एवं रत्नप्रभाख्यातकथाक्रमवशादथ ।
नरवाहनदत्तं तं सचिवो गोमुखोऽब्रवीत् ।। १
सत्यं साध्व्यः प्रविरलाश्चपलास्तु सदा स्त्रियः ।
अविश्वास्यास्तथा चैतामपि देव कथां शृणु ।। २
इहास्त्युज्जयिनी नाम नगरी विश्वविश्रुता ।
तस्यां निश्चयदत्ताख्यो वणिक्पुत्रोऽभवत्पुरा ।। ३
स द्यूतकारो द्यूतेन धनं जित्वा दिने दिने ।
स्नात्वा सिप्राजलेऽभ्यर्च्य महाकालमुदारधीः ।। ४
दत्त्वा दानं द्विजातिभ्यो दीनानाथेभ्य एव च ।
व्यधाद्विलेपनाहारताम्बूलाद्यविशेषतः ।। ७
सदा स्नानार्चनाद्यन्ते महाकालालयान्तिके ।
गत्वा व्यलिम्पदात्मानं श्मशाने चन्दनादिना ।। ६
तत्रस्थे च शिलास्तम्भे स विन्यस्य विलेपनम् ।
विलिलेप कषन्पृष्ठं युवा प्रत्यहमेककः ।। ७
तेन स्तम्भः स सुश्लक्ष्णः कालेनाभवदेकतः ।
अथागाच्चित्रकृत्तेन पथा रूपकृता सह ।। ८
स स्तम्भं वीक्ष्य सुश्लक्ष्णं तत्र गौरीं समालिखत् ।
रूपकारोऽपि शस्त्रेण क्रीडयैवोल्लिलेख ताम् ।। ९
ततस्तयोर्गतवतोर्महाकालार्चनागता ।
विद्याधरसुतैकात्र स्तम्भे देवीं ददर्श ताम् ।। १०
सुलक्षणत्वात्सांनिध्यं तस्यां मत्वा कृतार्चना ।
अदृश्या विश्रमायैतं शिलास्तम्भं विवेश सा ।। ११
तावन्निश्चयदत्तः स तत्रागत्य वणिक्सुतः ।
साश्चर्यः स्तम्भमध्ये तां ददर्शोल्लिखितामुमाम् ।। १२
विलिप्याङ्गानि तत्स्तम्भभागेऽन्यत्रानुलेपनम् ।
न्यस्य पृष्ठं समालब्धुं प्रारेभे निकषंश्च सः ।। १३
तद्विलोक्य विलोलाक्षी सा विद्याधरकन्यका ।
स्तम्भान्तरस्था तद्रूपहृतचित्ता व्यचिन्तयत् ।। १४
ईदृशस्यापि कोऽप्यस्य नास्ति पृष्ठानुलेपकः ।
तदहं तावदद्यास्य पृष्ठमेषा समालभे ।। १५
इत्यालोच्य प्रसार्यैव करं स्तम्भान्तरात्ततः ।
व्यलिपत्तस्य सा पृष्ठं स्नेहाद्विद्याधरी तदा ।। १६
तत्क्षणं लब्धसंस्पर्शः श्रुतकङ्कणनिःस्वनः ।
जग्राह हस्तं हस्तेन स तस्यास्तं वणिक्सुतः ।। १७
महाभागापराद्धं ते किं मया मुञ्च मे करम् ।
इत्यदृश्येव तं विद्याधरी स्तम्भादुवाच सा ।। १८
प्रत्यक्षा ब्रूहि मे का त्वं ततो मोक्ष्यामि ते करम् ।
इति निश्चयदत्तोऽपि प्रत्युवाच स तां ततः ।। १९
प्रत्यक्षदृश्या सर्वं ते वच्मीति शपथोत्तरम् ।
विद्याधर्या तयोक्तोऽथ करं तस्या मुमोच सः ।। २०
अथ स्तम्भाद्विनिर्गत्य साक्षात्सर्वाङ्गसुन्दरी ।
तन्मुखासक्तनयना तं जगादोपविश्य सा ।। २१
अस्ति प्रालेयशैलाग्रे नगरी पुष्करावती ।
नाम्ना विन्ध्यपरस्तस्यामास्ते विद्याधराधिपः ।। २२
अनुरागपरा नाम तस्याहं कन्यका सुता ।
महाकालार्चनायाता विश्रान्तास्मीह संप्रति ।। २३
तावच्च त्वमिहागत्य कुर्वन्पृष्ठविलेपनम् ।
दृष्टः स्तम्भेऽत्र मारीयमोहनास्त्रोपमो मया ।। २४
ततः प्रागनुरागेण रञ्जितः स्वान्तवान्मम ।
पश्चात्पृष्ठविलेपिन्या अङ्गरागेण ते करः ।। २५
अतः परं ते विदितं तत्पितुर्धाम संप्रति ।
गच्छामीति तयोक्तोऽथ वणिक्पुत्रो जगाद सः ।। २६
स्वीकृतं तन्मया चण्डि न स्वान्तं भवतीहृतम् ।
अमुक्तस्वीकृतस्वान्ता कथमेवं तु गच्छसि ।। २७
इति तेनोदिता सा च लघुरागवशीकृता ।
संगमिष्ये त्वया काममेष्यस्यस्मत्पुरीं यदि ।। २८
दुर्गमा सा न ते नाथ सेत्स्यते ते समीहितम् ।
नहि दुष्करमस्तीह किंचिदध्यवसायिनाम् ।। २९
इत्युदीर्य खमुत्पत्य सानुरागपरा ययौ ।
अगान्निश्चयदत्तोऽपि स तद्गतमना गृहम् ।। ३०
स्मरन्द्रुमादिव स्तम्भादुद्भिन्नं करपल्लवम् ।
हा धिक्तस्या गृहीत्वापि नाप्तः पाणिग्रहो मया ।। ३१
