्र सपत्नीकैर्महर्षिभिः ।
पृष्टः प्रसङ्गे कुत्रापि तदिदं शृणुताधुना ।। ४
अथ संवर्ध्यमानोऽत्र पित्रा वत्सेश्वरेण सः ।
नरवाहनदत्तोऽभूद्व्युत्क्रान्ताष्टमवत्सरः ।। ५५
विनीयमानो विद्यासु क्रीडन्नुपवनेषु च ।
सह मन्त्रिसुतैरासीद्राजपुत्रस्तदा च सः ।। ६
देवी वासवदत्ता च राज्ञी पद्मावती तथा ।
आस्तामेकतमस्नेहात्तदेकाग्रे दिवानिशम् ।। ७
आरोहद्गुणनम्रेण रेजे सद्वंशजन्मना ।
शनैरापूर्यमाणेन वपुषा धनुषा च सः ।। ८
पिता वत्सेश्वरश्चास्य विवाहादिमनोरथैः ।
आसन्नफलसंपत्तिकान्तैः कालं निनाय तम् ।। ९
अत्रान्तरे कथासंधौ यदभूत्तन्निशम्यताम् ।
आसीत्तक्षशिला नाम वितस्तापुलिने पुरी ।। १०
तदम्भसि बभौ यस्याः प्रतिमा सौधसंततेः ।
पातालनगरीवाधस्तच्छोभालोकनागता ।। ११
तस्यां कलिङ्गदत्ताख्यो राजा परमसौगतः ।
अभूत्तारावरस्फीतजिनभक्ताखिलप्रजः ।। १२
रराज सा पुरी यस्य चैत्यरत्नैर्निरन्तरैः ।
मत्तुल्या नाम नास्तीति मदशृङ्गैरिवोदितैः ।। १३
प्रजानां न परं चक्रे यः पितेवानुपालनम् ।
यावद्गुरुरिव ज्ञानमपि स्वयमुपादिशत् ।। १४
तथा च तस्यां कोऽप्यासीन्नगर्यां सौगतो वणिक् ।
धनी वितस्तादत्ताख्यो भिक्षुपूजैकतत्परः ।। १५
रत्नदत्ताभिधानश्च तस्याभूत्तनयो युवा ।
स च तं पितरं शश्वत्पाप इत्याजुगुप्सत ।। १६
पुत्र निन्दसि कस्मान्मामिति पित्रा च तेन सः ।
पृच्छमानो वणिक्पुत्रः साभ्यसूयमभाषत ।। १७
तात त्यक्तत्रयीधर्मस्त्वमधर्मं निषेवसे ।
यद्ब्राह्मणान्परित्यज्य श्रमणाञ्शश्वदर्चसि ।। १८
स्नानादियन्त्रणाहीनाः स्वकालाशनलोलुपाः ।
अपास्तसशिखाशेषकेशकौपीनसुस्थिताः ।। १९
विहारास्पदलोभाय सर्वेऽप्यधमजातयः ।
यमाश्रयन्ति किं तेन सौगतेन नयेन ते ।। २०
तच्छ्रुत्वा स वणिक्प्राह न धर्मस्यैकरूपता ।
अन्यो लोकोत्तरः पुत्र धर्मोऽन्यः सार्वलौकिकः ।। २१
ब्राह्मण्यमपि तत्प्राहुर्यद्रागादिविवर्जनम् ।
सत्यं दया च भूतेषु न मृषा जातिविग्रहः ।। २२
किं च दर्शनमेतत्त्वं सर्वसत्त्वाभयप्रदम् ।
प्रायः पुरुषदोषेण न दूषयितुमर्हसि ।। २३
उपकारस्य धर्मत्वे विवादो नास्ति कस्यचित् ।
भूतेष्वभयदानेन नान्या चोपकृतिर्मम ।। २४
तदहिंसाप्रधानेऽस्मिन्वत्स मोक्षप्रदायिनि ।
दर्शनेऽतिरतिश्चेन्मे तदधर्मो ममात्र कः ।। २५
इति तेनोदितः पित्रा वणिक्पुत्रः प्रसह्य सः ।
न तथा प्रतिपेदे तन्निनिन्दाभ्यधिकं पुनः ।। २६
ततः स तत्पिता खेदाद्गत्वा धर्मानुशासितुः ।
राज्ञः कलिङ्गदत्तस्य पुरतः सर्वमब्रवीत् ।। २७
सोऽपि राजा तमास्थाने युक्त्यानाय्य वणिक्सुतम् ।
मृषारचितकोपः सन्नेवं क्षत्तारमादिशत् ।। २८
श्रुतं मया वणिक्पुत्रः पापोऽयमतिदुष्कृती ।
निर्विचार तदेषोऽद्य हन्यतां देशदूषकः ।। २९
इत्यूचिवांस्ततः पित्रा कृतविज्ञापनः किल ।
नृपतिर्धर्मचर्यार्थं द्वौ मासौ वधनिग्रहम् ।। ३०
संविधार्य तदन्ते च पुनरानयनाय सः ।
