प्रमुखा विकल्पसूचिः उद्घाट्यताम्

कथासरित्सागरः/लम्बकः ८/तरङ्गः ६

< कथासरित्सागरः‎ | लम्बकः ८

ततः स रात्रावस्त्रीकः शयनस्थो रणोन्मुखः ।
सूर्यप्रभः स्वसचिवं वीतभीतिमभाषत ।। १
निद्रा मे नास्ति तत्कांचित्सत्त्ववीराश्रितां सखे ।
कथामपूर्वामाख्याहि रात्रावस्यां विनोदिनीम् ।। २
एतत्सूर्यप्रभवचो वीतभीतिर्निशम्य सः ।
यथाज्ञापयसीत्युक्त्वा कथां कथितवानिमाम् ।। ३
अस्त्यलंकृतिरेतस्यां पृथ्व्यामुज्जयिनी पुरी ।
रत्नैरशेषैर्निचिता सुनिर्मलगुणोम्भितैः ।। ४
तस्यामभून्महासेनो नाम राजा गुणिप्रियः ।
कलानां चैकनिलयः सूर्येन्दूभयरूपधृक् ।। ५
तस्याशोकवती नाम राज्ञी प्राणसमाभवत् ।
यस्या रूपेण सदृशी नासीदन्या जगत्त्रये ।। ६
तया देव्या समं तस्य राज्यं राज्ञोऽनुशासतः ।
गुणशर्माभिधानोऽभूद्विप्रो मान्यस्तथा प्रियः ।। ७
स च शूरोऽतिरूपश्च वेदविद्यान्तगो युवा ।
कलाशस्त्रास्त्रविद्विप्रः सिषेवे तं नृपं सदा ।। ८
एकदान्तःपुरे नृत्तकथाप्रस्तावतः स तम् ।
राजा राज्ञी च पार्श्वस्थं गुणशर्माणमूचतुः ।। ९
सर्वज्ञस्त्वं न दोलात्र तदस्माकं कुतूहलम् ।
नर्तितुं चेद्विजानासि तत्प्रसीदाद्य दर्शय ।। १०
एतच्छ्रुत्वा स्मितमुखो गुणशर्मा जगाद तौ ।
जानामि किं तु तद्युक्तमस्ति नृत्तं न संसदि ।। ११
हासनं मूढनृत्तं तत्प्रायशः शास्त्रगर्हितम् ।
तत्रापि राज्ञः पुरतो राज्ञ्याश्च धिगहो त्रपा ।। १२
इत्युक्तवन्तं तं राजा गुणशर्माणमत्र सः ।
प्रत्युवाच तया राज्ञ्या प्रेर्यमाणः कुतूहलात् ।। १३
नेदं रङ्गादिनृत्तं तद्यत्स्यात्पुंसस्त्रपावहम् ।
मित्त्रगोष्ठी रहस्येषा स्ववैदग्ध्यप्रदर्शिनी ।। १४
न चाहं भवतो राजा त्वं मे मित्त्रं ह्ययन्त्रणम् ।
तन्नाद्य भोक्ष्ये भावत्कमदृष्ट्वा नृत्तकौतुकम् ।। १५
इति बद्धग्रहे राज्ञि स विप्रोऽङ्गीचकार तत् ।
कथं हि लङ्घ्यते भृत्यैर्ग्रहिकस्य प्रभोर्वचः ।। १६
ततः स गुणशर्मात्र ननर्ताङ्गैर्युवा तथा ।
राजा राज्ञी च चित्तेन तौ द्वौ ननृततुर्यथा ।। १७
तदन्ते च ददौ राजा वादनायास्य वल्लकीम् ।
तस्यां च सारणामेष दददेवाब्रवीन्नृपम् ।। १८
देवाप्रशस्ता वीणेयं तदन्या दीयतां मम ।
अस्यास्तन्त्र्यां यदेतस्यां श्ववालो विद्यतेऽन्तरे ।। १९
अहं ह्येतद्विजानामि तन्त्रीझांकारलक्षणैः ।
