प्रमुखा विकल्पसूचिः उद्घाट्यताम्

कथासरित्सागरः/लम्बकः ७/तरङ्गः १

< कथासरित्सागरः‎ | लम्बकः ७

इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।

प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ।।

केलिकेशग्रहव्यग्रगौरीकरनखावृतम् ।
शिवायानेकचन्द्राढ्यमिव शार्वं शिरोऽस्तु वः ।। १
करं दानाम्भसार्द्रं यः कुञ्चिताग्रं प्रसारयन् ।
ददत्सिद्धिमिवाभाति स पायाद्वो गजाननः ।। २
एवं स तत्र कौशाम्ब्यां पुत्रो वत्सेश्वरस्य ताम् ।
परिणीय युवा प्राणसमां मदनमञ्चुकाम् ।। ३
नरवाहनदत्तः स्वैः सचिवैर्गोमुखादिभिः ।
समं तस्थौ यथाकामं परिपूर्णमनोरथः ।। ४
एकदा चोल्लसन्मत्तकोकिलारावराजिते ।
प्रवर्तितलतालास्यवल्गन्मलयमारुते ।। ५
प्रगीतभृङ्गसुभगे संप्राप्ते च मधूत्सवे ।
ययौ विहर्तुमुद्यानं राजपुत्रः समन्त्रिकः ।। ६
तत्र भ्रान्त्वागतोऽकस्मादुपेत्य निजगाद तम् ।
प्रहर्षोत्फुल्लनयनः स्ववयस्यस्तपन्तकः ।। ७
युवराज मया दृष्टा कापीतो नातिदूरतः ।
कन्यावतीर्य गगनात्स्थिताऽशोकतरोरधः ।। ०
तयैव प्रेषितश्चाहमुपेत्य ससखीकया ।
स्वकान्तिद्योतितदिशा त्वदाह्वानाय कन्यया ।। ९
तच्छ्रुत्वा स स्वसचिवैः साकं तद्दर्शनोत्सुकः ।
नरवाहनदत्तस्तत्तरुमूलमगाद्द्रुतम् ।। १८
ददर्श तत्र तां कान्तां लोललोचनषट्पदाम् ।
शोणौष्ठपल्लवां पीनस्तनस्तबकशोभिताम् ।। ११
परागपुञ्जगौराङ्गीं छायया तापहारिणीम् ।
आत्तोचिताकृतिं साक्षादिवोपवनदेवताम् ।। १२
उपाययौ च प्रणतां स तामभिननन्द च ।
दिव्यकन्यां नृपसुतस्तद्रूपापहृतेक्षणः ।। १३
अथ तत्सचिवः सर्वेषूपविष्टेषु गोमुखः ।
तामपृच्छच्छुभे का त्वं किमर्थश्चागमोऽत्र ते ।। १४
तच्छ्रुत्वा सा दुरुल्लङ्घ्यमन्मथाज्ञोज्झितत्रपा ।
नरवाहनदत्तस्य वदनाम्भोरुहं मुहुः ।। १५५
पश्यन्ती चक्षुषा तिर्यगसमप्रणवस्रुता ।
विस्तरेणात्मवृत्तान्तकथामेवमवर्णयत् ।। १६
अस्ति त्रिजगति ख्यातो नगेन्द्रो हिमवानिति ।
भूरिशृङ्गस्य तस्यैकं शृङ्गं गौरीपतेर्गिरिः ।। १७
भास्वन्मणिप्रभामाली विलसत्तुहिनद्युतिः ।
गगनाभोग इव यः परिच्छेत्तुं न शक्यते ।। १८
हरप्रसादलभ्यानां जरामृत्युभयच्छिदाम् ।
सिद्धीनामोषधीनां च निधानं यस्य सानवः ।। १९
येन विद्याधरव्रातशरीररुचिपिञ्जरैः ।
शिखरैरमराद्रीन्द्रशृङ्गशोभाभिभूयते ।। २०
