प्रमुखा विकल्पसूचिः उद्घाट्यताम्

इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।

प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ।।

चलत्कर्णानिलोद्भूतसिन्दूरारुणिताम्बरः ।
जयत्यकालेऽपि सृजन्संध्यामिव गजाननः ।। १
एवं वत्सेश्वरसुतः कौशाम्ब्यां स पितुर्गृहे ।
नरवाहनदत्तस्ता भार्याः प्राप्यावसत्सुखम् ।।
एकदा पितुरास्थाने स्थितश्च पुरुषं दिवः ।
अवतीर्यागतं तत्र दिव्यरूपं ददर्श सः ।। ३
प्रणतं तं च सत्कृत्य पित्रा साकं क्षणान्तरे ।
कस्त्वं किमागतोऽसीति पृष्टवान्सोऽप्यथाब्रवीत् ।। ४
अस्तीह वज्रकूटाख्यं पृष्ठे हिमवतः पुरम् ।
वज्रसारमयत्वाद्यत्ख्यातमन्वर्थनामकम् ।। ५५
तत्र वज्रप्रभाख्योऽहमासं विद्याधराधिपः ।
वज्रनिर्मितदेहत्वान्नामान्वर्थं तथैव मे ।। ६
मन्निर्मिते यथाकालं भक्तः संश्चक्रवर्तिनि ।
अजेयस्त्वं विपक्षाणां मत्प्रसादाद्भविष्यसि ।। ७
इति चाहं तपस्तुष्टेनादिष्टः शंभुना यदा ।
तदा प्रभोः प्रणामार्थमागतोऽस्मीह सांप्रतम् ।। ८
वत्सराजसुतो दिव्यं कल्पं कामांशसंभवः ।
नरवाहनदत्तो नः शशिशेखरनिर्मितः ।। ९
मर्त्योऽप्युभयवेद्यर्धचक्रवर्ती भविष्यति ।
इति विद्याप्रभावेण विज्ञातं ह्यधुना मया ।। १०
आसीच्च दिव्यं कल्पं नः पुरा मर्त्योऽप्यनुग्रहात् ।
शार्वात्सूर्यप्रभो नाम चक्रवर्तीह यद्यपि ।। ११
तथाप्यभूत्स एकस्मिन्वेद्यर्धे दक्षिणे प्रभुः ।
उत्तरे श्रुतशर्माख्यश्चक्रवर्ती त्वभूत्तदा ।। १२
उभयोस्तु तयोरेकः कल्पस्थायी द्युचारिणाम् ।
चक्रवर्त्यत्र भविता देव एवातिपुण्यवान् ।। १३
इत्युक्तवन्तं वत्सेशसहितस्तं कुतूहलात् ।
नरवाहनदत्तः स प्राह विद्याधरं पुनः ।। १४
कथं विद्याधरैश्वर्यं मानुषेण सता पुरा ।
प्राप्तं सूर्यप्रभेणेति त्वया नः कथ्यतामिति ।। १५
ततो विविक्ते देवीनां मन्त्रिणां संनिधौ च सः ।
राजा वज्रप्रभो वक्तुं कथां तामुपचक्रमे ।। १६
शाकलं नाम मद्रेषु बभूव नगरं पुरा ।
चन्द्रप्रभाख्यस्तत्रासीद्राजाङ्गारप्रभात्मजः ।। १७
आह्लादकारी विश्वस्य नाम्नान्वर्थोऽपि यो भवन् ।
संतापकारी शत्रूणां बभूव ज्वलनप्रभः ।। १८
कीर्तिमत्यभिधानायां तस्य देव्यामजायत ।
पुत्रो नृपस्यातिशुभैर्लक्षणैः सूचितोदयः ।। १९
एष सूर्यप्रभो नाम राजा जातः पुरारिणा ।
भावी विद्याधराधीशचक्रवर्ती विनिर्मितः ।। २०
इत्युच्चचार गगनात्तस्मिञ्जाते स्फुटं वचः ।
सुधावर्षं श्रवणयोश्चन्द्रप्रभमहीभृतः ।। २१
ततस्तस्य पुरारातिप्रसादोत्सवशालिनः ।
सूर्यप्रभः स ववृधे राजपुत्रः पितुर्गृहे ।। २२
बाल एव च विद्यानां कलानां च क्रमेण सः ।
सर्वासां सुमतिः पास्युपासितगुरुर्ययौ ।। २३
