प्रमुखा विकल्पसूचिः उद्घाट्यताम्

कथासरित्सागरः/लम्बकः ७/तरङ्गः ९

< कथासरित्सागरः‎ | लम्बकः ७


ततः प्रातः सरस्तीरात्तस्मादुत्थाय मन्त्रिणम् ।
नरवाहनदत्तस्तं गोमुखं प्रस्थितोऽब्रवीत् ।। १
वयस्य जाने काप्यद्य रात्र्यन्ते धवलाम्बरा ।
कुमारी दिव्यरूपा मामेत्य स्वप्नेऽभ्यधादिदम् ।। २
निश्चिन्तो भव वत्स त्वमितः शीघ्रमवाप्स्यसि ।
अब्धेस्तीरे वनान्तःस्थमाश्चर्यं नगरं महत् ।। ३
विश्रान्तस्तत्र चाक्लेशात्प्राप्य कर्पूरसंभवम् ।
पुरं कर्पूरिकां प्राप्स्यस्यत्र तां राजकन्यकाम् ।। ४
इत्युक्त्वा मां तिरोऽभूत्सा प्रबुद्धश्चास्मि तत्क्षणम् ।
एवं तमुक्तवन्तं च प्रीतः प्रोवाच गोमुखः ।। ५
देवैरनुगृहीतस्त्वं देव किं तेऽस्ति दुष्करम् ।
तन्निश्चितमकृच्छ्रेण तव सेत्स्यत्यभीप्सितम् ।। ६
एवमुक्तवता तेन गोमुखेन समं पथि ।
नरवाहनदत्तोऽत्र स प्रायात्सत्वरस्ततः ।। ७
क्रमात्प्रापच्च जलधेरुपकण्ठगतं स तत् ।
अद्रिकूटनिभाट्टालप्रतोलीगोपुरान्वितम् ।। ८
मेर्वाभसर्वसौवर्णराजमन्दिरराजितम् ।
नगरं विपुलाभोगं भूमण्डलमिवापरम् ।। ९
प्रविश्य तत्र विपणीमार्गेण स ददर्श च ।
काष्ठयन्त्रमयं सर्वं चेष्टमानं सजीववत् ।। 7.9.१०
वणिग्विलासिनीपौरजनं जनितविस्मयम् ।
विज्ञायमानं निर्जीव इति वाग्विरहात्परम् ।। ११
क्रमाच्च गोमुखसखः सोऽन्तिकं राजवेश्मनः ।
प्राप तादृशमेवात्र हस्त्यश्वादि विलोकयन् ।। १२
विवेश चास्य सौवर्णपुरमस्तकशोभिनः ।
अभ्यन्तरं ससचिवः साश्चर्यो राजसद्मनः ।। १३
तत्र यन्त्रप्रतीहारवारनारीपरिश्रितम् ।
जडानां स्पन्दने हेतुं तेषां चेतनमेककम् ।। १४
इन्द्रियाणामिवात्मानमधिष्ठातृतया स्थितम् ।
रत्नसिंहासनासीनं भव्यं पुरुषमैक्षत ।। १५
सोऽपि तं पुरुषो दृष्ट्वा चोत्तमाकृतिमुत्थितः ।
विधाय स्वागतं स्वस्मिन्नुपावेशयदासने ।। १६
पप्रच्छ चोपविश्याग्रे कः कथं किममानुषाम् ।
क्ष्मामात्मना द्वितीयः सन्निमां प्राप्तो भवानिति ।। १७
ततः सोऽपि स्ववृत्तान्तं निवेद्य तमशेषतः ।
नरवाहनदत्तस्तं प्रह्वं पप्रच्छ पूरुषम् ।। १८
कस्त्वं किं चेदमाश्चर्यं पुरं ते भद्र कथ्यताम् ।
तच्छ्रुत्वा स पुमान्वक्तुं स्वोदन्तमुपचक्रमे ।। १९
अस्ति काञ्चीति नगरी गरीयोगुणगुम्फिता ।
काञ्चीव वसुधावध्वाः सदलंकृतितां गता ।। 7.9.२०
तस्यां बाहुबलाख्योऽस्ति काञ्च्यां ख्यातो महीपतिः ।
कोषे बद्धा कृता येन चलापि श्रीर्भुजार्जिता ।। २१
तस्य राष्ट्रे नृपस्यावां तक्षाणौ भ्रातरावुभौ ।
मयप्रणीतदार्वादिमायायन्त्रविचक्षणौ ।। २२
ज्येष्ठः प्राणधरो नाम वेश्याव्यसनविप्लुतः ।
अहं कनिष्ठस्तद्भक्तो नाम्ना राज्यधरः प्रभो ।। २३
तेन भुक्त्वा धनं पित्र्यं मद्भर्त्रा स्वं च किंचन ।
भुक्तं मदर्जितमपि स्नेहार्द्रेणार्पितं मया ।। २४
ततोऽपि सोऽतिव्यसनी वेश्यार्थार्थजिहीर्षया ।
रज्जुयन्त्रवहं दारुमयं हंसयुगं व्यधात् ।। २५
तद्धंसयुगलं रज्जुघट्टनप्रेरितं निशि ।
राज्ञो बाहुबलस्यात्र कोशाद्यन्त्रप्रयोगतः ।। २६
गवाक्षेण प्रविश्यान्तश्चञ्च्वा पटलके स्थितम् ।
आदायाभरणं तस्य मद्भ्रातुर्गृहमागमत् ।। २७
तच्च विक्रीय सोऽभुङ्क्त मज्ज्येष्ठः सह वेश्यया ।
तथैवाहर्निशं कोषममुष्णात्स च भूपतेः ।। २८
वार्यमाणोऽपि च मया नाकार्याद्व्यरमत्ततः ।
को हि मार्गममार्गं वा व्यसनान्धो निरीक्षते ।। २९
तथा च मुष्यमाणेऽपि रात्रिष्वचलितार्गले ।
निर्मूषके राजगञ्जे दिनानि कतिचिद्भयात् ।। 7.9.३०
विचिन्वन्प्रत्यहं तूष्णीं परितप्तोऽधिकाधिकम् ।
तद्भाण्डागारिको गत्वा स्फुटं राज्ञे न्यवेदयत् ।। ३१
राजापि तं तथान्यांश्च रक्षकाञ्जाग्रतो निशि ।
कोषान्तः स्थापयामास तत्र तत्त्वमवेक्षितुम् ।। ३२
ते निशीथे प्रविष्टौ तौ गवाक्षेणात्र रक्षकाः ।
मद्भ्रातृयन्त्रहंसौ द्वावपश्यन्रज्जुघट्टितौ ।। ३३
यन्त्रयुक्तिपरिभ्रान्तौ चञ्चूपात्तविभूषणौ ।
छिन्नरज्जू अगृह्णंश्च राज्ञे दर्शयितुं प्रगे ।। ३४