तत्र काञ्चनशृङ्गाख्यमस्ति हेममयं पुरम् ।
भाभिः प्रभाकरस्थानमिव यद्भाति भासुरम् ।। २१
बहुयोजनविस्तीर्णे तस्मिन्विद्याधरेश्वरः ।
आस्ते हेमप्रभो नाम दृढभक्तिरुमापतौ ।। २२
तस्य चास्ति महादेवी पत्नीषु बहुषु प्रिया ।
अलंकारप्रभा नाम रोहिणीव हिमत्विषः ।। २३
तया सह स राजा च प्रातरुत्थाय धार्मिकः ।
स्नात्वार्चयित्वा विधिवद्गौरीयुक्तं महेश्वरम् ।। २४
एत्य मानुषलोकं च रत्नमिश्रं दिने दिने ।
ब्राह्मणेभ्यो दरिद्रेभ्यः स्वर्णलक्षं प्रयच्छति ।। २५
ततश्चागत्य धर्मेण राजकृत्यान्यवेक्ष्य सः ।
करोत्याहारपानादि मुनिवन्नियतव्रतः ।। २६
एवं दिनेषु गच्छत्सु तस्योद्घातवशात्किल ।
अपुत्रताकृता राज्ञश्चिन्ता जातूदपद्यत ।। २७
तयातिदुर्मनस्कं च दृष्ट्वा पप्रच्छ तं प्रिया ।
अलंकारप्रभा देवी दौर्मनस्यस्य कारणम् ।। २८
ततः स राजावादीत्तां सर्वसंपत्तिरस्ति मे ।
एकं तु पुत्रो नास्तीति दुःखं मां देवि बाधते ।। २९
या मया प्रागपुत्रस्य पुंसः सत्त्ववतः कथा ।
श्रुता तत्स्मरणोद्घाताच्चिन्तैषा चोद्गता मम ।। ३०
कीदृशी सा कथा देवेत्युक्तो देव्या तया च सः ।
राजा तस्यै कथामेवं संक्षेपात्तामवर्णयत् ।। ३१
नगरे चित्रकूटाख्ये ब्राह्मणार्चनतत्परः ।
बभूव ब्राह्मणवरो नाम्नान्वर्थो महीपतिः ।। ३१
तस्यासीत्सत्त्वशीलाख्यो जयी युद्धैकसेवकः ।
मासे मासे च लेभे स तस्मात्स्वर्णशतं नृपात् ।। ३३
पर्याप्त्यै तच्च नैवाभूत्त्यागिनस्तस्य काञ्चनम् ।
अपुत्रत्वाच्च दानैकविनोदासक्तचेतसः ।। ३४
पुत्रो विनोदहेतुर्मे दत्तस्तावन्न वेधसा ।
दत्तं च दानव्यसनं तदप्यर्थविनाकृतम् ।। ३५५
वरं जीर्णस्य शुष्कस्य तरोर्जन्मोपलस्य वा ।
न संसारे दरिद्रस्य त्यागैकव्यसनस्य च ।। ३६
इति संचिन्तयन्नित्यं सत्त्वशीलः स जातुचित् ।
उद्याने संचरन्प्राप निधिं दैवात्कदाचन ।। ३७
सभृत्यश्च तमादाय भूरिकाञ्जनभास्वरम् ।
महार्घरत्नरुचिरं निनाय प्रसभं गृहम् ।। ३८
ततः स भोगान्भुञ्जानो ब्राह्मणेभ्यो ददद्वसु ।
भृत्येभ्यश्च सुहृद्भ्यश्च यावदास्तेऽत्र सात्त्विकः ।। ३९
तावद्दृष्ट्वा तदभ्यूह्य निधिलाभः स गोत्रजैः ।
तस्य राजकुले गत्वा स्वैरं राज्ञे निवेदितः ।। ४०
अथ राज्ञा समाहूतः प्रतीहारनिदेशतः ।
क्षणं राजाङ्गणैकान्ते सत्त्वशीलः स तस्थिवान् ।। ४१
