कथासरित्सागरः/लम्बकः ७/तरङ्गः ५
एवं कथितवत्यत्र मरुभूतौ चमूपतिः ।
नरवाहनदत्तस्य पुरो हरिशिखोऽब्रवीत् ।। १
सत्यमेव न सुस्त्रीणां भर्तुरन्यत्परायणम् ।
तथा च श्रूयतामेषाप्यत्र चित्रतरा कथा ।। २
वर्धमानपुरं नाम यदस्ति नगरं भुवि ।
तत्र वीरभुजाख्योऽभूद्राजा धर्मभृतां वरः ।। ३
अन्तःपुरशते तस्य विद्यमानेऽप्यभूत्प्रभोः ।
एका गुणवरा नाम राज्ञी प्राणाधिकप्रिया ।। ४
पत्नीशतस्य मध्ये च न तावद्दैवयोगतः ।
एकस्यामपि कस्यांचित्पुत्रस्तस्योदपद्यत ।। ५
तेन वैद्यं स पप्रच्छ श्रुतवर्धनसंज्ञकम् ।
कच्चिदस्त्यौषधं तादृग्येन स्यात्पुत्रसंभवः ।। ६
तच्छ्रुत्वा सोऽब्रवीद्वैद्यो देवैतत्साधयाम्यहम् ।
वन्यच्छगलकः किं तु देवेनानाय्यतां मम ।। ७
इत्याकर्ण्य भिषग्वाक्यं प्रतीहारं स भूपतिः ।
आदिश्यानाययामास तस्य च्छगलकं वनात् ।। ८
तं छागं राजसूदेभ्यः समर्प्य स भिषक्ततः ।
तन्मांसैः साधयामास राज्ञ्यर्थं रसकोत्तमम् ।। ९
आदिश्यैकत्र राज्ञीनां मेलकं देवमर्चितुम् ।
गते राज्ञि मिलन्ति स्म देव्य एकत्र तत्र ताः ।। १०
एका तु मिलिता नासीद्राज्ञो गुणवरात्र सा ।
राज्ञो देवार्चनस्थस्य तत्कालं निकटे स्थिता ।। ११
मिलिताभ्यश्च ताभ्यस्तत्पानार्थं चूर्णमिश्रितम् ।
अविभाव्यैव रसकं निःशेषं स ददौ भिषक् ।। १२
क्षणात्कृतार्चनः सोऽत्र राजागत्य प्रियायुतः ।
वीक्ष्याशेषोपयुक्तं तद्द्रव्यं वैद्यं तमभ्यधात् ।। १३
अहो न स्थापितं किंचित्त्वया गुणवराकृते ।
यत्प्रधानोऽयमारम्भस्तदेव तव विस्मृतम् ।। १४
इत्युक्त्वा स विलक्षं तं वैद्यं सूदान्नृपोऽब्रवीत् ।
किं तस्य च्छगलस्यास्ति मांसशेषोऽत्र कश्चन ।। १५
शृङ्गे परे स्त इत्युक्ते सूदैर्वैद्योऽथ सोऽब्रवीत् ।
साधु तर्ह्युत्तमं हि स्याद्रसकं शृङ्गगर्भजम् ।। १६
इत्युक्त्वा कारयित्वैव तत्ततः शृङ्गमांसतः ।
तस्यै गुणवरायै स चूर्णमिश्रं भिषग्ददौ ।। १७
ततस्तस्याथ नवतिर्देव्यो राज्ञो नवाधिकाः ।
आसन्सगर्भाः काले च सर्वाः सुषुविरे सुतान् ।। १८
अर्वागुपात्तगर्भा च सा सर्वोत्तमलक्षणम् ।
प्रासूत स्म महादेवी पश्चाद्गुणवरा सुतम् ।। १९
शृङ्गमांसरसोत्पन्नं नाम्ना शृङ्गभुजं च तम् ।
पिता वीरभुजश्चक्रे राजा कृतमहोत्सवः ।। २०
वर्धमानः सहान्यैस्तैर्भ्रातृमिर्वयसा परम् ।
कनिष्ठः सोऽभवत्तेषां गुणैर्ज्येष्ठतमस्त्वभूत् ।। २१
क्रमात्स राजपुत्रश्च रूपे कामसमोऽभवत् ।
धनुर्वेदेऽर्जुनसमो भीमसेनसमो बले ।। २२
ततः सपुत्रां सुतरां दृष्ट्वा वीरभुजस्य ताम् ।
प्रियां गुणवरां राज्ञो देव्योऽन्या मत्सरं ययुः ।। २३
अथ तास्वयशोलेखा नाम राज्ञी दुराशया ।
संमन्त्र्य ताभिरन्याभिः सह कृत्वा च संविदम् ।। २४
समस्ताभिः सपत्नीभिस्तं राजानं गृहागतम् ।
मृषाधृतमुखग्लानिः पृच्छन्तं कृच्छ्रतोऽब्रवीत्।। २५
आर्यपुत्र कथं नाम सहसे गृहदूषणम् ।
परस्य रक्षितावद्यं न रक्षस्यात्मनः कथम् ।। २६
यः सुरक्षितनामायमन्तःपुरपतिर्युवा ।
तत्सक्ता हि त्वदीयैषा राज्ञी गुणवरा किल ।। २७
तदन्यस्य न लाभोऽस्ति सौविदल्लाभिरक्षिते ।
अन्तःपुरेऽत्र पुंसो यदतोऽसौ तेन संगता ।। २८
सर्वत्रान्तःपुरे चैतत्प्रसिद्धमिह गीयते ।
इत्युक्तः स तया राजा दध्यौ च विममर्श च ।। २९
गत्वा चैकैकशो राज्ञीरन्याः पप्रच्छ ताः क्रमात् ।
ताश्च तस्मै तथैवोचुः सर्वा रचितकैतवाः ।। ३०
ततः स मतिमान्राजा जितक्रोधो व्यचिन्तयत् ।
तयोः संभाव्यते नैतत्प्रवादश्चायमीदृशः ।। ३१
तदानिश्चित्य कार्यो मे प्रतिभेदो न कस्यचित् ।