तत्कालं च स मद्भ्राता ज्येष्ठोऽवादीत्ससंभ्रमः ।
भ्रातर्गृहीतौ हंसौ द्वौ मदीयौ गञ्जरक्षिभिः ।। ३५
रज्जुर्हि शिथिलीभूता यन्त्रे स्रस्ता च कीलिका ।
तस्मादितोऽपसर्तव्यमधुनैवावयोर्द्वयोः ।। ३६
चौराविति निगृह्णीयात्प्रातर्बुद्ध्वा नृपो हि नौ ।
आवामेव हि विख्यातौ मायायन्त्रविदावुभौ ।। ३७
वातयन्त्रविमानं च तन्ममास्तीह मङ्क्षु यत् ।
योजनाष्टशती याति सकृत्प्रहतकीलिकम् ।। ३८
तेन दूरं व्रजावोऽद्य विदेशमपि दुःखदम् ।
पापे कर्मण्यवज्ञातहितवाक्ये कुतः सुखम् ।। ३९
यन्मया न कृतं वाक्यं तव दुष्कृतबुद्धिना ।
तस्यैष पाकः प्रसृतो योऽयं त्वय्यप्यपापिनि ।। 7.9.४०
एवमुक्त्वा समारोहद्विमानं व्योमगामि तत् ।
स मे प्राणधरो भ्राता तदैव सकुटुम्बकः ।। ४१
अहं तूक्तोऽपि तेनात्र नारोहं बहुभिर्वृते ।
ततस्तेन खमुत्पत्य स प्रायात्क्वापि दूरतः ।। ४२
गते प्राणधरे तस्मिन्नहमन्वर्थनामनि ।
प्रभाते भावि संभाव्य राजतो भयमेककः ।। ४३
आरुह्य स्वकृतेऽन्यस्मिन्वातयन्त्रविमानके ।
द्रुतं ततो गतोऽभूवं योजनानां शतद्वयम् ।। ४४
प्रेरितेन पुनस्तेन विमानेन खगाभिना ।
ततोऽपि योजनशतद्वयमन्यदगामहम् ।। ४५५
ततः समुद्रनैकट्यशङ्कात्यक्तविमानकः ।
पद्भ्यां व्रजन्निह प्राप्तः शून्यं पुरमिदं क्रमात् ।। ४६
कौतुकाच्च प्रविष्टोऽहं देवेदं राजमन्दिरम् ।
वस्त्राभरणशय्यादिराजोपकरणान्वितम् ।। ४७
सायं चोद्यानवाप्यम्भः स्नातो भुक्त्वा फलान्यहम् ।
राजशय्यागतो रात्रावेकाकी समचिन्तयम् ।। ४८
निर्जने किं करोमीह तत्प्रातर्यत्र कुत्रचित् ।
व्रजामीतो गतं मे हि भयं बाहुबलान्नृपात् ।। ४९
इति संचिन्त्य संसुप्तं निशान्ते दिव्यरूपधृत् ।
पुरुषो बर्हिणारूढः स्वप्ने मामेवमभ्यधात् ।। 7.9.५०
इहैव भद्र वस्तव्यं गन्तव्यं नान्यतस्त्वया ।
आहारकाले चारुह्य स्थातव्यं मध्यमे पुरे ।। ५१
इत्युक्त्वान्तर्हिते तस्मिन्प्रबुद्धोऽहमचिन्तयम् ।
कुमारनिर्मितमिदं दिव्यस्थानं सुनिश्चितम् ।। ५२
कृतश्च तेन मे स्वप्ने पूर्वपुण्यैरनुग्रहः ।
उत्थितोऽस्मीह नूनं हि श्रेयोऽस्ति वसतोऽत्र मे ।। ५३
इति बद्धास्थमुत्थाय कृत्वाह्निकमहं स्थितः ।
आरुह्य यावदाहारकालेऽस्मिन्मध्यमे पुरे ।। ५४
तावद्धिरण्मयेष्वग्रे पात्रेषूपनतेषु मे ।
अपतत्खाद्धृतक्षीरशालिभक्तादिभोजनम् ।। ५५
चिन्तितं चिन्तितं चान्यन्मम भोज्यमुपानमत् ।
तद्भुक्त्वा चाहमभवं देवातीवेह निर्वृतः ।। ५६
ततो गृहीतैव मया स्थितिरस्मिन्पुरे प्रभो ।
चिन्तितोपनमद्राजभोगेन प्रतिवासरम् ।। ५७
भार्या परिच्छदो वा मे चिन्तितस्तु न तिष्ठति ।
तेन यन्त्रमयोऽत्रायं जनः सर्वः कृतो मया ।। ५८
इतीहागत्य तक्षापि देवैकाकी करोम्यहम् ।
राज्ञो लीलायितुं राज्यधरो नाम विधेर्वशात् ।। ५९
तद्देवनिर्मितेऽमुष्मिन्भवन्तोऽद्य पुरे दिनम् ।
विश्राम्यन्तु यथाशक्ति परिचर्यापरे मयि ।। 7.9.६०
इत्युक्त्वा तत्पुरोद्यानं तेन राज्यधरेण सः ।
नरवाहनदत्तोऽत्र नीयते स्म सगोमुखः ।। ६१
तत्र वापीजलस्नातो वारिजार्चितधूर्जटिः ।
तां मध्यमपुराहारभूमिं च प्रापितोऽभवत् ।। ६२
वुभुजे तत्र चाहारान्ध्यातोपस्थापिताञ्शुभान् ।
तेन राज्यधरेणाग्रस्थितेन स समन्त्रिकः ।। ६३
ततः केनाप्यदृष्टेन प्रमृष्टाहारभूमिकः ।
अनु ताम्बूलभोगं स तस्थौ पीतासवः सुखम् ।। ६४
अथ चिन्तामणिप्रख्यपुरमाहात्म्यविस्मितः ।
भुक्ते राज्यधरे नक्तं स भेजे शयनोत्तमम् ।। ६५
कर्पूरिकानवौत्सुक्यविनिद्रं चात्र तत्कथाम् ।
पृच्छन्तमब्रवीद्राज्यधरोऽथ शयनस्थितः ।। ६६
किं न निद्रासि कल्याणिन्प्राप्स्यस्येवेप्सितां प्रियाम् ।
उदारसत्त्वं वृणुते स्वयं हि श्रीरिवाङ्गना ।। ६७
प्रत्यक्षदृष्टमत्रेदं तथा च शृणु वच्मि ते ।
यः स काञ्चीपतिर्बाहुबलो राजा मयोदितः ।। ६८
तस्यान्वर्थोऽर्थलोभाख्यः प्रतीहारोऽर्थवानभूत् ।
तस्य मानपरा नाम भार्याभूद्रूपशालिनी ।। ६९
सोऽर्थलोभो वणिग्धर्माल्लोभाद्भृत्येष्वविश्वसन् ।