इत्युक्त्वा गुणशर्माङ्कात्तां विपञ्चीं मुमोच सः ।। २०
ततः स सिक्त्वा तन्त्रीं तां यावदुद्वेष्ट्य भूपतिः ।
वीक्षते निरगात्तावद्वालस्तद्गर्भतः शुनः ।। २१
ततः सर्वज्ञतां तस्य प्रशंसन्सोऽतिविस्मितः ।
वीणामानाययामास महासेननृपोऽपराम् ।। २२
तां स वादितवान्गायन्गुणशर्मा त्रिमार्गगाम् ।
गङ्गामिवौघसुभगां कर्णपावननिःस्वनाम् ।। २३
ततश्चित्रीयमाणाय राज्ञे तस्मै सजानये ।
दर्शयामास शस्त्रास्त्रविद्या अपि स तत्क्रमात् ।। २४
अथावोचत्स राजा तं नियुद्धं यदि वेत्सि तत् ।
एकं मे बन्धकरणं शून्यहस्तं प्रदर्शय ।। २५
गृहाण देव शस्त्राणि मयि प्रहर च क्रमात् ।
यावत्ते दर्शयामीति स विप्रः प्रत्युवाच तम् ।। २६
ततः स राजा खड्गादि यद्यदायुधमग्रहीत् ।
तत्तत्प्रहरतस्तस्य गुणशर्मावहेलया ।। २७
तेनैव बन्धकरणेनापहृत्यापहृत्य सः ।
बबन्ध राज्ञो हस्तं च गात्रं चाप्यक्षतो मुहुः ।। २८
ततस्तं राज्यसाहाय्यसहं मत्वा द्विजोत्तमम् ।
संस्तुवन्बहु मेने स राजा सर्वातिशायिनम् ।। २९
सा त्वशोकवती राज्ञी तस्य रूपं गुणांश्च तान् ।
दृष्ट्वा दृष्ट्वा द्विजस्याभूत्सद्यस्तद्गतमानसा ।। ३०
एतं चेत्प्राप्नुयां नाहं तत्किं मे जीविते फलम् ।
इति संचिन्त्य युक्त्या सा राजानमिदमब्रवीत् ।। ३१
आर्यपुत्र प्रसीदाज्ञां देह्यस्मै गुणशर्मणे ।
यथा मां शिक्षयत्येष वीणां वादयितुं प्रभो ।। ३२
अस्थैतदद्य दृष्ट्वा हि वीणावादननैपुणम् ।
उत्पन्नः कोऽप्ययं तत्र मम प्राणाधिको रसः ।। ३३
तच्छ्रुत्वा गुणशर्माणं स राजा निजगाद तम् ।
वल्लकीवादनं देवीमिमां शिक्षय सर्वथा ।। ३४
यथादिशसि कुर्मोऽत्र प्रारम्भं सुशुभेऽहनि ।
इत्युक्त्वामन्त्र्य स नृपं गुणशर्मा गृहं ययौ ।। ३५
वीणारम्भावहारं तु चक्रे स दिवसान्बहून् ।
दृष्टिमन्यादृशीं राज्ञ्याः प्रेक्ष्यापनयशङ्कितः ।। ३६
एकस्मिंश्च दिने राज्ञो भुञ्जानस्यान्तिके स्थितः ।
व्यञ्जनं ददतं सूदमेकं मा मेत्यवारयत् ।। ३७
किमेतदिति पृष्टश्च राज्ञा प्राज्ञो जगाद सः ।
सविषं व्यञ्जनमिदं मया ज्ञातं च लक्षणैः ।। ३८
सूदेन मम दृष्टं हि व्यञ्जनं ददतामुना ।
मुखं भयसकम्पेन शङ्काचकितदृष्टिना ।। ३९
दृश्यते चाधुनैवैतत्कस्मैचिद्दीयतामिदम् ।