युक्त्या तु परिहार्यौ तौ संप्रत्यन्तमवेक्षितुम् ।। ३२
इति निश्चित्य सोऽन्येद्युरास्थानेऽन्तःपुराधिपम् ।
सुरक्षितं तमाहूय कृतकोपः समभ्यधात् ।। ३३
ब्रह्महत्या त्वया पाप कृतेत्यवगतं मया ।
तत्त्वामकृतसत्तीर्थयात्रं न द्रष्टुमुत्सहे ।। ३४
तच्छ्रुत्वा तं समुद्भ्रान्तं ब्रह्महत्या कुतो मया ।
कृता देवेति जल्पन्तं स राजा पुनरब्रवीत् ।। ३५
मा स्म धार्ष्ट्यं कृथा गच्छ काश्मीरान्पापनाशनान् ।
यत्र तद्विजयक्षेत्रं नन्दिक्षेत्रं च पावनम् ।। ३६
वाराहं यत्र च क्षेत्रं ये पूताश्चक्रपाणिना ।
धत्ते नाम वितस्तेति वहन्ती यत्र जाह्नवी ।। ३७
यत्र तन्मडवक्षेत्रं यत्र चोत्तरमानसम् ।
तत्तीर्थयात्रापूतो मां पुनर्द्रक्ष्यसि नान्यथा ।। ३०
एवमुक्त्या तमवशं विससर्ज सुरक्षितम् ।
स युक्त्या तीर्थयात्रायां दूरं वीरभुजो नृपः ।। ३९
ततो गुणवरादेव्याः पूर्वं तस्या जगाम सः ।
सस्नेहश्च सकोपश्च सविमर्शश्च भूपतिः ।। ४०
तत्र सा खिन्नमनसं तं दृष्ट्वापृच्छदाकुला ।
आर्यपुत्र किमद्यैवमकस्माद्दुर्मनायसे ।। ४१
तच्छ्रुत्वा स महीभृत्तामेवं कृतकमभ्यधात् ।
अद्यागत्य महाज्ञानी देवी मां कोऽप्यभाषत ।। ४२
राजन्गुणवरा देवी कालं कंचन भूगृहे ।
स्थापनीया त्वया भाव्यं स्वयं च ब्रह्मचारिणा ।। ४३
राज्यभ्रंशोऽन्यथा ते स्यान्मृत्युस्तस्याश्च निश्चितम् ।
इत्युक्त्वा स गतो ज्ञानी विषादोऽयं ततो मम ।। ४४
एवं तेनोदिते राज्ञा राज्ञी गुणवरा तु सा ।
भयानुरागविभ्रान्ता तं जगाद पतिव्रता ।। ०५५
तर्ह्यार्यपुत्र नाद्यैव किं मां क्षिपसि भूगृहे ।
धन्या ह्यस्मि यदि प्राणैरपि स्यान्मे हितं तव ।। ४६
मम वा मृत्युरस्त्वेव तव मा भूदनिर्वृतिः ।
इहामुत्र च नारीणां परमा हि गतिः पतिः ।। ४७
इति तस्या वचः श्रुत्वा साश्रुः सोऽचिन्तयत्प्रभुः ।
शङ्के न पापमेतस्यां न च तस्मिन्सुरक्षिते ।। ४८
स ह्यम्लानमुखच्छायो निराशङ्को मयेक्षितः ।
कष्टं तथापि जिज्ञासे प्रवादस्यास्य निश्चयम् ।। ४९
इत्यालोच्य स तां राजा राज्ञीमाह स्म दुःखितः ।
तदिहैव वरं देहि भूगृहं क्रियतामिति ।। ५०
तथेति च तया प्रोक्तस्तत्रैवान्तःपुरे सुगम् ।
विधाय भूगृहं राजा देवीं तां निदधेऽथ सः ।। ५१
पुत्रं शृङ्गभुजं तस्या विषण्णं पृष्टकारणम् ।
आश्वासयत्तदेवोक्त्वा राज्ञीं तां स यदुक्तवान् ।। ५२
सापि राज्ञो हितमिति स्वर्गं मेने धरागृहम् ।
स्वसुखं नास्ती साध्वीनां तासां भर्तृसुखं सुखम् ।। ५३
एवं कृतेऽयशोलेखा तस्य राज्ञ्यपराथ सा ।
निर्वासभुजनामानं स्वैरं स्वसुतमभ्यधात् ।। ५४
राज्ञास्मद्विधुरा तावत्खाते गुणवरार्पिता ।
एतत्पुत्रश्च देशाच्चेदितो गच्छेत्सुखं भवेत् ।। ५५
तत्स शूङ्गभुजो देशान्निर्वास्येताचिराद्यथा ।
तां पुत्र चिन्तयेर्युक्तिं त्वमन्यैर्भ्रातृभिः सह ।। ५६
इति मात्रोदितः सोऽन्यान्भ्रातॄनुक्त्वा समत्सरः ।
आस्ते स्म निर्वासभुजस्तत्रोपायं विचिन्तयन् ।। ५७
एकदा ते महास्त्राणि प्रयुञ्जाना नृपात्मजाः ।
प्रासादाग्रे महाकायं सर्वेऽपि ददृशुर्बकम् ।। ५८
विकृतं पक्षिणं तं च पश्यतस्तान्सविस्मयान् ।
ज्ञानी क्षपणकः कोऽपि पथा तेनागतोऽब्रवीत् ।। ५९
राजपुत्रा बको नायं रूपेणानेन राक्षसः ।
भ्रमत्यग्निशिखाख्योऽयं नगराणि विनाशयन् ।। ६०
तद्विध्यतैनं काण्डेन यावद्गच्छत्वितो हतः ।
एतत्क्षपणकाच्छ्रुत्वा नवतिस्ते नवाधिकाः ।। ६१
काण्डानि चिक्षिपुर्ज्येष्ठा नैकोऽप्याहतवान्बकम् ।
ततो नग्नक्षपणकः पुनस्तानब्रवीच्च सः ।। ६२
