अथ युद्धभुवं प्रातर्जग्मुः सूर्यप्रभादयः ।
श्रुतशर्मादयस्ते च संनद्धाः सबलाः पुनः ।। १
पुनश्च सेन्द्राः सब्रह्मविष्णुरुद्राः सुरासुराः ।
सयक्षोरगगन्धर्वाः सङ्ग्रामं द्रष्टुमाययुः ।। २
श्रुतशर्मबले चक्रव्यूहं दामोदरो व्यधात् ।
वज्रव्यूहं प्रभासश्च सूर्यप्रभबलेऽकरोत् ।। ३
ततः प्रववृते युद्धं तयोरुभयसैन्ययोः ।
तूर्यैः सुभटनादैश्च बधिरीकृतदिक्तटम् ।। ४
सम्यक्छस्त्रहताः शूरा भिन्दन्ति मम मण्डलम् ।
इतीव शरजालान्तश्छन्नो भानुरभूद्भिया ।। ५
दामोदरकृतं चक्रव्यूहमन्येन दुर्भिदम् ।
भित्त्वा प्रभासः प्राविक्षदथ सूर्यप्रभाज्ञया ।। ६
तं च दामोदरो व्यूहच्छिद्रमेत्यावृणोत्स्वयम् ।
प्रभासो ययुधे तं च तत्रैकरथ एव सः ।। ७
प्रविष्टमेककं तं च दृष्ट्वा सूर्यप्रभोऽथ सः ।
पश्चात्पञ्चदशैतस्य विससर्ज महारथान् ।। ८
प्रकम्पनं धूमकेतुं कालकम्पनकं तथा ।
महामायं मरुद्वेगं प्रहस्तं वज्रपञ्जरम् ।। ९
कालचक्रं प्रमथनं सिंहनादं सकम्बलम् ।
विकटाक्षं प्रवहणं तं कुञ्जरकुमारकम् ।। १०
तं च प्रहृष्टरोमाणमसुराधिपसत्तमम् ।
ते प्रधाव्य ययुः सर्वे व्यूहद्वारं महारथाः ।। ११
तत्र दामोदरोऽपूर्वं स्वपौरुषमदर्शयत् ।
यदेक एव युयुधे तैः पञ्चदशभिः सह ।। १२
तद्दृष्ट्वा नारदमुनिं पार्श्वस्थं वासवोऽभ्यधात् ।
सूर्यप्रभाद्या असुरावतारा अखिलास्तथा ।। १३
श्रुतशर्मा मदंशश्च सर्वे विद्याधरा इमे ।
देवांशास्तदयं युक्त्या मुने देवासुराहवः ।। १४
तस्मिंश्च पश्य देवानां सहायः सर्वदा हरिः ।
दामोदरस्तदंशोऽयमेवं तदिह युध्यते ।। १५
एवं शक्रे वदत्यस्य दामोदरचमूपतेः ।
महारथाः समाजग्मुः साहाय्याय चतुर्दश ।।. १६
ब्रह्मगुप्तो वायुबलो यमदंष्ट्रः सुरोषणः ।
रोषावरोहोऽतिबलस्तेजःप्रभधुरंधरौ ।। १७
कुबेरदत्तो वरुणशर्मा कम्बलिकस्तथा ।
वीरश्च दुष्टमदनो दोहनारोहणावुभौ ।। १८
दामोद्रयुतास्तेऽपि वीराः पञ्चदशैव तान् ।
सूर्यप्रभीयान्रुरुधुर्वीरान्व्यूहाग्रयोधिनः ।। १९
ततोऽत्र द्वन्द्वयुद्धानि तेषामासन्परस्परम् ।
दामोदरेणास्त्रयुद्धं समं चक्रे प्रकम्पनः ।। २०
ब्रह्मदत्तेन च समं धूमकेतुरयुध्यत ।
महामायस्तु युयुधे सहैवातिबलेन च ।। २१
तेजःप्रभेण युयुधे दानवः कालकम्पनः ।
