प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ततः कलिङ्गसेनायाः स्मरन्ननुपमं वपुः ।
एकदा मन्मथाविष्टो निशि वत्सेश्वरोऽभवत् ।।
उत्थाय खड्गहस्तः सन्गत्वैव प्रविवेश सः ।
एकाकी मन्दिरं तस्याः कृतातिथ्यादरस्तया ।। २
तत्र प्रार्थयमानस्तां भार्यार्थे स महीपतिः ।
परपत्न्यहमस्मीति प्रत्याख्यातस्तयाब्रवीत् ।। ३
तृतीयं पुरुषं प्राप्ता यतस्त्वमसि बन्धकी ।
परदारगतो दोषो न मे त्वद्गमने ततः ।। ४
एवं कलिङ्गसेना सा राज्ञोक्ता प्रत्युवाच तम् ।
त्वदर्थमागता राजन्नहं विद्याधरेण हि ।। ५५
व्यूढा मदनवेगेन स्वैरं त्वद्रूपधारिणा ।
स एवैकश्च भर्ता मे तत्कस्मादस्मि बन्धकी ।। ६
किं वातिक्रान्तबन्धूनां स्वेच्छाचारहतात्मनाम् ।
इमास्ता विपदः स्त्रीणां कुमारीणां कथैव का ।। ७
दृष्टाशकुनया सख्या निषिद्धापि व्यसर्जयम् ।
त्वत्पार्श्वं यदहं दूतं तस्य चेदं फलं मम ।। ८
तत्स्पृश्यसि बलान्मां चेत्प्राणांस्त्यक्ष्याम्यहं ततः ।
का नाम कुलजा हि स्त्री भर्तृद्रोहं करिष्यति ।। ९
तथा च कथयाम्यत्र तव राजन्कथां शृणु ।
पुराभूदिन्द्रदत्ताख्यश्चेदिदेशमहीपतिः ।। १०
स पापशोधने तीर्थे कीर्त्यै देवकुलं महत् ।
चक्रे यशःशरीरार्थी शरीरं वीक्ष्य भङ्गुरम् ।। ११
तच्च भक्तिरसाच्छश्वदीक्षितुं स ययौ नृपः ।
सर्वश्च तीर्थस्नानाय सदा तत्राययौ जनः ।। १२
एकदा च ददर्शैकां तीर्थस्नानार्थमागताम् ।
स राजात्र वणिग्भार्यां प्रवासस्थितभर्तृकाम् ।। १३
स्वच्छकान्तिसुधासिक्तां चित्ररूपविभूषणाम् ।
जङ्गमामिव कंदर्पराजधानीं मनोरमाम् ।। १४
त्वयाहं विजये विश्वमिति प्रीत्येव पादयोः ।
आश्लिष्टां पञ्चबाणस्य तूणीरद्वयशोभया ।। १५
सा दृष्टैव मनस्तस्य जहार नृपतेस्तथा ।
यथान्विष्य गृहं तस्याः स ययौ विवशो निशि ।। १६
तां च प्रार्थयमानः सञ्जगदे स तया नृपः ।
रक्षिता त्वं न युक्तं ते परदाराभिमर्शनम् ।। १७
हठात्स्पृशसि वा मां चेदधर्मस्ते महान्भवेत् ।
मरिष्यामि च सद्योऽहं न सहिष्ये च दूषणम् ।। १८
इत्युक्तेऽपि तया तस्मिन्बलं राज्ञि चिकीर्षति ।
शीलभ्रंशभयात्तस्याः सद्यो हृदयमस्फुटत् ।। १९
तद्दृष्ट्वा सपदि ह्रीतः स गत्वैव यथागतम् ।
दिनैस्तेनानुतापेन राजा पञ्चत्वमाययौ ।। २०
इत्याख्याय कथामेतां सभयप्रश्रयानता ।
भूयः कलिङ्गसेना सा वत्सेश्वरमभाषत ।। २१
तस्मादधर्मे मत्प्राणहरणे मा मतिं कृथाः ।
इहाश्रिताया वस्तुं मे देहि याम्यन्यतोऽन्यथा ।। २२
एतत्कलिङ्गसेनातः श्रुत्वा वत्सेश्वरोऽथ सः ।
विचार्य विरतो भूत्वा धर्मज्ञस्तामभाषत ।। २३
राजपुत्रि वस स्वेच्छं भर्त्रा सममिहाधुना ।
नाहं वक्ष्यामि ते किंचिदिदानीं मा भयं कृथाः ।। २४
इत्युक्त्वैव गते तस्मिन्स्वैरं राज्ञि स्वमन्दिरम् ।
श्रुत्वा मदनवेगस्तन्नभसोऽवततार सः ।। २५
प्रिये साधु कृतं नैवमकरिष्यः शुभे यदि ।
नाभविष्यच्छुभं यस्मान्नासहिष्यत तन्मया ।। २६
इत्युक्त्वा सान्त्वयित्वा तां निशां नीत्वा तया सह।
तत्रैव गच्छन्नागच्छन्नासीद्विद्याधरोऽथ सः ।। २७
कलिङ्गसेनापि च सा पत्यौ विद्याधरेश्वरे ।
तत्रास्त मर्त्यभावेऽपि दिव्यभोगसुखान्विता ।। २८
वत्सराजोऽपि तच्चिन्तां मुक्त्वा मन्त्रिवचः स्मरन् ।
ननन्द लब्धं मन्वानो देवीं राज्यं सुतं तथा ।। २९
देवी वासवदत्ता च मन्त्री यौगन्धरायणः ।
अभूतां निर्वृतौ सिद्धे नीतिकल्पलताफले ।। ३०
अथ गच्छत्सु दिवसेष्वापाण्डुमुखपङ्कजा ।
दध्रे कलिङ्गसेना सा गर्भमुत्पन्नदोहदा ।। ३१
तुङ्गौ विरेजतुस्तस्याः स्तनावाश्यामचूचुकौ ।
निधानकुम्भौ कामस्य मदमुद्राङ्किताविव ।। ३२
ततो मदनवेगस्तामुपेत्य पतिरभ्यधात् ।
कलिङ्गसेने दिव्यानामस्माकं समयोऽस्त्ययम् ।। ३३
जातं मानुषगर्भं यन्मुक्त्वा यामो विदूरतः ।
कण्वाश्रमे न तत्याज मेनका किं शकुन्तलाम् ।। ३४
त्वं यद्यप्यप्सराः पूर्वं तदप्यविनयान्निजात् ।
शक्रशापेन संप्राप्ता मानुष्यं देवि सांप्रतम् ।। ३५
तेनैव बन्धकीशब्दो जातः साध्व्या अपीह ते ।
