कथासरित्सागरः/लम्बकः ६/तरङ्गः ५
ततोऽन्येद्युरुपेतां तां प्रातः सोमप्रभां सखीम् ।
कलिङ्गसेना विश्रम्भात्कथां कुर्वत्युवाच सा ।। १
मां प्रसेनजिते राज्ञे तातो दास्यति निश्चितम् ।
एतच्छ्रुतं मयाम्बातो दृष्टो वृद्धः स च त्वया ।। २
वत्सेशस्तु यथा रूपे त्वयैव कथितस्तथा ।
श्रुतिमार्गप्रविष्टेन हृतं तेन यथा मनः ।। ३
तत्प्रसेनजितं पूर्वं प्रदर्श्य नय तत्र माम् ।
आस्ते वत्सेश्वरो यत्र किं तातेन किमम्बया ।। ४
एवमुक्तवतीं तां च सोत्कां सोमप्रभाब्रवीत् ।
गन्तव्यं यदि तद्यामो यन्त्रेण व्योमगामिना ।। ५
किं तु सर्वं गृहाण त्वं निजं परिकरं यतः ।
दृष्ट्वा वत्सेश्वरं भूयो नागन्तुमिह शक्ष्यसि ।। ६
न च त्वं द्रक्ष्यसि पुनः पितरौ न स्मरिष्यसि ।
दूरस्थां प्राप्तदयिता विस्मरिष्यसि मामपि ।। ७
नह्येवमहमेष्यामि भर्तृवेश्मनि ते सखि ।
तच्छ्रुत्वा राजकन्या सा रुदती तामभाषत ।। ८
तर्हि वत्सेश्वरं तं त्वमिहैवानय मे सखि ।
नोत्सहे तत्र हि स्थातुं क्षणमेकं त्वया विना ।। ९
नानिन्ये चानिरुद्धः किमुपायाच्चित्रलेखया ।
जानत्यपि तथा चैतां मत्तस्त्वं तत्कथां शृणु ।। १०
बाणासुरस्य तनया बभूवोषेति विश्रुता ।
तस्याश्चाराधिता गौरी पतिप्राप्त्यै वरं ददौ ।। ११
स्वप्ने प्राप्स्यसि यत्सङ्गं स ते भर्ता भवेदिति ।
ततो देवकुमाराभं कंचित्स्वप्ने ददर्श सा ।। १२
गान्धर्वविधिना तेन परिणीता तथैव च ।
प्राप्ततत्सत्यसंभोगा प्राबुध्यत निशाक्षये ।। १३
अदृष्ट्वा तं पतिं दृष्टं दृष्ट्वा संभोगलक्षणम् ।
स्मृत्वा गौरीवरं साभूत्सातङ्कभयविस्मया ।। १४
ताम्यन्ती च ततः सा तं स्वप्ने दृष्टं प्रियं विना ।
पृच्छन्त्यै चित्रलेखायै सख्यै सर्वं शशंस तत् ।। १५
सापि नामाद्यभिज्ञानं न किंचित्तस्य जानती ।
योगेश्वरी चित्रलेखा तामुषामेवमब्रवीत् ।। १६
सखि देवीवरस्यायं प्रभावोऽत्र किमुच्यते ।
किं त्वभिज्ञानशून्यस्ते सोऽन्वेष्टव्यः प्रियः कथम् ।। १७
परिजानासि चेत्तं ते ससुरासुरमानुषम् ।
जगल्लिखामि तन्मध्ये तं मे दर्शय येन सः ।। १८
आनीयते मयेत्युक्ता सा तथेत्युदिते तया ।
चित्रलेखा क्रमाद्विश्वमलिखद्वर्णवर्तिभिः ।। १९
तत्रोषा सोऽयमित्यस्या हृष्टाङ्गुल्या सकम्पया ।
द्वारावत्यां यदुकुलादनिरुद्धमदर्शयत् ।। २०
चित्रलेखा ततोऽवादीत्सखि धन्यासि यत्त्वया ।
भर्तानिरुद्धः प्राप्तोऽयं पौत्रो भगवतो हरेः ।। २१
योजनानां सहस्रेषु षष्टौ वसति स त्वितः ।
तच्छ्रुत्वा साधिकौत्सुक्यवशात्तामब्रवीदुषा ।। २२
नाद्य चेत्सखि तस्याहं श्रये श्रीखण्डशीतलम् ।
तदत्युद्दामकामाग्निनिर्दग्धां विद्धि मां मृताम् ।। २३
श्रुत्वैतच्चित्रलेखा सा तामाश्वास्य प्रियां सखीम् ।
तदैवोत्पत्य नभसा ययौ द्वारवतीं पुरीम् ।। २४