तद्व्रजाम्यन्तिकं तस्याः पुरीं तां पुष्करावतीम् ।
प्राणांस्त्यक्ष्यामि दैवं वा साहाय्यं मे करिष्यति ।। ३२
इति संचिन्तयन्नीत्वा स्मरार्तः सोऽत्र तद्दिनम् ।
प्रातिष्ठत ततः प्रातरवलम्ब्योत्तरां दिशम् ।। ३३
ततः प्रक्रामतस्तस्य त्रयोऽन्ये सहयायिनः ।
मिलन्ति स्म वणिक्पुत्रा उत्तरापथगामिनः ।। ३४
तैः समं समतिक्रामन्पुरग्रामाटवीनदीः ।
क्रमादुत्तरदिग्भूमिं प्राप स म्लेच्छभूयसीम् ।। ३५
तत्र तैरेव सहितः पथि प्राप्यैव ताजिकैः ।
नीत्वापरस्मै मूल्येन दत्तोऽभूत्ताजिकाय सः ।। ३६
तेनापि तावद्भृत्यानां हस्ते कोशलिकाकृते ।
मुरवाराभिधानस्य तुरुष्कस्य व्यसृज्यत ।। ३७
तत्र नीतः स तद्भृत्यैर्युक्तस्तैरपरैस्त्रिभिः ।
मुरवारं मृतं बुद्ध्वा तत्पुत्राय न्यवेद्यत ।। ३८
पितुः कोशलिका ह्येषा मित्त्रेण प्रेषिता मम ।
तत्तस्यैवान्तिके प्रातः खाते क्षेप्या इमे मया ।। ३९
इत्यात्मना चतुर्थं तं तत्पुत्रोऽपि स तां निशाम् ।
संयम्य स्थापयामास तुरुष्को निगडैर्दृढम् ।। ४०
ततोऽत्र बन्धने रात्रौ मरणत्रासकातरान् ।
सखीन्निश्चयदत्तस्तान्स जगाद वणिक्सुतान् ।। ४१
का विषादेन वः सिद्धिर्धैर्यमालम्ब्य तिष्ठत ।
भीता इव हि धीराणां यान्ति दूरे विपत्तयः ।। ४२
स्मरतैकां भगवतीं दुर्गामापद्विमोचिनीम् ।
इति तान्धीरयन्भक्त्या देवीं तुष्टाव सोऽथ ताम् ।। ४३
नमस्तुभ्यं महादेवि पादौ ते यावकाङ्कितौ ।
मृदितासुरलग्नास्रपङ्काविव नमाम्यहम् ।। ४४
जितं शक्त्या शिवस्यापि विश्वैश्वर्यकृता त्वया ।
त्वदनुप्राणितं चेदं चेष्टते भुवनत्रयम्।। ४५
परित्रातास्त्वया लोका महिषासुरसूदिनि ।
परित्रायस्व मां भक्तवत्सले शरणागतम् ।। ४६
इत्यादि सम्यग्देवीं तां स्तुत्वा सहचरैः सह ।
सोऽथ निश्चयदत्तोऽत्र श्रान्तो निद्रामगाद्द्रुतम् ।। ४७
उत्तिष्ठत सुता यात विगतं बन्धनं हि वः ।
इत्यादिदेश सा स्वप्ने देवी तं चापरांश्च तान् ।। ४८
प्रबुध्य च तदा रात्रौ दृष्ट्वा बन्धान्स्वतश्च्युतान् ।
अन्योन्यं स्वप्नमाख्याय हृष्टास्ते निर्ययुस्ततः ।। ४९
गत्वा दूरमथाध्वानं क्षीणायां निशि तेऽपरे ।
ऊचुर्निश्चयदत्तं तं दृष्टत्रासा वणिक्सुताः ।। ५०
आस्तां बहुम्लेच्छतया दिगेषा दक्षिणापथम् ।
वयं यामः सखे त्वं तु यथाभिमतमाचर ।। ५१
इत्युक्तस्तैरनुज्ञाय यथेष्टागमनाय तान् ।
उदीचीमेव तामाशामवलम्ब्य पुनश्च सः ।। ५२
एको निश्चयदत्तोऽथ प्रतस्थे प्रसभं पथि ।
अनुरागपराप्रेमपाशकृष्टो निरस्तधीः ।। ५३
क्रमेण गच्छन्मिलितः स महाव्रतिकैः सह ।
चतुर्भिः प्राप्य सरितं वितस्तामुत्ततार सः ।। ५४
उत्तीर्य च कृताहारः सूर्येऽस्ताचलचुम्बिनि ।
विवेश तैरेव समं वनं मार्गवशागतम् ।। ५५
तत्र चाग्रागताः केचित्तमूचुः काष्ठभारिकाः ।
क्व गच्छथ दिने याते ग्रामः कोऽप्यस्ति नाग्रतः ।। ५६
एकस्तु विपिनेऽमुष्मिन्नस्ति शून्यः शिवालयः ।
तत्र तिष्ठति यो रात्रावन्तर्वा बहिरेव वा ।। ५७
तं शृङ्गोत्पादिनी नाम शृङ्गोत्पादनपूर्वकम् ।
मोहयित्वा पशूकृत्य भक्षयत्येव यक्षिणी ।। ५८
एतच्छ्रुत्वापि सावज्ञास्ते महाव्रतिनस्तदा ।
ऊचुर्निश्चयदत्तं ते चत्वारः सहयायिनः ।। ५९
एहि किं कुरुतेऽस्माकं वराकी सात्र यक्षिणी ।
तेषु तेषु श्मशानेषु निशासु हि वयं स्थिताः ।। ६०
इत्युक्तवद्भिस्तैः साकं गत्वा प्राप्य शिवालयम् ।
शून्यं निश्चयदत्तस्तां रात्रिं नेतुं विवेश सः ।। ६१
तत्राङ्गणे विधायाशु भस्मना मण्डलं महत् ।
प्रविश्य चान्तरे तस्य प्रज्वाल्याग्निं सहेन्धनैः ।। ६२