तस्मादपत्यं रक्षेस्त्वं स्थानं यास्याम्यहं निजम् ।। ३६
स्मरिष्यसि यदा मां च संनिधास्ये तदा तव ।
एवं कलिङ्गसेनां तामुक्त्वा साश्रुविलोचनाम् ।। ३७
समाश्वास्याथ दत्त्वा च तस्यै तद्रत्नसंचयम् ।
तच्चित्तः समयाकृष्टो ययौ विद्याधरेश्वरः ।। ३८
कलिङ्गसेनाप्यत्रासीदपत्याशां सखीमिव ।
आलम्ब्य वत्सराजस्य भुजच्छायामपाश्रिता ।। ३९
अत्रान्तरे कृतवतीं साङ्गभर्त्राप्तये तपः ।
आदिदेश रतिं भार्यामनङ्गस्याम्बिकापतिः ।। ४०
वत्सराजगृहे जातो दग्धपूर्वः स ते पतिः ।
नरवाहनदत्ताख्योऽयोनिजो मद्विलङ्घनात् ।। ४१
मदाराधनतस्त्वं तु मर्त्यलोकेऽप्ययोनिजा ।
जनिष्यसे ततस्तेन भर्त्रा साङ्गेन योक्ष्यसे ।। ४२
एवमुक्त्वा रतिं शंभुः प्रजापतिमथादिशत् ।
कलिङ्गसेना तनयं सोष्यते दिव्यसंभवम् ।। ४३
तं हृत्वा मायया तस्यास्तत्स्थाने त्वमिमां रतिम् ।
निर्माय मानुषीं कन्यां त्यक्तदिव्यतनुं क्षिपेः ।। ४४
इतीश्वराज्ञामादाय मूर्ध्नि वेधस्यथो गते ।
कलिङ्गसेना प्रसवं प्राप्ते काले चकार सा ।। ४५
जातमात्रं सुतं तस्या हृत्वैवात्र स्वमायया ।
रतिं तां कन्यकां कृत्वा न्यधाद्विधिरलक्षितम् ।। ४६
सर्वश्च तत्र तामेव कन्यां जातामलक्षत ।
दिवाप्यकाण्डप्रतिपच्चन्द्रलेखामिवोदिताम् ।। ४७
कान्तिद्योतिततद्वासगृहां निर्जित्य कुर्वतीम् ।
रत्नदीपशिखाश्रेणीर्लज्जिता इव निष्प्रभाः ।। ४८
कलिङ्गसेना तां दृष्ट्वा जातामसदृशीं सुताम् ।
पुत्रजन्माधिकं तोषादुत्सवं विततान सा ।। ४९
अथ वत्सेश्वरो राजा सदेवीकः समन्त्रिकः ।
कन्यां कलिङ्गसेनाया जातां शुश्राव तादृशीम् ।। ५०
श्रुत्वा च स नृपोऽकस्मादुवाचेश्वरचोदितः ।
देवीं वासवदत्तां तां स्थिते यौगन्धरायणे ।। ५१
जाने कलिङ्गसेनैषा दिव्या स्त्री शापतश्च्युता ।
अस्यां जाता च कन्येव दिव्यैवाश्चर्यरूपधृक् ।। ५२
तदसौ कन्यका तुल्या रूपेण तनयस्य मे ।
नरवाहनदत्तस्य महादेवीत्वमर्हति ।। ५३
तच्छ्रुत्वा जगदे राजा देव्या वासवदत्तया ।
महाराज किमेवं त्वमकस्मादद्य भाषसे ।। ५४
कुलद्वयविशुद्धोऽयं क्व पुत्रस्ते बत क्व सा ।
कलिङ्गसेनातनया बन्धकीगर्भसंभवा ।। ५५
श्रुत्वैतद्विमृशन्राजा सोऽब्रवीन्नह्यहं स्वतः ।
वदाम्येतत्प्रविश्यान्तः कोऽपि जल्पयतीव माम् ।। ५६
नरवाहनदत्तस्य कन्येयं पूर्वनिर्मिता ।
भार्येत्येवं वदन्तीं च शृणोमीव गिरं दिवः ।। ५७
कलिङ्गसेना किं चासावेकपत्नी कुलोद्गता ।
पूर्वकर्मवशात्त्वस्या बन्धकीशब्दसंभवः ।। ५८
इति राज्ञोदिते प्राह मन्त्री यौगन्धरायणः ।
श्रूयते देव यच्चक्रे रतिर्दग्धे स्मरे तपः ।। ५९
मर्त्यलोकावतीर्णेन सशरीरेण संगमः ।
मर्त्यभावगतायास्ते स्वेन भर्त्रा भविष्यति ।। ६०
इति चादाद्वरं शर्वो रत्यै स्वपतिमीप्सवे ।
कामावतारश्चोक्तः प्राग्दिव्यवाचा सुतस्तव ।। ६१
रत्यावतरणीयं च मर्त्यभावे हराज्ञया ।
गर्भग्राहिकया चाद्य ममैवं वर्णितं रहः ।। ६२
मया कलिङ्गसेनाया गर्भः प्राग्गर्भशय्यया ।
युक्तो दृष्टस्तदैवान्यदपश्यं तद्विवर्जितम् ।। ६३
तदाश्चर्यं विलोक्याहं तवाख्यातुमिहागता ।
इति स्त्रिया तयोक्तं मे जातैषा प्रतिभापि ते ।। ६४
तज्जाने मायया देवैः सैषा रतिरयोनिजा ।
कलिङ्गसेनातनया गर्भचौर्येण निर्मिता ।। ६५
भार्या कामावतारस्य पुत्रस्य तव भूपते ।
तथा चात्र कथामेतां यक्षसंबन्धिनीं शृणु ।। ६६
भृत्यो वैश्रवणस्याभूद्विरूपाक्ष इति श्रुतः ।
यक्षो निधानलक्षाणां प्रधानाध्यक्षतां गतः ।। ६७
मथुरायां बहिःसंस्थं निधानं स च रक्षितुम् ।
यक्षं नियुक्तवानेकं शिलास्तम्भमिवाचलम् ।। ६८
तत्र तं नगरीवासी कश्चित्पाशुपतो द्विजः ।
निधानान्वेषणायागात्खन्यवादी कदाचन ।। ६९
स मानुषवसादीपहस्तो यावत्परीक्षते ।
स्थानं तत्तावदस्यात्र कराद्दीपः पपात सः ।। ७०
लक्षणेन च तेनात्र स्थितं निधिमवेत्य सः ।
उद्घाटयितुमारेभे सहान्यैः सखिभिर्द्विजैः ।। ७१
अथ योऽसौ नियुक्तोऽभूद्यक्षो रक्षाविधौ स तत् ।
दृष्ट्वा गत्वा यथावस्तु विरूपाक्षं व्यजिज्ञपत् ।। ७२