वणिज्याव्यवहारेषु मध्ये भार्यां न्ययुङ्क्त ताम् ।। 7.9.७०
सानिच्छन्त्यपि तद्वश्या वणिग्भिः संव्यवाहरत् ।
मधुरेणाहृतजना रूपेण वचनेन च ।। ७१
गजाश्वरत्नवस्त्रादिविक्रयं यं व्यधत्त सा ।
तं तं सोपचयं दृष्ट्वा सोऽर्थलोभोऽन्वमोदत ।। ७२
एकदा चात्र कोऽप्यागाद्दूराद्देशान्तराद्वणिक् ।
महान्सुखधनो नाम प्रभूताश्वादिभाण्डधृत् ।। ७३
तं बुद्ध्वैवागतं भार्यामर्थलोभोऽब्रवीत्स ताम् ।
वणिक्सुखधनो नाम प्राप्तो देशान्तरादिह ।। ७४
प्रिये वाजिसहस्राणि तेनानीतानि विंशतिः ।
चीनदेशजसद्वस्त्रयुग्मान्यगणनानि च ।। ७
तद्गत्वाश्वसहस्राणि पञ्च तस्मात्त्वमानय ।
क्रीत्वा सद्वस्त्रयुग्मानां सहस्राणि तथा दश ।। ७६
यावदश्वसहस्रैः स्वैस्तथा तैश्चापि पञ्चभिः ।
करोमि दर्शनं राज्ञो वणिज्या विदधामि च ।। ७७
एवमुक्त्वार्थलोभेन प्रेषिता तेन पाप्मना ।
आगान्मानपरा तस्य पार्श्वं सुखधनस्य सा ।। ७८
मार्गति स्म च मूल्येन तान्वस्त्रसहितान्हयान् ।
रचितस्वागतात्तस्मात्तद्रूपाहृतचक्षुषः ।। ७९
स च तां कामविवशो नीत्वैकान्तेऽव्रवीद्वणिक् ।
मूल्येन वस्त्रमेकं ते हयं वा न ददाम्यहम् ।। 7.9.८०
वत्स्यस्येकां निशां साकं मया चेत्तद्ददामि ते ।
शतानि वाजिनां पञ्चसहस्राणि च वाससाम् ।। ८१
इत्युक्त्वा सोऽधिकेनापि तां प्रार्थयत सुन्दरीम् ।
स्त्रीष्वनर्गलचेष्टासु कस्येच्छा नोपजायते ।। ८२
ततः सा प्रत्यवोचत्तमेवं पृच्छाम्यहं पतिम् ।
अत्रापि हि स जाने मां प्रेरयेदतिलोभतः ।। ८३
इत्युक्त्वा स्वगृहं गत्वा पत्ये तस्मै तदब्रवीत् ।
यदुक्ता तेन वणिजा रहः सुखधनेन सा ।। ८४
सोऽथ पापोऽर्थलोभस्तां कीनाशः पतिरब्रवीत् ।
प्रिये वस्त्रसहस्राणि पञ्च वाजिशतानि च ।। ८५
एकया यदि लभ्यन्ते रात्र्या दोषस्तदत्र कः ।
तद्गच्छ पार्श्वं तस्याद्य प्रभाते द्रुतमेष्यसि ।। ८६
एतच्छ्रुत्वा वचस्तस्य भर्तुः कापुरुषस्य सा ।
हृदि मानपरा जातविचिकित्सा व्यचिन्तयत् ।। ८७
दारविक्रयिणं पापं हीनसत्त्वं धिगस्त्विमम् ।
लोभभावनया नित्यं बत तन्मयतां गतम् ।। ८८
वरं स एव भर्ता मे यो मामश्वशतैर्निशाम् ।
चीनपट्टसहस्रैश्च क्रीणात्येकामुदारधीः ।। ८९
इत्यालोच्य न मे दोष इत्यनुज्ञाप्य तं ततः ।
कुभर्तारमगात्तस्य गृहं सुखधनस्य सा ।। 7.9.९०
स च तामागतां दृष्ट्वा पृष्ट्वा बुद्ध्वा च तत्तथा ।
चित्रीयमाणस्तत्प्राप्तेरमंस्तात्मनि धन्यताम् ।। ९१
प्राहिणोच्चार्थलोभाय तस्मै तत्पतये द्रुतम् ।
तच्छुल्कभूतानश्वांश्च वस्त्राणि च यथोदितम् ।। ९२
उवास च तया साकं पूर्णकामः स तां निशाम् ।
मूर्तयेव चिरप्राप्तनिजसंपत्फलश्रिया ।। ९३
प्रातश्चाह्वायकान्भृत्यानर्थलोभेन निस्त्रपम् ।
क्लीबेन तेन प्रहितान्साथ मानपराब्रवीत् ।। ९४
विक्रीता संगतान्येन भूत्वा तस्य कथं पुनः ।
भार्या भवामि निर्लज्जः स यथा किमहं तथा ।। ९५
यूयमेव मम ब्रूत यद्येतच्छोभतेऽधुना ।
तद्यात येन क्रीतास्मि स एव हि पतिर्मम ।। ९६
इत्युक्तास्ते तया भृत्यास्ततो गत्वा तथैव तत् ।
अब्रुवन्नर्थलोभाय वाक्यं तस्या अधोमुखाः ।। ९७
स तच्छ्रुत्वा बलादैच्छदानेतुं तां नराधमः ।
ततो हरबलो नाम वयस्यस्तमभाषत ।। ९८
न सा सुखधनात्तस्मादानेतुं शक्यते त्वया ।
प्रवीरस्य न तस्याग्रे तव पश्यामि धीरताम् ।। ९९
स हि त्यागानुरागिण्या नार्या शूरीकृतस्तया ।
बली च बलिभिश्चान्यैर्युक्तो मित्रैः सहागतः ।। 7.9.१००
त्वं तु कार्पण्यविक्रीतविविक्तदयितोज्झितः ।
अवमाननिरुत्साहो गर्हितः क्लीबतां गतः ।। १०१
न च स्वतो बली तादृङ् न च मित्त्रबलान्वितः ।
तत्कथं त्वं समर्थः स्यास्तस्य प्रत्यर्थिनो जये ।। १०२
राजा च कुप्येद्बुद्ध्वा ते दारविक्रयदुष्कृतम् ।
तत्तूष्णीं भव भूयोऽपि मा कृथा हास्यविभ्रमम् ।। १०३
इति सख्या निषिद्धोऽपि क्रोधाद्गत्वा ससैनिकः ।
यावद्रुणद्ध्यर्थलोभो गृहं सुखधनस्य सः ।। १०४
तावत्तस्य समित्त्रस्य सैन्यैः सुखधनस्य तत् ।