पूर्णषोडशवर्षं च गुणैरावर्जितप्रजम् ।
यौवराज्येऽभ्यषिञ्चत्तं पिता चन्द्रप्रभोऽथ सः ।। २४
स एव मन्त्रिपुत्रांश्च निजांस्तस्मै समर्पयत ।
भासप्रभाससिद्धार्थप्रहस्तप्रभृतीन्बहून् ।। २५
तैः समं युवराजत्वधुरं तस्मिंश्च बिभ्रति ।
आजगामैकदा तत्र मयो नाम महासुरः ।। २६
आस्थाने च स तं चन्द्रप्रभं सूर्यप्रभे स्थिते ।
उपेत्य रचितातिथ्यं जगादैवं मयो नृपम् ।। २७
राजन्विद्याधरेशानां चक्रवर्ती त्रिशूलिना ।
अयं विनिर्मितो भावी पुत्रः सूर्यप्रभस्तव ।। २८
तत्किं न साधयत्येष विद्यास्तत्प्राप्तिदायिनीः ।
एतदर्थं विसृष्टोऽहमिह देवेन शंभुना ।। २९
अनुजानीहि तद्यावन्नीत्वैनं शिक्षयाम्यहम् ।
विद्याधरेन्द्रताहेतुं विद्यासाधनसत्क्रियाम् ।। ३०
एतस्य परिपन्थी हि कार्येऽस्फिखेचरेश्वरः ।
विद्यते श्रुतशर्माख्यः सोऽपि शक्रेण निर्मितः ।। ३१
सिद्धविद्याप्रभावस्तु सहास्माभिर्विजित्य तम् ।
एष विद्याधराधीशचक्रवर्तित्वमाप्स्यति ।। ३२
एवं मयेनाभिहिते राजा चन्द्रप्रभोऽब्रवीत् ।
धन्याः स्मः पुण्यवानेष यथेच्छं नीयतामिति ।। ३३
ततस्तमामन्त्र्य नृपं तदनुज्ञानमाशु तम् ।
सूर्यप्रभं स सामात्यं पातालं नीतवान्मयः ।। ३४
तत्रोपदिष्टवांस्तस्मै स तपांसि तथा यथा ।
राजपुत्रः स सामात्यो विद्याः शीघ्रमसाधयत् ।। ३५
विमानसाधनं तस्मै तथैवोपदिदेश सः ।
तेन भूतासनं नाम स विमानमुपार्जयत् ।। ३६
तद्विमानाधिरूढं तं सिद्धविद्यं समन्त्रिकम् ।
सूर्यप्रभं स पातालान्मयः स्वपुरमानयत् ।। ३७
प्रापय्य पित्रोः पार्श्वं च तं जगाद व्रजाम्यहम् ।
त्वं सिद्धिभोगान्भुङ्क्ष्वेह यावदेष्याम्यहं पुनः ।। ३८
इत्यूचिवानात्तपूजो जगाम स मयासुरः ।
ननन्द विद्यासिद्ध्या च सूनोश्चन्द्रप्रभो नृपः ।। ३९
सोऽथ सूर्यप्रभो विद्याप्रभावात्सचिवैः सह ।
नानादेशान्विमानेन सदा बभ्राम लीलया ।। ४०
यत्र यत्र च या या तमपश्यद्राजकन्यका ।
तत्र तत्र स्वयं वव्रे सा सा तं काममोहिता ।। ४१
एका मदनसेनाख्या ताम्रलिप्त्यां महीपतेः ।
सुता वीरभटाख्यस्य कन्या लोकैकसुन्दरी ।। ४२
द्वितीया सुभटाख्यस्य तनया चन्द्रिकावती ।
अपरान्ताधिराजस्य सिद्धैर्नीत्वोज्झितान्यतः ।। ४३
काञ्चीनगर्या नृपतेः कुम्भीराख्यस्य चात्मजा ।
ख्याता वरुणसेनाख्या तृतीया रूपशालिनी ।। ४४
लावाणकाधिराजस्य पौरवाख्यस्य भूपतेः ।
सुता सुलोचना नाम चतुर्थी चारुलोचना ।। ४५
चीनदेशपते राज्ञः सुरोहस्यात्मसंभवा ।
हारिहेमावदाताङ्गी विद्युन्मालेति पञ्चमी ।। ४६
कान्तिसेनस्य नृपतेः श्रीकण्ठविषयप्रभोः ।
सुता कान्तिमती नाम षष्ठी कान्तिजिताप्सराः ।। ४७
जनमेजयभूपस्य कौशाम्बीनगरीपतेः ।