गच्छ व्यापादय क्षिप्रं क्षुद्रास्तान्खन्यवादिनः ।
इत्यादिदेश तं यक्षं विरूपाक्षः स कोपनः ।। ७३
ततः स यक्षो गत्वैव स्वयुक्त्या निजघान तान् ।
निधानवादिनो विप्रानसंप्राप्तमनोरथान् ।। ७४
तद्बुद्ध्वा धनदः क्रुद्धो विरूपाक्षमुवाच तम् ।
ब्रह्महत्या कथं पाप कारिता सहसा त्वया ।। ७५
दुर्गतो वार्तिकजनो लोभात्किं नाम नाचरेत् ।
निवार्यते स वित्रास्य विघ्नैस्तैस्तैर्न हन्यते ।। ७६
इत्युक्त्वाथ शशापैनं विरूपाक्षं धनाधिपः ।
मर्त्ययोनौ प्रजायस्व दुष्कृताचरणादिति ।। ७७
प्राप्तशापोऽथ कस्यापि भूतले ब्राह्मणस्य सः ।
विरूपाक्षः सुतो जातो ब्राह्मणस्याग्रहारिणः ।। ७८
ततोऽस्य यक्षिणी पत्नी धनाध्यक्षं व्यजिज्ञपत् ।
देव यत्र स भर्ता मे क्षिप्तस्तत्रैव मां क्षिप ।। ७९
प्रसीद नहि शक्नोमि वियुक्ता तेन जीवितुम् ।
एवं तया स विज्ञप्तः साध्व्या वैश्रवणोऽभ्यधात् ।। ८०
तस्य विप्रस्य सदने जातो भर्ता स तेऽनघे ।
तस्यैव दास्या गेहे त्वं निपतिष्यस्ययोनिजा ।। ८१
तत्र तेन समं भर्त्रा संगमस्ते भविष्यति ।
त्वत्प्रसादात्स शापं च तीर्त्वा मत्पार्श्वमेष्यति ।। ८२
इति वैश्रवणादेशात्साध्वी सा पतिता ततः ।
दास्यास्तस्या गृहद्वारि कन्या भूत्वैव मानुषी ।। ८३
अकस्माच्च तया दास्या कन्या दृष्टाद्भुताकृतिः ।
गृहीत्वा दर्शिता चास्य स्वामिनोऽत्र द्विजन्मनः ।। ८४
दिव्येयं कन्यका क्वापि निःसंदेहमयोनिजा ।
इत्यात्मा मम वक्तीहानय तां त्वमशङ्कितम् ।। ८५
इयं हि मम पुत्रस्य मन्ये भार्यात्वमर्हति ।
इति सोऽपि द्विजो दासीं तामुवाच ननन्द च ।। ८६
क्रमादत्र विवृद्धा सा कन्या विप्रात्मजश्च सः ।
अन्योन्यदर्शनाबद्धगाढस्नेहौ बभूवतुः ।। ८७
ततः कृतविवाहौ तौ तेन विप्रेण दंपती ।
अजातिस्मरणेऽप्यास्तामुत्तीर्णविरहाविव ।। ८८
अथ कालेन देहान्ते तया सोऽनुगतः पतिः ।
तत्तपःक्षतपापः सन्यक्षः स्वं प्राप्तवान्पदम् ।। ८९
इतीहावतरन्त्येव निरागस्त्वादयोनिजाः ।
भूतले कारणवशाद्दिव्या दैवतनिर्मिताः ।। ९०
कुलं किं नृपते तेऽस्यास्तस्माद्भार्या सुतस्य ते ।
कलिङ्गसेनापुत्रीयं यथोक्तं दैवनिर्मिता ।। ९१
यौगन्धरायणेनैवमुक्ते वत्सेश्वरश्च तत् ।
देवी वासवदत्ता च तथेति हृदि चक्रतुः ।। ९२
ततस्तस्मिन्गृहं याते मन्त्रिमुख्ये स भूपतिः ।
पानादिक्रीडया निन्ये सभार्यस्तद्दिनं सुखी ।। ९३
ततो दिनेषु गच्छसु मोहभ्रष्टस्वकस्मृतिः ।
कलिङ्गसेनातनया सा समं रूपसंपदा ।। ९४
क्रमेण ववृधे नाम्ना कृता मदनमञ्चुका ।
सुता मदनवेगस्येत्यतो मात्रा जनेन च ।। ९५
नूनं सा शिश्रिये रूपं सर्वान्यवरयोषिताम् ।
अन्यथा ताः पुरस्तस्या विरूपा जज्ञिरे कथम् ।। ९६
श्रुत्वा रूपवतीं तां च कौतुकात्स्वयमेकदा ।
देवी वासवदत्ता तामानिनायात्यनोऽन्तिकम् ।। ९७
तत्र धात्र्या मुखासक्तां वत्सराजो ददर्श ताम् ।
यौगन्धरायणाद्याश्च वर्तेर्दीपशिखामिव ।। ९८
दृष्ट्वा चादृष्टपूर्वं तत्तस्या नेत्रामृतं वपुः ।
रतिरेवावतीर्णेयमिति मेने न तत्र कः ।। ९९
ततश्चानाययांचक्रे देव्या वासवदत्तया ।
नरवाहनदत्तोऽत्र जगन्नेत्रोत्सवः सुतः ।। १००
सोऽत्र फुल्लमुखाम्भोजो दीप्रां मदनमञ्चुकाम् ।
तामपश्यन्नवां सौरीमिव पद्माकरः प्रभाम् ।। १०१
सापि तं लोचनानन्दं पश्यन्ती विकचानना ।
न तृप्तिमाययौ बाला चकोरीवामृतत्विषम् ।। १०२
ततःप्रभृति तौ बालावपि स्थातुं न शेकतुः ।
दृष्टिपाशैरिवाबद्धौ पृथग्भूतावपि क्षणम् ।। १०३
दिनैर्निश्चित्य संबन्धं देवनिर्मितमेव तु ।
विवाहविधये बुद्धिं व्यधाद्वत्सेश्वरस्तयोः ।। १०४
कलिङ्गसेना तद्बुद्ध्वा ननन्द च बबन्ध च ।
नरवाहनदत्तेऽस्मिञ्जामातृप्रीतितो धृतिम् ।। १०५
संमन्त्र्य मन्त्रिभिः सार्धं ततश्चाकारयत्पृथक् ।
वत्सराजः स्वपुत्रस्य तस्य स्वमिव मन्दिरम् ।। १०६
ततः संभृत्य संभारान्पुत्रं राजा स कालवित् ।
यौवराज्येऽभ्यषिञ्चत्तं दृष्टश्लाघ्यगुणग्रहम् ।। १०७
पूर्वं तस्यापतन्मूर्ध्नि पित्रोरानन्दबाष्पजम् ।