सैन्यं तदीयं निर्गत्य कृत्स्नं भग्नमभूत्क्षणात् ।। १०५
ततः पलायितः प्रायात्सोऽर्थलोभो नृपान्तिकम् ।
दाराः सुखधनाख्येन वणिजा देव मे हृताः ।। १०६
इति व्यजिज्ञपच्चात्र नृपं निह्नुतदुर्नयः ।
नृपोऽप्यैच्छदवष्टब्धुं स तं सुखधनं रुषा ।। १०७
ततः संधाननामा तं मन्त्री राजानमब्रवीत् ।
यथातथा न शक्योऽसाववष्टब्धुं वणिक्प्रभो ।। १०८
तस्यैकादशभिर्मित्त्रैः सहायातैर्युतस्य हि ।
लक्षमभ्यधिकं देव वर्तते वरवाजिनाम् ।। १०९
तत्त्वं च नात्र विज्ञातं नह्येतत्स्यादकारणम् ।
तत्प्रेष्य दूतं प्रष्टव्यः किं तावत्सोऽत्र जल्पति ।। 7.9.११०
इति मन्त्रिवचः श्रुत्वा राजा बाहुबलस्ततः ।
प्रष्टुं तत्प्राहिणोद्दूतं तस्मै सुखधनाय सः ।। १११
स दूतस्तं तदादेशाद्गत्वा यावच्च पृच्छति ।
तावन्मानपरा सास्मै स्ववृत्तान्तं तमभ्यधात् ।। ११२
श्रुत्वैव च तदाश्चर्यं रूपं तस्याश्च वीक्षितुम् ।
गृहं सुखधनस्यागात्सार्थलोभो महीपतिः ।। ११३
तत्रापश्यत्सुखधने प्रह्वे मानपरां स ताम् ।
विधातुरपि लावण्यलक्ष्म्या विस्मयदायिनीम् ।। ११४
पादानतायाः सोऽस्याश्च पृष्टायाश्च स्वयं मुखात् ।
अशृणोत्तद्यथावृत्तमर्थलोभस्य शृण्वतः ।। ११५
श्रुत्वा च मत्वा सत्यं तदर्थलोभे निरुत्तरे ।
तामपृच्छत्स सुमुखीं किमिदानीं भवत्विति ।। ११६
ततः सा निश्चितावादीद्देव येनास्म्यनापदि ।
विक्रीतान्यस्य निःसत्त्वं लुब्धं कथमुपैमि तम् ।। ११७
एतच्छ्रुत्वा नृपे तस्मिन्साधूक्तमिति वादिनि ।
अवोचत्सोऽर्थलोभोऽत्र कामक्रोधत्रपाकुलः ।। ११८
अयं सुखधनो राजन्नहं चानुबलं विना ।
युध्यावहे स्वसैन्याभ्यां सत्त्वासत्त्वमवेक्ष्यताम् ।। ११९
इत्यर्थलोभस्य वचः श्रुत्वा सुखधनोऽभ्यधात् ।
तर्हि युध्यावहे ह्यावां द्वावेव किमु सैनिकैः ।। 7.9.१२०
यः प्राप्स्यति जयं मानपरा तस्य भविष्यति ।
श्रुत्वैतद्बाढमस्त्वेवमिति राजाप्यभाषत ।। १२१
ततो मानपरायां च राज्ञि चावेक्षमाणयोः ।
युद्धभूमिं हयारूढौ ताववातरतामुभौ ।। १२२
प्रवृत्ते चाहवे तत्र कुन्ताघातोत्पतद्धयम् ।
अर्थलोभं सुखधनः पर्यास्थद्वसुधातले ।। १२३
तथैव वारांस्त्रीनन्यान्हताश्वं पतितं क्षितौ ।
धीरयन्धर्मयोधी स न तं सुखधनोऽवधीत् ।। १२४
वारे तु पञ्चमेऽश्वेन पतित्वोपरि ताडितः ।
अर्थलोभः स निश्चेष्टस्ततो भृत्यैरनीयत ।। १२५
ततः सुखधनं सर्वैः साधुवादाभिपूजितम् ।
स तं बाहुबलो राजा यथोचितममानयत् ।।. १२६
प्राभृतं च तदानीतं तस्मा एव समर्पयत् ।
अहरच्चार्थलोभस्य सर्वस्वमशुभार्जितम् ।। १२७
तत्पदे चापरं कृत्वा तुष्टः प्रायात्स्वमन्दिरम् ।
निवृत्तपापसंपर्काः सन्तो यान्ति हि निर्वृतिम् ।। १२८
सोऽपि प्रसह्य विहरन्नासीत्सुखधनः सुखम् ।
सहितो मानपरया भार्यया चानुरक्तया ।। १२९
एवं दाराः पलायन्ते हीनसत्त्वाद्धनानि च ।
सुसत्त्वस्योपतिष्ठन्ते स्वयमेत्य यतस्ततः ।। 7.9.१३०
तदलं चिन्तया निद्रां भजस्व नचिरेण हि ।
राजपुत्रीमवाप्तासि त्वं तां कर्पूरिकां प्रभो ।। १३१
इति राज्यधराच्छ्रुत्वा रात्रौ तत्रार्थवद्वचः ।
नरवाहनदत्तः स भेजे निद्रां सगोमुखः ।। १३२
प्रातश्चात्र कृताहारः क्षणं यावत्स तिष्ठति ।
तावत्स गोमुखो धीमांस्तं राज्यधरमभ्यधात् ।। १३३
कुरु यन्त्रविमानं तन्मत्प्रभोरस्य येन तत् ।
कर्पूरसंभवपुरं प्राप्य प्राप्नोत्यसौ प्रियाम् ।। १३४

एतच्छ्रुत्वा स तक्षास्मै वातयन्त्रविमानकम् ।
नरवाहनदत्ताय पूर्वक्लृप्तमढौकयत् ।। १३५
तत्रारुह्य मनःशीघ्रे खगामिनि सगोमुखः ।
तद्धैर्यालोकसोल्लासमिवोच्छलितवीचिकम् ।। १३६
मकराकरमुल्लङ्घ्य प्राप तत्तीरवर्ति सः ।
नरवाहनदत्तस्तत्पुरं कर्पूरसंभवम् ।। १३७
तत्रावतीर्णान्नभसो विमानादवरुह्य सः ।
पुरान्तः परिबभ्राम कौतुकेन सगोमुखः ।। १३८
पृष्टाच्च लोकतो बुद्ध्वा तदेवाभीप्सितं पुरम् ।
प्राप्तं निःसंशयं हृष्टो ययौ राजकुलान्तिकम् ।। १३९
तत्रैकं रुचिरं वेश्म वृद्धयाधिष्ठितं स्त्रिया ।