तनया परपुष्टाख्या सप्तमी मञ्जुभाषिणी ।। ४८
अविज्ञातहृतानां च तासां बुद्ध्वापि बान्धवाः ।
विद्याबलोद्धते तस्मिन्नासन्वेतसवृत्तयः ।। ४९
ताभिश्चोपात्तविद्याभिः समं युगपदारमत् ।
विद्याविरचितानेकदेहः सूर्यप्रभोऽत्र सः ।। ५०
नभोविहारसंगीतपानगोष्ठयादिभिस्तथा ।
चिक्रीड सहितस्ताभिः प्रहस्ताद्यैश्च मन्त्रिभिः ।। ५१
दिव्यचित्रकलाभिज्ञो लिखन्विद्याधराङ्गनाः ।
कुर्वंश्च नर्मवक्रोक्तीः कोपयामास ताः प्रियाः ।। ५२
रेमे च तासां वदनैः सभ्रूभङ्गारुणेक्षणैः ।
वचनैश्च सकम्पौष्ठपुटविस्खलिताक्षरैः ।। ५२
सदारस्ताम्रलिप्तीं च गत्वोद्यानेषु खेचरः ।
स राजसूनुर्व्यहरत्समं मदनसेनया ।। ५४
स्थापयित्वा प्रियाश्चात्र भूतासनविमानगः ।
जगाम वज्रसाराख्यं प्रहस्तैकसखः पुरम् ।। ५५
जग्राह तत्र तनयां राज्ञो रम्भस्य पश्यतः ।
रक्तां तारावलीं नाम दह्यमानां स्मराग्निना ।। ५६
आययौ ताम्रलिप्तीं च पुनस्तत्राप्युपाहरत् ।
अपरां राजतनयां कन्यां नाम्ना विलासिनीम् ।। ५७
तदर्थं कुपितायातं तस्या भ्रातरमुद्धतम् ।
स सहस्रायुधं नाम विद्यया स्तम्भितं व्यधात् ।। ५८
मातुलं च सहायातं तस्य संस्तभ्य सानुगम् ।
चक्रे मुण्डितमूर्धानं तत्कान्ताहरणैषिणम् ।। ५९
भार्याबन्धू इति क्रुद्धोऽप्यवधीन्न स तावुभौ ।
दर्पभङ्गविलक्षौ तु विहस्य प्रतिमुक्तवान् ।। ६०
ततः स नवभिः सूर्यप्रभः कान्ताभिरन्वितः ।
पित्राहूतो विमानेन स्वपुरं शाकलं ययौ ।। ६१
ततश्चास्य पितुश्चन्द्रप्रभभूमिभृतोऽन्तिकम् ।
प्राहिणोत्ताम्रलिप्तीतो दूतं वीरभटो नृपः ।। ६२
संदिदेश च पुत्रेण तव मेऽपहृते सुते ।
तदस्तु विद्यासिद्धो हि श्लाघ्य एष पतिस्तयोः ।। ६३
स्नेहश्च यदि वोऽस्मासु तदिहागच्छताधुना ।
विवाहाचारसत्कारसख्यं यावद्विदध्महे ।। ६४
एतच्छ्रुत्वा स सत्कृत्य दूतं निश्चितवांस्तदा ।
श्व एव तत्र गमनं राजा चन्द्रप्रभो द्रुतम् ।। ६५
सत्यत्वनिश्चयं ज्ञातुं राज्ञो वीरभटस्य तु ।
प्रहस्तं प्राहिणोन्मत्वा दूरं दूतगमागमौ ।। ६६
स प्रहस्तो जवाद्गत्वा दृष्ट्वा वीरभटं च तम् ।
नृपं दृष्ट्वा च तत्कार्यं तच्छ्रद्धितसुपूजितः ।। ६७
तस्मै सविस्मयायोक्त्वा प्रभूणां प्रातरागसम् ।
मुहूर्तेनाययौ चन्द्रप्रभपार्श्वं विहायसा ।। ६८
शशंस तस्मै राज्ञे च सज्जं वीरभटं स्थितम् ।
सोऽपि तं सचिवं सूनोस्तुष्टो राजाभ्यपूजयत् ।। ६९
ततः कीर्तिमतीदेव्या सह चन्द्रप्रभः प्रभुः ।
सूर्यप्रभो विलासिन्या तथा मदनसेनया ।। ७०
भूतासनविमानं तदारुह्य सपरिच्छदौ ।
सामात्यौ चापरेद्युस्तौ प्रातः प्रययतुस्ततः ।। ७१
अह्नः प्रहरमात्रेण ताम्रलिप्तीमवापतुः ।
दृश्यमानौ जनैर्व्योम्नि कौतुकोत्क्षिप्तलोचनैः ।। १