ततः श्रौतमहामन्त्रपूतं सत्तीर्थजं पयः ।। १०८
अभिषेकाम्बुभिस्तस्य धौते वदनपङ्कजे ।
चित्रं निर्मलतां प्रापुर्मुखानि ककुभामपि ।। १०९
मङ्गल्यमाल्यपुष्पेषु तस्य क्षिप्तेषु मातृभिः ।
मुमोच दिव्यमाल्यौघवर्षं द्यौरपि तत्क्षणम् ।। ११०
देवदुन्दुभिनिर्ह्रादस्पर्धयेव जजृम्भिरे ।
आनन्दतूर्यनिर्घोषप्रतिशब्दा नभस्तले ।। १११
प्रणनामाभिषिक्तं तं युवराजं न तत्र कः ।
स्वप्रभावादृते तेनैवोन्ननाम तदा हि सः ।। ११२
ततो वत्सेश्वरस्तस्य सूनोर्बालसखीन्सतः ।
स्वमन्त्रिपुत्रानाहूय सचिवत्वे समादिशत् ।। ११३
यौगन्धरायणसुतं मन्त्रित्वे मरुभूतिकम् ।
सेनापत्ये हरिशिखं रुमण्वत्तनयं ततः ।। ११४
वसन्तकसुतं क्रीडासखित्वे तु तपन्तकम् ।
गोमुखं च प्रतीहारधुरायामित्यकात्मजम् ।। ११५
पौरोहित्ये च पूर्वोक्तावुभौ पिङ्गलिकासुतौ ।
वैश्वानरं शान्तिसोमं भ्रातुः पुत्रौ पुरोधसः ।। ११६
इत्याज्ञप्तेषु पुत्रस्य साचिव्ये तेषु भूभृता ।
गमनादुदभूद्वाणी पुष्पवृष्टिपुरःसरा ।। ११७
सर्वार्थसाधका एते भविष्यन्त्यस्य मन्त्रिणः ।
शरीरादविभिन्नोऽस्य गोमुखस्तु भविष्यति ।। ११८
इत्युक्तो दिव्यया वाचा हृष्टो वत्सेश्वरश्च सः ।
सर्वान्संमानयामास वस्त्रैराभरणैश्च तान् ।। ११९
अनुजीविषु तस्मिंश्च वसु वर्षति राजनि ।
दरिद्रशब्दस्यैकस्य नासीत्तत्रार्थसंगतिः ।। १२०
पवनोल्लासिताक्षिप्तपताकापटपङ्क्तिभिः ।
आहूतैरिव सापूरि नर्तकीचारणैः पुरी ।। १२१
आगाद्वैद्याधरी साक्षाल्लक्ष्मीस्तस्यैव भाविनी ।
कलिङ्गसेनाजामातुरुत्सवेऽत्र भविष्यतः ।। १२२
ततो वासवदत्ता च सा च पद्मावती तथा ।
हर्षेण ननृतुस्तिस्रो मिलिता इव शक्तयः ।। १२३
मारुतान्दोलितलताः प्रनृत्यन्निव सर्वतः ।
उद्यानतरवोऽप्यत्र चेतनेषु कथैव का ।। १२४
ततः कृताभिषेकः सन्नारुह्य जयकुञ्जरम् ।
नरवाहनदत्तः स युवराजो विनिर्ययौ ।। १२५
अवाकीर्यत चोत्क्षिप्तैर्नेत्रैर्नीलसितारुणैः ।
पौरस्त्रीभिः स नीलाब्जलाजपद्माञ्जलिप्रभैः ।। १२६
दृष्ट्वा च तत्पुरीपूज्यदेवता बन्दिमागधैः ।
स्तूयमानः ससचिवः स विवेश स्वमन्दिरम् ।। १२७
तत्र दिव्यानि भोज्यानि तथा पानान्युपाहरत् ।
कलिङ्गसेना तस्यादौ स्वविभूत्यधिकानि सा ।। १२८
ददौ तस्मै सुवस्त्राणि दिव्यान्याभरणानि च ।
समन्त्रिसखिभृत्याय जामातृस्नेहकातरा ।। १२९
एवं महोत्सवेनासावमृतास्वादसुन्दरः ।
एषां वत्सेश्वरादीनां सर्वेषां वासरो ययौ ।। १३०
ततो निशायां प्राप्तायां सुतोद्वाहविमर्शिनी ।
कलिङ्गसेना सस्मार तां सा सोमप्रभां सखीम् ।। १३१
एतया स्मृतमात्रां तां मयासुरसुतां तदा ।
भव्यां भर्ता महाज्ञानी जगाद नलकूबरः ।। १३२
कलिङ्गसेना त्वामद्य सोत्सुका स्मरति प्रिये ।
तद्गच्छ दिव्यमुद्यानं कुरु चैतत्सुताकृते ।। १३३
इत्युक्त्वा भावि भूतं च कथयित्वा च तद्गतम् ।
तदैव प्रेषयामास पत्नीं सोमप्रभां पतिः ।। १३४
सा चागत्य चिरोत्कण्ठाकृतकण्ठग्रहां सखीम् ।
कलिङ्गसेनां कुशलं पृष्ट्वा सोमप्रभाब्रवीत् ।। १३५
विद्याधरेण तावत्त्वं परिणीता महर्द्धिना ।
अवतीर्णा रतिस्ते च सुता शार्वादनुग्रहात् ।। १३६
कामावतारस्यैषा च वत्सेशाल्लब्धजन्मनः ।
नरवाहनदत्तस्य पूर्वभार्या विनिर्मिता ।। १३७
विद्याधराधिराज्यं स दिव्यं कल्पं करिष्यति ।
तस्यैषान्यावरोधानां मूर्ध्नि मान्या भविष्यति ।। १३८
त्वं चावतीर्णा भूलोके शक्रशापच्युताप्सराः ।
निष्पन्नकार्यशेषा च शापमुक्तिमवाप्स्यसि ।। १३९
एतन्मे सर्वमाख्यातं भर्त्रा ज्ञानवता सखि ।
तस्माच्चिन्ता न ते कार्या भावि सर्वं शुभं तव ।। १४०
अहं चेह करोम्येषा दिव्यं त्वत्तनयाकृते ।
उद्यानं नास्ति पाताले न भूमौ यन्न वा दिवि ।। १४१
इत्युक्त्वा दिव्यमुद्यानं सा निर्माय स्वमायया ।
कलिङ्गसेनामामन्त्र्य सोत्कां सोमप्रभा ययौ ।। १४२
ततो निशि प्रभातायामकस्मान्नन्दनं दिवः ।
भूमाविव च्युतं लोको ददर्शोद्यानमत्र तत् ।। १४३
बुद्ध्वाथ राजा वत्सेशः सभार्यः सचिवैः सह ।
नरवाहनदत्तश्च सानुगोऽत्र समाययौ ।। १४४.