तस्यैव तत्पितुर्हस्ते न्यस्तवांस्तं वणिक्सुतम् ।। ३१
सोऽपि पित्रा गृहं नीतो वणिक्पुत्रो भयाकुलः ।
किं मयापकृतं राज्ञो भवेदिति विचिन्तयन् ।। ३२
अकारणं द्विमासान्ते मरणं भावि भावयन् ।
अनिद्रोऽपचिताहारक्लान्तस्तस्थौ दिवानिशम् ।। ३३
ततो मासद्वये याते राजाग्रे कृशपाण्डुरः ।
पुनः स्वपित्रा तेनासौ वणिक्सूनुरनीयत ।। ३४
राजा तं च तथाभूतं वीक्ष्यापन्नमभाषत ।
किमीदृक् त्वं कृशीभूतः किं रुद्धं ते मयाशनम् ।। ३५
तच्छ्रुत्वा स वणिक्पुत्रो राजानं तमभाषत ।
आत्मापि विस्मृतो भीत्या मम का त्वशने कथा ।। ३६
युष्मदादिष्टनिधनश्रवणात्प्रभृति प्रभो ।
मृत्युमायान्तमायान्तमन्वहं चिन्तयाम्यहम् ।। ३७
इत्युक्तवन्तं तं राजा स वणिक्पुत्रमब्रवीत् ।
बोधितोऽसि मया वत्स युक्त्या प्राणभयं स्वतः ।। ३८
ईदृगेव हि सर्वस्य जन्तोर्मृत्युभयं भवेत् ।
तद्रक्षणोपकाराच्च धर्मः कोऽभ्यधिको वद ।। ३९
तदेतत्तव धर्माय मुमुक्षायै च दर्शितम् ।
मृत्युभीतो हि यतते नरो मोक्षाय बुद्धिमान् ।। ४०
अतो न गर्हणीयोऽयमेतद्धर्मा पिता त्वया ।
इति राजवचः श्रुत्वा प्रह्वोऽवादीद्वणिक्सुतः ।। ४१
धर्मोपदेशाद्देवेन कृती तावदहं कृतः ।
मोक्षायेच्छा प्रजाता मे तमप्युपदिश प्रभो ।। ४२
तच्छ्रुत्वा तं वणिक्पुत्रं प्राप्ते तत्र पुरोत्सवे ।
तैलपूर्णं करे पात्रं दत्त्वा राजा जगाद सः ।। ४३
इदं पात्रं गृहीत्वा त्वमेहि भ्रान्त्वा पुरीमिमाम् ।
तैलबिन्दुनिपातश्च रक्षणीयस्त्वया सुत ।। ४४
निपतिष्यति यद्येकस्तैलबिन्दुरितस्तव ।
सद्यो निपातयिष्यन्ति त्वामेते पुरुषास्ततः ।। ४५
एवं किलोक्त्वा व्यसृजत्तं भ्रमाय वणिक्सुतम् ।
उत्खातखड्गान्पुरुषान्दत्त्वा पश्चात्स भूपतिः ।। ४६
वणिक्पुत्रोऽपि स भयाद्रक्षंस्तैललवच्युतिम् ।
पुरीं तामभितो भ्रान्त्वा कृच्छ्रादागान्नृपान्तिकम् ।। ४७
नृपोऽप्यगलितानीततैलं दृष्ट्वा तमभ्यधात् ।
कश्चित्पुरभ्रमेऽप्यद्य दृष्टोऽत्रे भ्रमता त्वया ।। ४८
तच्छ्रुत्वा स वणिक्पुत्रः प्रोवाच रचिताञ्जलिः ।
यत्सत्यं न मया देव दृष्टं किंचिन्न च श्रुतम् ।। ४९
अहं ह्येकावधानेन तैललेशपरिच्युतम् ।
खड्गपातभयाद्रक्षस्तदानीमभ्रमं पुरीम् ।। ५०
एवं वणिक्सुतेनोक्ते स राजा निजगाद तम् ।
दृश्यतैलैकचित्तेन न त्वया किंचिदीक्षितम् ।। ५१
तत्तेनैवावधानेन परानुध्यानमाचर ।
एकाग्रो हि बहिर्वृत्तिनिवृत्तस्तत्त्वमीक्षते ।। ५२
दृष्टतत्त्वश्च न पुनः कर्मजालेन बध्यते ।
एष मोक्षोपदेशस्ते संक्षेपात्कथितो मया ।। ५३
इत्युक्त्वा प्रहितो राज्ञा पतित्वा तस्य पादयोः ।
कृतार्थः स वणिक्पुत्रो हृष्टः पितृगृहं ययौ ।। ५४
एवं कलिङ्गदत्तस्य प्रजास्तस्यानुशासतः ।
तारादत्ताभिधानाभूद्राज्ञी राज्ञः कुलोचिता ।। ५५
यथा स राजा शुशुभे रीतिमत्या सुवृत्तया ।
नानादृष्टान्तरसिको भारत्या सुकविर्यथा ।। ५६
या प्रकाशगुणश्लाघ्या ज्योत्स्नेव शशलक्ष्मणः ।
तस्यामृतमयस्याभूदविभिन्नैव भूपतेः ।। ५७