नभस्तलावतीर्णौ च कृतप्रत्युद्गमेन तौ ।
राज्ञा वीरभटेनैतां समं विविशतुः पुरीम् ।। ७३
चन्दनोदकसंसिक्तचारुरथ्या पदे पदे ।
कटाक्षैः पौरनारीणां प्रकीर्णेन्दीवरामिव ।। ७४
तत्र संबन्धिजामात्रोः कृत्वा वीरभटस्तयोः ।
पूजां यथावत्तनयाविवाहप्रक्रियां व्यधात् ।। ७५
विशुद्धस्य हि भाराणां सहस्रं काञ्चनस्य च ।
भृतं च शतमुष्ट्राणां रत्नाभरणभारकैः ।। ७६
उष्ट्रपञ्चशतीं नानावस्त्रभाराभिपूरिताम् ।
वाजिनां च सहस्राणि सप्त पञ्च च दन्तिनाम् ।। ७७
रूपाभरणयुक्तानां सहस्रं वारयोषिताम् ।
वेद्यां दुहित्रोः प्रददौ राजा वीरभटस्तयोः ।। ७८
सूर्यप्रभस्य जामातुस्तत्पितुश्च तयोः पुनः ।
उपचारं स सद्रत्नैश्चकार विषयैस्तथा ।। ९
तन्मन्त्रिणो यथावच्च प्रहस्तादीनमानयत् ।
चकार सोत्सवं हृष्यदशेषनगरीजनम् ।। ८०
सूर्यप्रभश्च तत्रासीत्पितृयुक्तः प्रियासखः ।
तत्कालं विविधाहारपानगेयादिभोगभुक् ।। ८१
तावच्च तत्र रम्भस्य सकाशाद्वज्ररात्रतः ।
आगाद्दूतः स चास्थाने जगाद स्वप्रभोर्वचः ।। ८२
विद्याबलावलिप्तेन युवराजेन नः कृतः ।
सूर्यप्रभेण तनयाहरणोत्थः पराभवः ।। ८३
अद्य च ज्ञातमस्माभिर्यद्वीरभटभूभृतः ।
प्रतिपन्नाः स्थ संधाने समानव्यसनस्य नः ।। ८४
तथैव चानुमन्यध्वे यद्यस्मत्संधिमाशु तत् ।
इहाप्यागम्यतां नो चेन्मृत्युना नोऽत्र निष्कृतिः ।। ८५
तच्छ्रुत्वा तं च संमान्य दूतं वीरभटार्चितः ।
प्रहस्तं सोऽब्रवीद्राजा तत्र चन्द्रप्रभः पुनः ।। ८६
त्वमेव गच्छ तं रम्भमस्मद्वाक्यादिदं वद ।
किं तप्यसे वृथा भावी चक्रवर्ती हि निर्मितः ।। ८७
विद्याधराणां गिरिशेनैष सूर्यप्रभोऽधुना ।
अस्यैतास्त्वत्सुताद्याश्च भार्याः सिद्धैरुदाहृताः ।। ८८
तत्प्राप्ता ते सुता स्थानं कर्कशस्त्वं तु नार्थितः ।
तत्प्रीयस्व सखा नस्त्वमेष्यामोऽत्राप्यमी वयम् ।। ८९
इति राज्ञोक्तसंदेशः प्रहस्तो गगनेन सः ।
गत्वा प्रहरमात्रेण वज्ररात्रमवाप तत् ।। ९०
तत्र रम्भाय संदेशमुक्त्वा तेनानुमोदितः ।
तथैवागत्य सोऽवादीद्राज्ञे चन्द्रप्रभाय तत् ।। ९१
चन्द्रप्रभोऽथ सचिवं प्रभासं प्रेष्य शाकलात् ।
आनाययत्तां रम्भस्य पार्श्वं तारावलीं सुताम् ।। ९२
ततो ययौ विमानेन सह सूर्यप्रभेण सः ।
राज्ञा वीरभटेनापि सर्वैश्चान्यैः सुसेवितः ।। ९३
वज्ररात्रं च संप्राप मार्गोन्मुखजनाकुलम् ।
रम्भेणाभ्युद्गतस्तस्य राजधानीं विवेश सः ।। ९४
तत्र रम्भोऽप्यसौ क्लृप्तविवाहप्रक्रियोत्सवः ।
असंख्यहेमहस्त्यश्वरत्नादि दुहितुर्ददौ ।। ९५
जामातरं च स तथा सूर्यप्रभमुपाचरत् ।
यथा तस्य निजा भोगाः सर्वै विस्मृतिमाययुः ।। ९६
यावच्च तत्र ते तिष्ठन्त्युत्सवानन्दिताः सुखम् ।