धीरो निश्चयदत्तः स ते महाव्रतिनस्तथा ।
मन्त्रं जपन्तो रक्षार्थं सर्व एवावतस्थिरे ।। ६३
अथाययौ वादयन्ती दूरात्कङ्कालकिंनरीम् ।
नृत्यन्ती यक्षिणी तत्र सा शृङ्गोत्पादिनी निशि ।। ६४
एत्य तेषु चतुर्ष्वेकं सा महाव्रतिनं प्रति ।
दत्तदृङ्मन्त्रमपठत्सनृत्तं मण्डलाद्बहिः ।। ६५
तेन मन्त्रेण संजातशृङ्गो मोहित उत्थितः ।
नृत्यंस्तस्मिञ्ज्वलत्यग्नौ स महाव्रतिकोऽपतत् ।। ६६
पतितं चार्धदग्धं तमाकृष्यैवाग्निमध्यतः ।
सा शृङ्गोत्पादिनी हृष्टा भक्षयामास यक्षिणी ।। ६७
ततो द्वितीये व्रतिनि न्यस्तदृष्टिस्तथैव सा ।
तं शृङ्गोत्पादनं मन्त्रं पपाठ च ननर्त च ।। ६८
सोऽपि द्वितीयस्तन्मन्त्रजातशृङ्गः प्रनर्तितः ।
पतितोऽग्नौ तयाकृष्य पश्यत्स्वन्येष्वभक्ष्यत ।। ६९
एवं क्रमेण संमोह्य तान्महाव्रतिनो निशि ।
तयाभक्ष्यन्त यक्षिण्या चत्वारोऽपि सशृङ्गकाः ।। ७०
चतुर्थं भक्षयन्त्या च तया मांसास्रमत्तया ।
स्वयं किंनरिकातोद्यं दैवाद्भूमौ न्यधीयत ।। ७१
तावच्च क्षिप्रमुत्थाय तद्गृहीत्वैव वादयन् ।
धीरो निश्चयदत्तोऽपि प्रनृत्यन्विहसन्भ्रमन् ।। ७२
तं शृङ्गोत्पादनं मन्त्रमसकृच्छ्रुतशिक्षितम् ।
पापठ्यते स्म यक्षिण्यास्तस्या न्यस्तेक्षणो मुखे ।। ७३
तत्प्रयोगप्रभावेण विवशा मृत्युशङ्किनी ।
उत्थातुकामशृङ्गी सा प्रह्वा तं प्राह यक्षिणी ।। ७४
मा वधीस्त्वं महासत्त्व स्त्रियं मां कृपणामिमाम् ।
इदानीं शरणं त्वं मे मन्त्रपाठादि संहर ।। ७५
रक्ष मां वेद्म्यहं सर्वमीप्सितं साधयामि ते ।
अनुरागपरा यत्र तत्र त्वां प्रापयाम्यहम् ।। ७६
इति सप्रत्ययं प्रोक्तस्तया धीरस्तथेति सः ।
चक्रे निश्चयदत्तोऽत्र मन्त्रपाठादिसंहृतिम् ।। ७७
ततः स तस्या यक्षिण्याः स्कन्धमारुह्य तद्गिरा ।
नीयमानस्तया व्योम्ना प्रतस्थे तां प्रियां प्रति ।। ७८
प्रभातायां च रजनौ प्राप्यैकं गिरिकाननम् ।
नम्रा निश्चयदत्तं तं गुह्यकी सा व्यजिज्ञपत् ।। ७९
सूर्योदयेऽधुना गन्तुं शक्तिर्नास्ति ममोपरि ।
तदस्मिन्कानने कान्ते गमयेदं दिनं प्रभो ।। ८०
फलानि भुङ्क्ष्व स्वादूनि निर्झराम्भः शुभं पिब ।
अहं यामि निजं स्थानमेष्यामि च निशागमे ।। ८१
नेष्यामि च तदैव त्वामनुरागपरान्तिकम् ।
मौलिमालां हिमगिरेर्नगरीं पुष्करावतीम् ।। ८२
इत्युक्त्वा तदनुज्ञाता स्कन्धात्तत्रावतार्य तम् ।
यक्षिणी पुनरागन्तुं सत्यसंधा जगाम सा ।। ८३
ततो निश्चयदत्तोऽस्यां गतायामैक्षतात्र सः ।
अगाधमन्तः सविषं स्वच्छशीतं बहिः सरः ।। ८४
रागिन्स्त्रीचित्तमेतादृगित्यर्केण निदर्शनम् ।
प्रसारितकरेणेव प्रकटीकृत्य दर्शितम् ।। ८५५
स तद्विषाक्तं गन्धेन बुद्ध्वा मानुषकृत्यतः ।
त्यक्त्वाम्भोर्थी तृषार्तः सन्दिव्ये तत्राभ्रमद्गिरौ ।। ८६
भ्रमन्नुन्नतभूभागे पद्मरागमणी इव ।
स्फुरन्तौ द्वावपश्यच्च भुवं तां निचखान च ।। ८७
अपास्तमृत्तिकश्चास्य जीवतो मर्कटस्य सः ।
शिरो ददर्श ते चास्य पद्मरागाविवाक्षिणी ।। ८८
ततो विस्मयते यावत्किमेतदिति चिन्तयन् ।
तावन्मनुष्यवाचासौ मर्कटस्तमभाषत ।। ८९
मानुषो मर्कटीभूतो विप्रोऽहं मां समुद्धर ।
कथयिष्यामि ते साधो स्ववृत्तान्तं ततोऽखिलम् ।। ९०
एतच्छ्रुत्वैव साश्चर्यो मृत्तिकामपनीय सः ।
भूमेर्निश्चयदत्तस्तमुज्जहाराथ मर्कटम् ।। ९१
उद्धृतः पादपतितस्तं भूयोऽपि स मर्कटः ।
उवाच दत्ताः प्राणा मे कृच्छ्रादुद्धरता त्वया ।। ९२
तदेहि यावच्छ्रान्तस्त्वमुपयुङ्क्ष्व फलाम्बुनी ।