तया देव्या समं तत्र सुखिनस्तस्य तिष्ठतः ।
नृपस्य जग्मुर्दिवसाः शच्येव दिवि वज्रिणः ।। ५८
अत्रान्तरे किलैतस्मिन्कथासंधौ शतक्रतोः ।
कुतोऽपि हेतोस्त्रिदिवे वर्तते स्म महोत्सवः ।। ५९
तत्राप्सरःसु सर्वासु नर्तितुं मिलितास्वपि ।
एका सुरभिदत्ताख्या नादृश्यत वराप्सराः ।। ६०
प्रणिधानात्ततः शक्रस्तां ददर्श रहःस्थिताम् ।
विद्याधरेण केनापि सहितां नन्दनान्तरे ।। ६१
तद्दृष्ट्वा जातकोपोऽन्तः स वृत्रारिरचिन्तयत् ।
अहो एतौ दुराचारौ मदनान्धावुभावपि ।। ६२
एका यदाचरत्येव विस्मृत्यास्मान्स्वतन्त्रवत् ।
करोत्यविनयं चान्यो देवभूमौ प्रविश्य यत् ।। ६३
अथवास्य वराकस्य दोषो विद्याधरस्य कः ।
आकृष्टो हि वशीकृत्य रूपेणायमिहानया ।। ६४
कान्तयान्तः किलापूर्णतुङ्गस्तनतटान्तया ।
लावण्याम्बुतरङ्गिण्या हृतः स्यादात्मनः प्रभुः ।। ६५
चुक्षुभे किं न शर्वोऽपि पुरा दृष्ट्वा तिलोत्तमाम् ।
धात्रा गृहीत्वा रचितामुत्तमेभ्यस्तिलं तिलम् ।। ६६
तपश्च मेनकां दृष्ट्वा विश्वामित्रो न किं जहौ ।
शर्मिष्ठारूपलोभाच्च ययातिर्नाप्तवाञ्जराम् ।। ६७
अतो विद्याधरयुवा नैवायमपराध्यति ।
त्रिजगत्क्षोभशक्तेन रूपेणाप्सरसा हृतः ।। ६८
इयं तु स्वर्वधूः पापा हीनासक्तापराधिनी ।
प्रवेशितः सुरान्हित्वा ययायमिह नन्दने ।। ६९
इत्यालोच्य विमुञ्चैनं विद्याधरकुमारकम् ।
अहल्याकामुकः सोऽस्यै शापमप्सरसे ददौ ।। ७०
पापे प्रयाहि मानुष्यं प्राप्य चायोनिजां सुताम् ।
दिव्यं कृत्वा च कर्तव्यमेष्यसि द्यामिमामिति ।। ७१
अत्रान्तरे च सा तस्य राज्ञस्तक्षशिलापुरि ।
राज्ञी कलिङ्गदत्तस्य तारादत्ता यथावृतुम् ।। ७२
तस्याः सुरभिदत्ता सा शक्रशापच्युताप्सराः ।
संबभूवोदरे देव्या देहसौन्दर्यदायिनी ।। ७३
तदा च नभसो भ्रष्टां ज्वालां देवी ददर्श सा ।
तारादत्ता किल स्वप्ने प्रविशन्तीं निजोदरे ।। ७४
प्रातश्चावर्णयत्स्वप्नं भर्त्रे तं सा सविस्मया ।
राज्ञे कलिङ्गदत्ताय सोऽपि प्रीतो जगाद ताम् ।। ७५
देवि दिव्याः पतन्त्येव शापान्मानुष्ययोनिषु ।
तज्जाने देवजातीयः कोऽपि गर्भे तवार्पितः ।। ७६
विचित्रसदसत्कर्मनिबद्धाः संचरन्ति हि ।
जन्तवस्त्रिजगत्यस्मिञ्शुभाशुभफलाप्तये ।। ७७
इत्युक्ता भूभृता राज्ञी सा प्रसङ्गादुवाच तम् ।
सत्यं कर्मैव बलवद्भोगदायि शुभाशुभम् ।। ७८
तथा चेदमुपोद्धातं श्रुतं वच्म्यत्र ते शृणु ।
अभवद्धर्मदत्ताख्यः कोशलाधिपतिर्नृपः ।। ७९
नागश्रीरिति तस्यासीद्राज्ञी या पतिदेवता ।
भूमावरुन्धती ख्याता रुन्धन्त्यपि सतीधुरम् ।। ८०
काले गच्छति तस्यां च देव्यां तस्य च भूपतेः ।
अहमेषा समुत्पन्ना दुहिताहितसूदन ।। ८१
ततो मय्यतिबालायां देव सा जननी मम ।
अकस्मात्पूर्वजातिं स्वां स्मृत्वा स्वपतिमब्रवीत् ।। ८२
राजन्नकाण्ड एषाद्य पूर्वजन्म स्मृतं मया ।
अप्रीत्यै तदनाख्यातमाख्यातं मृतये च मे ।। ८३