अयं कनीयान्युष्माकं भ्राता शृङ्गभुजो बकम् ।
शक्नोति हन्तुमेतं तद्गृह्णात्वेष क्षमं धनुः ।। ६३
तच्छ्रुत्वैव स्मरन्मातुस्तल्लब्धावसरं वचः ।
स निर्वासभुजो जाल्मस्तत्क्षणं समचिन्तयत् ।। ६४
सोऽयं शृङ्गभुजस्यास्य स्यादुपायः प्रवासने ।
तदर्पयामस्तातस्य संबन्ध्यस्मै धनुःशरम् ।। ६५
सौवर्णं तच्छरं हृत्वा विद्धो यास्यति चेद्बकः ।
पश्चादेषोऽपि गन्तास्य मार्गत्स्वस्मासु तं शरम् ।। ६६
यदा च लप्स्यते नैतं चिन्वन्रक्षोबकं तदा ।
स्थास्यतीतस्ततो भ्राम्यन्नैष्यतीह शरं विना ।। ६७
इत्यालोच्य ददौ तस्मै पापः शृङ्गभुजाय सः ।
बकघाताय सशरं पितृसंबन्धि कार्मुकम् ।। ६८
स गृहीत्वा तदाकृष्य तेन स्वर्णशरेण तम् ।
रत्नपुङ्खेन विव्याध बकं शृङ्गभुजो बली ।। ६९
स विद्धमात्रस्तं कायलग्नमादाय सायकम् ।
बकः स्रवदसृग्धारः पलाय्यैव ततो ययौ ।। ७०
ततः शृङ्गभुजं वीरं स निर्वासभुजः शठः ।
तत्संज्ञाप्रेरितास्ते च भ्रातरोऽन्ये तमब्रुवन् ।। ७१
देहि हेममयं तं नस्तातसंबन्धिनं शरम् ।
अन्यथाद्य शरीराणि त्यक्ष्यामः पुरतस्तव ।। ७२
तातस्तेन विना ह्यस्मानितो निर्वासयिष्यति ।
न च कर्तुं ग्रहीतुं वा शक्यं तत्प्रतिरूपकम् ।। ७३
तच्छ्रुत्वैव स जिह्मांस्तान्वीरः शृङ्गभुजोऽब्रवीत् ।
धीरा भवत मा भूद्वो भयं कार्पण्यमुज्झत ।। ७४
आनेष्यामि शरं गत्वा हत्वा तं राक्षसाधमम् ।
इत्युक्त्वा सशरं चापं निजं शृङ्गभुजोऽग्रहीत् ।। ७५
ययौ च तां समुद्दिश्य दिशं यां स बको गतः ।
पतितां तदसृग्धारां भूमावनुसरञ्जवात् ।। ७६
हृष्टेषु तेषु चान्येषु मातृपार्श्वं गतेष्वथ ।
गच्छन्स क्रमशः प्राप दूरां शृङ्गभुजोऽटवीम् ।। ७७
तस्यां ददर्श चिन्वानो वनस्यान्तर्महत्पुरम् ।
भोगायोपनतं काले फलं पुण्यतरोरिव ।। ७८
तत्रोद्यानतरोर्मूले स विश्रान्तः क्षणादिव ।
आश्चर्यरूपामायान्तीमत्र कन्यामवैक्षत ।। ७९
विरहे जीवितहरां संगमे प्राणदायिनीम् ।
विचित्रां निर्मितां धात्रा विषामृतमयीमिव ।। ८०
शनैरुपगतां तां च चक्षुषा प्रेमवर्षिणा ।
पश्यन्तीं तद्गतमनाः स पप्रच्छ नृपात्मजः ।। ८१
किंनामधेयं कस्येदं पुरं हरिणलोचने ।
त्वं च का किं तवेहायमागमः कथ्यतामिति ।। ८२
ततः साचीकृतमुखी न्यस्तदृष्टिर्महीतले ।
सा तं जगाद सुदती मधुरस्निग्धया गिरा ।। ८३
इदं धूमपुरं नाम सर्वसंपद्गृहं पुरम् ।
अस्मिन्वसत्यग्निशिखो नाम राक्षसपुंगवः ।। ८४
तस्य रूपशिखां नाम सदृशीं विद्धि मां सुताम् ।
इहागतामसामान्यत्वद्रूपाहृतमानसाम् ।। ८५
त्वं ब्रूहि मेऽधुना कोऽसि किमिहाभ्यागतोऽसि च ।
एवमुक्ते तया तस्यै सर्वं शृङ्गभुजं क्षणम् ।। ८६
योऽसौ यन्नामधेयश्च यस्य पुत्रो महीपतेः ।
यया शरनिमित्तेन तद्धूमपुरमागतः ।। ८७
ततो विदितवृत्तान्ता सा तं रूपशिखाभ्यधात् ।
न त्वया सुदृगन्योऽस्ति त्रैलोक्येऽपि धनुर्धरः ।। ८८
येन तातोऽप्यसौ विद्धो बकरूपो महेषुणा ।
स च हेममयो बाणः स्वीकृतः क्रीडया मया ।। ८९
तातस्तु निर्व्रणः सद्यो महादंष्ट्रेण मन्त्रिणा ।
विशल्यकरणीमुख्यमहौषधिविदा कृतः ।। ९०
तद्यामि तातं संबोध्य नयाम्यभ्यन्तरं द्रुतम् ।
त्वामार्यपुत्र न्यस्तो हि त्वय्यात्मायं मयाधुना ।। ९१
इत्युक्त्वा तमवस्थाप्य तत्र शृङ्गभुजं क्षणम् ।
ययौ रूपशिखा पार्श्वं पितुरग्निशिखस्य सा ।। ९२
तात शृङ्गभुजो नाम राजसूनुरिहागतः ।
कोऽप्यनन्यसमो रूपकुलशीलवयोगुणैः ।। ९३
जाने कोऽप्यवतीर्णोऽत्र देवांशो न स मानुषः ।
स चेद्भर्ता न मे स्यात्तत्त्यजेयं जीवितं ध्रुवम् ।। ९४