सह वायुबलेनापि मरुद्वेगो महासुरः ।। २२
यमदंष्ट्रेण च समं युयुधे वज्रपञ्जरः ।
समं सुरोषणेनापि कालचक्रोऽसुरोत्तमः ।। २३
साकं कुबेरदत्तेन युद्धं प्रमथनो व्यधात् ।
सिंहनादश्च दैत्येन्द्रः समं वरुणशर्मणा ।। २४
युद्धं प्रवहणो दुष्टदमनेन सहाकरोत् ।
प्रहृष्टरोमा रोषावरोहेणापि च दानवः ।। २५
धुरंधरेण च समं विकटाक्षो व्यधाद्युधम् ।
युद्धं कम्बलिकश्चक्रे समं कम्बलिकेन च ।। २६
आरोहणेन च समं स कुञ्जरकुमारकः ।
महोत्पातापराख्येण प्रहस्तो दोहनेन च ।। २७
एवं महारथद्वन्द्वेष्वेषु तत्र परस्परम् ।
व्यूहाग्रे युध्यमानेषु सुनीथो मयमभ्यधात् ।। २८
कष्टमस्मद्रथाः शूरा नानायुद्धविदोऽप्यमी ।
रुद्धाः प्रतिरथैरेतैः पश्य व्यूहप्रवेशतः ।। २९
प्रभासश्चैक एवाग्रे प्रविष्टोऽत्राविचारितम् ।
तन्न जानीमहे कस्य किमिवात्र भविष्यति ।। ३०
एतच्छ्रुत्वा ब्रवीति स्म तं सुवासकुमारकः ।
त्रैलोक्येऽपि न पर्याप्ताः ससुरासुरमानुषाः ।। ३१
एकस्यास्य प्रभासस्य किं पुनः खेचरा इमे ।
तदेषा कथमस्थाने शङ्का वो जानतामपि ।। ३२
एवं मुनिकुमारेऽस्मिन्ब्रुवाणे कालकम्पनः ।
विद्याधरः प्रभासस्य युधि संमुखमाययौ ।। ३३
ततः प्रभासोऽवादीत्तं रे रे ह्यपकृतं त्वया ।
अतीव नस्तदद्येह पश्यामस्तव पौरुषम् ।। ३४
इत्युक्त्वा व्यसृजत्तस्मिन्प्रभासो विशिखावलिम् ।
सोऽपि तं सायकैः कालकम्पनोऽवाकिरच्छितैः ।। ३५
अस्त्रप्रत्यस्त्रयुद्धेन युयुधाते मिथस्ततः ।
प्रदत्तभुवनाश्चर्यौ तौ विद्याधरमानुषौ ।। ३६
अथ प्रभासो विशिखेनैकेनापातयद्ध्वजम् ।
द्वितीयेनावधीत्कालकम्पनस्य च सारथिम् ।। ३७
चतुर्भिश्चतुरश्चाश्वान्धनुरेकेन चाच्छिनत् ।
द्वाभ्यां हस्तौ भुजौ द्वाभ्यां द्वाभ्यां च श्रवणावुभौ ।। ३८
एकेन शितधारेण शिरश्चिच्छेद तस्य च ।
प्रभासः पत्त्रिणा शत्रोर्दर्शिताद्भुतलाघवः ।। ३९
एवं प्राङ्निहितानेकप्रवीरोत्थेन मन्युना ।
प्रभासो निग्रहं कालकम्पनस्य व्यधादिव ।। ४०
दृष्ट्वा च तं हतं विद्याधरेशं मनुजासुरैः ।
नादश्चक्रे विषादश्च जम्भे सपदि खेचरैः ।। ४१
ततो विद्युत्प्रभो नाम कालञ्जरगिरीश्वरः ।
प्रभासमभ्यधावत्तं क्रुधा विद्याधराधिपः ।। ४२
तस्यापि युध्यमानस्य प्रभासः स महाध्वजम् ।
छित्त्वा चकर्त कोदण्डमात्तमात्तं पुनः पुनः ।। ४३
