प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ततः प्रातः पुना रत्नप्रभासद्मनि तं स्थितम् ।
नरवाहनदत्तं ते गोमुखाद्या उपागमन् ।। १
मरुभूतिः स तु मनाक्पीतासवमदालसः ।
बद्धपुष्पोऽनुलिप्तश्च विलम्बित उपाययौ ।। २
प्रस्खलत्पदया गत्या हासयंस्तं गिरा तदा ।
तन्नीतिरञ्जितमुखो नर्मणोवाच गोमुखः ।। ३
यौगन्धरायणसुतो भूत्वा नीतिं न वेत्सि किम् ।
प्रातः पिबसि मद्यं यन्मत्तः प्रभुमुपैषि च ।। ४
तच्छ्रुत्वा तं क्रुधा क्षीबो मरुभूतिर्जगाद सः ।
एतन्मे प्रभुणा वाच्यममुना गुरुणापि वा ।। ५
त्वं तु कः शिक्षयसि मामित्यकात्मज रे वद ।
इत्युक्तवन्तं तं भूयो हसन्नाह स्म गोमुखः ।। ६
भर्त्सयन्त्यविनीतं किं स्ववाचा प्रभविष्णवः ।
अवश्यं तस्य वक्तव्यं तत्पार्श्वस्थैर्यथोचितम् ।। ७
सत्यं चेत्यकपुत्रोऽहं त्वं मन्त्रिवृषभः पुनः ।
वक्ति ते जाड्यमेवैतद्विषाणे स्तः परं न ते ।। ८
इत्युक्तो गोमुखेनात्र मरुभूतिरभाषत ।
तवैव वृषभत्वं हि गोमुखस्योपपद्यते ।। ९
तथापि यददान्तोऽसि सोऽयं ते जातिसंकरः ।
एतच्छ्रुत्वात्र सर्वेषु हसत्सूवाच गोमुखः ।। १०
मरुभूतिरयं रत्नं जातु यत्नशतैरपि ।
अवेध्यं वज्रमेतस्मिन्गुणं को हि प्रवेशयेत् ।। ११
अन्यत्पुरुषरत्नं तद्यदयत्नेन वेध्यते ।
सिकतासेतुवृत्तान्तं शृणु चात्र निदर्शनम् ।। १२
आसीत्कोऽपि प्रतिष्ठाने तपोदत्त इति द्विजः ।
स पित्रा क्लेश्यमानोऽपि विद्या नाध्यैत शैशवे ।। १३
अनन्तरं गर्ह्यमाणः सर्वैरनुशयान्वितः ।
स विद्यासिद्धये तप्तुं तपो गङ्गातटं ययौ ।। १४
तत्राश्रितोग्रतपसस्तस्य तं वीक्ष्य विस्मितः ।
वारयिष्यन्द्विजच्छद्मा शक्रो निकटमाययौ ।। १५
आगत्य च स गङ्गायास्तटाच्चिक्षेप वारिणि ।
उद्धृत्योद्धृत्य सिकताः पश्यतस्तस्य सोर्मिणि ।। १६
तद्दृष्ट्वा मुक्तमौनस्तं तपोदत्तः स पृष्टवान् ।
अश्रान्तः किमिदं ब्रह्मन्करोषीति सकौतुकम् ।। १७
निर्बन्धपृष्टः स च तं शक्रोऽवादीद्द्विजाकृतिः ।
सेतुं बध्नामि गङ्गायां ताराय प्राणिनामिति ।। १८
ततोऽब्रवीत्तपोदत्तः सेतुः किं मूर्ख बध्यते ।
गङ्गायामोघहार्याभिः सिकताभिः कदाचन ।। १९
तच्छ्रुत्वा तमुवाचैवं शक्रोऽथ द्विजरूपधृक् ।
यद्येवं वेत्सि तद्विद्या विना पाठं विना श्रुतम् ।। २०
कस्माद्व्रतोपवासाद्यैस्त्वं साधयितुमुद्यतः ।
इयं शशविषाणेच्छा व्योम्नि वा चित्रकल्पना ।। २१
अनक्षरो लिपिन्यासो यद्विद्याध्ययनं विना ।
एवं यदि भवेदेतन्नह्यधीयीत कश्चन ।। २२
इत्युक्तः स तपोदत्तः शक्रेण द्विजरूपिणा ।
विचार्यं तत्तथा मत्वा तपस्त्यक्त्वा गृहं ययौ ।। २३