इत्युक्तः स तया तत्र पिता तां राक्षसोऽब्रवीत् ।
मानुषाः पुत्रि भक्ष्या नस्तथापि यदि ते ग्रहः ।। ९५
तदस्तु राजपुत्रं तमिहैवानाय्य दर्शय ।
तच्छ्रुत्वा सा ययौ रूपशिखा शृङ्गभुजान्तिकम् ।। ९६
उक्त्या यथा कृतं तच्च तं निनायान्तिकं पितुः ।
सोऽपि तं नम्रमादृत्य तत्पिताग्निशिखोऽब्रवीत् ।। ९७
ददामि राजपुत्रैतां तुभ्यं रूपशिखामहम् ।
यदि मद्वचनं किंचिन्नातिक्रामसि जातुचित् ।। ९८
इत्युक्तवन्तं तं सोऽपि प्रह्वः शृङ्गभुजोऽब्रवीत् ।
बाढमुल्लङ्घयिष्यामि नैवाज्ञावचनं तव ।। ९९
इति शृङ्गभुजेनोक्तस्तुष्टः सोऽग्निशिखोऽभ्यधात् ।
उत्तिष्ठ तर्हि स्नात्वा त्वमागच्छ स्नानवेश्मनः ।। १००
तमेवमुक्त्वावादीत्तां सुतां रूपशिखां च सः ।
त्वं गच्छ सर्वा भगिनीरादायागच्छ सत्वरम् ।। १०१
एवमग्निशिखेनोक्तौ तेन निर्जग्मतुस्ततः ।
तथेति तावुभौ शृङ्गभुजो रूपशिखा च सा ।। १०२
ततस्तं सा सुधीः शृङ्गभुजं रूपशिखाभ्यधात् ।
आर्यपुत्र कुमारीणां स्वसॄणामस्ति मे शतम् ।। १०३
सर्वा वयं सदृश्यश्च तुल्याभरणवाससः ।
सर्वासां सन्ति कण्ठेषु तुल्या हारलताश्च नः ।। १०४
तत्तातो मेलयित्वास्मांस्त्वां विमोहयितुं प्रिय ।
आसां मध्यादभीष्टां त्वं वृणीष्वेति वदिष्यति ।। १०५
जानाम्येतमहं तस्य व्याजाभिप्रायमीदृशम् ।
सर्वाः संघटयत्यस्मान्किमर्थमयमन्यथा ।। १०६
तदा मूर्ध्नि करिष्ये च कण्ठाद्धारलतामहम् ।
तदभिज्ञानलब्धायां वनमालां मयि क्षिपेः ।। १०७
भौतप्रायश्च तातोऽयं बुद्धिर्नास्य विवेकिनी ।
तथा मय्यपि मार्गोऽस्य जातिसिद्धः क्व गच्छति ।। १०८
तदेष वञ्चनार्थं ते यद्यत्किंचिद्वदिष्यति ।
अङ्गीकृत्य त्वया तत्तद्वाच्यं मे वेद्मयहं परम् ।। १०९
इत्युक्त्वा भगिनीनां सा पार्श्वं रूपशिखा ययौ ।
तथेत्युक्त्वा च गतवान्स्नातुं शृङ्गभुजोऽपि सः ।। ११०
अथागात्स्वसृभिः साकं पार्श्वं रूपशिखा पितुः ।
सोऽपि शृङ्गभुजश्चेटीस्नपितोऽत्राययौ पुनः ।। १११
आसां मध्यान्निजेष्टायाः प्रयच्छैतामिति ब्रुवन् ।
वनमालां ददौ शृङ्गभुजायाग्निशिखोऽथ सः ।। ११२
सोऽप्यादायैव तां रूपशिखायाः क्षिप्तवान्गले ।
प्राङ्मूर्धन्यस्तसंकेतहारयष्टेर्नृपात्मजः ।। ११३
ततः सोऽग्निशिखो रूपशिखां शृङ्गभुजान्विताम् ।
निजगाद विधास्ये वां प्रातरुद्वाहमङ्गलम् ।। ११४
इत्युक्त्वा तौ च ताश्चान्या विससर्ज सुता गृहम् ।
क्षणाच्च तं शृङ्गभुजं समाहूयैवमब्रवीत् ।। ११५
गच्छेदं दान्तयुगलं समादाय पुराद्बहिः ।
राशिस्थं भुवि तत्राद्य तिलखारीशतं वप ।। ११६
तच्छ्रुत्वा स तथेत्युक्त्वा गत्वा शङ्गभुजोऽब्रवीत् ।
विग्नो रूपशिखायास्तत्साप्येवं निजगाद तम् ।। ११७
आर्यपुत्र न कार्यस्ते विषादोऽत्र मनागपि ।
गच्छ त्वं साधयाम्येतदहं क्षिप्रं स्वमायया ।। ११८
तच्छ्रुत्वा तत्र गत्वा स दृष्ट्वा राजसुतस्तिलान् ।
राशिस्थान्विह्वलो यावद्वप्तुं प्रक्रमते कृषन् ।। ११९
तावद्ददर्श भूमिं तां कृष्टमुप्तांश्च तांस्तिलान् ।
प्रियामायाबलात्सर्वान्क्रमेणैव सुविस्मितः ।। १२०
गत्वा चाग्निशिखायैतत्कृतं कार्यं न्यवेदयत् ।
ततः स वञ्चको भूयस्तमभाषत राक्षसः ।। १२१
न ममोप्तैस्तिलैः कार्यं गच्छ राशीकुरुष्व तान् ।
तच्छ्रुत्वोपेत्य तद्रूपशिखायै सोऽब्रवीत्पुनः ।। १२२
सा तं विसृज्य भूमिं तां सृष्ट्वासंख्याः पिपीलिकाः ।
ताभिः संघटयामास तिलांस्तान्निजमायया ।। १२३
तद्दृष्ट्वैव पुनर्गत्वा तस्मै सोऽग्निशिखाय तान् ।
न्यवेदयच्छृङ्गभुजस्तिलान्राशीकृतानपि ।। १२४