ददर्श च पृथूत्तुंगैर्मन्दिरैरब्धिमध्यगाम् ।
कुर्वती तं पुनः क्षिप्तमन्थाद्रिशिखरभ्रमम् ।। २५
तस्यां सुप्तं निशि प्राप्य सानिरुद्धं विबोध्य च ।
उषानुरागं तं तस्मै शशंस स्वप्नदर्शनात् ।। २६
आदाय चात्ततद्रूपस्वप्नवृत्तान्तमेव तम् ।
सोत्कं सिद्धिप्रभावेण क्षणेनैवाययौ ततः ।। २७
एत्य चावेक्षमाणायास्तस्याः सख्याः स्ववर्त्मना ।
प्रावेशयदुषायास्तं गुप्तमन्तःपुरं प्रियम् ।। २८
सा दृष्ट्वैवानिरुद्धं तमुषा साक्षादुपागतम् ।
अमृतांशुमिवाम्भोधिवेला नाङ्गेष्ववर्तत ।। २९
ततस्तेन समं तस्थौ सखीदत्तेन तत्र सा ।
जीवितेनेव मूर्तेन वल्लभेन यथासुखम् ।। ३०
तज्ज्ञानात्पितरं चास्याः क्रुद्धं बाणं जिगाय सः ।
अनिरुद्धः स्ववीर्येण पितामहबलेन च ।। ३१
ततो द्वारवतीं गत्वा तावभिन्नतनू उभौ ।
उषानिरुद्धौ जज्ञाते गिरिजाशंकराविव ।। ३२
इत्युषायाः प्रियोऽह्नैव मेलितश्चित्रलेखया ।
त्वं सप्रभावाप्यधिका ततोऽपि सखि मे मता ।। ३३
तन्ममानय वत्सेशमिह मा स्म चिरं कृथाः ।
एवं कलिङ्गसेनातः श्रुत्वा सोमप्रभाब्रवीत् ।। ३४
चित्रलेखा सुरस्त्री सा समुत्क्षिप्यानयत्परम् ।
मादृशी किं विदध्यात्तु परस्पर्शाद्यकुर्वती ।। ३५
तत्त्वां नयामि तत्रैव यत्र वत्सेश्वरः सखि ।
प्राक्प्रसेनजितं तं ते दर्शयित्वा त्वदर्थिनम् ।। ३६
इति सोमप्रभोक्ता सा तथेत्युक्त्वा तया सह ।
कलिङ्गसेना तत्क्लृप्तं मायायन्त्रविमानकम् ।। ३७
तदैवारुह्य नभसा सकोपा सपरिच्छदा ।
कृतप्रास्थानिका प्रायात्पित्रोरविदिता ततः ।। ३८
नहि पश्यति तुङ्गः वा श्वभ्रं वा स्त्रीजनोऽग्रतः ।
स्मरेण नीतः परमां धारां वाजीव सादिना ।। ३९
श्रावस्तीं प्राप्य पूर्वं च त प्रसेनजितं नृपम् ।
मृगयानिर्गतं दूराज्जरापाण्डुं ददर्श सा ।। ४०
वृद्धाद्व्रजास्मादिति तां दूरादिव निषेधता ।
उद्धूयमानेन मुहुश्चामरेणोपलक्षितम् ।। ४१
सोऽयं प्रसेनजिद्राजा पित्रास्मै त्वं प्रदित्सिता ।
पश्येति सोमप्रभया दर्शितं सोपहासया ।। ४२
जरयायं वृतो राजा का वृणीतेऽपरा त्वमुम् ।
तदितः सखि शीघ्रं मां नय वत्सेश्वरं प्रति ।। ४३
इति सोमप्रभां चोक्त्वा तत्क्षणं सा तया सह ।
कलिङ्गसेना व्योम्नैव कौशाम्बीं नगरीं ययौ ।। ४४
तत्रोद्यानगतं सा तं वत्सेशं सख्युदीरितम् ।
ददर्श दूरात्सोत्कण्ठा चकोरीवामृतत्विषम् ।। ४५
सा तदुत्फुल्लया दृष्ट्या हृन्न्यस्तेन च पाणिना ।
प्रविष्टोऽयं पथानेन मामत्रेत्यब्रवीदिव ।। ४६
सखि संगमयाद्यैव वत्सराजेन मामिह ।
एनं विलोक्य हि स्थातुं न शक्ता क्षणमप्यहम् ।। ४७
इति चोक्तवतीं तां सा सखी सोमप्रभाब्रवीत् ।
अद्याशुभं मया किंचिन्निमित्तमुपलक्षितम् ।। ४८
तदिदं दिवसं तूष्णीमुद्यानेऽस्मिन्नलक्षिता ।