एवं सुधीः सुखं बोध्यो मरुभूतिस्तु दुर्मतिः ।
न शक्यते बोधयितुं बोध्यमानश्च कुप्यति ।। २४
इत्युक्ते गोमुखेनात्र मध्ये हरिशिखोऽभ्यधात् ।
भवन्ति सुखसंबोध्याः सत्यं देव सुमेधसः ।। २५
तथा च पूर्वमभवद्वाराणस्यां द्विजोत्तमः ।
कश्चिद्विरूपशर्माख्यो विरूपो निर्धनस्तथा ।। २६
स च वैरूप्यदौर्गत्यनिर्विण्णस्तत्तपोवनम् ।
गत्वा तीव्रं तपश्चक्रे रूपद्रविणकाङ्क्षया ।। २७
ततः सुरपतिः कृत्वा विकृतव्याधिताकृतेः ।
जम्बुकस्याधमं रूपमेत्याग्रे तस्य तस्थिवान् ।। २८
तं विलोक्य परीताङ्गमक्षिकाभिरलक्षणम् ।
विरूपशर्मा शनकैर्मनसा विममर्श सः ।। २९
ईदृशा अपि जायन्ते संसारे पूर्वकर्मभिः ।
तन्ममाल्पमिदं धात्रा कृतं यन्नेदृशः कृतः ।। ३०
को दैवलिखितं भोगं लङ्घयेदित्यवेत्य सः ।
विरूपशर्मा शनकैस्तपःस्थानाद्ययौ गृहम् ।। ३१
इत्थं सुबुद्धिरल्पेन देव यत्नेन बोध्यते ।
न कृच्छ्रेणापि महता निर्विचारमतिः पुनः ।। ३२
एवं हरिशिखेनोक्ते श्रद्धधाने च गोमुखे ।
मरुभूतिरनात्मज्ञः क्षीबोऽतिकुपितोऽब्रवीत् ।। ३३
बलं गोमुख वाच्येव न तु बाह्वोर्भवादृशाम् ।
वाचालैः कलहः क्लीबैस्त्रपाकृद्बाहुशालिनाम् ।। ३४
इति ब्रुवाणं युद्धेच्छुं मरुभूतिं स्मिताननः ।
नरवाहनदत्तोऽथ प्रभुः स्वयमसान्त्वयत् ।। ३५
विसृज्य तं च स्वगृहं तं बालसखिवत्सलः ।
कुर्वन्दिवसकार्याणि निनाय तदहः सुखम् ।। ३६
प्रातश्च सर्वेष्वायातेष्वेषु मन्त्रिषु तं प्रिया ।
रत्नप्रभा जगादैवं मरुभूतौ त्रपानते ।। ३७
त्वमार्यपुत्र सुकृती यस्य ते सचिवा इमे ।
आबाल्यस्नेहनिगडनिबद्धाः शुद्धचेतसः ।। ३८
एते च धन्या येषां त्वमीदृक्स्नेहपरः प्रभुः ।
प्राक्कर्मोपार्जिता यूयमन्योन्यस्य न संशयः ।। ३९
एवमुक्ते तया राज्ञ्या वसन्तकसुतोऽब्रवीत् ।
नरवाहनदत्तस्य नर्ममित्त्रं तपन्तकः ।। ४०
सत्यं पूर्वार्जितोऽयं नः स्वामी सर्वं हि तिष्ठति ।
पूर्वकर्मवशादेव तथा च श्रूयतां कथा ।। ४१
अभूच्छ्रीकण्ठनिलये विलासपुरनामनि ।
पुरे विनयशीलाख्यो नाम्नान्वर्थेन भूपतिः ।। ४२
तस्य प्राणसमा देवी बभूव कमलप्रभा ।
तया साकं च भोगैकसक्तस्तस्थौ चिराय सः ।। ४३
अथ कालेन भूपस्य जरा सौन्दर्यहारिणी ।
तस्याविरासीत्तां दृष्ट्वा स चासीदतिदुःखितः ।। ४४
हिमाहतमिवाम्भोजं पलितम्लानमाननम् ।
दर्शयामि कथं देव्यै हा धिङ्मे मरणं वरम् ।। ४५
इत्यादि चिन्तयन्सोऽथ सदस्याहूय भूपतिः ।
वैद्यं तरुणचन्द्राख्यं निजगाद कृतादरः ।। ४६
भद्र भक्तस्त्वमस्मासु कुशलश्चेति पृच्छसे ।
अप्यस्ति काचिद्युक्तिः सा ययेयं वार्यते जरा ।। ४७
तच्छ्रुत्वैव कलामात्रसारो वाञ्छन्स पूर्णताम् ।