ततः सोऽग्निशिखो मूर्खः शठो भूयोऽप्युवाच तम् ।
इतो दक्षिणतो गत्वा योजनद्वयमात्रकम् ।। १२५
अस्ति देवकुलं शून्यमरण्ये भद्र शांभवम् ।
तस्मिन्धूमशिखो नाम भ्राता वसति मे प्रियः ।। १२६
तत्रेदानीं व्रजैवं च वेदेर्देवकुलाग्रतः ।
भो धूमशिख दूतस्ते सानुगस्य निमन्त्रणे ।। १२७
प्रहितोऽग्निशिखेनाहं शीघ्रमागम्यतां त्वया ।
भावी रूपशिखाया हि प्रातः परिणयोत्सवः ।। १२८
एतावदुक्त्वैवात्र त्वमिहायाह्यद्य सत्वरम् ।
प्रातः परिणयस्वैतां सुतां रूपशिखां मम ।। १२९
इत्युक्तस्तेन पापेन तथेत्युक्त्वा तथैव च ।
गत्वा रूपशिखायास्तत्सर्वं शृङ्गभुजोऽब्रवीत् ।। १३०
सा साध्वी मृत्तिकां तोयं कण्टकानग्निमेव च ।
दत्त्वा तस्मै वराश्वं च निजमेव जगाद तम् ।। १३१
एतमारुह्य तुरगं नत्वा देवकुलं च तत् ।
द्रुतं धूमशिखस्योक्त्वा तत्तातोक्तं निमन्त्रणम् ।। १३२
आगन्तव्यं त्वया शीघ्रमश्वेनानेन धावता ।
पृष्ठतो वीक्षितव्यं च मुहुर्वलितकंधरम् ।। १३३
पश्चात्तमागतं धूमशिखं द्रक्ष्यसि चेत्ततः ।
तन्मार्गे मृत्तिकैषा ते प्रक्षेप्तव्यात्मपृष्ठतः ।। १३४
ततोऽपि पश्चादागच्छेत्स ते धूमशिखो यदि ।
तथैव पृष्ठतस्त्याज्यं तोयमेव त्वयान्तरा ।। १३५
तदप्येष्यति चेत्क्षेप्यास्तद्वदेतेऽस्य कण्टकाः ।
तथापि चेत्सोऽनुपतेत्तन्मध्येऽग्निमिमं क्षिपेः ।। १३६
एवं कृते हि निर्दैन्यस्त्वमिहैष्यसि मा च ते ।
विकल्पो भूद्व्रज द्रक्ष्यस्यद्य विद्याबलं मम ।। १३७
इत्युक्तः स तया शृङ्गभुजो धृतमृदादिकः ।
तथेति तद्धयारूढोऽरण्ये देवकुलं ययौ ।। १३८
तत्र वामस्थगौरीकं दक्षिणस्थविनायकम् ।
दृष्ट्वा नत्वा च विश्वेशमुक्त्वैवाग्निशिखोदितम् ।। १३९
निमन्त्रणवचस्तस्य तूर्णं धूमशिखस्य तत् ।
ततश्चचाल चतुरं प्रधाविततुरंगमः ।। १४०
क्षणाच्च पृष्ठतो यावद्वीक्षते वलिताननः ।
तावद्धूमशिखं पश्चादागतं तं ददर्श सः ।। १४१
चिक्षेप चाशु मार्गेऽस्य मृत्तिकां तां स्वपृष्ठतः ।
क्षिप्तयात्र तया मध्ये सद्योऽभूत्पर्वतो महान ।। १४२
तमुल्लङ्घ्य कथंचित्तमागतं वीक्ष्य राक्षसम् ।
तथैव पृष्ठतस्तोयं तत्स राजसुतोऽक्षिपत् ।। १४३
तेन तत्रान्तरा जज्ञे वेल्लद्वीचिर्महानदी ।
तामप्युत्तीर्य कथमप्यागतेऽस्मिन्निशाचरे ।। १४४
शीघ्रं शृङ्गभुजः पश्चात्कण्टकांस्तानवाकिरत् ।
तैरुद्बभूव गहनं वनं मध्ये सकण्टकम् ।। १४५
ततोऽपि निर्गते तस्मिन्रक्षस्यग्निं स्वपृष्ठतः ।
जहौ तेन स जज्वाल मार्गः सतृणकाननः ।। १४६
तं वीक्ष्य खाण्डवमिव ज्वलितं दुरतिक्रमम् ।
ययौ धूमशिखः खिन्नो भीतश्च स यथागतम् ।। १४७
तदा रूपशिखामायामोहितः स हि राक्षसः ।
पद्भ्यामागादगाच्चैव न सस्मार नभोगतिम् ।। १४८
अथ प्रशंसन्नन्तस्तत्प्रियामायाविजृम्भितम् ।
गतभीराययौ धूमपुरं शृङ्गभुजः स तत् ।। १४९
ततो रूपशिखायै तं समर्प्याश्वं निवेद्य च ।
यथा कृतं स हृष्टायै जगामाग्निशिखान्तिकम् ।। १५०
निमन्त्रितो मया गत्वा भ्राता धूमशिखस्तव ।
इत्युक्तवन्तं तं सोऽत्र संभ्रान्तोऽग्निशिखोऽब्रवीत् ।। १५१
यदि तत्र गतोऽभूस्त्वमभिज्ञानं तदुच्यताम् ।
इति तेनोदितः शृङ्गभुजो जिह्मं जगाद तम् ।। १५२
शृण्विदं वच्म्यभिज्ञानं तत्र देवकुले विभोः ।
वामेऽस्ति पार्वती पार्श्वे दक्षिणे च विनायकः ।। १५३
तच्छ्रुत्वा विस्मितः सोऽग्निशिखः क्षणमचिन्तयत् ।
कथं गतोऽपि मद्भ्रात्रा शकितो नैष खादितुम् ।।१५४
तज्जाने मानुषो नायं देवोऽयं कोऽपि निश्चितम् ।
अनुरूपस्तदेषोऽस्तु भर्तास्या दुहितुर्मम ।। १५५
