प्रमुखा विकल्पसूचिः उद्घाट्यताम्

कथासरित्सागरः/लम्बकः ७/तरङ्गः ७

< कथासरित्सागरः‎ | लम्बकः ७

ततः स रत्नप्रभया समं तद्वासवेश्मनि ।
स्थितोऽन्येद्युः कथाः कुर्वंस्तास्ताः स सचिवैः सह ।। ९
नखाहनदत्तोऽत्र मन्दिरप्राङ्गणे बहिः ।
अकस्मात्पुरुषस्येव शुश्रावाक्रन्दितध्वनिम् ।। २
किमेवमिति कस्मिंश्चित्पृच्छत्यागत्य चेटिकाः ।
अब्रुवन्कञ्चुकी क्रन्दत्येष धर्मगिरिः प्रभो ।। ३
इहागत्य हि मूर्खेण मित्रेण कथितोऽधुना ।
तीर्थयात्रागतोऽमुष्य भ्राता देशान्तरे मृतः ।।
तेन राजकुलस्थोऽस्मीत्यस्मरञ्शोकमोहितः ।
साक्रन्दः सन्गृहं नीतः संप्रत्येष बहिर्जनैः ।। ५
तच्छ्रुत्वा युवराजेऽस्मिञ्जातदुःखेऽनुकम्पया ।
राज्ञी रत्नप्रभा तत्र विषण्णेव जगाद सा ।। ६
प्रियबन्धुवियोगोत्थमहो दुःखं दुरुत्सहम् ।
कष्टं किं न कृतो धात्रा जनोऽयमजरामरः ।। ७
इति राज्ञीवचः श्रुत्वा मरुभूतिरुवाच ताम् ।
मर्त्येष्वेतत्कुतो देवि तथाहीमां कथां शृणु ।।
चिरायुर्नाम्नि नगरे चिरायुर्नाम भूपतिः ।
पूर्वं चिरायुरेवासीत्केतन सर्वसंपदाम् ।। ९
तस्य नागार्जुनो नाम बोधिसत्त्वांशसंभवः ।
दयालुर्दानशीलश्च मन्त्री विज्ञानवानभूत् ।।
यः सर्वौषधियुक्तिज्ञश्चक्रे सिद्धरसायनः ।
आत्मानं तं च राजानं विजरं चिरजीवितम् ।। ११
कदाचिन्मन्त्रिणस्तस्य बालः पच्चत्वमाययौ ।
नागार्जुनस्य पुत्रेषु सर्वेषु दयितः सुतः ।। १२
स तेन दृष्टसंतापो मर्त्यानां मृत्युशान्तये ।
अमृतं संदधे द्रव्यैस्तपोदानप्रभावतः ।। १३
शेषौषधस्य त्वेकस्य कालयोगं स मेलने ।
यावत्प्रतीक्षते तावदिन्द्रेण तदबुध्यत ।। १४
इन्द्रः समामन्त्र्य सुरैरश्विनावेवमादिशत् ।
गत्वा नागार्जुनं ब्रूतमिदं मद्ववचनाद्भुवि ।। १५
कोऽयं कर्तुमिहारब्धो मन्त्रिणाप्यनयस्त्वया ।
किं त्वं प्रजापतिं जेतुमुद्यतो बत सांप्रतम् ।। १६
मर्त्या मरणधर्माणस्तेन ये किल निर्मिताः ।
साधयित्वामृतं यत्तानमरान्कर्तुमिच्छसि ।। १७
एवं कृते विशेषो हि क्रः स्याद्देवमनुष्ययोः ।
यष्टव्ययाजकाभावाद्भज्यते च जगत्स्थितिः ।।१८
तदस्मद्वचनादेतत्संहरामृतसाधनम् ।
अन्यथा कुपिता देवाः शापं दास्यन्ति ते युवम् ।। १९
यच्छोकादेष यत्नस्ते स स्वर्गे त्वत्सुतः स्थितः ।
इति संदिश्य शक्रस्तौ प्रजिघायाश्विनावुभौ ।। २०
तौ चागत्य गृहीतार्घौ तदागमनतोषिणे ।