ददृशुस्ते तमुद्यानं सदा पुष्पफलद्रुमम् ।
नानामणिमयस्तम्भभित्तिभूभागवापिकम् ।। १४५
सुवर्णवर्णविहगं दिव्यसौरभमारुतम् ।
देवादेशावतीर्णं तत्स्वर्गान्तरमिव क्षितौ ।। १४६
दृष्ट्वा तदद्भुतं राजा किमेतदिति पृष्टवान् ।
कलिङ्गसेनामातिथ्यव्यग्रां वत्सेश्वरस्तदा ।। १४७
सा प्रत्युवाच सर्वेषु शृण्वत्सु नृपतिं च तम् ।
विश्वकर्मावतारोऽस्ति मयो नाम महासुरः ।। १४८
युधिष्ठिरस्य यश्चक्रे पुरं रम्यं च वज्रिणः ।
तस्य सोमप्रभा नाम तनयास्ति सखी मम ।। १४९
तया रात्राविहागत्य मत्समीपं स्वमायया ।
प्रीत्या कृतमिदं दिव्यमुद्यानं मत्सुताकृते ।। १५०
इत्युक्त्वा यच्च सख्यास्या भूतं भाव्युदितं तया ।
तत्तयैवोक्तमित्युक्त्वा तदा सर्वं शशंस सा ।। १५१
ततः कलिङ्गसेनोक्तिं ससंवादामवेक्ष्य ताम् ।
निरस्तसंशयाः सर्वे तोषं तत्रातुलं ययुः ।। १५२
कलिङ्गसेनातिथ्येन निनाय दिवसं च तम् ।
उद्यानेऽत्रैव वत्सेशो भार्यापुत्रादिभिः सह ।। १५३
अन्येद्युर्निर्गतो द्रष्टुं देवं देवकुले च सः ।
ददर्श नृपतिर्बह्वीः सुवस्त्राभरणाः स्त्रियः ।।. १५४
का यूयमिति पृष्टाश्च तेन तास्तं बभाषिरे ।
वयं विद्याः कलाश्चैतास्त्वत्पुत्रार्थमिहागताः ।। १५५
गत्वा विशाम खस्तान्तरित्युक्त्वा तास्तिरोऽभवन् ।
सविस्मयः स राजापि वत्सेशोऽभ्यन्तरं ययौ ।। १५६
तत्र वासवदत्तायै देव्यै मन्त्रिगणाय च ।
तच्छशंसाभ्यनन्दंस्ते देवतानुग्रहं च तम् ।। १५७
ततो राजनिदेशेन वीणा वासवदत्तया ।
नरवाहनदत्तेऽत्र प्रविष्टे जगृहे क्षणात् ।। १५८
वादयन्तीं ततस्तां च मातरं विनयेन सः ।
राजपुत्रोऽब्रवीद्वीणा च्युता स्थानादसाविति ।। १५९
त्वं वादय गृहाणैतामिति पित्रोदितेऽथ सः ।
वीणामवादयत्कुर्वन्गन्धर्वानपि विस्मितान् ।। १६०
एवं सर्वासु विद्यासु कलासु च परीक्षितः ।
पित्रा यावद्वृतस्ताभिः स्वयं सर्वं विवेद सः ।। १६१
वीक्ष्य तं सगुणं पुत्रं वत्सेशस्तामशिक्षयत् ।
कलिङ्गसेनातनयां नृत्तं मदनमञ्चुकाम् ।। १६२
यथा यथा पूर्णकला साभूत्तनुरिवैन्दवी ।
नरवाहनदत्ताब्धिश्चुक्षुभे स तथा तथा ।। १६३
अरंस्त तां च गायन्तीं नृत्यन्तीं च विलोकयन् ।
पठन्तीमिव कामाज्ञामङ्गाद्यभिनयैर्वृताम् ।। १६४
सापि क्षणमपश्यन्ती तमुदश्रुः सुधामयम् ।
कान्तमासीदुषःकाले जलार्द्रेव कुमुद्वती ।। १६५
सततं चासहः स्थातुं तन्मुखालोकनं विना ।
नरवाहनदत्तोऽसौ तत्तदुद्यानमाययौ ।। १६६
तत्र पार्श्वं तयानीय सुतां मदनमञ्चुकाम् ।
कलिङ्गसेनया प्रीत्या रज्यमानः स तस्थिवान् ।। १६७
गोमुखश्चास्य चित्तज्ञः स्वामिनोऽत्र चिरस्थितिम् ।
इच्छन्कलिङ्गसेनायै तां तामकथयत्कथाम् ।। १६८
चित्तग्रहेण तेनास्या राजपुत्रस्तुतोष सः ।
हृदयानुप्रवेशो हि प्रभोः संवननं परम् ।। १६९
नृत्तादियोग्यां कुरुते तस्मिन्मदनमञ्चुकाम् ।
तत्र स्वयं च संगीतवेश्मन्युद्यानवर्तिनि ।। १७०
नरवाहनदत्तः स ह्रेपयन्वरचारणान् ।
तस्यां प्रियायां नृत्यन्त्यां सर्वातोद्यान्यवादयत् ।। १७१
जिगाय चागतान्दिग्भ्यो विविधान्पण्डितांस्तथा ।
गजाश्वरथशस्त्रास्त्रचित्रपुस्तादिकोविदः ।। १७२
एवं विहरतो विद्यास्वयंवरवृतस्य ते ।
नरवाहनदत्तस्य शैशवे वासरा ययुः ।। १७३
एकदा चात्र यात्रायामुद्यानं स प्रियासखः ।
ययौ नागवनं नाम राजपुत्रः समन्त्रिकः ।। १७४
तत्राभिलाषिणी काचिद्वणिग्भार्या निराकृता ।
इयेष गोमुखं हन्तुं सविषाहृतपानका ।। १७५
तद्विवेद च तत्सख्या मुखादत्र स गोमुखः ।
नाददे पानकं तच्च स्त्रिय एवं निनिन्द च ।। १७६
अहो धात्रा पुरा सृष्टं साहसं तदनु स्त्रियः ।
नैतासां दुष्करं किचिन्निसर्गादिह विद्यते ।। १७७