भोजनव्यञ्जनं यस्य निर्हरिष्याम्यहं विषम् ।। ४०
इत्युक्ते तेन राजा स सूपकारं तमेव तत् ।
व्यञ्जनं भोजयामास भुक्त्वा तच्च मुमूर्च्छ सः ।। ४१
मन्त्रापास्तविषस्तेन ततः स गुणशर्मणा ।
राज्ञा पृष्टो यथातत्त्वमेवं वक्ति स्म सूपकृत् ।। ४२
देवाहं गौडपतिना राज्ञा विक्रमशक्तिना ।
विषं प्रयोक्तुं प्रहितो युष्माकमिह वैरिणा ।। ४३
सोऽहं वैदेशिको भूत्वा कुशलः सूदकर्मणि ।
देवायात्मानमावेद्य प्रविष्टोऽत्र महानसे ।। ४४
तच्चाद्य दददेवाहं विषं व्यञ्जनमध्यगम् ।
लक्षितो धीमतानेन प्रभुर्जानात्यतः परम् ।। ०५५
इत्युक्तवन्तं तं सूदं निगृह्य गुणशर्मणे ।
प्रीतो ग्रामसहस्रं स प्राणदाय ददौ नृपः ।। ४६
अन्येद्युश्चानुबध्नन्त्या राज्ञ्या राजा स यत्नतः ।
वीणाया गुणशर्माणं शिक्षारम्भमकारयत् ।। ४७
ततः शिक्षयतस्तस्य वीणां सा गुणशर्मणः ।
राज्ञी विलासहासादि चक्रेऽशोकवती सदा ।। ४८
एकदा सा कररुहैर्विध्यन्ती विजने मुहुः ।
उवाच वारयन्तं तं धीरं स्मरशरातुरा ।। ०९
वीणावाद्यापदेशेन त्वं सुन्दर मयार्थितः ।
त्वयि गाढोऽनुरागो हि जातो मे तद्भजस्व माम् ।। ५०
एवमुक्तवतीं राज्ञीं गुणशर्मा जगाद ताम् ।
मैवं वादीर्मम त्वं हि स्वामिदारा न चेदृशम् ।। ५१
अस्मादृशः प्रभुद्रोहं कुर्याद्विरम साहसात् ।
इत्यूचिवांसं सा राज्ञी गुणशर्माणमाह तम् ।। ५२
किमिदं निष्फलं रूपं वैदग्ध्यं च कलासु ते ।
मामीदृशीं प्रणयिनीं नीरसोपेक्षसे कथम् ।। ५३
तच्छ्रुत्वा गुणशर्मा तां सोपहासमभाषत ।
सुष्ठूक्तं तस्य रूपस्य वैदग्ध्यस्य च किं फलम ।। ५४
परदारापहारेण यन्नाकीर्तिमलीमसम् ।
इहामुत्र च यन्न स्यात्पाताय नरकार्णवे ।। ५५
इत्युक्ते तेन सा राज्ञी सकोपेव तमब्रवीत् ।
मरणं मे ध्रुवं तावन्मद्वचस्यकृते त्वया ।। ५६
तदहं मारयित्वा त्वां मरिष्याम्यवमानिता ।
गुणशर्मा ततोऽवादीत्कामं भवतु नाम तत् ।। ५७
वरं यद्धर्मपाशेन क्षममेकं हि जीवितम् ।
परं न यदधर्मेण कल्पकोटिशतान्यपि ।। ५८
श्लाघ्यश्चाकृतपापस्य मम मृत्युरगर्हितः ।
न पुनः कृतपापस्य गर्हितं राजशासनम् ।। ५९
एतच्छ्रुत्वापि सा राज्ञी पुनरेवमुवाच तम् ।
आत्मनो मम च द्रोहं मा कृथाः शृणु वच्मि ते ।। ६०
नातिक्रामति राजायमशक्यमपि मद्वचः ।
तदस्य कृत्वा विज्ञप्तिं विषयान्दापयामि ते ।। ६१