तत्र हस्तस्थया लीलावज्रमुष्ट्या खनन्क्षितिम् ।
स लेभे ताम्रकुम्मीस्थं निधानं चापरं महत् ।। ४२
दत्त्वेदं रञ्जनीयस्ते राजेति हृदयं निजम् ।
विधिना सत्त्वतुष्टेन प्रकाशमिव दर्शितम् ।। ४३
तथैवाच्छादयामास मृदा तच्च विवेश च ।
आवेदितः प्रतीहारेणान्तिकं नृपतेस्ततः ।। ४४
ज्ञातं मया निधिर्लब्धस्त्वया तं नः समर्पय ।
इति तत्र स राज्ञा च प्रणतो जगदे स्वयम् ।। ४५
किमर्पयामि देवाद्यं किमद्यतनमुच्यताम् ।
सोऽपि तत्रेति राजानं सत्त्वशीलो जगाद तम् ।। ४६
अर्पयाभिनवप्राप्तमित्युक्तश्च स भूभृता ।
गत्वा राजाङ्गणैकान्ते निधिं तस्मै समर्पयत् ।। ४७
आद्यं निधिं यथेच्छं त्वं भुङ्क्ष्वेति प्रेषितोऽथ सः ।
नृपेण निधितुष्टेन सत्त्वशीलोऽगमद्गृहम् ।। ४८
तत्रासीद्दानभोगाभ्यां तन्वन्नाम्नो यथार्थताम् ।
नुदंश्चापुत्रतादुःखदौर्मनस्यं कथंचन ।। ४९
इत्येतत्सत्त्वशीलस्य वृत्तं पूर्वं श्रुतं मया ।
संस्मृत्य स्थीयते दुःखं पुत्रासद्भावचिन्तया ।। ५०
इति विद्याधरेन्द्रेण भार्या हेमप्रभेण सा ।
अलंकारप्रभा देवी गदिता निजगाद तम् ।। ५१
सत्यमेवं सुसत्त्वानां साहाय्यं भजते विधिः ।
किं नापरो निधिर्लब्धः सत्त्वशीलेन संकटे ।। ५२
तत्स्वसत्त्वप्रभावेण त्वमपि प्राप्स्यसीप्सितम् ।
शृणु विक्रमतुङ्गस्य कथां चात्र निदर्शनम् ।। ५३
अस्ति पाटलिपुत्राख्यं भुवोऽलंकरणं पुरम् ।
पूर्णवर्णव्यवस्थानैस्तैस्तैः सन्मणिभिश्चितम् ।। ५४
तत्र विक्रमतुङ्गाख्यो राजाभूत्सत्त्ववान्पुरा ।
योऽभूत्पराङ्मुखो दाने नार्थिनां न युधि द्विषाम् ।। ५५
स जातु मृगयाहेतोः प्रविष्टो नृपतिर्वनम् ।
बिल्वैर्होमं विदधतं तत्र ब्राह्मणमैक्षत ।। ५६
तं दृष्ट्वा प्रष्टुकामोऽपि परिहृत्य तदन्तिकम् ।
ययौ स दूरं मृगयारसेन सबलस्ततः ।। ५७
उत्पतद्भिः पतद्भिश्च हन्यमानैः स्वपाणिना ।
चिरं मृगैश्च सिंहैश्च क्रीडित्वा कन्दुकैरिव ।। ५८
आवृत्तस्तं तथैवात्र दृष्ट्वा होमपरं द्विजम् ।
उपेत्य नत्वा पप्रच्छ नाम होमफलं च सः ।। ५९
ततः स ब्राह्मणो भूपं कृताशीस्तमभाषत ।
विप्रोऽहं नागशर्माख्यो होमे च शृणु मे फलम् ।। ६०
अनेन बिल्वहोमेन प्रसीदति यदानलः ।
हिरण्मयानि बिल्वानि तदा निर्यान्ति कुण्डतः ।। ६१
ततोऽग्निः प्रकटीभूय वरं साक्षात्प्रयच्छति ।