ततः स माययोत्पत्य च्छन्नो विद्युत्प्रभो नभः ।
प्रभासस्योपरि ह्रीतो ववर्षासिगदादिकान् ।। ४४
प्रभासोऽपि विधूयास्त्रैस्तदायुधपरम्पराम् ।
कृत्वा प्रकाशनास्त्रेण प्रकाशं तं नभश्चरम् ।। ४५
दत्त्वा महास्त्रमाग्नेयं तत्तेजोदग्धमम्बरात् ।
विद्युत्प्रभं भूमितले गतजीवमपातयत् ।। ४६
तद्दृष्ट्वा श्रुतशर्मा तान्निजगाद महारथान् ।
पश्यतानेन निहतौ द्वौ महारथयूथपौ ।। ४७
तत्किं सहध्वे संभूय युष्माभिर्हन्यतामयम् ।
तच्छ्रुत्वाष्टौ रथाः क्रुद्धाः प्रभासं पर्यवारयन् ।। ४८
एकः कङ्कटकाद्रीन्द्रनिवासी रथयूथपः ।
ऊर्ध्वरोमेति विख्यातो विद्याधरमहीपतिः ।। ४९
धरणीधरशैलाधिपतिर्विक्रोशनाभिधः ।
विद्याधराणामधिपो द्वितीयश्च महारथः ।। ५०
इन्दुमाली तृतीयश्च लीलापर्वतकेतनः ।
वीरोऽतिरथयूथस्य पतिर्विद्याधरप्रभुः ।। ५१
मलयाद्रिनिवासी च काकाण्डक इति श्रुतः ।
रथयूथपती राजा चतुर्थः खेचरोत्तमः ।। ५२
निकेताद्रिपतिर्नाम्ना दर्पवाहश्च पञ्चमः ।
षष्ठश्च धूर्तवहनो नाम्नाञ्जनगिरीश्वरः ।। ५३
विद्याधराविमौ चातिरथयूथपती उभौ ।
सप्तमो गर्दभरथो राजा कुमुदपर्वते ।। ५४
नाम्ना वराहस्वामीति यो महारथयूथपः ।
तद्रूपो दुन्दुभिक्ष्माभृद्रथो मेधावरोऽष्टमः ।। ५५
एभिरष्टभिरागत्य मुक्तान्बाणान्विधूय सः ।
प्रभासो युगपत्सर्वान्सायकैर्विध्यति स्म तान् ।। ५६
जघान कस्यचिच्चाश्वान्कस्यचित्सारथिं तथा ।
चकर्त कस्यचित्केतुं कस्यचिच्चाच्छिनद्धनुः ।। ५७
मेधावरं चतुर्भिस्तु शरैर्विद्ध्वा समं हृदि ।
अपातयन्महीपृष्ठे सद्योऽपहृतजीवितम् ।। ५८
ततश्च योधयन्नन्यान्कुञ्चितोद्बद्धकुन्तलम् ।
शरेणाञ्जलिकेनारादूर्ध्वरोम्णः शिरोऽच्छिनत् ।। ५९
शेषांश्च षट् तानेकैकभल्लनिर्लूनकंधरान् ।
हताश्वसारथीन्कृत्वा स प्रभासो न्यपातयत् ।। ६०
पपात पुष्पवृष्टिश्च तस्य मूर्ध्नि ततो दिवः ।
उत्तेजितासुरनृपा विच्छायीकृतखेचरा ।। ६१
ततोऽन्ये तत्र चत्वारः प्रेषिताः श्रुतशर्मणा ।
महारथाः प्रभासं तं रुन्धन्ति स्म धनुर्धराः ।। ६२
एकः काचरको नाम कुरण्डकगिरेः पतिः ।
द्वितीयो दिण्डिमाली च पञ्चकाद्रिसमाश्रयः ।। ६३
विभावसुस्तृतीयश्च राजा जयपुराचले ।
चतुर्थो धवलो नाम भूमितुण्डकशासिता ।। ६४