नूनं स्त्री नाम सृष्टेयममृतेन विषेण च ।
अनुरक्तामृतं सा हि विरक्ता विषमेव च ।। १७८
ज्ञायते कान्तवदना केन प्रच्छन्नपातका ।
कुस्त्री प्रफुल्लकमला मूढनक्रेव पद्मिनी ।। १७९
दिवः पतति काचित्तु गुणचक्रप्रचोदिनी ।
भर्तृश्लाघासहा सुस्त्री प्रभा भानोरिवामला ।। १८०
हन्त्येवाशु गृहीतान्या पररक्ता गतस्पृहा ।
पापा विरागविषभृद्भर्तारं भुजगीव सा ।। १८१
तथा हि कुत्रचिद्ग्रामे शत्रुघ्न इति कोऽप्यभूत् ।
पुरुषस्तस्य भार्या च बभूव व्यभिचारिणी ।। १८२
स ददर्शैकदा सायं भार्यां तां जारसंगताम् ।
जघान तं च तज्जारं खड्गेनान्तर्गृहस्थितम् ।। १८३
रात्र्यपेक्षी च स्थौ स द्वारि भार्यां निरुध्य ताम् ।
तत्कालं च निवासार्थी तमत्र पथिकोऽभ्यगात् ।। १८४
दत्त्वा तस्याश्रयं युक्त्या तेनैव सह तं हतम् ।
पारदारिकमादाय रात्रौ तत्राटवीं ययौ ।। १८५
तत्रान्धकूपे यावत्स शवं क्षिपति तं तया ।
तावदागतया पश्चात्क्षिप्तः सोऽप्यत्र भार्यया ।। १८६
एवं कुयोषित्कुरुते किं किं नाम न साहसम् ।
इति स्त्रीचरितं बालोऽप्यनिन्दत्सोऽत्र गोमुखः ।। १८७
ततो नागवने तत्र नागानभ्यर्च्य स स्वयम् ।
नरवाहनदत्तोऽगात्स्वावासं सपरिच्छदः ।। १८८
तत्र जिज्ञासुरन्येद्युः सचिवान्गोमुखादिकान् ।
जानन्नपि स पप्रच्छ राजनीतेः समुच्चयम् ।। १८९
सर्वज्ञस्त्वं तथाप्येतद्ब्रूमः पृष्टा वयं त्वया ।
इत्युक्त्वा सारमन्योन्यं ते निश्चित्यैवमब्रुवन् ।। १९०
आरुह्य नृपतिः पूर्वमिन्द्रियाश्वान्वशीकृतान् ।
कामक्रोधादिकाञ्जित्वा रिपूनाभ्यन्तरांश्च तान् ।। १९१
जयेदात्मानमेवादौ विजयायान्यविद्विषाम् ।
अजितात्मा हि विवशी वशीकुर्यात्कथं परम् ।। १९२
ततो जानपदत्वादिगुणयुक्तांश्च मन्त्रिणः ।
पुरोहितं चाथर्वज्ञं कुर्याद्दक्षं तपोन्वितम् ।। १९३
उपाधिभिर्भये लोभे धर्मे कामे परीक्षितान् ।
योग्येष्वमात्यान्कार्येषु युञ्जीतान्तरवित्तमः ।। १९४
सत्यं द्वेषप्रयुक्तं वा स्नेहोक्तं स्वार्थसंहतम् ।
वचस्तेषां परीक्षेत मिथः कार्येषु जल्पताम् ।। १९५
सत्ये तुष्येदसत्ये तु यथार्हं दण्डमाचरेत् ।
जिज्ञासेत पृथक्चैषां चारैराचरितं सदा ।। १९६
इत्यनावृतदृक्पश्यन्कार्याण्युत्खाय कण्टकान् ।
उपार्ज्य कोषदण्डादि साधयेद्बद्धमूलताम् ।। १९७
उत्साहप्रभुतामन्त्रशक्तित्रययुतस्ततः ।
परदेशजिगीषुः स्याद्विचार्य स्वपरान्तरम् ।। १९८
आप्तैः श्रुतान्वितैः प्राज्ञैर्मन्त्रं कुर्यादनायतम् ।
तैर्निश्चितं स्वबुद्ध्या तत्सर्वाङ्गं परिशोधयेत् ।। १९९
सामदानाद्युपायज्ञो योगक्षेमं प्रसाधयेत् ।
प्रयुञ्जीत ततः संधिविग्रहादीन्गुणांश्च षट् ।। २००
एवं वितन्द्रो विदधत्स्वदेशपरदेशयोः ।
चिन्तां राजा जयत्येव न पुनर्जातु जीयते ।। २०१
अज्ञस्तु कामलोभान्धो वृथा मार्गप्रदर्शिभिः ।
नीत्वा श्वभ्रेषु निक्षिप्य मुष्यते धूर्तचेटकैः ।। २०२
नैवावकाशं लभते राज्ञस्तस्यान्तिकेऽपरः ।
धूर्तैर्निबद्धवाटस्य शालेरिव कृषीवलैः ।। २०३
अन्तर्भूय रहस्येषु तैर्वशीक्रियते हि सः ।
ततः श्रीरविशेषज्ञात्खिन्ना तस्मात्पलायते ।। २०४
तस्माज्जितात्मा राजा स्याद्युक्तदण्डो विशेषवित् ।
प्रजानुरागादेवं हि स भवेद्भाजनं श्रियः ।। २०५
पूर्वं च शूरसेनाख्यो भृत्यैकप्रत्ययो नृपः ।
सचिवैः पेटकं कृत्वा भुज्यते स्म वशीकृतः ।। २०६
यस्तस्य सेवको राज्ञस्तस्मै तन्मन्त्रिणोऽत्र ते ।
दातुं नैच्छंस्तृणमपि दित्सत्यपि च भूपतौ ।। २०७
तेषां तु सेवको योऽत्र ददुस्तस्मै स्वयं च ते ।
ते च विज्ञप्य राजानमनर्हायाप्यदापयन् ।। २०८
तद्दृष्ट्वा स नृपो बुद्ध्वा शनैस्तद्धूर्तपेटकम् ।