स विवेश निवासाय नम्रयानुमतस्तया ।। 7.9.१४०
युक्तिं जिज्ञासमानश्च क्षणात्प्रपच्छ तां स्त्रियम् ।
आर्ये किमभिधानोऽत्र राजापत्यं च तस्य किम् ।। १४१
रूपं च तस्य नः शंस यतो वैदेशिका वयम् ।
इत्युक्ता तेन वृद्धा सा तं विलोक्योत्तमाकृतिम् ।। १४२
प्रत्युवाच महाभाग शृणु सर्वं वदामि ते ।
इह कर्पूरको नाम राजा कर्पूरसंभवे ।। १४३
स चानपत्यः संतानहेतोरुद्दिश्य शंकरम् ।
बुद्धिकार्या समं देव्या निराहारोऽकरोत्तपः ।। १४४
त्रिरात्रोपोषितं देवो हरः स्वप्ने तमादिशत् ।
उत्तिष्ठ पुत्राभ्यधिका सा ते कन्या जनिष्यते ।। १४५
विद्याधराणां साम्राज्यं यस्याः पतिरवाप्स्यति ।
इत्यादिष्टो हरेणासौ प्रातः प्राबुद्ध भूपतिः ।। १४६
निवेद्य बुद्धिकार्यै च देव्यै स्वप्नं तमुत्थितः ।
प्रहृष्टोऽथ तया साकं चकार व्रतपारणम् ।। १४७
ततस्तस्याचिराद्राज्ञो राज्ञी गर्भमधत्त सा ।
काले चासूत संपूर्णे कन्यां सर्वाङ्गसुन्दरीम् ।। १४८
यया प्रभाजितास्तत्र जातवेश्मनि दीपकाः ।
कज्जलोद्गारमिषतो निःश्वासानमुचन्निव ।। १४९
कर्पूरिकेति तस्याश्च निजं नाम ततः पिता ।
एष कर्पूरको राजा व्यधत्त विहितोत्सवः ।। 7.9.१५०
क्रमाच्च वृद्धिं प्राप्ता सा लोकलोचनचन्द्रिका ।
कर्पूरिका राजपुत्री यौवनस्थाद्य वर्तते ।। १५१
पिता चेह नृपस्तस्या विवाहमभिकाङ्क्षति ।
पुरुषद्वेषिणी सा तु तं नेच्छति मनस्विनी ।। १५२
कन्याजन्मफलं कस्माद्विवाहं सखि नेच्छसि ।
इति मत्सुतया सा च सख्या पृष्टेदमब्रवीत् ।। १५३
सखि जातिस्मराया मे प्राग्वृत्तं शृणु कारणम् ।
अस्ति तीरे महाम्भोधेर्महांश्चन्दनपादपः ।। १५४
तस्यास्ति निकटे फुल्लनलिनालंकृतं सरः ।
तत्राहमभवं हंसी पूर्वजन्मनि कर्मतः ।। १५५
साहमब्धितटाज्जातु तस्मिंश्चन्दनपादपे ।
अकार्षं राजहंसेन स्वेन भर्त्रा सहालयम् ।। १५६
तत्रालये वसन्त्या मे प्रजातान्पोतकान्सुतान् ।
अकस्मादेत्य बलवान्समुद्रोर्मिरपाहरत् ।। १५७
हृतेष्वपत्येष्वोघेन क्रन्दन्त्यहमनश्नती ।
आसं शुचाब्धितीरस्थशिवलिङ्गाग्रवर्तिनी ।। १५८
ततः स राजहंसो मामुपेत्य पतिरभ्यधात् ।
उत्तिष्ठ किमपत्यानि व्यतीतान्यनुशोचसि ।। १५९
अन्यानि नो भविष्यन्ति सर्वं जीवद्भिराप्यते ।
इति तद्वाक्शरेणाहं हृदि विद्धा व्यचिन्तयम् ।। 7.9.१६०
धिगहो पुरुषाः पापा बालापत्येष्वपीदृशाः ।
निःस्नेहा निष्कृपाश्चैव स्त्रीषु भक्तिमतीष्वपि ।। १६१
तन्मे किममुना पत्या किं वा .देहेन दुःखिना ।
इत्यालोच्य हरं नत्वा कृत्वा भक्त्या च तं हृदि ।। १६२
तत्रैव पुरतस्तस्य पत्युर्हंसस्य पश्यतः ।
जातिस्मरा राजपुत्री भूयासं जननान्तरे ।। १६३
इति संकल्प्य तत्क्षिप्तं शरीरं जलधौ मया ।
ततोऽहं सखि जाताद्य तथाभूतेह जन्मनि ।। १६४
पूर्वजातौ च तस्यां तां भर्तुस्तस्य नृशंसताम् ।
संस्मरन्त्या न कस्मिंश्चिद्वरे रज्यति मे मनः ।। १६५
अतो विवाहं नेच्छामि दैवायत्तमतः परम् ।
इत्युक्तं राजसुतया मत्सुतायै तया रहः ।। १६६
तया मत्सुतयाप्येतन्मह्यमागत्य वर्णितम् ।
तदेवं ते मया ख्यातं पुत्र यत्पृष्टवानसि ।। १६७
तवैव भाविनी भार्या नूनं चैषा नृपात्मजा ।
सर्वविद्याधराणां हि भविष्यच्चक्रवर्तिनः ।। १६८
महिषीयं समादिष्टा पूर्वं देवेन शंभुना ।
तल्लक्षणैश्च युक्तं त्वां पश्यामि तिलकादिभिः ।। १६९
किंस्वित्तदर्थमानीतः कोऽपि त्वमिह वेधसा ।
उत्तिष्ठ तावन्मद्गेहे द्रक्ष्यामः किं भविष्यति ।। 7.9.१७०
इत्युक्त्वोपहृताहारो वृद्धयात्र तया निशाम् ।
नरवाहनदत्तस्तामनैषीद्गोमुखान्वितः ।। १७१
प्रातः संमन्त्र्य कार्यं च गोमुखेन समं रहः ।
महाव्रतिकवेषं च कृत्वा वत्सेश्वरात्मजः ।। १७२
तद्द्वितीयोऽत्र हा हंसि हा हंसीति वदन्मुहुः ।
गत्वा राजकुलद्वारि बभ्राम जनतेक्षितः ।। १७३
तथाभूतं च तं दृष्ट्वा तत्र गत्वैव चेटिकाः ।
कर्पूरिकां राजसुतां तामवोचन्सविस्मयाः ।। १७४
सिंहद्वारे युवा देवि दृष्टोऽस्माभिर्महाव्रती ।