ते महारथयूथाधिपतयः खेचरोत्तमाः ।
प्रभासे पञ्च पञ्चेषुशतानि मुमुचुः समम् ।। ६५
प्रभासश्च क्रमात्तेषामेकैकस्यावहेलया ।
एकेन ध्वजमेकेन धनुरेकेन सारथिम् ।। ६६
चतुर्भिरश्वानिषुणा त्वेकेनापातयच्छिरः ।
शरैरष्टभिरेकैकं समाप्यैवं ननाद सः ।। ६७
अथ विद्याधरा भूयः श्रुतशर्माज्ञया युधि ।
अन्ये चत्वार एवास्य प्रभासस्य समागमन् ।। ६८
एकः कुवलयश्यामः क्षेत्रे विश्वावसोर्बुधात् ।
जातो भद्रंकरो नाम द्वितीयश्च नियन्त्रकः ।। ६९
उत्पन्नो जम्भकक्षेत्रे भौमादग्निनिभप्रभः ।
तृतीयः कालकोपाख्यः क्षेत्रे दामोदरस्य च ।। ७०
जातः शनैश्चरात्कृष्णकृष्णः कपिलमूर्धजः ।
जातश्चोडुपतेः क्षेत्रे महेन्द्रसचिवाद्ग्रहात् ।। ७१
नाम्ना विक्रमशक्तिश्च चतुर्थः कनकद्युतिः ।
त्रयोऽतिरथयूथाधिपतीनामेषु यूथपाः ।। ७२
चतुर्थस्तु सहावीरस्तदभ्यधिकविक्रमः ।
ते च प्रभासं दिव्यास्त्रैर्योधयामासुरुद्धताः ।। ७३
तानि नारायणास्त्रेण प्रभासोऽस्त्राण्यवारयत् ।
तेषां च हेलयैकैकस्याष्टकृत्वोऽच्छिनद्धनुः ।। ७४
ततस्तत्प्रहितान्प्रासगदादीन्प्रतिहत्य सः ।
हताश्वसारथीन्सर्वान्विरथानकरोच्च तान् ।। ७५
तद्दृष्ट्वा विससर्जान्याञ्छ्रुतशर्मा द्रुतं दश ।
रथयूथपयूथाधिपतीन्विद्याधराधिपान् ।। ७६
दमाख्यं नियमाख्यं च स्वरूपसदृशाकृती ।
केतुमालेश्वरक्षेत्रे जातौ द्वावश्विनोः सुतौ ।। ४७
विक्रमं संक्रमं चैव पराक्रममथाक्रमम् ।
संमर्दनं मर्दनं च प्रमर्दनविमर्दनौ ।। ७८
क्षेत्रजान्मकरन्दस्याप्यष्टौ वसुसुतान्समान् ।
तेष्वागतेषु चाद्यास्तेऽप्यारोहन्नपरान्रथान् ।। ७९
तैश्चतुर्दशभिः कृत्स्नैर्मिलितैः शरवर्षिभिः ।
निष्कम्प एव युयुधे प्रभासश्चित्रमेककः ।। ८०
ततः सूर्यप्रभादेशाद्व्यूहाग्रात्त्यक्तसंगरौ ।
स कुञ्जरकुमारश्च प्रहस्तश्च धृतायुधौ ।। ८१
उत्पत्य व्योममार्गेण धवलश्यामलाकृती ।
तस्योपजग्मतुः पार्श्वं रामकृष्णाविवापरौ ।। ८२
तौ पदाती रथस्थौ द्वौ दमं च नियमं च तम् ।
व्याकुलीचक्रतुश्छिन्नचापौ निहतसारथी ।। ८३
भयादारूढयोर्व्योम तयोरारोहतः स्म तौ ।
स कुञ्जरकुमारश्च प्रहस्तश्च धृतायुधौ ।। ८४
तद्दृष्ट्वा रभसात्सूर्यप्रभोऽत्र प्राहिणोत्तयोः ।
महाबुद्ध्यचलद्बुद्धी सारथित्वे स्वमन्त्रिणौ ।। ८५