इति संचिन्त्य तं शृङ्गभुजं रूपशिखान्तिकम् ।
कृतार्थं व्यसृजत्स तु नाङ्गभेदं विवेद सः ।। १५६
स च शृङ्गभुजस्तत्र गत्वा परिणयोत्सुकः ।
भुक्तपीतस्तया साकं कथंचिदनयन्निशाम् ।। १५७
प्रातश्चाग्निशिखस्तस्मै तां स रूपशिखतां ददौ ।
ऋद्ध्या स्वसिद्ध्युचितया विधिवद्वह्निसाक्षिकम् ।। १५८
क्व राक्षससुता कुत्र राजपुत्रः क्व चैतयोः ।
विवाहो बत चित्रैव गतिः प्राक्तनकर्मणाम् ।। १५९
स रेजे राजसूनुस्तां प्राप्य रक्षःसुतां प्रियाम् ।
पेशलां पङ्कसंभूतां राजहंसोऽब्जिनीमिव ।। १६०
तस्थौ च स तया तत्र तदेकमनसा सह ।
भुञ्जानो विविधान्भोगान्रक्षःसिद्ध्युपकल्पितान् ।। १६१
गतेष्वथ दिनेष्वत्र तां स रूपशिखां रहः ।
अवादीदेहि गच्छावो वर्धमानपुरं प्रिये ।। १६२
सा हि स्वा राजधानी नस्तस्याश्चैवं प्रवासनम् ।
परैः सोढुं न शक्नोमि मानप्राणा हि मादृशाः ।। १६३
तन्मुञ्च जन्मभूमिं त्वमत्याज्यामपि मत्कृते ।
आवेदय पितुस्तं च हस्ते हेमशरं कुरु ।। १६४
इति शृङ्गभुजेनोक्ता सा तं रूपशिखाब्रवीत् ।
यदादिशसि तत्कार्यमार्यपुत्र मयाधुना ।। १६५
का जन्मभूः कः स्वजनः सर्वमेतद्भवान्मम ।
न पतिव्यतिरेकेण सुस्त्रीणामपरा गतिः ।। १६६
तातस्यावेदनीयं तु नैतत्सोऽस्माहि न त्यजेत् ।
तस्मादविदितं तस्य गन्तव्यं क्रोधनस्य नः ।। १६७
आगमिष्यति चेत्पश्चाद्बुद्ध्वा परिजनात्ततः ।
मोहयिष्याम्यबुद्धिं तं भौततुल्यं स्वविद्यया ।। १६८
इति तस्या वचः श्रुत्वा प्रहृष्टः सोऽपरेऽहनि ।
दत्तराज्यार्धयानर्घरत्नपूर्णसमुद्गया ।। १६९
तयैवानीततच्चारुसुवर्णशरया सह ।
आरुह्य शरवेगाख्यं तदीय तुरगोत्तमम् ।। १७०
वञ्चयित्वा परिजनं स्वैरोद्यानभ्रमच्छलात् ।
ततः शृङ्गभुजः प्रायाद्वर्धमानपुरं प्रति ।। १७१
गतयोर्दूरमध्वानं बुद्ध्वा सोऽग्निशिखस्तयोः ।
दंपत्योराययौ पश्चान्नभसा राक्षसः क्रुधा ।। १७२
तस्यागमनवेगोत्थं शब्दं श्रुत्वा च दूरतः ।
मार्गे रूपशिखा साथ तं शृङ्गभुजमब्रवीत् ।। १७३
आर्यपुत्रागतस्तातो निवर्तयितुमेष नः ।
तत्त्वमास्वेह निःशङ्कः पश्यैनं वञ्चये कथम् ।। १७४
नैष द्रक्ष्यति साश्वं त्वां विद्ययाच्छादितं मया ।
इत्युक्त्वाश्वावतीर्णा सा पुंरूपं माययाकरोत् ।। १७५
इहायाति महद्रक्षस्तत्त्वं तूष्णीं क्षणं भव ।
इत्युक्त्वा काष्ठिकं चात्र दार्वर्थं वनमागतम् ।। १७६
तत्कुठारेण काष्ठानि पाटयन्ती किलास्त सा ।
तदा रूपशिखा शृङ्गभुजे पश्यति सस्मिते ।। १७७
तावत्सोऽग्निशिखस्तत्र प्राप्यैतां काष्ठिकाकृतिम् ।
दृष्ट्वावतीर्य गगनान्मूढः पप्रच्छ राक्षसः ।। १७८
किं भो दृष्टौ पथानेन यान्तौ स्त्रीपुरुषाविति ।
ततः कथंचित्खिन्नेव पुंवेषा सा तमब्रवीत् ।। १७९
न दृष्टौ कौचिदावाभ्यां स्विन्नदृग्भ्यां परिश्रमात् ।
रक्षःपतेर्मृतस्याद्य दाहायाग्निशिखस्य हि ।। १८०
आवां काष्ठानि भूयांसि पाटयन्ताविह स्थितौ ।
तच्छ्रुत्वा राक्षसः सोऽत्र मूढबुद्धिर्व्यचिन्तयत् ।। १८१
अहो कथं विपन्नोऽहं तत्किं मे सुतया तया ।
गच्छामि तावत्पृच्छामि गृहे परिजनं निजम् ।। १८२
इति संचिन्त्य स गृहं तूर्णमग्निशिखो ययौ ।
भर्त्रा समं हसन्ती सा प्राग्वत्प्रास्थित तत्सुता ।। १८३
क्षणाच्च पुनरप्यागात्सान्तर्हासात्परिच्छदात् ।
पृष्टाज्जीवन्तमात्मानं श्रुत्वा हृष्टः स राक्षसः ।। १८४
बुद्ध्वा घोरेण शब्देन दूरात्तं पुनरागतम् ।
हयावतीर्णा प्रच्छाद्य मायया पूर्ववत्पतिम् ।। १८५
मार्गागतस्य कस्यापि लेखहारस्य हस्ततः ।
लेखमादाय पुंरूपं चक्रे रूपशिखा पुनः ।। १८६