त्वत्प्रसादादहं चापि करिष्ये पारणं चिरात् ।। ९३
इत्युक्त्वा तमनैषीत्स दूरं गिरिनदीतटम् ।
कपिः स्वाधीनसुस्वादुफलसच्छायपादपम् ।। ९४
तत्र स्नात्वोपभुक्ताम्बुफलः स कृतपारणम् ।
कपिं निश्चयदत्तस्तं प्रत्यागत्य ततोऽब्रवीत् ।। ९५
कथं त्वं मर्कटीभूतो मानुषोऽप्युच्यतामिति ।
ततः स मर्कटोऽवादीच्छृण्विदानीं वदाम्यदः ।। ९६
चन्द्रस्वामीति नाम्नास्ति वाराणस्यां द्विजोत्तमः ।
तस्य पत्न्यां सुवृत्तायां जातोऽस्म्येष सुतः सखे ।। ९७
सोमस्वामीति पित्रा च कृतनामा क्रमादहम् ।
आरूढो मदनव्यालगजं मदनिरङ्कुशम् ।। ९८
तं मां कदाचिदद्राक्षीद्दूराद्वातायनाग्रगा ।
श्रीगर्भाख्यस्य वणिजस्तत्पुरीवासिनः सुता ।। ९९
तरुणी बन्धुदत्ताख्या माथुरस्य वणिक्पतेः ।
भार्या वराहदत्तस्य पितुर्वेश्मन्यवस्थिता ।। १००
सा मदालोकसंजातमन्मथान्विष्य नाम मे ।
वयस्यां प्राहिणोदाप्तां मह्यं मत्संगमार्थिनी ।। १०१
सा तद्वयस्या कामान्धामुपगम्य जनान्तिकम् ।
आख्याततदभिप्राया मामनैषीन्निजं गृहम् ।। १०२
तत्र मां स्थापयित्वा च गत्वा गुप्तं तदैव सा ।
तां बन्धुदत्तामानैषीदौत्सुक्यागणितत्रपाम् ।। १०३
आनीतैव च सा मेऽत्र कण्ठाश्लेषमुपागमत् ।
एकवीरो हि नारीणामतिभूमिं गतः स्मरः ।। १०४
एवं दिने दिने स्वैरमागत्यात्र पितुर्गुहात् ।
अरंस्त बन्धुदत्ता सा मया सह सखीगृहे ।। १०५
एकदा तां निजगृहं नेतुं तत्र चिरस्थिताम् ।
आगतः स पतिस्तस्या मथुरातो महावणिक् ।। १०६
ततः पित्राभ्यनुज्ञाता पत्या तेन निनीषिता ।
रहस्यज्ञां द्वितीयां सा बन्धुदत्ताब्रवीत्सखीम् ।। १०७
निश्चितं सखि नेतव्या भर्त्राहं मथुरां पुरीम् ।
न च जीवाम्यहं तत्र सोमस्वामिविनाकृता ।। १०८
तदत्र कोऽभ्युपायो मे कथयेत्युदिता तया ।
सखी सुखशया नाम योगिनी तां जगाद सा ।। १०९
द्वौ स्तो मन्त्रप्रयोगौ मे ययोरेकेन सूत्रके ।
कण्ठबद्धे झगित्येव मानुषो मर्कटो भवेत् ।। ११०
द्वितीयेन च मुक्तेऽस्मिन्सूत्रके सैष मानुषः ।
पुनर्भवेत्कपित्वे च नास्य प्रज्ञा विलुप्यते ।। १११
तद्यदीच्छति सुश्रोणि सोमस्वामी प्रियः स ते ।
तदेतं मर्कटशिशुं संप्रत्येव करोम्यहम् ।। ११२
ततः क्रीडानिभादेतं गृहीत्वा मथुरां व्रज ।
मन्त्रयुक्तिद्वयं चैतद्भवतीं शिक्षयाम्यहम् ।। ११३
संविधास्यसि येनैनं पार्श्वस्थं मर्कटाकृतिम् ।
रहःस्थाने च पुरुषं प्रियं संपादयिष्यसि ।। ११४
एवमुक्ता तया सख्या बन्धुदत्ता तथैव सा ।
रहस्यानाय्य सस्नेहं तदर्थं मामबोधयत् ।। ११५
कृतानुज्ञ च मां बद्धमन्त्रसूत्रं गले क्षणात् ।
तत्सखी सा सुखशया व्यधान्मर्कटपोतकम् ।। ११६
तद्रूपेण स्वभर्त्रे सा बन्धुदत्तोपनीय माम् ।
सख्या मह्यं विनोदाय दत्तोऽसावित्यदर्शयत् ।। ११७
अतुष्यत्स च मां दृष्ट्वा क्रीडनीयं तदङ्कगम् ।
अहं च कपिरेवासं प्राज्ञोऽपि व्यक्तवागपि ।। ११८
अंहो स्त्रीचरितं चित्रमित्यन्तश्च हसन्नपि ।
तथातिष्ठमहं को हि कामेन न विडम्ब्यते ।। ११९
सख्या शिक्षिततन्मन्त्रा बन्धुदत्ताह्व्यथापरे ।
मथुरां प्रति सा प्रायाद्भर्त्रा सह पितुर्गृहात् ।। १२०
मां चाप्येकस्य भृत्यस्य स्कन्धमारोपयत्तदा ।
स भर्ता बन्धुदत्तायाः पथि तत्प्रियकाम्यया ।। १२१
ततो वयं ते सर्वेऽपि यान्तो मध्ये पथि स्थितम् ।
दिनैर्द्वित्रैर्वनं प्राप्ता बहुमर्कटभीषणम् ।। १२२
ततोऽभ्यधावन्दृष्ट्वा मां मर्कटा गणशोऽभितः ।
क्षिप्तं किलकिलारावैराह्वयन्तः परस्परम् ।। १२३
आगत्य खादितुं ते च प्रारभन्त प्लवंगमाः ।