सोऽथ प्रहस्तो दृष्ट्वा तावदृश्यावपि मायया ।
सिद्धाञ्जनप्रयोगेण स कुञ्जरकुमारकः ।। ८६
तथा विव्याध बाणौघैः पलाय्य ययतुर्यथा ।
दमश्च नियमश्चोभौ तौ विद्याधरपुत्रकौ ।। ८७
प्रभासो युध्यमानश्च शेषैर्द्वादशभिः सह ।
तेषां चकर्त कोदण्डानसकृत्कलितानपि ।। ८८
प्रहस्तोऽभ्येत्य सर्वेषामवधीत्सारथीन्समम् ।
स कुञ्जरकुमारोऽपि जघानैषां तुरंगमान् ।। ८९
ततस्तत्रारथाः सर्वे द्वादशापि समेत्य ते ।
हन्यमानास्त्रिभिर्वीरैः पलाय्य समराद्ययुः ।। ९०
ततोऽन्यौ श्रुतशर्मा द्वौ रथातिरथयूथपौ ।
विद्याधरौ प्रेषितवान्दुःखक्रोधत्रपाकुलः ।। ९१
एकं चन्द्रकुलाद्रीन्द्रपतेः क्षेत्रे निशाकरात् ।
उत्पन्नं चन्द्रगुप्ताख्यं कान्तं चन्द्रमिवापरम् ।। ९२
धुरंधराचलाधीशक्षेत्रे जातं महाद्युतिम् ।
नगरंगमनामानं द्वितीयं सचिवं स्वकम् ।। ९३
तावपि क्षिप्तबाणौघौ क्षणेन विरथीकृतौ ।
तैः प्रभासादिभिस्त्यक्त्वा युद्धं नष्टौ बभूवतुः ।। ९४
ततो नदत्सु मनुजेष्वसुरेषु च स स्वयम् ।
आगाच्चतुर्भिः सहितः श्रुतशर्मा महारथैः ।। ९५
महौघारोहणोत्पातवेत्रवत्संज्ञकैः क्रमात् ।
त्वष्टुर्भगस्य चार्यम्णः पूष्णश्चाप्यात्मसंभवैः ।। ९६
चतुर्णां चित्रपादादिविद्याधरमहीभुजाम् ।
मलयाद्यद्रिनाथानां क्षेत्रजैः प्राज्यविक्रमैः ।। ९७
ततस्तेनात्यमर्षान्धेनात्मना पञ्चमेन ते ।
अयुध्यन्त प्रभासाद्यास्त्रयोऽत्र श्रुतशर्मणा ।। ९८
तदा तैर्मुक्तमन्योन्यं बाणजालं बभौ दिवि ।
रणलक्ष्म्या तपत्यर्के वितानकमिवाततम् ।। ९९
ततो विद्याधरास्तेऽपि पुनस्तत्राययुर्मृधे ।
विरथीभूय ये नष्टा बभूवुः समरात्तदा ।। १००
अथ ताञ्श्रुतशर्मादीन्मिलितानाहवे बहून् ।
दृष्ट्वा सूर्यप्रभोऽन्यान्स्वान्प्रभासाद्यनुपोषणे ।। १०१
महारथान्प्रहितवान्प्रज्ञाढ्यप्रभृतीन्सखीन् ।
वीरसेनशतानीकमुख्यान्राजसुतांस्तदा ।। १०२
व्योम्नात्र तेषां यातानां स च सूर्यप्रभो रथान् ।
भूतासनविमानेन प्रजिघाय द्युवर्त्मना ।। १०३
ततः सर्वेषु तेष्वत्र रथारूढेषु धन्विषु ।
विद्याधरेन्द्राः शेषा अप्याजग्मुः श्रुतशर्मणः ।। १०४
तेषां विद्याधरेशानां तैः प्रभासादिभिः सह ।
संप्रहारः प्रवृत्तोऽभून्महासैन्यक्षयावहः ।। १०५
तत्र च द्वन्द्वसङ्ग्रामेष्वन्योन्यं सैन्ययोर्द्वयोः ।