वक्रस्तरुणचन्द्रोऽन्तः सत्यनामा व्यचिन्तयत् ।। ४८
मूर्खोऽयं नृपतिर्भोज्यो मया वेत्स्यामि च क्रमात् ।
इति संचिन्त्य स भिषक्तमेवमवदन्नृपम् ।। ४९
एकस्त्वं भूगृहे मासानष्टौ यदिदमौषधम् ।
उपयुङ्क्षे ततो देव जरामपनयामि ते ।। ५०
एतच्छ्रुत्वैव स नृपस्तद्भूगृहमकारयत् ।
क्षमन्ते न विचारं हि मूर्खा विषयलोलुपाः ।। ५१
राजन्सत्त्वेन पूर्वेषां तपसा च दमेन च ।
रसायनानि सिद्धानि प्रभावेण युगस्य च ।। ५२
अद्यत्वे च श्रुतान्येव रसान्येतानि भूपते ।
सामग्र्यभावात्कुर्वन्ति यत्प्रत्युत विपर्ययम् ।। ५३
तन्न युक्तमिदं धूर्ताः क्रीडन्त्यैव हि बालिशैः ।
किं देव समतिक्रान्तमागच्छति पुनर्वयः ।। ५४
इत्यादि मन्त्रिणां वाक्यं न लेभे तस्य चान्तरम् ।
आवृते हृदये राज्ञो गाढया भोगतृष्णया ।। ५५
विवेश च गिरा तस्य भिषजस्तत्स भूगृहम् ।
एकाकी वारिताशेषराजोचितपरिच्छदः ।। ५६
एको वैद्यः स्वभृत्येन सहैकेनैव तस्य सः ।
तत्रौषधादिचर्यायां बभूव परिचारकः ।। ५७
तस्थौ च तत्र स नृपो भूमिगर्भे तमोमये ।
अज्ञान इव भूयस्त्वात्प्रसृते हृदयाद्बहिः ।। ५८
गतेषु चात्र मासेषु षण्मात्रेष्वस्य भूपतेः ।
विलोक्याभ्यधिकीभूतां तां जरां स शठो भिषक् ।। ५९
आजहार कमप्येकं पुरुषं तादृशाकृतिम् ।
राजानं त्वां करोमीति युवानं कृतसंविदम् ।। ६०
ततः सुरङ्गां भूगेहे दूराद्दत्त्वात्र तं नृपम् ।
सुप्तं हत्वा तया नीत्वा सोऽन्धकूपेऽक्षिपन्निशि ।। ६१
तयैव पुरुषं तं च तरुणं तत्र भूगृहे ।
प्रवेश्य स्थापयामास सुरङ्गां पिदधे च ताम् ।। ६२
संप्राप्य मूढबुद्धीनामवकाशं निरर्गलम् ।
उच्छृङ्खलमतिः कुर्यात्प्राकृतः किं न साहसम् ।। ६३
ततः स सर्वाः प्रकृतीर्वैद्योऽन्येद्युरभाषत ।
अजरोऽयं कृतस्तावत्षड्भिर्मासैर्मया नृपः ।। ६४
मासद्वयेन चैतस्य रूपमन्यद्भविष्यति ।
तद्दूरात्किंचिदात्मानमस्मै दर्शयताधुना ।। ६५५
इत्युक्त्वा भूगृहद्वारि सर्वानानीय दर्शयन् ।
तस्मै न्यवेदयद्यूने स तेषां नामकर्मणी ।। ६६
इत्यन्तःपुरपर्यन्तं मासद्वितयमन्वहम् ।
भूगृहेऽबोधयद्युक्त्या युवानं पुरुषं स तम् ।। ६७
प्राप्ते च समये तं स भोगपुष्टं धरागृहात् ।
उज्जहाराजरः सोऽयं जातो राजेत्युदाहरन् ।। ६८
ततश्चौषधिसंसिद्धः सैष राजेति तत्र सः ।
पर्यवार्यत हृष्टाभिः पुमान्प्रकृतिभिर्युवा ।। ६९
अथ स्नातस्तथा लब्धराज्यो राजोचिताः क्रियाः ।
चकार स सहामात्यैः सोत्सवस्तरुणः पुमान् ।। ७०
तदाप्रभृति तस्थौ च कुर्वन्राज्यं सुखेन सः ।
नामाजर इति प्राप्य क्रीडन्नन्तःपुरैः सह ।। ७१
सर्वे चैतमसंभाव्यवैद्यवृत्ताविशङ्किनः ।