अन्योन्यं प्रज्ञया युक्त्या सचिवांस्तानभेदयत् ।। २०९
भिन्नेषु तेषु नष्टेषु मिथः पैशुन्यकारिषु ।
सम्यक्छशास राज्यं तत्स राजान्यैरवञ्चितः ।। २१०
हरिसिंहश्च राजाभूत्सामात्यो नीतितत्त्ववित् ।
कृतभक्तबुधामात्यः सदुर्गः सार्थसंचयः ।। २११
अनुरक्ताः प्रजाः कृत्वा चेष्टते स्म यथा तथा ।
चक्रवर्त्यभियुक्तोऽपि न जगाम पराभवम् ।। २१२
एवं विचारश्चिन्ता च सारं राज्येऽधिकं नु किम् ।
इत्याद्युक्त्वा यथास्वं ते विरेमुर्गोमुखादयः ।। २१३
नरवाहनदत्तश्च तेषां श्रद्धाय तद्वचः ।
चिन्त्ये पुरुषकर्तव्येऽप्यचिन्त्यं दैवमभ्यधात् ।। २१४
ततश्चोत्थाय तैरेव साकं तां प्रेक्षितुं ययौ ।
स विलम्बकृतोत्कण्ठां प्रियां मदनमञ्चुकाम् ।। २१५
प्राप्ते तन्मन्दिरं तस्मिन्नासनस्थे कृतादरा ।
क्षणं कलिङ्गसेनात्र गोमुखं विस्मिताब्रवीत् ।। २१६
नरवाहनदत्तेऽत्र राजसूतावनागते ।
उत्सुका पदवीमस्य द्रष्टुं मदनमञ्चुका ।। २१७
हर्म्याग्रभूमिमारूढा गोमुखानुगता मया ।
यावत्तावत्पुमानेको नभसोऽत्रावतीर्णवान् ।। २१८
स किरीटी च खड्गी च मां दिव्याकृतिरब्रवीत् ।
अहं मानसवेगाख्यो राजा विद्याधरेश्वरः ।। २१९
स्वःस्त्री सुरभिदत्ताख्या त्वं च शापच्युता भुवि ।
सुता च तव दिव्येयमेतन्मे विदितं किल ।। २२०
तद्देहि मे सुतामेतां संबन्धः सदृशो ह्ययम् ।
इत्युक्ते तेन सहसा विहस्याहं तमब्रवम् ।। २२१
नरवाहनदत्तोऽस्या भर्ता देवैर्विनिर्मितः ।
सर्वेषां योऽत्र युष्माकं चक्रवर्ती भविष्यति ।। २२२
इत्युक्तः स मयोत्पत्य व्योम विद्याधरो गतः ।
मत्पुत्रीनयनोद्वेगाकाण्डविद्युल्लतोपमः ।। २२३
तच्छ्रुत्वा गोमुखोऽत्रवादीज्जातेऽस्मिन्स्वामिनीह नः ।
राजपुत्रेऽन्तरिक्षोक्तेर्बुद्ध्वामुं भाविनं प्रभुम् ।। २२४
पापं विधातुमप्यैच्छन्सद्यो विद्याधरा हि ते ।
उच्छृङ्खलो नियन्तारं क इच्छेद्बलिनं प्रभुम् ।। २२५
ततोऽयं रक्षितः साक्षाद्गणानादिश्य शंभुना ।
नारदोक्तिरियं तातेनोच्यमाना श्रुता मया ।। २२६
अतो विद्याधराः संप्रत्येतेऽस्माकं विरोधिनः ।
श्रुत्वा कलिङ्गसेनैतत्स्ववृत्तान्तभियाब्रवीत् ।। २२७
मायया तर्हि नो यावन्मद्वन्मदनमञ्चुका ।
वक्ष्यते राजपुत्रेण किं न तावद्विवाह्यते ।। २२८
एतत्कलिङ्गसेनातः श्रुत्वा तां गोमुखादयः ।
ऊचुस्त्वयैव कार्येऽस्मिन्वत्सेशः प्रेर्यतामिति ।। २२९
ततस्तद्गतधीस्तस्मिन्नुद्याने व्यहरद्दिनम् ।
नरवाहनदत्तस्तां पश्यन्मदनमञ्चुकाम् ।। २३०
उत्फुल्लपद्मवदना दलत्कुवलयेक्षणाम् ।
बन्धूककमनीयौष्ठीं मन्दारस्तबकस्तनीम् ।। २३१
शिरीषसुकुमाराङ्गीं पञ्चपुष्पमयीमिव ।
एकामेव जगज्जेत्रीं स्मरेण विहितामिषुम् ।। २३२
कलिङ्गसेनाप्यन्येद्युर्गत्वा वत्सेश्वरं स्वयम् ।
सुताविवाहहेतोस्तद्यथाभीष्टं व्यजिज्ञपत् ।। २३३
वत्सेशोऽपि विसृज्यैतामाहूय निजमन्त्रिणः ।
देव्यां वासवदत्तायां स्थितायां निजगाद तान् ।। २३४
कलिङ्गसेना त्वरते सुतोद्वाहाय तत्कथम् ।
कुर्मो यद्बन्धकीत्येतां लोको वक्त्युत्तमामिति ।। २३५
लोकश्च सर्वदा रक्ष्यस्तत्प्रवादेन किं पुरा ।
रामभद्रेण शुद्धापि त्यक्ता देवी न जानकी ।। २३६
अम्बा हृतापि भीष्मेण यत्नाद्भ्रातुः कृते तथा ।
प्रतीपं किं न वा त्यक्ता वृतपूर्वान्यभर्तृका ।। २३७
एवं कलिङ्गसेनैषा स्वयंवरवृते मयि ।
व्यूढा मदनवेगेन तेनैतां गर्हते जनः ।। २३८
अतोऽस्यास्तनयामेतां गान्धर्वविधिना स्वयम् ।
नरवाहनदत्तोऽसावुद्वहत्वनुरूपिकाम् ।। २३९
इत्युक्ते वत्सराजेन स्माह यौगन्धरायणः ।
इच्छेत्कलिङ्गसेनैतदनौचित्यं कथं प्रभो ।। २४०
दिव्यैषा हि न सामान्या ससुतेत्यसकृद्गतम् ।