अशङ्कितं स्मृता जातिः स्यादाख्यातैव मृत्यवे ।
इति ह्याहुरतो देव मय्यतीव विषादिता ।। ८४
इत्युक्तः स तया पत्न्या राजा तां प्रत्यभाषत ।
प्रिये मयापि प्राग्जन्म त्वयेव सहसा स्मृतम् ।। ८५
तन्ममाचक्ष्व तावत्त्वं कथयिष्याम्यहं च ते ।
यदस्तु कोऽन्यथा कर्तुं शक्तो हि भवितव्यताम् ।। ८६
इति सा प्रेरिता तेन भर्त्रा राज्ञी जगाद तम् ।
निर्बन्धो यदि ते राजञ्शृणु तर्हि वदाम्यहम् ।। ८७
इहैव देशे विप्रस्य माधवाख्यस्य कस्यचित् ।
गृहेऽहमभवं दासी सुवृत्ता पूर्वजन्मनि ।। ८८
देवदासाभिधानश्च पतिरत्र ममाभवत् ।
कस्याप्येकस्य वणिजः साधुः कर्मकरो गृहे ।। ८९
तावावामवसावात्र कृत्वा गेहं निजोचितम् ।
स्वस्वस्वामिगृहानीतपक्वान्नकृतवर्तनौ ।। ९०
वारिधानी च कुम्भश्च मार्जनी मञ्चकस्तथा ।
अहं च मत्पतिश्चेति युग्मत्रितयमेव नौ ।। ९१
अकलिप्रसरे गेहे संतोषः सुखिनोरभूत् ।
देवपित्रतिथिप्रत्तशेषं प्रमितमश्नतोः ।। ९२
एकैकतोऽधिकं किंचिद्यदाच्छादनमप्यभूत् ।
सुदुर्गताय कस्मैचित्तदावाभ्यामदीयत ।। ९३
अथात्रोदभवत्तीव्रो दुर्भिक्षस्तेन चावयोः ।
भृत्यन्नमन्वहं प्राप्यमल्पमल्पमुपानमत् ।। ९४
ततः क्षुत्क्षामवपुषोः शनैर्नाववसीदतोः ।
कदाचिदागादाहारकाले क्लान्तोऽतिथिर्द्विजः ।। ९५
तस्मै निःशेषमावाभ्यां द्वाभ्यामपि निजाशनम् ।
प्राणसंशयकालेऽपि दत्तं यावच्च यच्च तत् ।। ९६
भुक्त्वा तस्मिन्गते प्राणा भर्तारं मे तमत्यजन् ।
अर्थिन्यस्यादरो नास्मास्विति मन्युवशादिव ।। ९७
ततश्चाहं समाधाय पत्ये समुचितां चिताम् ।
आरूढा चावरूढश्च विपद्भारो ममात्मनः ।। ९८
अथ राजगृहे जाता जाताहं महिषी तव ।
अचिन्त्यं हि फलं सूते सद्यः सुकृतपादपः ।। ९९
इत्युक्तः स तया राज्ञा धर्मदत्तो नृपोऽब्रवीत् ।
एहि प्रिये स एवाहं पूर्वजन्मपतिस्तव ।। १००
वणिक्कर्मकरोऽभूवं देवदासोऽहमेव सः ।
एतदेव मयाप्यद्य प्राक्तनं जन्म हि स्मृतम् ।। १०१
इत्युक्त्वा स्वान्यभिज्ञानान्युदीर्य स तया सह ।
देव्या विषण्णो हृष्टश्च राजा सद्यो दिवं गतः ।। १०२
एवं तयोश्च मत्पित्रोर्लोकान्तरमुपेयुषोः ।
मातुः स्वसा वर्धयितुं मामनैषीन्निजं गृहम् ।। १०३
कन्यायां मयि चाभ्यागादेकस्तत्रातिथिर्मुनिः ।
मातृस्वसा च मां तस्य शुश्रूषायै समादिशत् ।। १०४
स च कुन्त्येव दुर्वासा यत्नेनाराधितो मया ।
तद्वराच्च मया प्राप्तो धार्मिकस्त्वं पतिः प्रभो ।। १०५
एवं भवन्ति भद्राणि धर्मादेव यदादरात् ।
पितृभ्यां सह संप्राप्य राज्यं जातिरपि स्मृता ।। १०६
एतत्स तारादत्ताया देव्याः श्रुत्वा वचो नृपः ।
कलिङ्गदत्तो धर्मैकसादरो निजगाद ताम् ।। १०७
सत्यं सम्यक्कृतोऽल्पोऽपि धर्मो भूरिफलो भवेत् ।
तथा च प्राक्तनीं देवि सप्तद्विजकथां शृणु ।।१०८
कुण्डिनाख्ये पुरे पूर्वमुपाध्यायस्य कस्यचित् ।
ब्राह्मणस्याभवञ्शिष्याः सप्त ब्राह्मणपुत्रकाः ।। १०९
स ताञ्शिष्यानुपाध्यायो धेनुं दुर्भिक्षदोषतः ।