स द्वितीयोऽपि यो धत्ते सौन्दर्येणाद्वितीयताम् ।। १७५
नारीजनमहामोहदायिनं मन्त्रमद्भुतम् ।
उच्चारयति हा हंसि हा हंसीति दिवानिशम् ।। १७६
तच्छ्रुत्वा पूर्वहंसी सा राजपुत्री सकौतुका ।
आनाययत्तमेताभिस्तद्रूपं पार्श्वमात्मनः ।। १७७
ददर्श चैतमुद्दामरूपालंकृतभूमिकम् ।
शंकराराधनोपात्तव्रतं नवमिव स्मरम् ।। १७८
निजगाद च पश्यन्ती विस्मयोत्फुल्लया दृशा ।
किमेतदेव हा हंसि हा हंसीत्युच्यते त्वया ।। १७९
एवं तयोक्तेऽपि तदा हा हंसीत्येव सोऽब्रवीत् ।
ततः सहस्थितस्तस्य गोमुखः प्रत्युवाच तम् ।। 7.9.१८०
अहं ते कथयाम्येतच्छृणु देवि समासतः ।
पूर्वजन्मनि हंसोऽयमभवत्कर्मयोगतः ।। १८१
तत्रैष जलधेस्तीरे महतः सरसस्तटे ।
कृतालयः समं हंस्या तस्थौ चन्दनपादपे ।। १८२
तस्मिन्दैवादपत्येषु समुद्रोर्मिहृतेषु सा ।
एतस्य हंसी शोकार्ता तत्रैवात्मानमक्षिपत् ।। १८३
ततोऽसौ तद्वियोगार्तः पक्षिजातौ विरक्तिमान् ।
त्यक्तुकामः शरीरं तत्संकल्पमकरोद्धृदि ।। १८४
जातिस्मरोऽहं भूयासं राजपुत्रोऽन्यजन्मनि ।
एषा च तत्र मे भार्या भूयाज्जातिस्मरा सती ।। १८५
इति संकल्प्य तं देहं तदा संस्मृत्य शंकरम् ।
विरहानलसंतप्तः समुद्राम्भस्यपातयत् ।। १८६
ततोऽयं वत्सराजस्य कौशाम्ब्यां तनयोऽधुना ।
नरवाहनदत्ताख्यो जातो जातिस्मरः शुभे ।। १८७
असौ विद्याधरेन्द्राणां चक्रवर्ती भविष्यति ।
इति वागुदभूद्दिव्या जातस्यास्य स्फुटं तदा ।। १८८
क्रमेण यौवराज्यस्थः पित्रायं परिणायितः ।
दिव्यां कारणसंभूतां देवीं मदनमञ्चुकाम् ।। १८९
ततो हेमप्रभाख्यस्य विद्याधरपतेः सुता ।
एत्य स्वयं वृतवती कन्या रत्नप्रभेत्यमुम् ।। 7.9.१९०
तथापि तां स्मरन्हंसीं नायं भजति निर्वृतिम् ।
एतच्च बालभृत्याय मह्यमेतेन वर्णितम् ।। १९१
अथास्य मृगयायातस्यासीत्संदर्शनं वने ।
कयापि सिद्धतापस्या मद्द्वितीयस्य दैवतः ।। १९२
कथाप्रसङ्गात्सा चैतमेवं सानुग्रहाब्रवीत् ।
कर्मयोगात्पुरा पुत्र कामो हंसत्वमागतः ।। १९३
तस्य चाम्बुधितीरस्थचन्दनद्रुमवासिनः ।
प्रिया भार्याभवद्धंसी दिव्यस्त्री शापतश्च्युता ।। १९४
वेलाजलहृतापत्यशोकात्तस्यां च वारिधौ ।
क्षिप्तात्मनि स हंसोऽपि तत्रैवात्मानमक्षिपत् ।। १ ९५
सोऽद्य शंभोः प्रसादात्त्वं जातो वत्सेश्वरात्मजः ।
पूर्वजातिं च तां वत्स वेत्सि जातिस्मरो ह्यसि ।। १९६
सा हंस्यप्येवमेवाब्धेः पारे कर्पूरसंभवे ।
पुरे कर्पूरिका नाम जाता राजसुताधुना ।। १९७
तद्गच्छ तत्र पुत्र त्वं प्रियां भार्यामवाप्स्यसि ।
इत्युक्त्वा सा खमुत्पत्य तिरोऽभूत्सिद्धतापसी ।। १९८
अयं चास्मत्प्रभुर्ज्ञातप्रवृत्तिस्तत्क्षणं ततः ।
इतोऽभिमुखमागन्तुं प्रावर्तत मया सह ।। १९९
त्वत्स्नेहाकृष्यमाणश्च पणीकृत्य स्वजीवितम् ।
उत्तीर्य कान्तारशतं प्राप देशोऽम्बुधेस्तटम् ।। 7.9.२००
तत्र हेमपुरस्थोऽस्मै तक्षा राज्यधराभिधः ।
मद्द्वितीयाय मिलितः प्रादाद्यन्त्रविमानकम् ।। २०१
तस्मिन्नारुह्य भयदे हा मूर्त इव साहसे ।
अब्धिकान्तारमुल्लङ्घ्य प्राप्तावावामिदं पुरम् ।। २०२
एतदर्थमसावेवं हा हंसीति वदन्निह ।
भ्रान्तो देवि मम स्वामी यावत्प्राप्तस्त्वदन्तिके ।। २०३
इदानीं त्वन्मुखोदारराकारमणदर्शनात् ।
असंख्यदुःखसांनिध्यतमोपह्नुतिमश्नुते ।। २०४
 ............... ।
तदृष्टिनीलनलिनस्रजार्चय महातिथिम् ।। २०५
एवं वचो विरचितं गोमुखस्य निशम्य सा ।
संवादप्रत्ययात्सत्यं मेने कर्पूरिका तदा ।। २०६
अहो मय्यार्यपुत्रस्य स्नेहोऽमुष्य मुधैव मे ।
विरक्तताभूदित्यन्तः प्रेमार्द्रा विममर्श च ।। २०७
उवाच चाहं सत्यं सा हंसी धन्या च यत्कृते ।
एवं जन्मद्वये क्लेशमार्यपुत्रोऽनुभूतवान् ।। २०८
तदहं वोऽधुना दासी प्रेमक्रीतेति वादिनी ।
नरवाहनदत्तं तं स्नानाद्यैः सममानयत् ।। २०९
ततः परीवारमुखेनैतत्सर्वमबोधयत् ।
पितरं स्वं स चोपागात्तद्बुद्ध्वैव तदन्तिकम् ।। 7.9.२१०
तत्रोत्पन्नविवाहेच्छां सुतां तां तद्वरं तथा ।