हता महारथास्ते ते मानुषासुरखेचराः ।। १०६
वीरसेनेन निहतः सानुगो धूम्रलोचनः ।
वीरसेनोऽपि विरथीभूतः सन्हरिशर्मणा ।। १०७
हतो विद्याधरो वीरो हिरण्याक्षोऽभिमन्युना ।
अभिमन्युः सुनेत्रेण हतो हरिभटस्तथा ।। १०८
सुनेत्रश्च प्रभासेन शिरश्छित्वा निपातितः ।
ज्वालामाली महायुश्चाप्यन्योन्येन हतावुभौ ।। १०९
कुम्भीरको नीरसकः प्राहरन्दशनैरपि ।
खर्वश्च भुजयोश्छेदात्सुशर्मा चोग्रविक्रमः ।। ११०
त्रयः शत्रुभटव्याघ्रभटसिंहभटा अपि ।
हताः प्रवहणेनैते विद्याधरमहीभृता ।। १११
स सुरोहविरोहाभ्यां द्वाभ्यां प्रवहणो हतः ।
श्मशानवासिना द्वौ च हतौ सिंहबलेन तौ ।। ११२
स प्रेतवाहनः सिंहबलः कपिलकोऽपि च ।
चित्रापीडस्ततो विद्याधरेन्द्रोऽथ जगज्ज्वरः ।। ११३
ततः कान्तापतिः शूरः सुवर्णश्च महाबलः ।
द्वौ च कामघनक्रोधपती विद्याधरेश्वरौ ।। ११४
बलदेवस्ततो राजा विचित्रापीड एव च ।
राजपुत्रशतानीकेनैते दश निपातिताः ।। ११५
एवं हतेषु वीरेषु दृष्ट्वा विद्याधरक्षयम् ।
श्रुतशर्मा शतानीकमभ्यधावत्स्वयं क्रुधा ।। ११६
ततस्तयोरा दिनान्तं सैन्यक्षयकरं महत् ।
आश्चर्यमपि देवानां तावद्युद्धमभूद्द्वयोः ।। ११७
शतानि यावदुत्थाय कबन्धानां समन्ततः ।
भूतानां चक्रुरालम्बं संध्यानृत्तोत्सवागमे ।। ११८
अह्नः क्षयेऽथ बहुसैन्यविनाशविग्ना विद्याधरा निहतबान्धवदुःखिताश्च ।
मर्त्यासुराः प्रसभलब्धजयाश्च जग्मुः संहृत्य युद्धमुभये स्वनिवेशनानि ।। ११९
तत्कालमत्र च सुमेरुनिवेदितौ द्वौ विद्याधरावधिपती रथयूथपानाम् ।
अभ्येत्य तं परिहृतश्रुतशर्मपक्षौ सूर्यप्रभं जगदतुर्विहितप्रणामौ ।। १२०
आवां महायानसुमायसंज्ञावुभावयं सिंहबलस्तृतीयः ।
महाश्मशानाधिपतित्वसिद्धा विद्याधरेन्द्रैरपरैरधृष्याः ।। १२१
तेषां श्मशानान्तसुखस्थितानामस्माकमागान्निकटं कदाचित् ।
सदा प्रसन्ना शरभाननाख्या सद्योगिनी दिव्यमहाप्रभावा ।। १२२
कुत्र स्थिता त्वं वद किं च तत्र दृष्टं भवत्या भगवत्यपूर्वम् ।
सास्माभिरित्थं प्रणिपत्य पृष्टा वृत्तान्तमेवं वदति स्म देव ।। १२३
द्रष्टुं प्रभुं स्वं सह योगिनीभिर्देवं महाकालमहं गतासम् ।
व्यजिज्ञपत्तत्र च मत्समक्षमागत्य वेतालपतिस्तमेकः ।। १२४