तावच्च पूर्ववत्प्राप्ततद्रूपां तां स राक्षसः ।
पप्रच्छ पथि सस्त्रीकस्त्वया दृष्टः पुमानिति ।। १८७
ततः पुरुषरूपा सा श्वसन्ती निजगाद तम् ।
न त्वराहृतचित्तेन तादृक्कोऽपीक्षितो मया ।। १८८
अहमग्निशिखेनाद्य रणे शत्रुहतेन हि ।
किंचिच्छेषासुना राज्यं स्वमर्पयितुमिच्छता ।। १८९
आह्वानाय स्वनगरे स्थितेनोच्छृङ्खलस्थितेः ।
भ्रातुर्धूमशिखस्येह प्रहितो लेखहारकः ।। १९०
तच्छ्रुत्वाग्निशिखः सोऽत्र किं हतोऽहं परैरिति ।
संभ्रान्तः प्रययौ भूयः स्वगृहं तदवेक्षितुम् ।। १९१
को हतः स्वस्य एषोऽहमित्यबोधि तु नैव सः ।
कोऽप्यहो तामसश्चित्रो मूढसर्गः प्रजापतेः ।। १९२
गृह प्राप्तश्च तद्बुद्ध्वाप्यसत्यं लोकहासनम् ।
पुनः स नाययौ मोहश्रान्तो विस्मृत्य तां सुताम् ।। १९३
सापि संमोह्य पितरं प्राग्वद्रूपशिखा पतिम् ।
तमभ्यगात्पतिहितादन्यत्साध्व्यो न जानते ।। १९४
ततस्तया समं शृङ्गभुजः पत्न्या स सत्वरम् ।
आश्चर्यतुरगारूढो वर्धमानपुरं ययौ ।। १३
तत्र बुद्ध्वा तमायान्तं युक्तं शृङ्गभुजं तया ।
पिता वीरभुजस्तस्य हृष्टोऽग्रे निर्ययौ नृपः ।। १९६
स दृष्ट्वा शोभितं वध्वा तं शौरिमिव भामया ।
प्राप्तां तदा नवां मेने नरेन्द्रो राज्यसंपदम् ।। १९७
अश्वावतीर्णमेनं च पादलग्नं सवल्लभम् ।
उत्थाप्यालिङ्ग्य तनयं हर्षबाष्पाम्बु बिभ्रता ।। १९८
चक्षुषेव कृतोदारनिर्विच्छमनमङ्गलः ।
प्रावेशयद्राजधानीं स ततो विहितोत्सवः ।। १९९
क्व गतोऽभूस्त्वमित्यत्र तेन पृष्टः सुतोऽथ सः ।
निजमामूलतः शृङ्गभुजो वृत्तान्तमब्रवीत् ।। २००
आहूय तत्समक्षं च भ्रातृभ्यस्तत्समर्पयत् ।
स निर्वासभुजादिभ्यस्तेभ्यो हेममयं शरम् ।। २०१
तत्स बुद्ध्वा च पृष्ट्वा च तेषु वीरभुजो नृपः ।
व्यरज्यदन्येषु सुतेष्वेकं मेने च तं सुतम् ।। २०२
ततः स राजा मतिमान्सम्यगेवमचिन्तयत् ।
जाने यथैष विद्वेषादभूदेभिः प्रवासितः ।। २०३
पापैर्निरपराधोऽपि शत्रुभिर्भ्रातृनामभिः ।
तथैव नूनमेतेषां जननीभिर्मम प्रिया ।। २०४
मातास्य सा गुणवरा निर्दोषा दूषिता मृषा ।
तत्किं चिरेण पश्यामि यावदद्यैव निश्चयम् ।। २०५
इत्यालोच्य यथावत्तद्दिनं नीत्वाभ्यगान्निशि ।
जिज्ञासुरयशोलेखां राज्ञीं तां स नृपोऽपराम् ।। २०६
तदभ्यागमहृष्टा सा मद्यं तेनातिपायिता ।
रतान्तसुप्ता व्यलपद्राज्ञि तस्मिन्सजागरे ।। २०७
मिथ्या गुणवरायाश्चेन्नावदिष्याम दूषणम् ।
तत्किमेवमुपायास्यदयं राजाद्य मामिह ।। २०८
इति तस्या वचः श्रुत्वा सुप्ताया दुष्टचेतसः ।
उत्पन्ननिश्चयो राजा क्रोधादुत्थाय निर्ययौ ।। २०९
गत्वा स्वावासमानाय्य स जगाद महत्तरान् ।
उद्धृत्य तां गुणवरां स्नातामानयत द्रुतम् ।। २१०
अयं क्षणो ह्यद्यतनो ज्ञानिनानिष्टशान्तये ।
तस्या भूगृहवासस्य कथितोऽभूत्किलावधिः ।। २११
तच्छ्रुत्वा तैस्तथेत्युक्त्वा गत्वा स्नाता विभूषिता ।
राज्ञी गुणधरा क्षिप्रमानिन्ये सा तदन्तिकम् ।। २१२
ततस्तौ दंपती तीर्णविरहार्णवनिर्वृतौ ।
अन्योन्यालिङ्गनातृप्तौ निन्यतुस्तां विभावरीम् ।। २१३
अवर्णयत्स राजात्र देव्यै तस्यै मुदा तदा ।
तं शृङ्गभुजवृत्तान्तं तदेव निजसूनवे ।। २१४
साथ प्रबुद्धा राजानं गतं बुद्ध्वा सवाक्छलम् ।
संभाव्यैवायशोलेखा विषादमगमत्परम् ।। २१५
प्रातश्च स नृपो वीरभुजो गुणवरान्तिकम् ।
आनाययच्छृङ्गभुजं सुतं रूपशिखायुतम् ।। २१६
सोऽभ्येत्य मातरं दृष्ट्वा हृष्टो भूगृहनिर्गताम् ।
तयोर्ववन्दे चरणौ पित्रोर्नववधूयुतः ।। २१७
अध्वोत्तीर्णं तमाश्लिष्य पुत्रं गुणवरापि सा ।