गोमतः श्वशुरादेकां याचितुं प्राहिणोत्ततः ।। ११०
ते च गत्वान्यदेशस्थं दुर्भिक्षक्षामकुक्षयः ।
तं तद्गिरा तच्छ्वशुरं तच्छिष्या गां ययाचिरे ।। १११
सोऽपि वृत्तिकरीमेकां धेनुं तेभ्यः समर्पयत् ।
कृपणः क्षुधितेभ्योऽपि न तु तेभ्योऽशनं ददौ ।। ११२
ततस्ते तां गृहीत्वा गामायान्तोऽर्धपथे क्षुधा ।
उद्गाढपीडिताः क्लान्ता निपेतुर्धरणीतले ।। ११३
उपाध्यायगृहं दूरं दूरे चापद्गता वयम् ।
दुर्लभं सर्वतश्चान्नं तत्प्राणैर्गतमेव नः ।। ११४
एवं च धेनुरप्येषा निस्तोयवनमानुषे ।
अरण्येऽस्मिन्विपन्नैव गुर्वर्थोऽल्पोऽपि कस्ततः ।। ११५
तदस्याः पिशितैः प्राणान्संधार्याशु गुरूनपि ।
संभावयामस्तच्छेषैरापत्कालो हि वर्तते ।। ११६
इति संमन्त्र्य सप्तापि जघ्नुः सब्रह्मचारिणः ।
शास्त्रोक्तविधिना धेनुं तां पशूकृत्य तत्र ते ।। ११७
इष्ट्वा देवान्पितॄन्भुक्त्वा तन्मांसं विधिवच्च तत् ।
जग्मुरादाय तच्छेषमुपाध्यायस्य चान्तिकम् ।। ११८
तस्मै प्रणम्य सर्वं ते शसंसुस्तद्यथा कृतम् ।
स तेभ्यः सापराधेभ्योऽप्यतुष्यत्सत्यभाषणात् ।। ११९
दिनैः सप्तापि दुर्भिक्षदोषात्ते च विपेदिरे ।
जातिस्मराश्च भूयोऽपि तेन सत्येन जज्ञिरे ।। १२०
इत्थं फलति शुद्धेन सिक्तं संकल्पवारिणा ।
पुण्यबीजमपि स्वल्पं पुंसां कृषिकृतामिव ।। १२१
तदेव दूषितं देवि दुष्टसंकल्पपाथसा ।
फलत्यनिष्टमत्रेदं वच्म्यन्यदपि तच्छृणु ।। १२२
गङ्गायां तुल्यकालौ द्वौ तपस्यनशने जनौ ।
एको विप्रो द्वितीयश्च चण्डालस्तस्थतुः पुरा ।। १२३
तयोर्विप्रः क्षुधाक्रान्तो निषादान्वीक्ष्य तत्रगान् ।
मत्स्यानादाय भुञ्जानानेवं मूढो व्यचिन्तयत् ।। १२४
अहो दास्याः सुता एते धन्या जगति धीवराः ।
ये यथाकाममश्नन्ति प्रत्यहं शफरामिषम् ।। १२५
द्वितीयस्तु स चाण्डालो दृष्ट्वा तानेव धीवरान् ।
अचिन्तयद्धिगस्वेतान्क्रव्यादान्प्राणिघातिनः ।। १२६
तत्किमेव स्थितस्येह दृष्टैरेषां मुखैर्मम ।
इति संमील्य नेत्रे स तत्रासीत्स्वात्मनि स्थितः ।। १२७
क्रमाच्चानशनेनोभौ विपन्नौ तौ द्विजान्त्यजौ ।
द्विजस्तत्र श्वभिर्भुक्तः शीर्णो गङ्गाजलेऽन्त्यजः ।। १२८
ततोऽकृतात्मा कैवर्तकुल एवात्र स द्विजः ।
अभ्यजायत तीर्थस्य गुणाज्जातिस्मरस्त्वभूत् ।। १२९
चण्डालोऽपि स तत्रैव गङ्गातीरे महीभुजः ।
गृहे जातिस्मरो जज्ञे धीरोऽनुपहतात्मकः ।। १३०
जातयोश्च तयोरेवं प्राग्जन्मस्मरतोर्द्वयोः ।
एकोऽनुतेपे दासः सन्राजा सन्मुमुदेऽपरः ।। १३१
इति धर्मतरोर्मूलमशुद्धं यस्य मानसम् ।
शुद्धं यस्य च तद्रूपं फलं तस्य न संशयः ।। १३२
इत्येतदुक्त्वा देवीं तां तारादत्तां स भूपतिः ।
कलिङ्गदत्तः पुनरप्युवाचैनां प्रसङ्गतः ।। १३३
किंच सत्त्वाधिकं कर्म देवी यन्नाम यादृशम् ।
फलाय तद्यतः सत्त्वमनुधावन्ति संपदः ।। १३४
तथा च कथयाम्यत्र शृणु चित्रामिमां कथाम् ।
अस्तीह भुवनख्यातावन्तीषूज्जयिनी पुरी ।। १३५