वर्तते मम भूयांश्च कालो बिल्वानि जुह्वतः ।। ६२
मन्दपुण्यस्य नाद्यापि तुष्यत्येव स पावकः ।
इत्युक्ते तेन राजा तं धीरसत्त्वोऽभ्यभाषत ।। ६३
तर्हि मे देहि बिल्वं त्वमेकं यावज्जुहोमि तत् ।
प्रसादयामि च ब्रह्मन्नधुनैव तवानलम् ।। ६४
कथं प्रसादयसि तं वह्निमप्रयतोऽशुचिः ।
यो ममैवं व्रतस्थस्य पूतस्यापि न तुष्यति ।। ६५
इत्युक्तस्तेन विप्रेण राजा तमवदत्पुनः ।
मैवं प्रयच्छ मे बिल्वं पश्याश्चर्यं क्षणादिति ।। ६६
ततः स राज्ञे विप्रोऽस्मै ददौ बिल्वं सकौतुकः ।
राजा च स तदा तत्र दृढसत्त्वेन चेतसा ।। ६४
हुतेनानेन बिल्वेन न चेत्तुष्यति तच्छिरः ।
त्वय्यग्ने स्वं जुहोमीति ध्यात्वा तस्मिञ्जुहाव तत् ।। ६८
आविरासीच्च सप्तार्चिः कुण्डाद्बिल्वं हिरण्मयम् ।
स्वयमादाय तत्तस्य फलं सत्त्वतरोरिव ।। ६९
जगाद च स साक्षात्तं जातवेदा महीपतिम् ।
सत्त्वेनानेन तुष्टोऽस्मि तद्गृहाण वरं नृप ।। ७०
तच्छ्रुत्वा स महासत्त्वो राजा तं प्रणतोऽब्रवीत् ।
को ममान्यो वरो देहि द्विजायास्मै यथेप्सितम् ।।७१
इति राज्ञो वचः श्रुत्वा सुप्रीतोऽग्निर्जगाद तम् ।
राजन्महाधनपतिर्ब्राह्मणोऽयं भविष्यति ।। ७२
त्वमप्यक्षीणकोषश्रीर्मत्प्रसादाद्भविष्यसि ।
एवं दत्तवरं वह्निं ब्राह्मणः स व्यजिज्ञपत् ।। ७३
आविर्भूतोऽसि सहसा राज्ञः स्वेच्छाविहारिणः ।
न मे सनियमस्यापि किमेतद्भगवन्निति ।। ७४
ततोऽग्निर्वरदः प्राह नादास्यं दर्शनं यदि ।
अहोष्यदेष स्वशिरस्तीव्रसत्त्वो नृपो मयि ।। ७५
तीव्रसत्त्वस्य नचिराद्भवन्त्येव हि सिद्धयः ।
मन्दसत्त्वस्य तु चिराद्ब्रह्मन्युष्मादृशस्य ताः ।। ७६
इत्युक्त्वान्तर्हिते वह्नौ नृपमामन्त्र्य स द्विजः ।
नागशर्मा ततो गत्वा क्रमेणाभून्महाधनः ।। ७७
नृपोऽपि दृष्टसत्त्वः स स्तूयमानोऽनुयायिभिः ।
ययौ विक्रमतुङ्गः स्वं पुरं पाटलिपुत्रकम् ।। ७८
तत्र स्थितमकस्मात्तं प्रविश्य प्रभुमेकदा ।
रहः शत्रुंजयो नाम प्रतीहारो व्यजिज्ञपत् ।। ७९
विजने देव विज्ञप्तिं चिकीर्षुर्ब्राह्मणो बटुः ।
दत्तशर्मेति नाम स्वं ब्रुवाणो द्वारि तिष्ठति ।। ८०
प्रवेशयेति भूपेन तेनादिष्टे प्रवेशितः ।
स्वस्तिपूर्वं स राजानं प्रणम्योपाविशद्बटुः ।। ८१
व्यजिज्ञपच्च देवाहं चूर्णयुक्त्या कयाचन ।
सद्यः साधयितुं जाने ताम्रात्कनकमुत्तमम् ।। ८२