अस्मन्महासैन्यपतेस्तनूजां विद्याधरेशैर्निहतस्य देव ।
पश्याग्निकाख्यस्य हरत्यकाण्डे तेजःप्रभो नाम महार्घरूपाम् ।। १२५
सिद्धैश्च विद्याधरचक्रवर्तिपत्नी भवित्री गदिता प्रभो सा ।
तन्मोचयैनां कुरु नः प्रसादं यावन्न दूरं ह्रियते हठेन ।। १२६
इत्यार्तवेतालवचो निशम्य प्रयात तां मोचयतेति सोऽस्मान् ।
देवः समादिक्षदथाम्बरेण गत्वैव सास्माभिरवापि कन्या ।। १२७
सच्चक्रवर्तिश्रुतशर्महेतोरेतां हरामीति च तं वदन्तम् ।
संस्तभ्य तेजःप्रभवात्मशक्त्या सास्माभिरानीय विभोर्वितीर्णा ।। १२८
तेनार्पिता च स्वजनाय कन्या दृष्टं मया काममपूर्वमेतत् ।
ततोऽत्र कांश्चिद्दिवसानुषित्वा प्रणम्य देवं तमिहागतास्मि ।। १२९
इत्युक्तवाक्या शरभानना सा योगिन्यथास्माभिरपृच्छ्यतैवम् ।
को ब्रूहि विद्याधरचक्रवर्ती भविष्यति त्वं खलु वेत्सि सर्वम् ।। १३०
सूर्यप्रभो हन्त भविष्यतीति प्रोक्ते तया सिंहबलोऽब्रवीन्नौ ।
असत्यमेतन्ननु बद्धकक्ष्या देवा हि सेन्द्राः श्रुतशर्मपक्षे ।। १३१
श्रुत्वैतदार्या वदति स्म सा नौ न प्रत्ययश्चेच्छृणुतं ब्रवीमि ।
यथा भविष्यत्यचिरेण युद्धं सूर्यप्रभस्य श्रुतशर्मेणश्च ।। १३२
हनिष्यते सिंहबलो यदायं युष्मत्समक्षं युधि मानुषेण ।
युवामभिज्ञानमिदं विलोक्य विज्ञास्यथः सत्यमिदं वचो मे ।। १३३
एतावदुक्त्वा किल योगिनी सा ययौ च यातानि च तान्यहानि ।
प्रत्यक्षमद्येह च दृष्टमेतन्मर्त्येन यत्सिंहबलो हतोऽसौ ।। १३४
तत्प्रत्ययान्निश्चितमेव मत्वा त्वामेव सर्वद्युचराधिराजम् ।
आवामिमौ पादसरोजयुग्मं समाश्रितौ शासनवर्तिनौ ते ।। १३५
इत्युक्तवन्तौ स मयादियुक्तः सूर्यप्रभस्तावथ खेचरेन्द्रौ ।
श्रद्धाय संमानितवान्यथार्हं हृष्टौ महायानसुमायकौ द्वौ ।। १३६
तच्छ्रुत्वा श्रुतशर्मणोऽत्र सुतरामुद्वेगभाजो व्यधा-
दाश्वासं किल दूत्यया शतमखः संप्रेष्य विश्वावसुम् ।
धीरस्त्वं भव सर्वदेवसहितः प्रातः करिष्यामि ते
साहाय्यं रणमूर्धनीति धृतिकृत्संदेश्य तत्स्नेहतः ।। १३७
स च परबलभेदालोकनोत्पन्नतोषः समरशिरसि दृब्धारातिपक्षक्षयश्च ।
पुनरपि निजकान्ताः प्रोज्झ्य सूर्यप्रभस्ता निशि सचिवसमेतो वासकं स्वं विवेश ।। १३८
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके पञ्चमस्तरङ्गः ।