दुर्वारास्तं वणिग्भृत्यं यस्य स्कन्धेऽहमासितः ।। १२४
स तेन विह्वलः स्कन्धात्त्यक्त्वैव भुवि मां भयात् ।
पलायितोऽभूदथ मामगृह्णंस्तेऽत्र मर्कटाः ।। १२५
मत्स्नेहाद्बन्धुदत्ता च तद्भर्ता तस्य चानुगाः ।
पाषाणैर्लगुडैर्घ्नन्तो जेतुं तान्नाशकन्कपीन् ।। १२६
ततस्ते मर्कटा मूढस्याङ्गेऽङ्गे लोम लोम मे ।
नखैर्व्यलुम्पन्दन्तैश्च कुकर्मकुपिता इव ।। १२७
कण्ठसूत्रस्य माहात्म्याच्छंभोश्च स्मरणात्ततः ।
अहं लब्धबलस्तेभ्यो बन्धमुन्मुच्य विद्रुतः ।। १२८
प्रविश्य गहने तेषां व्यतीतो दृष्टिगोचरात् ।
क्रमाद्वनाद्वनं गच्छन्निदं प्राप्तोऽस्मि काननम् ।। १२९
भ्रष्टस्य बन्धुदत्ताया जन्मन्यत्रैव ते कथम् ।
मर्कटत्वफलो जातः परदारसमागमः ।। १३०
इति दुःखतमोन्धस्य भ्रमतः प्रावृषीह मे ।
दुःखान्तरमपि प्रत्तमसंतुष्टेन वेधसा ।। १३१
यन्मामकस्मादागत्य कराक्रान्तं करेणुका ।
मेघाम्भःप्लुतवल्मीककर्दमान्तर्न्यवेशयत् ।। १३२
भवितव्यनियुक्ता च जाने सा कापि देवता ।
यद्यत्नान्नाशकं तस्मात्पङ्काच्चलितुमप्यलम् ।। १३३
आश्वास्यमाने चैतस्मिन्न मृतोऽस्मि न केवलम् ।
यावज्ज्ञानं ममोत्पन्नमनिशं ध्यायतो हरम् ।। १३४
तावत्कालं च नैवासीत्क्षुत्तृषा च सखे मम ।
यावदद्योद्धृतः शुष्कपङ्ककूटादहं त्वया ।। १३५
ज्ञाने प्राप्तेऽपि शक्तिर्मे तावती नैव विद्यते ।
मोचयेयं ययात्मानमितो मर्कटभावतः ।। १३६
कण्ठसूत्रं यदा कापि तन्मन्त्रेणैव मोक्ष्यति ।
योगिनी मे तदा भूयो भवितास्मीह मानुषः ।। १३७
इत्येष मम वृत्तान्तस्त्वं त्वगम्यमिदं वनम् ।
किमागतः कथं चेति ब्रूहीदानीं वयस्य मे ।। १३८
एवं मर्कटरूपेण सोमस्वामिद्विजेन सः ।
उक्तो निश्चयदत्तः स्वं तस्मै वृत्तान्तमब्रवीत् ।। १३९
यथा विद्याधरीहेतोरुज्जयिन्याः समागतः ।
आनीतो धैर्यजितया यक्षिण्या च तया निशि ।। १४०
ततः श्रुततदाश्चर्यवृत्तान्तः कपिरूपधृत् ।
धीमान्निश्चयदत्तं तं सोमस्वामी जगाद सः ।। १४१
अनुभूतं त्वया दुःखं मयैव स्त्रीकृते महत् ।
न च श्रियः स्त्रियश्चेह कदाचित्कस्यचित्स्थिराः ।। १४२
संध्यावत्क्षणरागिण्यो नदीवत्कुटिलाशयाः ।
भुजगीवदविश्वास्या विद्युद्वच्चपलाः स्त्रियः ।। १४३
तत्सा विद्याधरी रक्ताप्यनुरागपरा क्षणात् ।
प्राप्य कंचित्स्वजातीयं विरज्येत्त्वयि मानुषे ।। १४४
तदलं स्त्रीनिमित्तेन प्रयासेनामुनाधुना ।
किंपाकफलतुल्येन विपाकविरसेन ते ।। १४५
मा गा विद्याधरपुरीं तां सखे पुष्करावतीम् ।
यक्षिणीस्कन्धमारुह्य तामेवोज्जयिनीं व्रज ।। १४६
कुरु मद्वचनं मित्र पूर्वं मित्रवचो मया ।
न कृतं रागिणा तेन परितप्येऽधुनाप्यहम् ।। १४७
बन्धुदत्तानुरक्तं हि सुस्निग्धो ब्राह्मणस्तदा ।
वारयन्भवशर्माख्यः सुहृन्मामेवमब्रवीत् ।। १४८
स्त्रियाः सखे वशं मा गाः स्त्रीचित्तं ह्यतिदुर्गमम् ।
तथा च मम यद्वृत्तं तदिदं वच्मि ते शृणु ।। १४९
वाराणस्यामिहैवासीत्तरुणी रूपशालिनी ।
ब्राह्मणी सोमदा नाम चपला गुप्तयोगिनी ।। १५०
तया च सह मे दैवात्समभूत्संगमो रहः ।
तत्संगमक्रमात्तस्यां मम प्रीतिरवर्धत ।। १५१
एकदा तामहं स्वैरमीर्ष्याकोपादताडयम् ।
तच्चासहिष्ट सा क्रूरा कोपं प्रच्छाद्य तत्क्षणम् ।। १५२
अन्येद्युः प्रणयक्रीडाव्याजाच्च मम सूत्रकम् ।
गलेऽबध्नादहं दान्तस्तत्क्षणं बलदोऽभवम् ।। १५३
ततोऽहं बलदीभूतस्तया दान्तोष्ट्रजीविनः ।
एकस्य पुंसो विक्रीतो गृहीताभीष्टमूल्यया ।। १५४
तेनारोपितभारं मां क्लिश्यमानमवैक्षत ।