नरवाहनदत्तं तं संप्राप्तमुचितं चिरात् ।। २११
विद्याधरमहाचक्रवर्तिलक्षणलाञ्छितम् ।
दृष्ट्वा कृतार्थमात्मानं सोऽमन्यत तदा नृपः ।। २१२
प्रददौ चात्मजामेतां तस्मै कर्पूरिकां ततः ।
नरवाहनदत्ताय यथाविधि स सादरम् ।। २१३
अदादस्मै च जामात्रे प्रतिवह्निप्रदक्षिणम् ।
कोटीस्तिस्रः सुवर्णस्य कर्पूरस्य च तावतीः ।। २१४
यद्राशयो बभुस्तत्र शोभां द्रष्टुमिवागताः ।
गिरिजोद्वाहदृश्वानो मेरुकैलाससानवः ।। २१५
पुनस्तद्वस्त्रकोटीश्च दश दासीशतत्रयम् ।
स्वलंकृतं ददौ सोऽस्मै कृती कर्पूरको नृपः ।। २१६
ततस्तस्थौ कृतोद्वाहः स कर्पूरिकया तया ।
नरवाहनदत्तोऽत्र समं प्रीत्येव मूर्तया ।। २१७
कस्य नाभून्मनःप्रीत्यै स वधूवरयोस्तयोः ।
संगमो माधवीवल्लीवसन्तोत्सवयोरिव ।। २१८
एहि व्रजावः कौशाम्बीमित्यन्येद्युश्च सोऽब्रवीत् ।
नरवाहनदत्तस्तां कृती कर्पूरिकां प्रियाम् ।। २१९
ततः प्रत्यब्रवीत्सा तं यद्येवं तत्खगामिना ।
तेनैव त्वद्विमानेन व्रजामस्त्वरितं न किम् ।। 7.9.२२०
तच्चेत्स्वल्पं तदपरं विस्तीर्णं ढौकयाम्यहम् ।
इह प्राणधराख्यो हि तक्षा यन्त्रविमानकृत् ।। २२१
आस्ते देशान्तरायातस्तच्छीघ्रं कारयाम्यदः ।
इत्युक्त्वा सा प्रतीहारमानाय्य क्षत्तुरादिशत् ।। २२२
गत्वा तं यन्त्रतक्षाणं वद प्राणधरं महत् ।
व्योमगामि विमानं नः प्रस्थानायोपकल्पय ।। २२३
एवं विसृज्य क्षत्तारं राज्ञे कर्पूरिकाथ सा ।
चेटीमुखेन पित्रे तां प्रस्थानेच्छां न्यवेदयत् ।। २२४
स च बुद्ध्वैव तद्यावदायात्यत्रैव भूपतिः ।
नरवाहनदत्तोऽन्तस्तावदेवमचिन्तयत् ।। २२५
तक्षा राज्यधरभ्राता सोऽयं प्राणधरो ध्रुवम् ।
राजभीत्या स्वदेशाद्यो विद्रुतस्तेन वर्णितः ।। २२६
इत्यस्मिंश्चिन्तयत्येव राज्ञि च क्षिप्रमागते ।
आगात्प्रतीहारयुतस्तक्षा प्राणधरोऽत्र सः ।। २२७
व्यजिज्ञपच्च सुमहद्विमानं कृतमस्ति मे ।
यन्मानुषसहस्राणि वहत्यद्यावहेलया ।। २२८
इत्युक्तवन्तं तक्षाणं साध्वित्युक्त्वाभिपूज्य च ।
नरवाहनदत्तोऽथ तं पप्रच्छ स सादरम् ।। २२९
कच्चिद्राज्यधरस्य त्वं भ्राता प्राणधरोऽग्रजः ।
नानायन्त्रप्रयोगाणां वेत्ता सुमहतामपि ।। 7.9.२३०
स एव तस्य भ्राताहं देवो वेत्ति तु नौ कुतः ।
इति प्राणधरः सोऽपि प्रणतः प्रत्युवाच तम् ।। २३१
ततो यथा राज्यधरेणोक्तं दृष्टो यथा च सः ।
नरवाहनदत्तस्तत्तथा तस्मै शशंस सः ।। २३२
अथ तेन मुदा प्राणधरेण समुपाहृते ।
महाविमानेऽनुमतः श्वशुरेणात्र भूभुजा ।। २३३
तमामन्त्र्य समारोप्य दासीकर्पूरकाञ्चनम् ।
तेन राजविसृष्टेन सह प्राणधरेण सः ।। २३४
तेन च क्षत्तृमुख्येन श्वश्रूरचितमङ्गलः ।
कर्पूरिकां राजपुत्रीं नवामादाय तां वधूम् ।। २३५
दत्तदानो द्विजातिभ्यः सद्वस्त्रनिचयैश्च तैः ।
नरवाहनदत्तोऽसावारुरोह सगोमुखः ।। २३६
पूर्वमब्धेस्तटं तावद्यामो राज्यधरान्तिकम् ।
ततो गृहमिति प्राणधरं तं निजगाद सः ।। २३७
ततस्तेनाहतेनाशु विमानेनोत्पपात सः ।
नभो मनोरथेनेव पूर्णेन सपरिग्रहः ।। २३८
क्षणादुत्तीर्य जलधिं पुनस्तत्तीरवर्ति च ।
प्राप हेमपुरं धाम तस्य राज्यधरस्य तत् ।। २३९
तत्र राज्यधरं प्रह्वं प्रहृष्टं भ्रातृदर्शनात् ।
दासीभिस्तमदासीकं संविभेजे च सोत्सवम् ।। 7.9.२४०
आपृच्छय च तमुद्बाष्पं कथमप्युज्झिताग्रजम् ।
ययौ तेनैव कौशाम्बीं विमानेन तदैव सः ।। २४१
तत्राम्बरादशङ्कितमवतीर्णं वरविमानवहनं तम् ।
सानुचरं नववध्वा युक्तं दृष्ट्वा विसिस्मिये जनता ।। २४२
पौरोत्साहैः प्रकटं पुत्रं बुद्ध्वा पितास्य वत्सेशः ।
प्रीतो निरगादग्रे देवीसचिवस्नुषादिभिः सहितः ।। २४३
दृष्ट्वा विमानवाहनसूचितभवितव्यखचरसाम्राज्यम् ।
तं सोऽभिनन्दत सुतं राजा चरणानतं वधूसहितम् ।। २४४
माता वासवदत्ता पद्मावत्या समं तमाश्लिष्य ।
विगलितमिव तददर्शनदुःखग्रन्थिं जहौ बाष्पम् ।। २४५
रत्नप्रभा च भार्या सानन्दा मदनमञ्चुका च तदा ।