राजते सितहर्म्यैर्या महाकालनिवासभूः ।
तत्सेवारससंप्राप्तकैलासशिखरैरिव ।। १३६
सच्चक्रवर्तिपानीयः प्रविशद्वाहिनीशतः ।
यदाभोगोऽब्धिगम्भीरः सपक्षक्ष्माभृदाश्रितः ।। १३७
तस्यां विक्रमसिंहाख्यो बभूवान्वर्थयाख्यया ।
राजा वैरिमृगा यस्य नैवासन्संमुखाः क्वचित् ।। १३८
स च निष्प्रतिपक्षत्वादलब्धसमरोत्सवः ।
अस्त्रेषु बाहुवीर्ये च सावज्ञोऽन्तरतप्यत ।। १३९
अथ सोऽमरगुप्तेन तदभिप्रायवेदिना ।
कथान्तरे प्रसङ्गेन मन्त्रिणा जगदे नृपः ।। १४०
देव दोर्दण्डदर्पेण शस्त्रविद्यामदेन च ।
आशंसतामपि रिपून्राज्ञां दोषो न दुर्लभः ।। १४१
तथा च पूर्वं बाणेन युद्धयोग्यमरिं हरः ।
दर्पाद्भुजसहस्रस्य तावदाराध्य याचितः ।। १४२
यावत्प्राप्ततथाभूततद्वरः स मुरारिणा ।
देवेन वैरिणा संख्ये लूनबाहुवनः कृतः ।। १४३
तस्मात्त्वयापि कर्तव्यो नासंतोषो युध विना ।
काङ्क्षणीयो न चानिष्टो विपक्षोऽपि कदाचन ।। १४४
शस्त्रशिक्षा स्ववीर्यं च दर्शनीयं तवेह चेत् ।
योग्यभूमावटव्यां तन्मृगयायां च दर्शय ।। १४५
राज्ञां चाखेटकमपि व्यायामादिकृते मतम् ।
युद्धाध्वनि न शस्यन्ते राजानो ह्यकृतश्रमाः ।। १४६
आरण्याश्च मृगा दुष्टाः शून्यामिच्छन्ति मेदिनीम् ।
तेन ते नृपतेर्वध्या इत्यप्याखेटमिष्यते ।। १४७
न चाति ते निषेव्यन्ते तत्सेवाव्यसनेन हि ।
गता नृपतयः पूर्वमपि पाण्ड्वादयः क्षयम् ।। १४८
इत्युक्तोऽमरगुप्तेन मन्त्रिणा स सुमेधसा ।
राजा विक्रमसिंहोऽत्र तथेति तदमन्यत ।। १४९
अन्येद्युश्चश्वपादातसारमेयमयीं भुवम् ।
विचित्रवागुरोच्छ्रायमयीश्च सकला दिशः ।। १५०
सहर्षमृगयुग्रामनिनादमयमम्बरम् ।
कुर्वन्स मृगयाहेतोर्नगर्या निर्ययौ नृपः ।। १५१
निर्गच्छन्गजपृष्ठस्थो बाह्ये शून्ये सुरालये ।
पुरुषौ द्वावपश्यच्च विजने सहितस्थितौ ।। १५२
स्वैरं मन्त्रयमाणौ च मिथः किमपि तावुभौ ।
दूरात्स तर्कयन्राजा जगाम मृगयावनम् ।। १५३
तत्र प्रोत्खातखड्गेषु वृद्धव्याघ्रेषु च व्यधात् ।
तोषं स सिंहनादेषु भूभागेषु नगेषु च ।। १५४
तां स विक्रमबीजाभैर्महीं तस्तार मौक्तिकैः ।
सिंहानां हस्तिहन्तॄणां निहतानां नखच्युतैः ।। १५५
तिर्यञ्चस्तिर्यगेवास्य पेतुर्वक्रप्लुता मृगाः ।
लघु निर्भिद्य तान्पूर्वं हर्षं प्रापदवक्रगः ।। १५६
कृताखेटश्च सुचिरं राजासौ श्रान्तसेवकः ।
आगाच्छिथिलितज्येन चापेनोज्जयिनीं पुनः ।। १५७
तस्यां देवकुले तस्मिंस्तावत्कालं तथैव तौ ।
स्थितौ ददर्श पुरुषौ निर्गच्छन्यौ स दृष्टवान् ।। १५८
कावेतौ मन्त्रयेते च किंस्विदेवमियच्चिरम् ।
नूनं चाराविमौ दीर्घरहस्यालापसेविनौ ।। १५९
इत्यालोच्य प्रतीहारं विसृज्यानाययत्स तौ ।
पुरुषौ द्वाववष्टभ्य राजा बद्धौ चकार च ।। १६०
द्वितीयेऽहनि चास्थानं तावानाय्य स पृष्टवान् ।
कौ युवां सुचिरं कश्च मन्त्रस्तावान्स वामिति ।। १६१
ततस्तयोः स्वयं राज्ञा तत्र पर्यनुयुक्तयोः ।