मित्त्रेण चैतदुक्तं मे ज्ञानिना ब्रह्मरक्षसा ।। २४१
इत्यादि तत्र ते यावद्विमृशन्ति परस्परम् ।
एवं माहेश्वरी तावद्वाणी प्रादुरभूद्दिवः ।। २४२
मन्नेत्रानलदग्धस्य सृष्टस्यात्र मनोभुवः ।
नरवाहनदत्तस्य मयैवैषा विनिर्मिता ।। २४३
तपस्तुष्टेन भार्यास्य रतिर्मदनमञ्चुका ।
एतया सहितश्चायं सर्वान्तःपुरमुख्यया ।। २४४
विद्याधराधिराज्यं स दिव्यं कल्पं करिष्यति ।
मत्प्रसादाद्विजित्यारीनित्युक्त्वा विरराम वाक् ।। २४५
श्रुत्वैतां भगवद्वाणीं वत्सेशः सपरिच्छदः ।
तं प्रणम्य सुतोद्वाहे सानन्दो निश्चयं व्यधात् ।। २४६
अथ स सचिवमुख्यं पूर्वविज्ञाततत्त्वं नरपतिरभिनन्द्याहूय मौहूर्तिकांश्च ।
शुभफलदमपृच्छल्लग्नमूचुस्तु ते तं कतिपयदिनमध्ये भाविनं प्राप्तपूजाः ।। २४७
कालं मनागनुभविष्यति कंचिदत्र पुत्रो वियोगमनया सह भार्यया ते ।
जानीमहे वयमिदं निजशास्त्रदृष्ट्या वत्सेश्वरेति जगदुर्गणकाः पुनस्ते ।। २४८
ततः स सूनोर्निजवैभवोचितं विवाहसंभारविधिं व्यधान्नृपः ।
तथा यथास्य स्वपुरी न केवलं पृथिव्यपि क्षोभमगात्तदुद्यमात् ।। २४९
प्राप्ते विवाहदिवसेऽथ कलिङ्गसेना पित्रा निसृष्टनिजदिव्यविभूषणायाः ।
तस्याः प्रसाधनविधिं दुहितुश्चकार सोमप्रभा पतिनिदेशवशागता च ।। २५०
कृतदिव्यकौतुका सा सुतरामथ मदनमञ्चुका विबभौ ।
नन्वेवमेव कान्ता चन्द्रतनुः कार्तिकानुगता ।। २५१
दिव्याङ्गनाश्च तस्या हराज्ञया श्रूयमाणगीतरवाः ।
तद्रूपजिताच्छन्ना ह्रीता इव मङ्गलं विदधुः ।। २५२
भक्तानुकम्पिनि जयाद्रिसुते त्वयाद्य रत्यास्तपः स्वयमुपेत्य कृतं कृतार्थम् ।
इत्यादि दिव्यवरचारणवाद्यमिश्रवाक्यानुमेयमपि संदधतेऽत्र गौर्याः ।। २५३
अथ नरवाहदत्तः प्रविवेश स मदनमञ्चुकाध्युषितम् ।
कृतवरकौतुकशोभी विविधमहातोद्यभृद्विवाहगृहम् ।। २५४
निर्वर्त्य तत्र बहलोद्यतविप्रमत्तवीवाहमङ्गलविधिं च वधूवरौ तौ ।
वेदीं समारुरुहतुर्ज्वलिताग्निमुच्चै राज्ञां शिरोभुवमिवामलरत्नदीपाम् ।। २५५
यदि युगपदिहेन्दुमूर्तिभानू कनकगिरिं भ्रमतोऽमितः कदाचित् ।
भवति तदुपमा तयोस्तदानीं जगति वधूवरयोः प्रदक्षिणेऽग्नेः ।। २५६
यथा विवाहोत्सवतूर्यनादानपोथयन्दुन्दुभयोऽन्तरिक्षे ।
तथा वधूत्सारितहोमलाजाः सुरोज्झिताः कौसुमवृष्टयोऽत्र ।। २५७
ततः कनकराशिभिर्मणिमयैश्च जामातरं समर्चयदुदारधीः किल कलिङ्गसेना तथा ।
यथात्र बुबुधे जनैरपि सुदुर्गतोऽस्याः पुरः स काममलकापतिः कृपणभूभृतोऽन्ये तु के ।। २५८
निष्पन्नतादृशचिराभिमतानुरूपपाणिग्रहोत्सवविधी च वधूवरौ तौ ।
अभ्यन्तरं विविशतुः प्रमदोपरुद्धं लोकस्य मानसमिवामलचित्रभक्ति ।। २५९
सद्वाहिनीपरिगतैरपि विश्ववन्द्यशौर्याश्रितैरपि जितावनतैर्नरेन्द्रैः ।
सा वारिराशिभिरिवाशु पुरी पुपूरे वत्सेश्वरस्य सदुपायनरत्नहस्तैः ।। २६०
अनुजीविजनाय सोऽपि राजा व्यकिरद्धेम तथा महोत्सवेऽस्मिन् ।
यदि परमभवन्न जातरूपा जननीगर्भगता यथास्य राष्ट्रे ।। २६१
वरचारणनर्तकीसमूहैर्विविधदिगन्तसमागतैस्तदात्र ।
परितः स्तवनृत्तगीतवाद्यैर्बुबुधे तन्मय एव जीवलोकः ।। २६२
वातोद्धूतपताकाबाहुलता चोत्सवेऽत्र कौशाम्बी ।
सापि ननर्तेव पुरी पौरस्त्रीरचितमण्डनाभरणा ।। २६३
एवं च स प्रतिदिनं परिवर्धमानो निर्वर्त्यते स्म सुचिरेण महोत्सवोऽत्र ।
सर्वः सदैव च सुहृत्स्वजनो जनश्च हृष्टस्ततः किमपि पूर्णमनोरथोऽभूत् ।। २६४
स च नरवाहनदत्तो युवराजो मदनमञ्चुकासहितः ।
भजते स्म सुचिरकाङ्क्षितमुदयैषी जीवलोकसुखम् ।। २६५
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमञ्चुकालम्बकेऽष्टमस्तरङ्गः ।

समाप्तश्चायं मदनमञ्चुकालम्बकः षष्ठः ।