गुरुणा ह्युपदिष्टा सा युक्तिर्मम मया च तत् ।
दृष्टं साक्षात्तया युक्त्या संसिद्धं तस्य काञ्चनम् ।। ८३
इत्युक्ते बटुना तेन ताम्रमानाययन्नृपः ।
विलीने च कृते तस्मिन्स बटुश्चूर्णमक्षिपत् ।। ८४
क्षिप्यमाणं च तच्चूर्णमदृश्यः कोऽप्यपाहरत् ।
यक्षस्तं च ददर्शैकः स राजा तुष्टपावकः ।। ८५
अप्राप्तचूर्णं ताम्रं च न सुवर्णीबभूव तत् ।
एवं त्रिः कुर्वतस्तस्य बटोर्मोघः श्रमोऽभवत् ।। ८६
ततो विषण्णादादाय राजा तस्माद्बटोः स्वयम् ।
चूर्णे विलीने चिक्षेप ताम्रे तेजस्विनां वरः ।। ८७
तस्य तन्नाहरच्चूर्णं यक्षः स्मित्वा ययौ तु सः ।
तेन तच्चूर्णसंयोगात्ताम्रं कनकतामगात् ।। ८८
विस्मिताय ततस्तस्मै बटवे परिपृच्छते ।
स राजा यक्षवृत्तान्तं यथादृष्टं शशंस तम् ।। ८९
शिक्षित्वा चूर्णयुक्तिं च बटोस्तस्मात्तदैव ताम् ।
नृपश्चक्रे कृतार्थं तं कृतदारपरिग्रहम् ।। ९०
भेजे च पूर्णकोषश्रीर्हेम्ना तद्युक्तिजन्मना ।
सावरोधोऽसमान्भोगानदरिद्रीकृतद्विजः ।। ९१
तदेवं भीत इव वा परितुष्ट इवाथवा ।
ददाति तीव्रसत्त्वानामिष्टमीश्वर एव हि ।। ९२
त्वत्तश्च धीरसत्त्वोऽन्यः कोऽस्ति दाता च देव तत् ।
दास्यत्याराधितः शंभुः पुत्रं ते मा शुचं कृथाः ।। ९३
इत्युदारमलंकारप्रभादेवीमुखाद्वचः ।
श्रुत्वा हेमप्रभो राजा श्रद्दधे च तुतोष च ।। ९४
मेने च तनयप्राप्तिं गौरीशाराधनाद्ध्रुवम् ।
सूचिता हृदयेनैव निजेनोत्साहशालिना ।। ९५
ततोऽन्येद्युः सदेवीकः स्नातोऽभ्यर्चितशंकरः ।
नवकाञ्चनकोटीश्च विप्रेभ्यः प्रतिपाद्य सः ।। ९६
तनयार्थं तपस्तेपे निराहारो हराग्रतः ।
देहस्त्यक्तो मया शर्वस्तोषितो वेति निश्चितः ।। ९७
तपस्थश्चेति तुष्टाव वरदं गिरिजापतिम् ।
हेलावितीर्णदुग्धाब्धिं प्रपन्नायोपमन्यवे ।। ९८
नमस्तेऽस्तु जगत्सर्गस्थितिसंहारहेतवे ।
गौरीश तत्तद्व्योमादिभेदभिन्नाष्टमूर्तये ।। ९९
नमस्ते सततोत्फुल्लहृत्कुशेशयशायिने।
विशुद्धमानसावासकलहंसाय शंभवे ।। १००
नमो दिव्यप्रकाशाय निर्मलाय जलात्मने ।
प्रक्षीणदोषैर्दृश्याय सोमायात्यद्भुताय ते ।। १०१
देहार्धधृतकान्ताय केवलब्रह्मचारिणे ।
इच्छानिर्मितविश्वाय नमो विश्वमयाय ते ।। १०२
एवं कृतस्तुतिं तं च राजानं गिरिजापतिः ।
त्रिरात्रोपोषितं स्वप्ने साक्षाद्भूयेदमब्रवीत् ।। १०३