कारयामि च सामन्तान्सर्वांस्त्वदनुयायिनः ।
तेन संपत्स्यसे राजा त्वमेवेह गुणोज्ज्वलः ।। ६२
ततस्ते किं भयं कस्त्वां कथं परिभविष्यति ।
तन्मां भजस्व निःशङ्कमन्यथा न भविष्यसि ।। ६३
इति तां ब्रुवतीं मत्वा सानुबन्धां नृपाङ्गनाम् ।
गुणशर्माब्रवीद्युक्त्या तत्क्षणं स व्यपोहितुम् ।। ६४
यदि तेऽत्यन्तनिर्बन्धस्तत्करिष्ये वचस्तव ।
प्रतिभेदभयाद्देवि सहसा तु न युज्यते ।। ६५
सहस्व दिवसान्कांश्चित्सत्यं जानीहि मद्वचः ।
सर्वनाशफलेनार्थस्त्वद्विरोधेन को मम ।। ६६
इत्याशया तां संतोष्य प्रतिपन्नवचास्तया ।
गुणशर्मा स निर्गत्य ययावुच्छ्वसितस्ततः ।। ६७
ततो दिनेषु गच्छत्सु स महासेनभूपतिः ।
गत्वैव वेष्टयामास कोट्टस्थं सोमकेश्वरम् ।। ६८
तत्र प्राप्तं विदित्वा च गौडनाथः स भूपतिः ।
एत्य विक्रमशक्तिस्तं महासेनमवेष्टयत् ।। ६९
ततः स गुणशर्माणं महासेननृपोऽब्रवीत् ।
एकं रुद्ध्वा स्थिताः सन्तो रुद्धाः स्मोऽन्येन शत्रुणा ।। ७०
तदिदानीमपर्याप्ताः कथं युध्यामहे द्वयोः ।
अयुद्ध रुद्धके वीर स्थास्यामश्च कियच्चिरम् ।। ७१
तदस्मिन्संकटेऽस्माभिः किं कार्यमिति तेन सः ।
पृष्टः पार्श्वस्थितो राज्ञा गुणशर्माभ्यभाषत ।। ७२
धीरो भव करिष्यामि देवोपायं तथाविधम् ।
येनास्मान्निस्तरिष्यामः संकटादपि कार्यतः ।। ७३
इत्याश्वास्य नृपं दत्त्वा सोऽन्तर्धानाञ्जनं दृशोः ।
रात्रौ विक्रमशक्तेस्तददृश्यः कटकं ययो ।। ७४
प्रविश्य चान्तिकं तस्य सुप्तं च प्रतिबोध्य तम् ।
जगाद विद्धि मां राजन्देवदूतमुपागतम् ।। ७५
संधिं कृत्वा महासेननृपेणापसर द्रुतम् ।
अन्यथा ते ससैन्यस्य नाशः स्यादिह निश्चितम् ।। ७६
प्रेषिते च त्वया दूते स संधिं तेऽनुमंस्यते ।
इति वक्तुं भगवता विष्णुना प्रहितोऽस्मि ते ।। ७७
भक्तस्त्वं च स भक्तानां योगक्षेममवेक्षते ।
तच्छ्रुत्वा चिन्तितं तेन राज्ञा विक्रमशक्तिना ।। ७८
निश्चितं सत्यमेवैतद्दुष्प्रवेशेऽन्यथा कथम् ।
इह यः प्रविशेत्कश्चिन्नैषा मर्त्योचिताकृतिः ।। ९
इत्यालोच्य स तं प्राह राजा धन्योऽस्मि यस्य मे ।
देवः समादिशत्येवं यथादिष्टं करोमि तत् ।। ८०
इति वादिन एवास्य राज्ञः प्रत्ययमादधत् ।
अञ्जनान्तर्हितो भूत्वा गुणशर्मा ततो ययौ ।। ८१
गत्वा यथाकृतं तच्च महासेनाय सोऽभ्यधात् ।