अधितिष्ठस्व मा कार्षीः सखि दूरं गतागतम् ।। ४९
प्रातरागत्य युक्तिं वां घटयिष्यामि संगमे ।
अधुना गन्तुमिच्छामि भर्तुश्चित्तगृहे गृहम् ।। ५०
इत्युक्त्वा तामवस्थाप्य ययौ सोमप्रभा ततः ।
वत्सराजोऽपि चोद्यानात्स्वमन्दिरमथाविशत् ।। ५१
ततः कलिङ्गसेना सा तत्रस्था स्वमहत्तरम् ।
यथातत्त्वं स्वसंदेशं दत्त्वा वत्सेश्वरं प्रति ।। ५२
प्राहिणोत्प्राङ्निषिद्धापि स्वसख्या शकुनज्ञया ।
स्वतन्त्रोऽभिनवारूढो युवतीनां मनोभवः ।। ५३
स च गत्वा प्रतीहारमुखेनावेद्य तत्क्षणम् ।
महत्तरः प्रविश्यैवं वत्सराजं व्यजिज्ञपत् ।। ५४
राजन्कलिङ्गदत्तस्य राज्ञस्तक्षशिलापतेः ।
सुता कलिङ्गसेनाख्या श्रुत्वा त्वां रूपवत्तरम् ।। ५५
स्वयंवरार्थमिह ते संप्राप्ता त्यक्तबान्धवा ।
मायायन्त्रविमानेन सानुगा व्योमगामिना ।। ५६
आनीता गुह्यचारिण्या सख्या सोमप्रभाख्यया ।
मयासुरस्यात्मजया नलकूबरभार्यया ।। ५७
तया विज्ञापनायाहं प्रेषितः स्वीकुरुष्व ताम् ।
युवयोरस्तु योगोऽयं कौमुदीचन्द्रयोरिव ।। ५८
एवं महत्तराच्छ्रुत्वा तं तथेत्यभिनन्द्य च ।
प्रहृष्टो हेमवस्त्राद्यैर्वत्सराजोऽभ्यपूजयत् ।। ५९
आहूय चाब्रवीन्मन्त्रिमुख्यं यौगन्धरायणम् ।
राज्ञः कलिङ्गदत्तस्य ख्यातरूपा क्षितौ सुता ।। ६०
स्वयं कलिङ्गसेनाख्या वरणाय ममागता ।
तद्ब्रूहि शीघ्रमत्याज्यां कदा परिणयामि ताम् ।। ६१
इत्युक्तो वत्सराजेन मन्त्री यौगन्धरायणः ।
अस्यायतिहितापेक्षी क्षणमेवमचिन्तयत् ।। ६२
कलिङ्गसेना सा तावत्ख्यातरूपा जगत्त्रये ।
नास्त्यन्या तादृशी तस्यै स्पृहयन्ति सुरा अपि ।। ६३
तां लब्ध्वा वत्सराजोऽयं सर्वमन्यत्परित्यजेत् ।
देवी वासवदत्ता च ततः प्राणैर्वियुज्यते ।। ६४
नरवाहनदत्तोऽपि नश्येद्राजसुतस्ततः ।
पद्मावत्यपि तत्स्नेहाद्देवी जीवति दुष्करम् ।। ६५
ततश्चण्डमहासेनप्रद्योतौ पितरौ द्वयोः ।
देव्योर्विमुञ्चतः प्राणान्विकृतिं वापि गच्छतः ।। ६६
एवं च सर्वनाशः स्यान्न च युक्तं निषेधनम् ।
राज्ञोऽस्य व्यसनं यस्माद्वारितस्याधिकीभवेत् ।। ६७
तस्मादनुप्रवेशस्य सिद्ध्यै कालं हराम्यहम् ।
इत्यालोच्य स वत्सेशं प्राह यौगन्धरायणः ।। ६८
देव धन्योऽसि यस्यैषा स्वयं ते गृहमागता ।
कलिङ्गसेना भृत्यत्वं प्राप्तश्चैतत्पिता नृपः ।। ६९
तत्त्वया गणकान्पृष्ट्वा सुलग्नेऽस्या यथाविधि ।
कार्यः पाणिग्रहो राज्ञो बृहतो दुहिता ह्यसौ ।। ७०
अद्यास्या दीयतां तावद्योग्यं वासगृहं पृथक् ।
दासीदासा विसृज्यन्तां वस्त्राण्याभरणानि च ।। ७१
इत्युक्तो मन्त्रिमुख्येन वत्सराजस्तथेति तत् ।
प्रहृष्टहृदयः सर्वं सविशेषं चकार सः ।। ५
कलिङ्गसेना च ततः प्रविष्टा वासवेश्म तत् ।
स्वमनोरथमासन्नं मत्वा प्राप परां मुदम् ।। ७३