रसायनपरावृत्तरूपं स्वं मेनिरे प्रभुम् ।। ७२
प्रीत्यानुरञ्ज्य प्रकृतीर्देवीं च कमलप्रभाम् ।
सोऽथ स्वमित्त्रैरजरो राजाभुङ्क सह श्रियम् ।। ७३
मित्त्रं भेषजचन्द्राख्यं तथान्यं पद्मदर्शनम् ।
उभे आत्मसमे चक्रे हस्त्यश्वग्रामपूरिते ।। ७४
वैद्यं तरुणचन्द्रं तु प्रक्रियार्थममानयत् ।
न तु तस्मिन्विशश्वास सत्यधर्मच्युतात्मनि ।। ७५
एकदा च स वैद्यस्तं स्वैरं राजानमब्रवीत् ।
किं मामगणयित्वैव स्वातन्त्र्येण विचेष्टसे ।। ७६
तद्विस्मृतं यदा राजा भवानिह मया कृतः ।
तच्छ्रुत्वैव स राजा तमजरो वैद्यमभ्यधात् ।। ७७
अहो मूर्खोऽसि कः कस्य कर्ता दातापि वा पुमान् ।
प्राक्तनं कर्म हि सखे करोति च ददाति च ।। ७८
अतस्त्वं मा कृथा दर्पं तपःसिद्धमिदं हि मे ।
एतच्च दर्शयिष्यामि प्रत्यक्षमचिरेण ते ।। ७९
इत्युक्तस्तेन स त्रस्त इव वैद्यो व्यचिन्तयत् ।
अहो किमप्यधृष्टोऽयं धीरो ज्ञानीव भाषते ।। ८०
यद्रहस्यान्तरङ्गत्वं स्वामिसंवननं परम् ।
तदपि क्षमते नास्मिन्ननुवर्त्यस्तदेष मे ।। ८१
पश्यामि तावत्किमयं साक्षान्मे दर्शयिष्यति ।
इत्यालोच्य तथेत्येवं भिषक्तूष्णीं बभूव सः ।। ८२
अन्येद्युश्चाजरो राजा परिभ्रान्तुं स निर्ययौ ।
क्रीडस्तरुणचन्द्राद्यैः सेव्यमानः सुहृत्सखः ।। ८३
भ्राम्यन्प्राप्तो नदीतीरं यस्या मध्ये ददर्श सः ।
प्रवाहे वहदायातं सौवर्णं पद्मपञ्चकम् ।। ८४
आनाययच्च भृत्यैस्तद्गृहीत्वा प्रविलोक्य च ।
वैद्यं तरुणचन्द्रं तं जगाद निकटस्थितम् ।। ५१
नदीतीरेण गच्छ त्वमुपरिष्टादितोऽमुना ।
उत्पत्तिस्थानमेतेषां पङ्कजानां गवेषय ।। ०६
तच्च दृष्ट्वा त्वमागच्छेः सुमहत्कौतुकं हि मे ।
अद्भुतेष्वेषु पद्मेषु त्वं च दक्षः सुहृन्मम ।। ८७
इत्युक्त्वा प्रेषितस्तेन राज्ञा स विवशो भिषक् ।
यथाविष्टेन मार्गेण तथेति प्रययौ ततः ।। ८८
राजाप्ययासीत्स्वपुरं स च गच्छन्भिषक्क्रमात् ।
प्रापदायतनं शैवं नद्यास्तस्यास्तटस्थितम् ।। ८९
तदग्रे तत्सरित्तीर्थतटे वटमहातरुम् ।
अपश्यल्लम्बमानं च तस्मिन्नरकरङ्ककम् ।। ९०
ततः श्रान्तः कृतस्नानो देवमभ्यर्च्य तत्र सः ।
यावत्तिष्ठति मेघोऽत्र तावदागत्य वृष्टवान् ।। ९१
मेघाभिवृष्टात्तस्माच्च वटशाखावलम्बिनः ।
मानुषास्थिकरङ्काद्ये न्यपतंस्तोयबिन्दवः ।। ९२
नद्यास्तीर्थजले तस्यास्तेभ्यस्तानि ददर्श सः ।
जायमानानि पद्मानि सौवर्णानि क्षणाद्भिषक् ।। ९३
अहो किमिदमाश्चर्यं कं पृच्छाम्यजने वने ।
यदि वा वेद कः सर्गं बह्वाश्चर्यमयं विधेः ।। ९४
दृष्टस्तावन्मया सोऽयं कनकाम्भोरुहाकरः ।
तदेतत्प्रक्षिपाम्यत्र तीर्थे नरकलेवरम् ।। ९५