याचिताभययोरेको युवा वक्तुं प्रचक्रमे ।। १६२
श्रूयतां वर्णयाम्येतद्यथावदधुना प्रभो ।
अभूत्करभको नाम विप्रोऽस्यामेव वः पुरि ।। १६३
तस्य प्रवीरपुत्रेच्छाकृताग्न्याराधनोद्भवः ।
अहमेष महाराज वेदविद्याविदः सुतः ।। १६४
तस्मिंश्च भार्यानुगते पितरि स्वर्गते शिशुः ।
अधीतविद्योऽप्यानाथ्यात्स्वमार्ग त्यक्तवानहम् ।। १६५
प्रवृत्तश्चाभवं द्यूतं शस्त्रविद्याश्च सेवितुम् ।
कस्य नोच्छृङ्खलं बाल्यं गुरुशासनवर्जितम् ।। १६६
तेन क्रमेण चोत्तीर्णे शैशवे जातदोर्मदः ।
अटवीमेकदा बाणानहं क्षेप्तुं गतोऽभवम् ।। १६७
तावत्तेन पथा चैका नगर्या निर्गता वधूः ।
आगात्कर्णीरथारूढा जन्यैर्बहुभिरन्विता ।। १६८
अकस्माच्च तदैवात्र करी त्रोटितशृङ्खलः ।
कुतोऽप्यागत्य तामेव वधूमभ्यापतन्मदात् ।। १६९
तद्भयेन च सर्वेऽपि त्यक्त्वा तामनुयायिनः ।
तद्भर्त्राऽपि सह क्लीबाः पलाय्येतस्ततो गताः ।। १७०
तद्दृष्ट्वा सहसैवाहं ससंभ्रममचिन्तयम् ।
हा कथं कातरैरेभिस्त्यक्तैकेयं तपस्विनी ।। १७१
तदहं वारणादस्माद्रक्ष्याम्यशरणामिमाम् ।
आपन्नत्राणविकलैः किं प्राणैः पौरुषेण वा ।। १७२
इत्यहं मुक्तनादस्तं गजेन्द्रं प्रति धावितः ।
गजोऽपि तां स्त्रियं हित्वा स मामेवाभ्यदुद्रुवत् ।। १७३
ततोऽहं भीतया नार्या वीक्ष्यमाणस्तया नदन् ।
पलायमानश्च गजं तं दूरमपकृष्टवान् ।। १७४
क्रमात्पत्त्रघनां भग्नां प्राप्य शाखां महातरोः ।
आत्मानं च तयाच्छाद्य तरुमध्यमगामहम् ।। १७५
तत्राग्रे स्थापयित्वा तां शाखां तिर्यक्सुलाघवात् ।
पलायितोऽहं हस्ती च स तां शाखामचूर्णयत् ।। १७६
ततोऽहं योषितस्तस्याः समीपमगमं द्रुतम् ।
शरीरकुशलं चैतामपृच्छमिह भीषिताम् ।। १७७
सापि मां वीक्ष्य दुःखार्ता सहर्षा चावदत्तदा ।
किं मे कुशलमेतस्मै दत्ता कापुरुषाय या ।। १७८
ईदृशे संकटे यो मां त्यक्त्वा क्वापि गतः प्रभो ।
एतत्तु कुशलं यत्त्वमक्षतः पुनरीक्षितः ।। १७९
तन्मे स कतमो भर्ता त्वमिदानीं पतिर्मम ।
येनात्मनिरपेक्षेण हृता मृत्युमुखादहम् ।। १८०
स चैष दृश्यते भृत्यैः सहागच्छन्पतिर्मम ।
अतः स्वैरं त्वमस्माकं पश्चादागच्छ सांप्रतम् ।। १८१
लब्धेऽन्तरे हि मिलिता यास्यामो यत्रकुत्रचित् ।
एवं तयोक्तस्तदहं तथेति प्रतिपन्नवान् ।। १८२
सुरूपाप्यर्पितात्मापि परस्त्रीयं किमेतया ।
इति धैर्यस्य मार्गोऽयं न तारुण्यस्य सङ्गिनः ।। १८३
क्षणादेत्य च सा भर्त्रा बाला संभाविता सती ।
तेन साकं सभृत्येन गन्तुं प्रावर्तत क्रमात् ।। १८४
अहं च गुप्ततद्दत्तपाथेयः परवर्त्मना ।
पश्चादलक्षितस्तस्य दूरमध्वानमभ्यगाम् ।। १८५
सा च हस्तिभयभ्रष्टभङ्गाङ्गजनितां रुजम् ।
पथि मिथ्या वदन्ती तं पतिं स्पर्शेऽप्यवर्जयत् ।। १८६
कस्य रक्तोन्मुखी गाढरूढान्तर्विषदुःसहा ।
तिष्ठेदनपकृत्य स्त्री भुजगीव विकारिता ।। १८७
क्रमाच्च लोहनगरं प्राप्ताः स्मस्ते पुरं वयम् ।
वणिज्याजीविनो यत्र भर्तुस्तस्या गृहं स्त्रियाः ।। १८८