बन्धमोचनिका नाम योगिन्यत्र कृपान्विता ।। १५५
सा ज्ञानतः सोमदया विदित्वा मां पशूकृतम् ।
मुमोच कण्ठात्सूत्रं मे मद्गोस्वामिन्यपश्यति ।। १५६
ततोऽहं मानुषीभूतः स च क्षिप्राद्विलोकयन् ।
पलायितं मां मन्वानो मत्स्वामी प्राभ्रमद्दिशः ।। १५७
अहं च बन्धमोचिन्या तया सह ततो व्रजन् ।
दैवादागतया दूराद्दृष्टः सोमदया तया ।। १५८
सा क्रोधेन ज्वलन्ती तां ज्ञानिनीं बन्धमोचिनीम् ।
अवादीत्किमयं पापस्तिर्यक्त्वान्मोचितस्त्वया ।। १५९
धिक्प्राप्स्यसि दुराचारे फलमस्य कुकर्मणः ।
प्रातस्त्वां निहनिष्यामि सहिता पाप्मनामुना ।। १६०
इत्युक्त्वैव गतायां च तस्यां सा सिद्धयोगिनी ।
तत्प्रतीघातहेतोर्मामवोचद्बन्धमोचिनी ।। १६१
हन्तुं मां कृष्णतुरगीरूपेणैषाभ्युपैष्यति ।
मया च शोणवडवारूपमत्राश्रयिष्यते ।। १६२
ततो युद्धे प्रवृत्ते नौ पृष्ठतः खड्गपाणिना ।
सोमदायां प्रहर्तव्यं त्वयास्यामप्रमादिना ।। १६३
एवमेतां हनिष्यावस्तत्प्रातस्त्वं गृहे मम ।
आगच्छेरित्युदित्वा सा गृहं मे स्वमदर्शयत् ।। १६४
तत्र तस्यां प्रविष्टायामहं निजगृहानगाम् ।
अनुभूताद्ध्वतानेकजन्मामुत्रैव जन्मनि ।। १६५
प्रातः कृपाणपाणिश्च गतवानस्मि तद्गृहम् ।
अथागात्सोमदा सात्र कृष्णाश्वारूपधारिणी ।। १६६
सापि शोणहयारूपमकरोद्बन्धमोचिनी ।
खुरदन्तप्रहारैश्च ततो युद्धमभूत्तयोः ।। १६७
मया प्रदत्तनिस्त्रिंशप्रहारा क्षुद्रशाकिनी ।
निहता बन्धमोचिन्या तया सा सोमदा ततः ।। १६८
अथाहं निर्भयीभूतस्तीर्णतिर्यक्त्वदुर्गतिः ।
न कुस्त्रीसंगमं भूयो मनसा समचिन्तयम् ।। १६९
चापलं साहसिकता शाकिनीशम्बरादयः ।
दोषाः स्त्रीणां त्रयः प्रायो लोकत्रयभयावहाः ।। १७०
तच्छाकिनीसखीं बन्धुदत्तां किमनुधावसि ।
स्नेहो यस्या न पत्यौ स्वे तस्यास्तु त्वय्यसौ कुतः ।। १७१
एवमुक्तोऽप्यहं तेन मित्रेण भवशर्मणा ।
नाकार्षं वचनं तस्य प्राप्तोऽस्मीमां गतिं ततः ।। १७२
अतस्त्वावच्मि मा कार्षीरनुरागपरा प्रति ।
क्लेशं सा हि स्वजातीये प्राप्ते त्वां त्यक्ष्यति ब्रुवम् ।। १७३
भृङ्गीव पुष्पं पुरुषं स्त्री वाञ्छति नवं नवम् ।
अतोऽनुतापो भविता ममेव भवतः सखे ।। १७४
इत्येतत्कपिरूपस्थसोमस्वामिवचो हृदि ।
तस्य निश्चयदत्तस्य नाविशद्रागनिर्भरे ।। १७५
उवाच स कपिं तं हि न सा व्यभिचरेन्मयि ।
विद्याधराधिपकुले शुद्धे जाता ह्यसाविति ।। १७६
एवं तयोरालपतोः संध्यारक्तोऽस्तभूधरम् ।
ययौ निश्चयदत्तस्य प्रियेच्छुरिव भास्करः ।। १७७
अथागतायां रजनावग्रदूत्यामिवाययौ ।
सा शृङ्गोत्पादिनी तस्य निकटं तत्र यक्षिणी ।। १७८
ययौ निश्चयदत्तस्तत्स्कन्धारूढः प्रियां प्रति ।
प्रयातुमापृच्छय कपिं स्मर्तव्योऽस्मीति वादिनम् ।। १७९
निशीथे च हिमाद्रौ तामनुरागपरा पितुः ।
पुरीं विद्याधरपतेः प्राप्तवान्पुष्करावतीम् ।। १८०
तावत्प्रभावतो बुद्ध्वा तदभ्यागमनाय सा ।
ततो नगर्या निरगादनुरागपरा बहिः ।। १८१
इयमायाति ते कान्ता निशि नेत्रोत्सवप्रदा ।
इन्दुमूर्तिर्द्वितीयेव तदिदानीं व्रजाम्यहम् ।। १८२
इत्युक्त्वा दर्शयित्वा तामंसाग्रादवतारितम् ।
नत्वा निश्चयदत्तं तमथ सा यक्षिणी ययौ ।। १८३
ततः सापि चिरौत्सुक्यसंरम्भालिङ्गनादिभिः ।
उपगम्याभ्यनन्दत्तमनुरागपरा प्रियम् ।। १८४
सोऽप्याश्लिष्य बहुक्लेशलब्धतत्संगमोत्सवः ।
अवर्तमानः स्वे देहे तनुं तस्या इवाविशत् ।। १८५
तेन गान्धर्वविधिना भार्या भूत्वाथ तस्य सा ।
अनुरागपरा सद्यो विद्यया निर्ममे पुरम् ।। १८६