तावद्रम्भान्तिकं काञ्चीनगर्या दूत आययौ ।। ९७
स तस्माच्छ्रुतसंदेशो रम्भश्चन्द्रप्रभं नृपम् ।
प्राह काञ्चीश्वरो राजा कुम्भीराख्योऽस्ति मेऽग्रजः ।। ९८
तेनाप्तः प्रेषितो मेऽद्य दूतो वक्तुमिदं वचः ।
मम सूर्यप्रभेणादौ सुता नीता ततस्तव ।। ९९
कृतं चाद्य त्वया सख्यं तैः सहेति मया श्रुतम् ।
तन्ममापि तथैव त्वं सख्यं तैः सह साधय ।। १००
आयान्तु ते मम गृहं यावत्सूर्यप्रभाय ताम् ।
स्वहस्तेनार्पयामीह सुतां वरुणसेनिकाम् ।। १०१
इत्येषाभ्यर्थना तस्य क्रियतामिति वादिनः ।
रम्भस्य श्रद्दधे चन्द्रप्रभो राजा तदा वचः ।। १०२
प्रहस्तं प्रेक्ष्य च क्षिप्रं शाकलात्तामनाययत् ।
पुराद्वरुणसेनां स कुम्भीरस्यान्तिकं पितुः ।। १०३
अन्येद्युश्च विमानेन स च सूर्यप्रभश्च सः ।
रम्भो वीरभटः सर्वे काञ्चीं ते सानुगा ययुः ।। १०४
कुम्भीराभ्युद्गतास्तां च नानारत्नचितां पुरीम् ।
काञ्चीं काञ्चीमिव भुवः प्राविशन्गुणगुम्फिताम् ।। १०५
तत्र तां विधिना दत्त्वा सुतां सूर्य्प्रभाय सः ।
वरवध्वोरदाद्भूरि कुम्भीरो द्रविणं तयोः ।। १०६
निर्वृत्ते च विवाहेऽत्र भुक्तोत्तरसुखस्थितम् ।
चन्द्रप्रभमुवाचैवं प्रहस्तः सर्वसंनिधौ ।। १०७
देव श्रीकण्ठविषये प्रभ्रमन्गतवानहम् ।
तत्र प्रसङ्गदृष्टो मां कान्तिसेननृपोऽब्रवीत् ।। १०८
सूर्यप्रभो ममादाय सुतां कान्तिमतीं हृताम् ।
गृहमेतु करिष्यामि विधिवत्तस्य सत्क्रियाम् ।। १०९
नो चेत्त्यक्ष्याम्यहं देहं दुहितृस्नेहमोहितः ।
इत्युक्तस्तेन तत्राहं प्रस्तावे च मयोदितम् ।। ११०
एवमुक्ते प्रहस्तेन राजा चन्द्रप्रभोऽभ्यधात् ।
गच्छ कान्तिमतीं तर्हि तां प्रापय तदन्तिकम् ।। १११
ततस्तत्र वयं याम इत्युक्तस्तेन भूभृता ।
तदैव नभसा गत्वा प्रहस्तस्तत्तथाकरोत् ।। ११२
प्रातश्च ते सकुम्भीराः सर्वै चन्द्रप्रभादयः ।
श्रीकण्ठविषयं जग्मुर्विमानेन द्युगामिना ।। ११३
तत्राप्यग्रागतो राजा कान्तिसेनः स्वमन्दिरम् ।
तावत्प्रवेश्य दुहितुर्व्यधादुद्वाहमङ्गलम् ।। ११४
ददौ तस्यै तदा कान्तिमत्यै सूर्यप्रभाय च ।
आश्चर्यजननं राज्ञाममितं रत्नसंचयम् ।। ११५
ततः स्थितेषु तेष्वत्र नानाभोगोपसेविषु ।
सर्वेषु दूतः कौशाम्ब्या आगत्यैवमभाषत ।। ११६
जनमेजयभूपालो ब्रवीति भवतामिदम् ।
हृता केनापि नचिरं परपुष्टेति मे सुता ।। ११७
ज्ञातं चेहाद्य यत्प्राप्ता हस्तं सूर्यप्रभस्य सा ।
तत्तया सह सोऽस्माकं गृहमायात्वशङ्कितः ।। ११८
सत्कृत्य प्रेषयिष्यामि सभार्यं तं यथाविधि ।
अन्यथा शत्रवो यूयं मम युष्माकमप्यहम् ।। ११९
इत्युक्त्वा स्वामिवचनं दूतस्तूष्णीं बभूव सः ।
अथ चन्द्रप्रभः सर्वानेकान्ते क्षितिपोऽब्रवीत् ।। १२०