स्थिताः स्मस्तदहश्चात्र सर्वे बाह्ये सुरालये ।
तत्र संमिलितश्चैष द्वितीयो ब्राह्मणः सखा ।। १८१
नवेऽपि दर्शनेऽन्योन्यमाश्वासः समभूच्च नौ ।
चित्तं जानाति जन्तूनां प्रेम जन्मान्तरार्जितम् ।। १९०
ततो रहस्यमात्मीयं सर्वमस्मै मयोदितम् ।
तद्बुद्ध्वैव तदा स्वैरं मामेवमयमब्रबीत् ।। १९१
तूष्णीं भवास्त्युपायोऽत्र यत्कृते त्वमिहागतः ।
एतस्या भर्तृभगिनी विद्यतेऽत्र वणिक्स्त्रियाः ।। १९२
गृहीतार्था मया साकमितः सा गन्तुमुद्यता ।
तत्करिष्ये तदीयेन साहाय्येन तवेप्सितम् ।। १९३
इत्युक्त्वा मामयं विप्रो गत्वा तस्यास्तदा रहः ।
वणिग्वधू ननान्दुस्तद्यथावस्तु न्यवेदयत् ।। १९४
अन्येद्युः कृतसंविच्च सा ननान्दा समेत्य ताम् ।
प्रावेशयद्भातृजायां तत्र देवगृहान्तरे ।। १९५
तत्रान्तः स्थितयोर्नौ च मध्यादेतं तदैव सा ।
मित्त्रं मे भ्रातृजायायास्तस्या वेषमकारयत् ।। १९६
कृततद्वेषमेनं च गृहीत्वा नगरान्तरम् ।
भ्रात्रा सहाविशद्गेहं कृत्वा नः कार्यसंविदम् ।। १९७
अहं च निर्गत्य ततस्तया पुरुषवेषया ।
वणिग्वध्वा समं प्राप्तः क्रमेणोज्जयिनीमिमाम् ।। १९८
तन्ननान्दा च सा रात्रौ तदहः सोत्सवात्ततः ।
मत्तसुप्तजनाद्गेहादनेन सह निर्गता ।। १९९
ततश्चायं गृहीत्वा तां विप्रच्छन्नैः प्रयाणकैः ।
आगतो नगरीमेतामथावां मिलिताविह ।। २००
इत्यावाभ्यामुभे भार्ये प्राप्ते प्रत्यग्रयौवने ।
ननान्दृभ्रातृजाये ते स्वानुरागसमर्पिते ।। २०१
अतो निवासे सर्वत्र देव शङ्कामहे वयम् ।
कत्याश्वसिति चेतो हि विहितस्वैरसाहसम् ।। २०२
तदवस्थानहेतोश्च वित्तार्थं च रहश्चिरम् ।
आवां मन्त्रयमाणौ ह्यो दृष्टौ देवेन दूरतः ।। २०३
दृष्ट्वानाय्य च संयम्य स्थापितौ चारशङ्कया ।
अद्य पृष्टौ च वृत्तान्तं स चैष कथितो मया ।। २०४
देवः प्रभवतीदानीमित्यनेनोदिते तदा ।
राजा विक्रमसिंहस्तौ विप्रौ द्वावप्यभाषत ।। २०५
तुष्टोऽस्मि वां भयं मा भूदिहैव पुरि तिष्ठतम् ।
अहमेव च दास्यामि पर्याप्तं युवयोर्धनम् ।। २०६
इत्युक्त्वा स ददौ राजा यथेष्टं जीवनं तयोः ।
तौ च भार्यान्वितौ तस्य निकटे तस्थतुः सुखम् ।। २०७
इत्थं क्रियासु निवसन्त्यपि यासु तासु पुंसां श्रियः प्रबलसत्त्वबहिष्कृतासु ।
एवं च साहसधनेष्वथ बुद्धिमत्सु संतुष्य दाननिरताः क्षितिपा भवन्ति ।। २०८
इत्यैहिकेन च पुराविहितेन चापि स्वेनैव कर्मविभवेन शुभाशुभेन ।
शश्वद्भवेत्तदनुरूपविचित्रभोगः सर्वो हि नाम ससुरासुर एष सर्गः ।। २०९
तत्स्वप्नवृत्तनिभतो नभसश्च्युता या ज्वाला त्वयान्तरुदरं विशतीह दृष्टा ।
सा कापि देवि सुरजातिरसंशयं ते गर्भं कुतोऽपि खलु कर्मवशात्प्रपन्ना ।। २१०
इति निजभर्तुर्वदनाच्छ्रुत्वा नृपतेः कलिङ्गदत्तस्य ।
देवी तारादत्ता प्राप सगर्भा परं प्रमदम् ।। २११
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमञ्चुकालम्बके प्रथमस्तरङ्गः ।