तस्य प्रेमहतेर्ष्ये चरणौ हृदयं च जगृहतुस्तुल्यम् ।। २४६
यौगन्धरायणादीन्पितृसचिवान्स्वांश्च सोऽथ नृपसूनुः ।
मरुभूतिमुखान्प्रणताननन्दयत्कृतयथार्थसत्कारः ।। २४७
सर्वे च ते विभूषितसुदशार्हकुलेन जलधिमाक्रम्य ।
समुपाहृतां स्वपतिना व्यक्तं सोदर्यमूर्तिममृतस्य ।। २४८
अजराङ्गनाशतयुतामायातां श्रियमिवाभ्यनन्दंस्ताम् ।
कर्पूरिकां नववधूं वत्सेशाद्या यथोचितावनताम् ।। २४९
तस्याश्च पैतृकं तं वत्सेशोऽपूजयत्प्रतीहारम् ।
अर्पितविमानवाहितकाञ्चनकर्पूरवस्त्रकोटिचयम् ।। 7.9.२५०
आख्यातं नरवाहनदत्तेन ततो विमानकर्तारम् ।
उपकारिणं स राजा प्राणधरं तमपि मानयामास ।। २५१
कथमेषा राजसुता संप्राप्ता कथमितश्च यातौ स्वः ।
इति पप्रच्छ सहर्षः संमान्य स गोमुखं नृपतिः ।। २५२
अथ मृगयावनगमनात्प्रभृति यथा दर्शनं तपस्विन्याः ।
राज्यधरसमासादितविमानयुक्त्या यथा च तीर्णोऽब्धिः ।। २५३
कर्पूरिका विवाहे विमुखापि च संमुखी यथा विहिता ।
प्राणधरलाभलब्धेनागमनं प्राग्यथा विमानेन ।। २५४
युक्त्यैकान्ते स तथा तदशेषं गोमुखो यथावृत्तम् ।
कथयांचकार तस्मै सदारसचिवाय वत्सराजाय ।। २५५
क्वाखेटः क्व च तापसी क्व च तथोदन्वत्तटे यन्त्रवि-
त्तक्षा राज्यधरस्तदीयवहनेनोल्लङ्घनं क्वाम्बुधेः ।
तत्पारे च विमानकर्तुरपरस्यास्य क्व पूर्वं गति-
र्भव्यानां शुभसिद्ध्युपायरचनाचिन्ता विधत्ते विधिः ।। २५६
इति तैर्निखिलैः सविस्मयप्रमदाकम्पितमस्तकैस्ततः ।
जगदे विदधे च गोमुखे प्रभुभक्तिस्तुतिरत्र सादरैः ।। २५७
रत्नप्रभां च राज्ञीं पतिव्रताधर्मजनितपरितोषाम् ।
प्रशशंसुस्ते भर्तुर्निजविद्याविहितपथरक्षाम् ।। २५८
अथ नरवाहनदत्तो विनीतगगनाङ्गणागमनखेदः ।
स विवेश राजधानीं पितृभिर्भार्यादिभिश्च समम् ।। २५९
तत्रोपागतमानितबन्धुसुहृत्स्वर्णकूटभृतकोषः ।
वसुभिस्तौ पूरितवान्प्राणधरश्वाशुरप्रतीहारौ ।। 7.9.२६०
भुक्तोत्तरं च सपदि प्राणधरस्तं व्यजिज्ञपत्प्रणतः ।
देवावयोः किलैवं कर्पूरकभूभृता समादिष्टम् ।। २६१
आगन्तव्यं त्वरितं मद्दुहितरि भर्तृभवनमाप्तायाम् ।
येनाहं जानीयां संप्राप्तामत्र शीघ्रमिति ।। २६२
तद्गन्तव्यं निश्चितमावाभ्यां देव चतुरमधुनैव ।
दापय कर्पूरिकया राज्ञो लेखं स्वहस्तलिखितं नौ ।। २६३
नहि तस्य सुतास्निग्धं हृदयं राज्ञोऽन्यथा समाश्वसिति ।
स ह्यारूढविमानो न जातुचिच्छङ्कते प्रपातमतः ।। २६४
तल्लेखदानपूर्वं संप्रति सहितं मया प्रधानमिमम् ।
अनुजानीहि विमानप्रस्थानप्रोन्मुखं प्रतीहारम् ।। २६५
अहमादाय कुटुम्बकमेष्यामि पुनस्त्विहैव युवराज ।
शक्ष्यामि नामृतमयं चरणाम्भोजद्वयं तव त्यक्तुम् ।। २६६
इति तेन सुदृढमुक्ते प्राणधरेणैष वत्सराजसुतः ।
लेखस्य लेखने तां न्ययुङ्क्त कर्पूरिकां तदैव वधूम् ।। २६७
तात न चिन्ता मयि ते कार्या सद्भर्तृसौख्यसदनजुषि ।
किं हि महाब्धेः कमला चिन्तास्पदमाश्रितोत्तमं पुरुषम् ।। २६८
इति च स्वहस्तलिखिते कर्पूरिकया तयार्पिते लेखे ।
क्षत्तृप्राणधरौ तौ वत्सेशसुतोऽर्चितौ स विससर्ज ।। २६९
तौ चारुह्य विमानं गगनगती जातविस्मयैः सर्वैः ।
दृष्टौ तीर्त्वा जलधिं ययतुः कर्पूरसंभवं नगरम् ।। 7.9.२७०
तत्र सुतां पतिसदनप्राप्तां संश्राव्य दत्तलेखौ तौ ।
आनन्दयांबभूवतुरथ तं कर्पूरकं नराधिपतिम् ।। २७१
अन्येद्युरनुज्ञाप्य प्राणधरस्तं नृपं स सकुटुम्बः ।
संभावितराज्यधरो नरवाहनदत्तपार्श्वमेवागात् ।। २७२
सोऽत्रागताय सद्यः कृतकार्यायात्ममन्दिरसमीपे ।
नरवाहनदत्तोऽस्मै प्रददौ वसतिं च जीवनं च महत् ।। २७३
चिक्रीड च तद्विहितैरवरोधसखो विमानकैर्विचरन् ।
अभ्यस्यदिव भविष्यद्विद्याधरचक्रवर्तिगगनगतिम् ।। २७४
इत्यत्र नन्दितसुहृत्स्वजनावरोधो वत्सेश्वरस्य तनयोऽथ स तान्यहानि ।
रत्नप्रभामदनमञ्चुकयोस्तृतीयां कर्पूरिकां समधिगम्य सुखं निनाय ।। २७५
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके नवमस्तरङ्गः ।
समाप्तश्चायं रत्नप्रभालम्बकः सप्तमः ।