तस्मिन्निश्चयदत्तोऽसौ बाह्ये तस्थौ तया सह ।
तद्विद्याच्छन्नदृष्टिभ्यां तत्पितृभ्यामतर्कितः ।। १८७
पृष्टस्तांस्तादृशांस्तस्यै मार्गक्लेशाञ्शशंस यत् ।
तेन सा बहु मेने तं भोगैश्चेष्टैरुपाचरत् ।। १८८
अथ तन्मर्कटीभूतसीमस्वामिकथाद्भुतम् ।
सोऽत्र निश्चयदत्तोस्यै विद्याधर्यै न्यवेदयत् ।। १८९
जगाद चैतन्मित्त्रं मे त्वत्प्रयत्नेन केनचित् ।
तिर्यक्त्वाद्यदि मुच्येत तत्प्रिये सुकृतं भवेत् ।। १९०
इत्युक्ता तेन सावोचदनुरागपरापि तम् ।
योगिन्या मन्त्रमार्गोऽयं नास्माकं विषयः पुनः ।। १९१
तथापि साधयिष्यामि प्रियमेतदहं तव ।
अभ्यर्थ्य भद्ररूपाख्यां वयस्यां सिद्धयोगिनीम् ।। १९२
तच्छ्रुत्वा स वणिक्पुत्रो हृष्टस्तामवदत्प्रियाम् ।
तर्हि तं पश्य मन्मित्त्रमेहि यावत्तदन्तिकम् ।। १९३
तदेत्युक्ते तयान्येद्युस्तदुत्सङ्गस्थितश्च सः ।
व्योम्ना निश्चयदत्तोऽगात्सख्युस्तस्यास्पदं वनम् ।। १९४
तत्र तं सुहृदं दृष्ट्वा कपिरूपमुपेत्य सः ।
प्रणमत्प्रियया साकमपृच्छत्कुशलं तदा ।। १९५
अद्य मे कुशलं यत्त्वमनुरागपरायुतः ।
दृष्टो मयेति सोऽप्युक्त्वा सोमस्वामिकपिः किल ।। १९६
तमभ्यनन्दत्प्रददौ तत्प्रियार्थं तथाशिषम् ।
ततः सर्वेऽप्युपाविक्षंस्तत्र रम्ये शिलातले ।। १९७
चक्रुश्च तत्कथालापं तत्तत्तस्य कपेः कृते ।
आदौ निश्चयदत्तेन चिन्तितं कान्तया सह ।। १९८
ततस्तं कपिमापृच्छ्य प्रेयसीसदनं च तत् ।
ययौ निश्चयदत्तो द्यामुत्पत्याङ्के धृतस्तया ।। १९९
अन्येद्युस्तामवादीच्च सोऽनुरागपरां पुनः ।
एहि तस्यान्तिकं सख्युः क्षणं याव कपेरिति ।। २००
ततः सापि तमाह स्म त्वमेवाद्य व्रज स्वयम् ।
गृहाणोत्पतनीं विद्यां मत्तोऽवतरणीं तथा ।। २०१
इत्युक्तः स तदादाय तद्विद्याद्वित्तयं ततः ।
व्योम्ना निश्चयदत्तोऽगात्सख्युस्तस्यान्तिकं कपेः ।। २०२
तत्र यावत्स कुरुते तेन साकं चिरं कथाः ।
सानुरागपरा तावदुद्यानं निर्ययौ गृहात् ।। २०३
तत्र तस्यां निषण्णायां विद्याधरकुमारकः ।
कोऽप्याजगाम नभसा परिभ्राम्यन्यदृच्छया ।। २०४
स दृष्ट्वैव स्मरावेशविवशस्तामुपाययौ ।
विद्याधरीं स तां बुद्ध्वा विद्यया मर्त्यभर्तृकाम् ।। २०५
साप्युपेतं तमालोक्य सुभगं विनतातना ।
कस्त्वं किमागतोऽसीति शनैः पप्रच्छ कौतुकात् ।। २०६
ततः स प्रत्यवोचत्तां स्वविद्याज्ञानशालिनम् ।
विद्धि विद्याधरं मुग्धे नाम्ना मां राजभञ्जनम् ।। २०७
सोऽहं संदर्शनादेव सहसा हरिणेक्षणे ।
मनोभुवा वशीकृत्य तुभ्यमेव समर्पितः ।। २०८
तदलं देवि सेवित्वा मर्त्यं धरणिगोचरम् ।
पिता वेत्ति न यावत्ते तावत्तुल्यं भजस्व माम् ।। २०९
इति तस्मिन्ब्रुवाणे सा कटाक्षार्धविलोकिनी ।
अचिन्तयदयं युक्तो ममेति चपलाशया ।। २१०
ततो लब्ध्वाशयं चक्रे भार्या तेनैव तत्र सा ।
अपेक्षते द्वयोरैकचित्त्ये किं रहसि स्मरः ।। २११
अथ विद्याधरे तस्मिन्संप्रत्यपसृते ततः ।
आगान्निश्चयदत्तोऽत्र सोमस्वामिसमीपतः ।। २१२
आगतस्य न सा चक्रे विरक्तालिङ्नादिकम् ।
अनुरागपरा तस्य व्यपदिश्य शिरोरुजम् ।। २१३
स तद्व्याजमविदन्नृजुः स्नेहविमोहितः ।
अस्वास्थ्यमेव मत्वास्या दुःखं तदनयद्दिनम् ।। २१४
प्रातश्च दुर्मना भूयस्तं कपिं सुहृदं प्रति ।
स सोमस्वामिनं प्रायान्नभसा विद्ययोर्बलात् ।। २१५
याते तस्मिन्नुपागात्ता सोऽनुरागपरां पुनः ।
कामी विद्याधरो रात्रिकृतोन्निद्रस्तया विना ।। २१६
निशाविरहसोत्कण्ठां कण्ठे तामवलम्ब्य च ।