ऊचतुः शक्रसंदेशं तस्मै नागार्जुनाय तम् ।। २१
पुत्रं जगदतुश्चास्य दिवि देवैः समं स्थितम् ।
ततो नागार्जुनः सोऽत्र विषण्णः सन्नचिन्तयत् ।। २२
न करोमीन्द्रवाक्यं चेद्देवास्तत्तावदासताम् ।
इमावेव न किं शापमश्विनौ मे प्रयच्छतः ।। २३
तदेतदास्ताममृतं न सिद्धो मे मनोरथः ।
पुत्रश्च मे प्राक्सुकृतैरशोच्यां स गतो गतिम् ।। २४
इत्यालोच्याश्विनौ देवौ सोऽत्र नागार्जुनोऽब्रवीत् ।
अनुष्ठिता मयेन्द्राज्ञा संहराम्यमृतक्रियाम् ।। २५
पञ्चाहेनामृते सिद्धे कृतैवैषाजरामरा ।
मयाभविष्यत्पृथिवी युवां चेन्नागमिष्यतम् ।। २६
इत्युक्त्वा तत्समक्षं तत्तद्वाक्यान्निचखान सः ।
धरण्याममृतं सिद्धप्रायं नागार्जुनस्तदा ।। २७
ततोऽश्विनौ तमापृच्छय गत्वा शक्राय तद्दिवि ।
आचख्यतुः कृतं कार्यं ननन्दाथ च देवराट् ।। २८
तावच्चात्र चिरायुः स राजा नागार्जुनप्रभुः ।
पुत्रं जीवहरं नाम यौवराज्येऽभिषिक्तवान् ।। २९
अभिषिक्तं च तं माता प्रणामार्थमुपागतम् ।
राज्ञी धनपरा नाम हृष्टं दृष्ट्वाब्रवीत्सुतम् ।। ३०
यौवराज्यमिदं प्राप्य पुत्र हृष्यसि किं मृषा ।
राज्यप्राप्त्यै क्रमो ह्येष तपसा च न विद्यते ।। ३१
युवराजा हि बहवो गताः पुत्राः पितुस्तव ।
न राज्यं केनचित्प्राप्तं प्राप्तं सर्वैर्विडम्बनम् ।। ३२
नागार्जुनेन दत्तं हि तद्राज्ञेऽस्मै रसायनम् ।
वयो वर्षशतं येन प्राप्तमत्येदमष्टमम् ।। ३३
को जानाति कियन्त्यन्यान्यपि प्राप्स्यन्ति च क्रमात् ।
युवराजान्नृपस्यास्य कुर्वतोऽल्पायुषः सुतान् ।। ३४
एतच्छ्रुत्वा विषण्णं तं पुत्रं सा पुनरब्रवीत् ।
यदि राज्येन ते कृत्यं तदुपायमिमं कुरु ।। ३५
एष नागार्जुनो मन्त्री प्रत्यहं विहिताह्निकः ।
आहारसमये दाता करोत्युद्धोषणामिमाम् ।। ३६
कोऽर्थी प्रार्थयते कः किं तस्मै किं दीयतामिति ।
स्वशिरो मे प्रयच्छेति तत्कालं ब्रूहि गच्छ तम् ।। ३७
सत्यवाचि ततस्तस्मिंश्छिन्नमूर्ध्नि मृते नृपः ।
तच्छोकात्पञ्चतां यायाद्वनं वैष समाश्रयेत् ।। ३८
ततः प्राप्स्यसि राज्यं त्वमुपायोऽन्योऽत्र नास्ति ते ।
इति मातुर्वचः श्रुत्वा राजपुत्रस्तुतोष सः ।। ३९
तथेति तद्विधातुं च चकारैव स निश्चयम् ।
कष्टो हि बान्धवस्नेहं राज्यलोभोऽतिवर्तते ।। ४०
अथ राजसुतोऽन्येद्युः स्वैरं जीवहरो ययौ ।
तस्य भोजनवेलायां गृहं नागार्जुनस्य सः ।। ४१