उत्तिष्ठ राजन्भावी ते वीरो वंशधरः सुतः ।
गौरीप्रसादात्कन्यापि भविष्यत्युत्तमा तव ।। १०४
नरवाहनदत्तस्य युष्माकं चक्रवर्तिनः ।
भविष्यतो भवित्री या महिषी महसां निधेः ।। १०५
इत्युक्त्वान्तर्हिते शर्वे सोऽथ विद्याधरेश्वरः ।
हेमप्रभः प्रबुबुधे प्रहृष्टो रजनीक्षये ।। १०६
आनन्दयदलंकारप्रभां स्वप्नं निवेद्य सः ।
गौर्या स्वप्ने तथैवोक्तां भार्यां संवादशंसिनीम् ।। १०७
उत्थाय च ततः स्नातः स राजार्चितधूर्जटिः ।
चकार दत्तदानः सन्नुत्सवं कृतपारणः ।। १०८
दिवसेष्वथ यातेषु देवी कतिपयेषु सा ।
अलंकारप्रभा तस्य राज्ञो गर्भमधारयत् ।। १०९
आनन्दयामास च तं मुखेन मधुगन्धिना ।
लोलनेत्रालिना कान्तं पङ्कजेनेव पाण्डुना ।। ११०
आख्यातश्लाघ्यजन्मानमुदारैर्गर्भदोहदैः ।
असूत तनयं काले द्यौरर्कमिव सा ततः ।। १११
येन जातेन सहजैस्तेजोभिरवभासितम् ।
सिन्दूरारुणतां नीतमपि तज्जातवासकम् ।। ११२
पिता च तं शिशुं राजा शत्रुगोत्रभयावहम् ।
दिव्यवागुपदिष्टेन नाम्ना वज्रप्रभं व्यधात् ।। ११३
ततः स ववृधे बालः पार्वणेन्दुरिव क्रमात् ।
कलाभिः पूर्यमाणः सन्वृद्धिहेतोः कुलाम्बुधेः ।। ११४
अथाचिरात्पुनस्तस्य राज्ञो हेमप्रभस्य सा ।
अलंकारप्रभा राज्ञी सगर्भा समपद्यत ।। ११५
सगर्भा चाश्रयोद्भूतसविशेषद्युतिस्तथा ।
सत्यं हेमासनारूढा भेजेऽन्तःपुररत्नताम् ।। ११६
विद्याकल्पितसत्पद्मविमानेन नभस्तले ।
बभ्राम च तथाभूतविलसद्गर्भदोहदा ।। ११७
प्राप्ते च समये तस्या देव्याः कन्याजनिष्ट सा ।
पर्याप्तं वर्णनं यस्या जन्म गौरीप्रसादतः ।। ११८
नरवाहनदत्तस्य भार्येयं भाविनीति वाक् ।
तदाश्रावि हरादेशवचःसंवादिनी दिवः ।। ११९
ततो राजा सुतोत्पत्तिनिर्विशेषकृतोत्सवः ।
तां स हेमप्रभोऽकार्षीन्नाम्ना रत्नप्रभां सुताम् ।। १२०
स्वविद्यासंस्कृता सा च तस्य रत्नप्रभा पितुः ।
अवर्धत गृहे दिक्षु प्रकाशस्तूदपद्यत ।। १२१
ततः स राजा तं वर्महरं वज्रप्रभं सुतम् ।
कृतदारक्रियं कृत्वा यौवराज्येऽभिषिक्तवान् ।। १२२
विन्यस्तराज्यभारश्च तस्मिन्नार्सात्स निर्वृतः ।
सुताविवाहचिन्ता तु तस्यैकाभूत्तदा हृदि ।। १२३
एकदा सोऽन्तिकासीनां प्रदेयां वीक्ष्य तां सुताम् ।
राजाब्रवीदलंकारप्रभां देवीं समीपगाम् ।। १२४
कुलालंकारभूतापि पश्य देवि जगत्त्रये ।