कथमेवं सदर्पोक्तेर्गम्यते तस्य वेश्मनि ।
तच्छ्रुत्वा तस्य सिद्धार्थनामा मन्त्र्येवमभ्यधात् ।। १२१
नान्यथा देव मन्तव्यं वक्तुमेवं हि सोऽर्हति ।
स हि राजा महादाता पण्डितः सत्कुलोद्गतः ।। १२२
शूरोऽश्वमेधयाजी च सदैवान्यापराजितः ।
विरुद्धं किं नु तेनोक्तं यथावस्त्वभिधायिना ।। १२३
शत्रुतोदाहृता या वा सा वासवकृतेऽधुना ।
तद्गन्तव्यं गृहे तस्य सत्यसंधो नृपो हि सः ।। १२४
तदपि प्रेष्यतां कश्चित्तस्य चित्तोपलब्धये ।
इति सिद्धार्थवचनं सर्वे श्रद्दधुरत्र ते ।। १२५
ततो जिज्ञासितुं चन्द्रप्रभस्तं जनमेजयम् ।
प्रहस्तं व्यसृजत्तं च दूतं तस्याप्यमानयत् ।। १२६
प्रहस्तश्च स गत्वा तं कौशाम्बीशं ससंविदम् ।
विधायानीय तल्लेखं चन्द्रप्रभमतोषयत् ।। १२७
सोऽपि राजा तमेवाशु प्रहस्तं प्रेष्य शाकलात् ।
जनमेजयपार्श्वं तां परपुष्टामनाययत् ।। १२८
ततश्चन्द्रप्रभाद्यास्ते सूर्यप्रभपुरोगमाः ।
सकान्तिसेनाः कौशाम्बीं विमानेनागमन्नृपाः ।। १२९
तत्र संबन्धिजामातृमुखान्प्रत्युद्गमादिना ।
प्रह्वस्तान्पूजयामास स राजा जनमेजयः ।। १३०
ददौ च कृत्वा दुहितुर्विवाहविधिसत्क्रियाम् ।
पञ्च हस्तिसहस्राणि लक्षं च वरवाजिनाम् ।। १३१
रत्नकाञ्चनसद्वस्त्रकर्पूरागरुपूरितैः ।
भारैर्भृतानामुष्ट्राणां सहस्राण्यपि पञ्च सः ।। १३२
चक्रे च वाद्यनृत्तैकमयं लोकमहोत्सवम् ।
पूजितब्राह्मणवरं मानिताखिलराजकम् ।। १३३
तावच्चाशङ्कितं तत्र नभः पिञ्जरतां ययौ ।
रक्तारुणत्वमभ्यर्णभावि शंसदिवात्मनः ।। १३४
तुमुलाकुलशब्दाश्च बभूवुः सहसा दिशः ।
भीता इवागतं दृष्ट्वा परसैन्यं विहायसा ।। १३५
तावच्च तत्क्षणं वातुं प्रवृत्तोऽभून्महानिलः ।
खेचरैः सह युद्धाय भूचरानुत्क्षिपन्निव ।। १३६
क्षणाच्च ददृशे व्योम्नि विद्याधरबलं महत् ।
दीप्तिद्योतितदिक्चक्रमुद्यन्नादं महाजवम् ।। १३७
तन्मध्ये चातिसुभगं विद्याधरकुमारकम् ।
एकं सूर्यप्रभाद्यास्ते पश्यन्ति स्म सुविस्मिताः ।। १३८
आषाढेश्वरतनयो दामोदर एष जयति युवराजः ।
रे मर्त्य धरणिगोचर सूर्यप्रभ निपत पादयोरस्य ।। १३९
प्रणम च रे जनमेजय भवता दत्ता सुता किमस्थाने ।
आराधय तमिमं तद्देवं नैषोऽन्यथा क्षमते ।।' १४०
इति तस्मिन्क्षणे विद्याधरबन्दी ततोऽम्बरात् ।
तस्य दामोदरस्याग्राद्व्याजहारोच्चया गिरा ।। १४१
तच्छ्रुत्वा दृष्टतत्सैन्यो गृहीत्वा खड्गचर्मणी ।
सूर्यप्रभो नभः क्रोधादुत्पपात स्वविद्यया ।। १४२
अनूत्पेतुश्च सचिवास्तस्य सर्वे धृतायुधाः ।
प्रहस्तश्च प्रभासश्च भासः सिद्धार्थ एव च ।। १४३
प्रज्ञाढ्यः सर्वदमनो वीतभीतिः शुभंकरः ।
विद्याधराणां तैः साकं प्रावर्तत महाहवः ।। १४४