धर्मोऽस्तु वैतत्पृष्ठे च जायन्तामम्बुजानि वा ।
इत्यालोच्य स वृक्षाग्रात्ततः कङ्कालमक्षिपत् ।। ९६
नीत्वा च तद्दिनं तत्र सिद्धकार्योऽपरेऽहनि ।
प्रत्यावर्तिष्ट स ततो भिषग्देशं निजं प्रति ।। ९७
दिनैः कतिपयैः प्राप तद्विलासपुरं च सः ।
तस्याजरस्य निकटं राज्ञोऽध्वकृशधूसरः ।। ९८
द्वाःस्थेनावेदितो यावत्प्रविश्य चरणानतः ।
स पृष्टकुशलो राज्ञा वृत्तान्तं वक्ति तं भिषक् ।। ९९
तावत्स विजनं कृत्वा राजा तं स्वयमभ्यधात् ।
दृष्टं हेमाम्बुजोत्पत्तिस्थानं तद्भवता सखे ।। १००
तत्क्षेत्रमुत्तमं चैवं तत्र दृष्टस्त्वया च सः ।
करङ्को वटवृक्षे तां प्राक्तनीं विद्धि मे तनुम् ।। १०१
तदूर्ध्वपादेन मया लम्बमानेन कुर्वता ।
तपस्तत्र पुरा त्यक्तमुपशोष्य कलेवरम् ।। १०२
तपसस्तस्य माहात्म्यात्करङ्कात्प्रच्युतैस्ततः ।
मेघाम्बुभिस्ते जायन्ते पद्मास्तत्र हिरण्मयाः ।। १०३
स करङ्कश्च यत्क्षिप्तस्तीर्थे तत्र मम त्वया ।
युक्तं तद्विहितं त्वं हि मित्त्रं मे पूर्वजन्मनि ।। १०४
एष भेषजचन्द्रश्च तथासौ पद्मदर्शनः ।
एतावपि च तज्जन्मसंगतौ सुहृदौ मम ।। १०५
तत्तस्य तपसो मित्र प्राक्तनस्य प्रभावतः ।
जातिस्मरत्वं ज्ञानं च राज्यं चोपनतं मम ।। १०६
तदेतद्दर्शितं तुभ्यं युक्त्या प्रत्यक्षतो मया ।
भवत्क्षिप्तास्थिसंघातं साभिज्ञानं च वर्णितम् ।। १०७
तस्मात्तुभ्यं मया राज्यमदायीति मम त्वया ।
अहंकारो न कर्तव्यः स्थाप्य चेतो न दुःस्थितम् ।। १०८
विना हि प्राक्तनं कर्म न दाता कोऽपि कस्यचित् ।
आगर्भाज्जन्तुरश्नाति पूर्वकर्मतरोः फलम् ।। १०९
इत्युक्तः स भिषक्तेन राज्ञा दृष्ट्वा तथैव तत् ।
असंतोषं पुनर्नैव तत्सेवासुखितोऽभ्यगात् ।। ११०
सोऽपि राजाजरो जातिस्मरस्तं भिषजं ततः ।
संमान्यार्थप्रदानेन यथोचितमुदारधीः ।। १११
अन्तःपुरैः सुहृद्भिश्च साकं नयजितां महीम् ।
भुञ्जानः सुकृतप्राप्तां सुखमास्तापकण्टकाम् ।। ११२
एवं भवति लोकेऽस्मिन्देव सर्वस्य सर्वदा ।
प्राक्कर्मोपार्जितं जन्तोः सर्वमेव शुभाशुभम् ।। ११३
तस्मात्त्वमपि नः स्वामी मन्ये जन्मान्तरार्जितः ।
सत्स्वन्येष्वेवमस्माकं प्रसन्नोऽस्यन्यथा कथम् ।। ११४
इत्यपूर्वरमणीयविचित्रां कान्तया सह तपन्तकवक्त्रात् ।
संनिशम्य स कथामुदतिष्ठत्स्नातुमत्र नरवाहनदत्तः ।। ११५
कृतस्नानो गत्वा निकटमथ वत्सेशनृपतेः पितुर्मुञ्चन्मातुर्मुहुरमृतवर्षं नयनयोः ।
कृताहारस्ताभ्यां सह सदयितो मन्त्रिसहितः सुखैरापानाद्यैर्दिनमनयदेतां च रजनीम् ।। ११६
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सतरे रत्नप्रभालम्बके षष्ठस्तरङ्गः ।