कन्या नाम महद्दुःखं धिगहो महतामपि ।। १२५
विनीताप्याप्तविद्यापि रूपयौवनवत्यपि ।
रत्नप्रभा वरप्राप्त्या विनैषा यद्दुनोति माम् ।। १२६
नरवाहनदत्तस्य भार्योक्ता दैवतैरियम् ।
तत्किं न दीयते तस्मै भाव्यस्मच्चक्रवर्तिने ।। १२७
इति चोक्तस्तया देव्या स राजा पुनरब्रवीत् ।
बाढं सा कन्यका धन्या या तं वरमवाप्नुयात् ।। १२८
स हि कामावतारोऽत्र किं तु नाद्यापि दिव्यताम् ।
प्राप्तस्तेन मया तस्य विद्याप्राप्तिः प्रतीक्ष्यते ।। १२९
इत्येवं वदतस्तस्य सद्यस्तैर्वचनैः पितुः ।
कर्णप्रविष्टैः कंदर्पमोहमन्त्रपदोपमैः ।। १३०
भ्रान्तेवाविष्टचित्तेव सुप्तेव लिखितेव च ।
अभूद्रत्नप्रभा तेन हृतचित्ता वरेण सा ।। १३१
ततः कथंचित्पितरौ प्रणम्यान्तःपुरं निजम् ।
गत्वा चिन्तातुरा निद्रां चिरेण कथमप्यगात् ।। १३२
प्रातः शुभं दिनं पुत्रि तत्स वत्सोधरात्मजः ।
द्रष्टव्यः स्ववरो गत्वा कौशाम्बीं नगरीं त्वया ।। १३३
ततश्च स्वपुरेऽमुष्मिन्नानीय त्वत्पिता स्वयम् ।
तव तस्य च कल्याणि विवाहं संविधास्यति ।। १३४
इति स्वप्नेऽथ तं गौरी सानुकम्पा समादिशत् ।
प्रबुध्य सा च तं स्वप्नं प्रातर्मात्रे न्यवेदयत् ।। १३५
ततः सा तदनुज्ञाता बुद्ध्वा विद्याप्रभावतः ।
उद्यानस्थं वरं द्रष्टुं प्रावर्तत निजात्पुरात् ।। १३६
तामार्यपुत्र मामेतां वेत्थ रत्नप्रभामिति ।
प्राप्तामुत्कां क्षणेनाद्य वित्थ यूयमतः परम् ।। १३७
एतत्तस्या वचः श्रुत्वा माधुर्यन्यक्कतामृतम् ।
विलोक्य नेत्रपीयूषं विद्याधर्या वपुश्च तत् ।। १३८
नरवाहनदत्तोऽन्तर्विधातारं निनिन्द सः ।
श्रोत्रनेत्रमयं कृत्स्नमकरोत्किं न मामिति ।। १३९
जगाद तां च धन्योऽहं जन्माद्य सफलं मम ।
योऽहमेव स्वयं तन्वि स्नेहादभिसृतस्त्वया ।। १४०
इत्यन्योन्यनवप्रेमकृतसंलापयोस्तयोः ।
अकस्माद्ददृशे तत्र विद्याधरबलं दिवि ।। १४१
तातोऽयमागतोऽत्रेति द्राग्रत्नप्रभयोदिते ।
राजा हेमप्रभो व्योम्नः सपुत्रोऽवततार सः ।। १४२
उपाययौ च पुत्रेण सह वज्रप्रभेण सः ।
नरवाहनदत्तं तं विहितस्वागतादरम् ।। १४३
अन्योन्यरचिताचारा यावत्तिष्ठन्ति ते क्षणात् ।
तावत्तत्राययौ बुद्ध्वा वत्सराजः समन्त्रिकः ।। १४४
कृतातिथ्यनिधिं तं च नृपं हेमप्रभोऽथ सः ।
यथा रत्नप्रभोक्तं तं वृत्तान्तं समबोधयत् ।। १४५
जगाद च मया चेयं ज्ञाता विद्याप्रभावतः ।