कः किं याचत इत्यादि तदा तत्र च मन्त्रिणम् ।
वदन्तं तं प्रविश्यैव स मूर्धानमयाचत ।। ४२
आश्चर्यं वत्स शिरसा किं करोषि ममामुना ।
मांसास्थिकेशसंघो हि कोपयुज्यत एष ते ।। ४३
तथाप्यर्थस्तवानेन यदि च्छित्त्वा गृहाण तत् ।
इत्युक्त्वोपानयत्तस्मै स च मन्त्री शिरोधराम् ।। ४४
रसायनदृढायां च तस्यां प्रहरतश्चिरम् ।
राजसूनोर्ययुः खड्गा बहवस्तस्य खण्डशः ।। ०४
तावद्बुद्ध्वैतदायान्तं राजानं तं चिरायुषम् ।
वारयन्तं शिरोदानात्सोऽत्र नागार्जुनोऽब्रवीत् ।। ४६
जातिस्मरोऽहं नृपते नवतिं च नवाधिकाम् ।
जन्मानि स्वशिरो दत्तं मया जन्मनि जन्मनि ।। ४७
इदं शततमं जन्म शिरोदानाय मे प्रभो ।
तन्मा स्म वोचः किंचित्त्वं विमुखोऽर्थी न याति मे ।। ४८
तदिदानीं ददाम्यस्मै त्वत्पुत्राय निजं शिरः ।
त्वन्मुखालोकनायैष विलम्बो हि कृतो मया ।। ४१
इत्युक्त्वाश्लिष्य तं भूपं चूर्णमानाय्य कोपतः ।
अलिपद्राजपुत्रस्य कृपाणं तेन तस्य सः ।। ५०
तत्कृपाणप्रहारेण सोऽथ तस्य नृपात्मजः ।
नागार्जुनस्य चिच्छेद शिरो नालादिवाम्बुजम् ।। ५१
अथोत्थिते महाक्रन्दे प्राणत्यागोन्मुखे नृपे ।
इत्युच्चचार गगनादशरीरात्र भारती। ।। ५२
अकार्यं मा कृथा राजन्नशोच्यो ह्येष ते सखा ।
नागार्जुनोऽपुनर्जन्मा गतो बुद्धसमां गतिम् ।। ५३
एतच्छ्रुत्वा स विरतश्चिरायुर्मरणान्नृपः ।
दत्तदानः शुचा त्यक्तराज्यो वनमशिश्रियत् ।। ५४
तत्र कालेन तपसा स प्राप परमां गतिम् ।
तत्पुत्रोऽप्यधितस्थौ तद्राज्यं जीवहरोऽत्र सः ।। ५५
प्राप्तराज्यश्च नचिराद्राष्ट्रभेदं विधाय सः ।
हतो नागार्जुनसुतैः स्मरद्भिस्तद्वधं पितुः ।। ५६
तच्छोकादथ तन्मातुस्तस्या हृदयमस्फुटत् ।
अनार्यजुष्टेन पथा प्रवृत्तानां शिवं कुतः ।। ५७
राज्ये च राज्ञ्यामन्यस्यां जातस्तस्य चिरायुषः ।
शतायुर्नाम पुत्रस्तैर्मन्त्रिमुख्यैर्न्यवेश्यत ।। ५८
एवं नागार्जुनारब्धं मर्त्यानां मृत्युनाशनम् ।
न सोढुं दैवतैर्यावत्सोऽपि मृत्युवशं गतः ।। ५९
तस्याद्विधातृविहितोऽयमनित्य एव दुर्वारदुःखबहुलो ननु जीवलोकः ।
शक्यं न कर्तुमपि यत्नशतैस्तदत्र केनापि किंचिदपि नेच्छति यद्विधाता ।। ६०
इत्याख्याय कथां किल विरते मरुभूतिके समं सचिवैः ।
नरवाहनदत्तो निजमुत्थाय चकार दिवसकर्तव्यम् ।। ६१
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके सप्तमस्तरङ्गः ।