यौगन्धरायणः सोऽपि क्षणाद्राजकुलात्ततः ।
निर्गत्य स्वगृहं गत्वा धीमानेवमचिन्तयत् ।। ७४
प्रायोऽशुभस्य कार्यस्य कालहारः प्रतिक्रिया ।
तथा च वृत्रशत्रौ प्राग्ब्रह्महत्यापलायिते ।। ७५
देवराज्यमवाप्तेन नहुषेणाभिवाञ्छिता ।
रक्षिता देवगुरुणा शची शरणमाश्रिता ।। ७६
अद्य प्रातरुपैति त्वामित्युक्त्वा कालहारतः ।
यावत्स नष्टो नहुषो हुंकाराद्ब्रह्मशापतः ।। ७७
प्राप्तश्च पूर्ववच्छक्रः स पुनर्देवराजताम् ।
एवं कलिङ्गसेनार्थे कालः क्षेप्यो मया प्रभोः ।। ७८
इति संचिन्त्य सर्वेषां गणकानां स संविदम् ।
दूरलग्नप्रदानाय मन्त्री गुप्तं व्यधात्तदा ।। ७९
अथ विज्ञाय वृत्तान्तं देव्या वासवदत्तया ।
आहूय स महामन्त्री स्वमन्दिरमनीयत ।। ८०
तत्र प्रविष्टं प्रणतं रुदती सा जगाद तम् ।
आर्य पूर्वं त्वयोक्तं मे यथा देवि मयि स्थिते ।। ८१
पद्मावत्या ऋते नान्या सपत्नी ते भविष्यति ।
कलिङ्गसेनाप्यद्यैषा पश्येह परिणेष्यते ।। ८२
सा च रूपवती तस्यामार्यपुत्रश्च रज्यति ।
अतो वितथवादी त्वं जातोऽहं च मृताधुना ।। ८३
तच्छ्रुत्वा तामवोचत्स मन्त्री यौगन्धरायणः ।
धीरा भव कथं ह्येतद्देवि स्यान्मम जीवतः ।। ८४
त्वया तु नात्र कर्तव्या राज्ञोऽस्य प्रतिकूलता ।
प्रत्युतालम्ब्य धीरत्वं दर्शनीयानुकूलता ।। ८५
नातुरः प्रतिकूलोक्तैर्वशे वैद्यस्य वर्तते ।
वर्तते त्वनुकूलोक्तैः साम्नैवाचरतः क्रियाम् ।। ८६
प्रतीपं कृष्यमाणो हि नोत्तरेदुत्तरेन्नरः ।
वाह्यमानोऽनुकूलं तु नोद्योगाद्व्यसनात्तथा ।। ८७
अतः समीपमायान्तं राजानं त्वमविक्रिया ।
उपचारैरुपचरेः संवृत्याकारमात्मनः ।। ८८
कलिङ्गसेनास्वीकारं श्रद्दध्यास्तस्य सांप्रतम् ।
वृद्धिं ब्रुवाणा राज्यस्य सहाये तत्पितर्यपि ।। ८९
एवं कृते च माहात्म्यगुणं दृष्ट्वा परं तव ।
प्रवृद्धस्नेहदाक्षिण्यो राजासौ भवति त्वयि ।। ९०
मत्वा कलिङ्गसेनां च स्वाधीनां नोत्सुको भवेत् ।
वार्यमाणस्य वाञ्छा हि विषयेष्वभिवर्धते ।। ९१
देवी पद्मावती चैतच्छिक्षणीया त्वयानघे ।
एवं स राजा कार्येऽस्मिन्कालक्षेपं सहेत नः ।। ९२
अतः परं च जानेऽहं पश्येर्युक्तिवलं मम ।
संकटे हि परीक्ष्यन्ते प्राज्ञाः शूराश्च संगरे ।। ९३
तद्देवि मा विषण्णा भूरिति देवीं प्रबोध्य ताम् ।
तयादृतोक्तिः स ययौ ततो यौगन्धरायणः ।। ९४
वत्सेश्वरश्च तदहर्न दिवा न रात्रौ देव्योर्द्वयोरपि स वासगृहं जगाम ।
तादृक्स्वयंवररसोपनमत्कलिङ्गसेनासमाननवसंगमसोत्कचेताः ।। ९५
रात्रिं च दुर्लभरसोत्सुकतातिगाढचिन्तामहोत्सवमयीमिव तां ततस्ते ।
निन्युः स्वसद्मसु पृथक्पृथगेव देवीवत्सेशतत्सचिवमुख्यकलिङ्गसेना ।। ९६
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्रागरे मदनमञ्चुकालम्बके पञ्चमस्तरङ्गः ।