इहागता सुता सर्वं वृत्तान्तं चात्र वेद्म्यहम् ।। १४६
 ....................... ।
चक्रवर्तिविमानं हि भाव्यग्रेऽमुष्य तादृशम् ।। १४७
अनुमन्यस्व तद्द्रक्ष्यस्यचिरादेतमात्मजम् ।
रत्नप्रभावधूयुक्तं युवराजमिहागतम् ।। १४८
एव वत्सेशमभ्यर्थ्य तेनानुमतवाञ्छितः ।
सपुत्रः कल्पयित्वा तद्विमानं निजविद्यया ।। १४९
तत्रारोप्य त्रपानम्रमुखं रत्नप्रभायुतम् ।
नरवाहनदत्तं तं सहितं गोमुखादिभिः ।। १५०
यौगन्धरायणेनापि पित्रानुप्रेषितेन सः ।
हेमप्रभो निनाय स्वं पुरं काञ्चनशृङ्गकम् ।। १५१
नरवाहनदत्तश्च ददर्श प्राप्य तत्पुरम् ।
श्वाशुरं काञ्चनमयं हेमप्राकारभासुरम् ।। १५२
रश्मिप्रतानैर्निर्यद्भिरलंकृतभिवाभितः ।
प्रसारितानेकभुजं जामातृप्रीतिसंभ्रमात् ।। १५३
तत्र तां विधिवत्तस्मै राजा हेमप्रभो ददौ ।
रत्नप्रभा महारम्भो हरयेऽब्धिरिव श्रियम् ।। १५४
प्रायच्छद्रत्नराशींश्च तदा तस्मै स भास्वरान् ।
प्रदीप्तानेकवीवाहवह्निविभ्रमशालिनः ।। १५७
सोत्सवस्य पुरे चास्य राज्ञो वित्तानि वर्षतः ।
लब्धवस्त्रा इव बभुः सपताका गृहा अपि ।। १५६
नरवाहनदत्तश्च निर्व्यूढोद्वाहमङ्गलः ।
दिव्यभोगभुगत्रास्त स रत्नप्रभया समम् ।। १५७
रेमे च दिव्यान्युद्यानवापीदेवकुलानि सः ।
पश्यंस्तथा समारुह्य तद्विद्याबलतो नभः ।। १५८
एवं च तत्र कतिचिद्दिवसानुषित्वा विद्याधराधिपपुरे स वधूसहायः ।
वत्सेश्वरस्य तनयः स्वपुरीं प्रयातुं यौगन्धरायणमतेन मतिं चकार ।। १५९
श्वश्र्वा ततो रचितमङ्गलसंविधानः संपूजितः ससचिवः श्वशुरेण भूयः ।
तेनैव पुत्रसहितेन सह प्रतस्थे कान्तासखस्तदधिरुह्य पुनर्विमानम् ।। १६०
प्राप्याशु तां प्रमदनिर्भरवत्सराजबद्धोत्सवां स जननीनयनामृतौघः ।
रत्नप्रभां दधदथ स्वपुरीं विवेश हेमप्रभेण ससुतेन सहानुगैश्च ।। १६१
वत्सेश्वरोऽपि सह वासवदत्तया तं पादानतं समभिनन्द्य सुतं वधूं च ।
हेमप्रभं सतनयं विभवानुरूपं संबन्धिनं नवमपूजयदूर्जितश्रीः ।। १६२
अथ विद्याधरराजे तस्मिन्नापृच्छ्य वत्सराजादीन् ।
उत्पत्य नभः ससुते गतवति हेमप्रभे स्वपुरम् ।। १६३
नरवाहनदत्तोऽसौ रत्नप्रभया समदनमञ्चुकया ।
सह सुखितस्तदनैषीद्दिवसं सखिभिर्निजैर्युक्तः ।। १६४
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके प्रथमस्तरङ्गः ।