सोऽप्यभ्यनन्दत्कण्ठे तं गृहीत्वा प्राणराज्यदम् ।। ८२
प्रातर्विक्रमशक्तिश्च स दूतं प्रेष्य भूपतिः ।
महासेनेन संधाय ससैन्यः प्रययौ ततः ।। ८३
महासेनोऽपि जित्वा तं सोमकं प्राप्य हस्तिनः ।
अश्वांश्चोज्जयिनीमागात्प्रभावाद्गुणशर्मणः ।। ८४
तत्रस्थं च नदीस्नाने ग्राहादुपवने च तम् ।
सर्पदंशविषाद्भूपं गुणशर्मा ररक्ष सः ।। ८५
गतेष्वथ दिनेष्वाप्तबलो राजा स वैरिणम् ।
महासेनोऽभियोक्तुं तं ययौ विक्रमशक्तिकम् ।। ८६
सोऽपि बुद्ध्वैव तस्याग्रे नृपो युद्धाय निर्ययौ ।
ततः प्रववृते तत्र सङ्ग्रामोऽतिमहांस्तयोः ।। ८७
क्रमाच्च द्वन्द्वयुद्धेन मिलितौ तावुभावपि ।
राजानौ सहसाभूतामन्योन्यं विरथीकृतौ ।। ८८
ततस्तयोर्धावितयोः प्रकोपात्खड्गहस्तयोः ।
आकुलत्वेन चस्खाल महासैननृपः क्षितौ ।। ८९
स्खलितेऽस्मिन्प्रहरतश्चक्रेण भुजमच्छिनत् ।
राज्ञो विक्रमशक्तेः स गुणशर्मा सखड्गकम् ।। ९०
पुनश्च हृदि हत्वा तं परिघेण न्यपातयत् ।
तच्चोत्थाय महासेनो राजा दृष्ट्वा तुतोष सः ।। ९१
किं वच्मि पञ्चमं वारमिदं प्राणा इमे मम ।
विप्रवीर त्वया दत्ता इति तं चावदन्मुहुः ।। ९२
ततो विक्रमशक्तेस्तत्तस्य सैन्यं सराष्ट्रकम् ।
आचक्राम महासेनो हतस्य गुणशर्मणा ।। ९३
आक्रम्य चान्यान्नृपतीन्सहाये गुणशर्मणि ।
आगत्योज्जयिनीं तस्थौ स राजा सुखितस्तदा ।। ९४
सा त्वशोकवती राज्ञी सोत्सुका गुणशर्मणः ।
विरराम न निर्बन्धप्रार्थनातो दिवानिशम् ।। ९५
स तु नाङ्गीचकारैव तदकार्यं कथंचन ।
देहपातमपीच्छन्ति सन्तो नाविनयं पुनः ।। ९६
ततोऽशोकवती बुद्ध्वा निश्चयं तस्य वैरतः ।
एकदा व्याजखेदं सा कृत्वा तस्थौ रुदन्मुखी ।। ९७
प्रविष्टोऽथ महासेनस्तामालोक्य तथास्थिताम् ।
पप्रच्छ राजा किमिदं प्रिये केनासि कोपिता ।। ९८
ब्रूहि तस्य करोम्येष धनैः प्राणैश्च निग्रहम् ।
इति ब्रुवाणं तं भूपं राज्ञी कृच्छ्रादिवाह सा ।। ९९
येन मेऽपकृतं तस्य नैव त्वं निग्रहे क्षमः ।
न स तादृक्तदेतेन मिथ्यैवोद्घाटितेन किम् ।। १००
इत्युक्त्वा सानुबन्धे सा राज्ञि मिथ्यैवमब्रवीत् ।
आर्यपुत्रातिनिर्बन्धो यदि ते वच्मि तच्छृणु ।। १०१
अर्थं गौडेश्वरात्प्राप्तुं तेन संस्थाप्य संविदम् ।
गुणशर्मा तव द्रोहं कर्तुमैच्छच्छलादतः ।। १०२