तां च स्नुषां तथा प्राप्तामुत्सवादुत्सवं ययौ ।। २१८
ततः पितुर्निदेशात्स तस्यै शृङ्गभुजोऽब्रवीत् ।
विस्तरेण स्ववृत्तान्तं यच्च रूपशिखाकृतम् ।। २१९
ततो गुणवरा राज्ञी सा प्रहृष्टा जगाद तम् ।
किं किं न रूपशिखया कृतं पुत्र तवानया ।। २२०
हित्वा स्वजीवितं बन्धून्देशं चेह यदेतया ।
त्रीण्येतानि प्रदत्तानि तुभ्यं चित्रचरित्रया ।। २२१
त्वदर्थमवतीर्णैषा कापि देवी विधेर्वशात् ।
पतिव्रतानां सर्वासां यया मूर्ध्नि पदं कृतम् ।। २२२
एवमुक्ते तया राज्ञ्या तद्वाक्यमभिनन्दति ।
राज्ञि रूपशिखायां च विनयानतमूर्धनि ।। २२३
आययौ स तयैव प्रागयशोलेखया मृषा ।
दूषितोऽन्तःपुराध्यक्षो भ्रान्ततीर्थः सुरक्षितः ।। २२४
क्षत्रा निवेदितं तं च प्रहृष्टं चरणानतम् ।
ज्ञातार्थोऽपूजयद्राजा भृशं वीरभुजोऽथ सः ।। २२५
तेनैवानाय्य चान्यास्ता राज्ञीरत्रैव दुर्जनीः ।
तमेवोवाच गच्छैता भूगृहे निखिलाः क्षिप ।। २२६
तच्छ्रुत्वा तासु भीतासु क्षिप्तासु कृपया नृपम् ।
तं सा गुणवरा देवी पादलग्ना व्यजिज्ञपत् ।। २२७
देव मामेव भूयोऽपि चिरं स्थापय भूगृहे ।
प्रसीद नैवमेता हि भीताः शक्नोमि वीक्षितुम् ।। २२८
इति प्रार्थ्य नृपं तासां बन्धनं सा न्यवारयत् ।
महतामनुकम्पा हि विरुद्धेषु प्रतिक्रिया ।। २२९
ततस्ताः प्रेषिता राज्ञा लज्जिताः स्वगृहान्ययुः ।
अनिष्टमपि वाञ्छन्त्यो दीयमानं भुजान्तरम् ।। २३०
तां च राजा गुणवरां बहु मेने महाशयाम् ।
आत्मानं च तया पत्न्या कृतपुण्यममन्यत ।। २३१
अथानाय्य सुतानन्यान्स निर्वासभुजादिकान् ।
निर्वासयिष्यन्युक्त्या तान्राजा कृतकमभ्यधात् ।। २३२
श्रुतं मया वणिक्पापैर्भवद्भिः पथिको हतः ।
तद्भ्रान्तुं सर्वतीर्थानि यात मा स्मेह तिष्ठत ।। २३३
तच्छ्रुत्वा तं न शेकुस्ते नृपं बोधयितुं नृपाः ।
प्रभौ हठप्रवृत्ते हि कस्य प्रत्यायना भवेत् ।। २३४
ततस्तान्गच्छतो दृष्ट्वा भ्रातॄञ्शृङ्गभुजोऽथ सः ।
कृपोद्भूताश्रुपूर्णाक्षः पितरं तं व्यजिज्ञपत् ।। २३५
तातापराधमेकं त्वं क्षमस्वैषां कृपां कुरु ।
इत्युक्त्वा पादयोस्तस्य निपपात स भूपतेः ।। २३६
सोऽपि मत्वा नरेन्द्रस्तं भूभृद्भारसहं सुतम् ।
यशोदयाश्रितं बाल्येऽप्यवतारं हरेरिव ।। २३७
गूढाशयो वैररक्षी वचस्तस्य तथाकरोत् ।
तेऽपि तं भ्रातरं सर्वे प्राणदं मेनिरे निजम् ।। २३८
सर्वाः प्रकृतयोऽप्यत्र तस्य शृङ्गभुजस्य तम् ।
गुणातिशयमालोक्य दधुस्तदनुरागिताम् ।। २३९
ततोऽन्येद्युर्गुणज्येष्ठं तज्ज्येष्ठेष्वपि सत्सु सः ।
पिता वीरभुजो राजा यौवराज्येऽभिषिक्तवान् ।। २४०
स च प्राप्ताभिषेकः सन्दिग्जयाय ययौ ततः ।
विज्ञप्य पितरं सर्वैर्बलैः शृङ्गभुजः सह ।। २४१
बाहुवीर्यजिताशेषवसुधाधिपमण्डलम् ।
आदाय चाययौ दिक्षु प्रविकीर्य यशःश्रियम् ।। २४२
ततो वहन्राज्यभारं प्रणतैर्भ्रातृभिः सह ।
निश्चिन्तभोगसुखितौ रञ्जयन्पितरौ कृती ।। २४३
दानं ददद्ब्राह्मणेभ्यस्तस्थौ शृङ्गभुजः सुखी ।
रूपवत्यार्थसिद्ध्येव स रूपशिखया सह ।। २४४
इत्यनन्याः पतिं साध्व्यः सर्वाकारमुपासते ।
एते गुणवरारूपशिखे श्वश्रूस्नुषे यथा ।। २४५
इति नरवाहनदत्तो हरिशिखमुखतः कथामिमां श्रुत्वा ।
रत्नप्रभासमेतः साध्विति जल्पंस्तुतोष परम् ।। २४६
उत्थाय चाह्निकमथाशु विधाय गत्वा वत्सेश्वरस्य निकटं स पितुः सभार्यः ।
भुक्त्वापराह्णमतिवाह्य च गीतवाद्यैः स्वान्तःपुरे सदयितो रजनीं निनाय ।। २४७
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके पञ्चमस्तरङ्गः ।