सूर्यप्रभश्चाभ्यधावद्यतो दामोदरस्ततः ।
खड्गेनाघ्नन्रिपून्गृह्णंच्छस्त्राणि स्वचर्मणा ।। १४५
ते जनाः कति संख्ये च लक्षसंख्या नभश्चराः ।
समत्वमेव विविदुर्युध्यमानाः परस्परम् ।। १४६
बभुः खड्गलताश्चात्र साकुला रुधिरारुणाः ।
पतन्त्यः शूरकायेषु कृतान्तस्येव दृष्टयः ।। १४७
विद्याधराश्च धरणौ भियेव शरणार्थिनः ।
शिरोभिश्च शरीरैश्च पेतुश्चन्द्रप्रभाग्रतः ।। १४८
सूर्यप्रभो बभौ लोकदृष्टया खेचरश्रिया ।
सिन्दूरेणेव कीर्णेन नभोऽभूदसृजारुणम् ।। १४९
सूर्यप्रभश्च संप्राप्य युयुधे तेन संमुखम् ।
खड्गचर्मधरेणैव सह दामोदरेण सः ।। १५०
युध्यमानश्च करणप्रयोगेण प्रविश्य तम् ।
खड्गखण्डितचर्माणं रिपुं भूमावपातयत् ।। १५१
छेत्तुमिच्छति यावच्च शिरस्तस्य विवेल्लतः ।
तावदागत्य नभसा हुंकारो विष्णुना कृतः ।। १५२
तच्छ्रुत्वा वीक्ष्य च हरिं नम्रस्तद्गौरवेण सः ।
दामोदरममुञ्चत्तं वधात्सूर्यप्रभस्ततः ।। १५३
वधमुक्तं तमादाय भक्तं क्वापि ययौ हरिः ।
भगवान्स हि सद्भक्तमिहामुत्र च रक्षति ।। १५४
दामोदरानुगास्ते च ययुः सर्वे यतस्ततः ।
सूर्यप्रभोऽपि गगनात्पितुः पार्श्वमवातरत् ।। १५५
सामात्यमक्षतप्राप्तं पिता चन्द्रप्रभस्य तम् ।
अभ्यनन्दन्नृपाश्चान्ये तुष्टुवुर्दृष्टविक्रमम् ।। १५६
ततोऽत्र यावत्सर्वे ते हृष्टास्तत्कथया स्थिताः ।
आगात्सुभटसंबन्धी तावद्दूतोऽपरस्ततः ।। १५७
स च चन्द्रप्रभस्यैव लेखमग्रे समर्पयत् ।
तमुद्धाट्य च सिद्धार्थः सदस्येवमवाचयत् ।। १५८
श्रीमानुन्नतवंशमौक्तिकमणिश्चन्द्रप्रभो भूपती
राजा श्रीसुभटेन सादरमिदं श्रीकोङ्कणाद्बोध्यतै ।
नीता मे तनयापहृत्य रजनौ सत्त्वेन केनापि या
सा प्राप्ता तव सूनुनेत्यवगतं यत्तेन तुष्टा वयम् ।। १५९
तद्युक्तेन सुतेन तेन सह तत्सूर्यप्रभेणोद्यमो
युष्माभिः क्रियतामनर्गलमिहाप्यस्मद्गृहाभ्यागमे ।
यावत्तां परलोकतः पुनरिव प्रत्यागतामात्मजां
पश्यामश्च विवाहकार्यमधुना कुर्मश्च तस्या वयम् ।। १६०
इत्यत्र वाचिते लेखे सिद्धार्थेन तथेति सः ।
राजा चन्द्रप्रभो दूतं सच्चकार जहर्ष च ।। १६१
आनाययच्च सुभटस्यान्तिकं चन्द्रिकावतीम् ।
तत्सुतामपरान्तं तं प्रहस्त प्रेष्य सत्वरम् ।। १६२
प्रातश्च जग्मुः सर्वे ते कृत्वा सूर्यप्रभं पुरः ।
अपरान्तं विमानेन जनमेजयसंयुताः ।। १६३
तत्र तान्सुभटो राजा दुहितृप्राप्तिनन्दितः ।
भृशमानर्च चक्रे च सुतापरिणयोत्सवम् ।। १६४
ददौ च चन्द्रिकावत्यै सोऽस्यै रत्नादिकं तथा ।
यथा वीरभटाद्यास्ते स्वदत्तेन ललज्जिरे ।। १६५
ततः सूर्यप्रभे तत्र स्थिते श्वशुरवेश्मनि ।
आगात्पौरवसंबन्धी दूतो लावाणकादपि ।। १६६
सोऽपि चन्द्रप्रभमिदं निजस्वामिवचोऽभ्यधात् ।