तं च कोषनिबन्धादि गौडं कारयितुं नृपम् ।
विससर्ज स दूतं स्वं गुप्तमाप्तं द्विजाधमः ।। १०३
तं दृष्ट्वा तत्र सूदस्तमाप्तो राजानमभ्यधात् ।
अहं ते साधयाम्येतत्कार्यं मार्थक्षयं कृथाः ।। १०४
इत्युक्त्वा बन्धयित्वा तं स दूतं गुणशर्मणः ।
सूदो मन्त्रस्रुतिं रक्षन्निहागाद्विषदायकः ।। १०५
तन्मध्ये च पलाय्यैव ततो निर्गत्य बन्धनात् ।
गुणशर्मान्तिकं दूतस्तदीयः सोऽप्युपागमत् ।। १०६
तेनाघिगतवृत्तान्तेनोक्त्वा सर्वं स दर्शितः ।
सूदो महानसेऽस्माकं प्रविष्टो गुणशर्मणे ।। १०७
ततो ज्ञात्वा स धूर्तेन सूपकृद्ब्रह्मबन्धुना ।
विषदानोद्यतस्तेन तुभ्यमावेद्य घातितः ।। १०८
अद्य तस्येह सूदस्य मातृभार्ये तथानुजाम् ।
वार्तामन्वेष्टुमायातान्गुणशर्मा स बुद्धिमान् ।। १०९
बुद्ध्वा तेन हता तस्य भार्या माता च सोऽस्य तु ।
भ्राता पलायितौ दैवात्प्रविशन्मम मन्दिरम् ।। ११०
तेन तद्वर्ण्यते यावत्सर्वं मे शरणार्थिना ।
गुणशर्मा स मद्वासगृहं तावत्प्रविष्टवान् ।। १११
तं दृष्ट्वा नाम च श्रुत्वा भ्राता सूदस्य तस्य सः ।
भयान्निर्गत्य मत्पार्श्वान्न जाने क्व पलायितः ।। ११२
गुणशर्मापि तं दृष्ट्वा स्वभृत्यैः पूर्वदर्शितम् ।
अभूत्सद्यः सवैलक्ष्यो विमृशन्निव किंचन ।। ११३
गुणशर्मन्किमद्यैवमन्यादृश इवेक्ष्यसे ।
इत्यपृच्छमहं तं च जिज्ञासुर्विजने ततः ।। ११४
सोऽथ स्वीकर्तुकामो मामाह स्मोद्भेदशङ्कितः ।
देवि त्वदनुरागाग्निदग्धोऽहं तद्भजस्व माम् ।। ११५
अन्यथाहं न जीवेयं देहि मे प्राणदक्षिणाम् ।
इत्युक्त्वा वासके शून्ये पादयोरपतत्स मे ।। ११६
ततोऽहं पादमाक्षिप्य संभ्रमाद्यावदुत्थिता ।
तावदुत्थाय तेनाहमबलालिङ्गिता बलात् ।। ११७
तत्क्षणं च प्रविष्टा मे चेटी पल्लविकान्तिकम् ।
तां दृष्ट्वैव स निष्क्रम्य गुणशर्मा भयाद्गतः ।। ११८
यदि पल्लविका नात्र प्रावेक्ष्यत्तत्स निश्चितम् ।
अध्वंसयिष्यत्पापो मामित्येवं वृत्तमद्य मे ।। ११९
इत्युक्त्वा सा मृषा राज्ञी विरराम रुरोद च ।
आदावसत्यवचनं पश्चाज्जाता हि कुस्त्रियः ।। १२०
राजा च स तदाकर्ण्य जज्वाल झटिति क्रुधा ।
स्त्रीवचःप्रत्ययो हन्ति विचारं महतामपि ।। १२१
अब्रवीच्च स कान्तां स्वां समाश्वसिहि सुन्दरि ।
तस्यावश्यं करिष्यामि द्रोहिणो वधनिग्रहम् ।। १२२