सुरतान्तपरिश्रान्तो निद्राक्रान्तो बभूव सः ।। २१७
साप्यङ्कसुप्तं प्रच्छाद्य प्रियं विद्याबलेन तम् ।
रात्रिजागरणान्निद्रामनुरागपरा ययौ ।। २१८
तावन्निश्चयदत्तोऽपि प्राप तस्यान्तिकं कपेः ।
सोऽपि पप्रच्छ तं कृत्वा स्वागतं वानरः सुहृत् ।। २१९
दुर्मनस्कमिवाद्य त्वां किं पश्याम्युच्यतामिति ।
ततो निश्चयदत्तोऽपि स तं वानरमब्रवीत् ।। २२०
अनुरागपरात्यर्थमस्वस्था मित्र वर्तते ।
तेनास्मि दुःस्थितः सा हि प्राणेभ्योऽपि प्रिया मम ।। २२१
इत्युक्तस्तेन स ज्ञानी मर्कटस्तमभाषत ।
गच्छ सुप्तामिदानीं तां स्थितां कृत्वाङ्कवर्तिनीम् ।। २२२
तद्दत्तविद्यया व्योम्ना तामानय मदन्तिकम् ।
यावन्महदिहाश्चर्यं दर्शयाम्यधुनैव ते ।। २२३
तच्छ्रुत्वा खेन गत्वैव सोऽनुरागपरां ततः ।
दृष्ट्वा निश्चयदत्तस्तां सुप्तामङ्केऽग्रहील्लघु ।। २२४
तं तु विद्याधरं तस्या नाङ्गे लग्नं ददर्श सः ।
सुप्तं विद्याबलेनादावदृश्यं विहितं तया ।। २२५
उत्पत्य चान्तरिक्षं तामनुरागपरा क्षणात् ।
आनिनाय कपेस्तस्य स सोमस्वामिनोऽन्तिकम् ।। २२६
स कपिर्दिव्यदृक्तस्मै तदा योगमुपादिशत् ।
येन विद्याधरं तस्याः कण्ठे लग्नं ददर्श सः ।। २२७
दृष्ट्वा च हा धिगेतत्किमिति तं वादिनं कपिः ।
स एव तत्त्वदर्शी तद्यथावृत्तमबोधयत् ।। २२८
क्रुद्धे निश्चयदत्तेऽथ तस्मिन्विद्याधरोऽत्र सः ।
प्रबुद्धस्तत्प्रियाकामी खमुत्पत्य तिरोदधे ।। २२९
सापि प्रबुद्धा तत्कालमनुरागपरात्मनः ।
रहस्यभेदं तं दृष्ट्वा ह्रिया तस्थावधोमुखी ।। २३०
ततो निश्चयदत्तस्तामुवाचोदश्रुलोचनः ।
विश्वस्तोऽहं कथं पापे त्वयैवं बत वञ्चितः ।। २३१
अत्यन्तचञ्चलस्येह पारदस्य निबन्धने ।
कामं विज्ञायते युक्तिर्न स्त्रीचित्तस्य काचन ।। २३२
इति ब्रुवति तस्मिन्सानुत्तरा रुदती शनैः ।
अनुरागपरोत्पत्य दिवं धाम निजं ययौ ।। २३३
ततो निश्चयदत्तं तं सुहृन्मर्कटकोऽब्रवीत् ।
एतां यदन्वधावस्त्वं वारितोऽपि मया प्रियाम् ।। २३४
तस्येदं तीव्ररागाग्नेः फलं यदनुतप्यसे ।
को हि संपत्सु चपलास्वाश्वासो वनितासु च ।। २३५
तदलं परितापेन तवेदानीं शमं कुरु ।
भवितव्यं हि धात्रापि न शक्यमतिवर्तितुम् ।। २३६
इति तस्मात्कपेः श्रुत्वा शोकमोहं विहाय तम् ।
ययौ निश्चयदत्तोऽत्र विरक्तः शरणं शिवम् ।। २३७
अथ तत्र वने सुहृदा कपिना सह तिष्ठतस्ततो निकटम् ।
तस्याजगाम दैवात्तपस्विनी मोक्षदा नाम ।। २३८
सा तं क्रमेण दृष्ट्वा प्रणतं पप्रच्छ मानुषस्य सतः ।
चित्रं कथमिह जातो मित्त्रं ते मर्कटोऽयमिति ।। २३९
ततः स्वं वृत्तान्तं तदनु च स मित्रस्य चरितं समाचख्यौ तस्यै कृपणमथ तामेवमवदत् ।
प्रयोगं मन्त्रं वा यदि भगवती वेत्ति तदिमं कपित्वात्सन्मित्त्रं सुहृदमधुना मोचयतु मे ।। २४०
तच्छ्रुत्वा सा तस्य बाढं कपेस्तत्सूत्रं कण्ठान्मन्त्रयुक्त्या मुमोच ।
सोऽथ त्यक्त्वा मार्कटीमाकृतिं तां सोमस्वामी पूर्ववन्मानुषोऽभूत् ।। २४१
तस्यां ततश्च तडितीव तिरोहितायां दिव्यप्रभावभृति भूरि तपो विधाय ।
कालेन तत्र किल निश्चयदत्तसोमस्वामिद्विजौ प्रययतुः परमां गतिं तौ ।। २४२
एवं निसर्गचपला ललना विवेकवैराग्यदायिबहुदुश्चरितप्रबन्धाः ।
साध्वी तु काचिदपि तासु कुलं विशालं यालंकरोत्यभिनवा खमिवेन्दुलेखा ।। २४३
इत्येतां नरवाहनदत्तः सचिवस्य गोमुखस्य मुखात् ।
चित्रामाकर्ण्य कथां तुतोष रत्नप्रभासहितः ।। २४४
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके तृतीयस्तरङ्गः ।