सुता सुलोचना नीता श्रीमत्सूर्यप्रभेण मे ।। १६७
ततो मे नैव संतापस्तद्युक्तः किं तु मद्गृहम् ।
आनीयतां स युष्माभिराचारं यद्विदध्महे ।। १६८
तच्छ्रुत्वैव मुदाभ्यर्च्य दूतं चन्द्रप्रभो नृपः ।
आनाययत्प्रहस्तेन पितुः पार्श्वं सुलोचनाम् ।। १६९
ततः ससुभटाः सर्वे सह सूर्यप्रभेण ते ।
लावाणकं विमानेन ययुर्ध्यातोपगामिना ।। १७०
तत्रोद्वाहोत्सवं कृत्वा सूर्यप्रभसुलोचने ।
रत्नैरपूरयत्सोऽपि पौरवोऽर्चितराजकः ।। १७१
तेनोपचर्यमाणेषु सुखस्थेष्वत्र तेषु च ।
प्रजिघाय सुरोहोऽपि दूतं चीननरेश्वरः ।। १७२
सोऽप्यन्यवद्दूतमुखेनार्थयामास पार्थिवः ।
हृतकन्यस्तया साकं तेषामागमनं गृहे ।। १७३
ततश्चन्द्रप्रभो राजा हृष्टस्तस्यापि तां सुताम् ।
विद्युन्मालां प्रहस्तेनानाययामास केतनम् ।। १७४
अन्येद्युश्च विमानेन सहसूर्यप्रभा ययुः ।
चन्द्रप्रभाद्याः सर्वे ते चीनदेशं सपौरवाः ।। १७५
तत्राग्रे निर्गतो राजा निजकोट्टं प्रवेश्य तान् ।
स सुरोहोऽपि दुहितुश्चक्रे वैवाहिकं विधिम् ।। १७६
अदाच्च विद्युन्मालायै तस्यै सूर्यप्रभाय च ।
असंख्यहेमहस्त्यश्वरत्नचीनांशुकादिकम् ।। १७७
तस्थुश्च तत्र ते तैस्तैर्भोगैश्चन्द्रप्रभादयः ।
दिनानि कतिचित्सर्वे सुरोहाभ्यर्चितास्तदा ।। १७८
आसीत्सूर्यप्रभश्चात्र विलसद्धनयौवनः ।
प्रावृट्कालो यथा विद्युन्मालया शोभितस्तया ।। १७९
एवं स बुभुजे तत्र तत्र श्वशुरवेश्मनि ।
तत्तत्कान्तासखः सूर्यप्रभो भोगान्सबान्धवः ।। १८०
ततः संमन्त्र्य सिद्धार्थप्रमुखैः सचिवैः सह ।
क्रमाद्वीरभटादींस्तानश्वीयसहितान्नृपान् ।। १८१
विसृज्य निजदेशेषु तं सुरोहमहीपतिम् ।
आमन्त्र्य तत्सुतायुक्तः पितृभ्यां सह सानुगः ।। १८२
भूतासनविमानं तदारुह्य व्योमवर्त्मना ।
स्वं स सूर्यप्रभः प्रायाच्छालकं नगरं कृती ।। १८३
क्वचिन्नृत्तासङ्गः क्वचिदपि च संगीतकरसः
क्वचित्पानक्रीडा क्वचन सुदृशां मण्डनविधिः ।
क्वचिल्लब्धाभीष्टस्तुतिमुखरवैतालिकरवः
पुरे तस्मिन्नासीत्प्रमद इति तस्यागमनजः ।। १८४
तत्रान्या पितृवेश्मसु स्थितवतीरानाय्य स स्वप्रिया
दत्तैस्तत्पितृभिर्गजाश्वनिवहैस्ताभिः सहैवागतः ।
नानारत्नसुपूर्णभारविनतैरुष्ट्रैश्च संख्यातिगै-
र्लीलादर्शितदिग्जयोत्थविभवश्चक्रे प्रजाकौतुकम् ।। १८५
बहुवसु भूरिनिधानं तेन महाभोगिना तदाध्युषितम् ।
सुरधनदभुजगनगरैः कृतमिव तच्छाकलं विबभौ ।। १८६
ततो मदनसेनया सह स तत्र सूर्यप्रभो
यथाभिमतभोगभुक्सकलपूर्णसंपत्सुखी ।
उवास पितृसंयुतः ससचिवोऽन्यपत्नीयुतः
कृतागमनसंविदं मयमुदीक्षमाणोऽन्वहम् ।। १८७
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके प्रथमस्तरङ्गः ।