किं तु युक्त्या स हन्तव्यो भवेदपयशोऽन्यथा ।
ख्यातं हि यत्पञ्चकृत्वो दत्तं मे तेन जीवितम् ।। १२३
त्वदास्कन्दनदोषश्च लोके वक्तुं न युज्यते ।
इत्युक्ता तेन राज्ञा सा राज्ञी तं प्रत्यभाषत ।। १२४
अवाच्य एष दोषश्चेत्तदाऽवाच्योऽस्य सोऽपि किम् ।
यो गौडेश्वरसख्येन प्रभुद्रोहे समुद्यमः ।। १२५
एवमुक्ते तया युक्तमुक्तमित्यभिधाय सः ।
ययौ राजा महासेनो निजमास्थानसंसदम् ।। १२६
तत्र सर्वे समाजग्मुर्दर्शनायास्य भूपतेः ।
राजानो राजपुत्राश्च सामन्ता मन्त्रिणस्तथा ।। १२७
तावच्च गुणशर्मापि गृहाद्राजकुलं प्रति ।
आगान्मार्गे च सुबहून्यनिमित्तान्यवैक्षत ।। १२८
वामस्तस्माभवत्काकः श्वा वामाद्दक्षिणं ययौ ।
दक्षिणोऽहिरभूद्वामः सस्कन्धश्चास्फुरद्भुजः ।। १२९
अशुभं सूचयन्त्येतान्यनिमित्तानि मे ध्रुवम् ।
तन्ममैवास्तु यत्किंचिन्मा भूद्राज्ञस्तु मत्प्रभोः ।। १३०
इत्यन्तश्चिन्तयन्सोऽथ नृपस्यास्थानमाविशत् ।
मा स्याद्राजकुले किंचिद्विरुद्धमिति भक्तितः ।। १३१
प्रणम्यात्रोपविष्टं च न तं राजा स पूर्ववत् ।
अभ्यनन्ददपश्यत्तु तिर्यक्क्रोऽधेद्धया दृशा ।। १३२
किमेतदिति तस्मिंश्च गुणशर्मणि शङ्किते ।
स उत्थायासनाद्राजा तस्य स्कन्ध उपाविशत् ।। १३३
विस्मितांश्चाब्रवीत्सभ्यान्न्यायं मे गुणशर्मणः ।
शृणुतेति ततस्तं स गुणशर्मा व्यजिज्ञपत् ।। १३४
भृत्योऽहं त्वं प्रभुस्तन्नौ व्यवहारः कथं समः ।
अधितिष्ठासनं पश्चाद्यथेच्छसि तथादिश ।। १३५
इति धीरेण तेनोक्तो मन्त्रिभिश्च प्रबोधितः ।
अध्यास्ते स्मासनं राजा पुनः सभ्यानुवाच च ।। १३६
विदितं तावदेतद्वो मन्त्रिणो यत्क्रमागतान् ।
विहाय गुणशर्मायं तावदात्मसमः कृतः ।। १३७
श्रूयतां मम चैतेन कीदृग्दूतगतागतैः ।
गौडेश्वरेण कृत्वैक्यं द्रोहः कर्तुमचिन्त्यत ।। १३८
इत्युक्त्वा वर्णयामास तत्तेभ्यः स महीपतिः ।
यदशोकवती तस्मै जगाद रचितं मृषा ।। १३९
योऽप्यात्मध्वंसनाक्षेपस्तया तस्य मृषोदितः ।
निष्कास्य लोकानाप्तेभ्यः सोऽप्युक्तस्तेन भूभुजा ।। १४०
ततः स गुणशर्मा तमुवाचासत्यमीदृशम् ।
देव केनासि विज्ञप्तः खचित्रं केन निर्मितम् ।। १४१
तच्छ्रुत्वैव नृपोऽवादीत्पाप सत्यं न चेदिदम् ।
चरुभाण्डान्तरस्थं तत्कथं ज्ञातं विषं त्वया ।। १४२
प्रज्ञया ज्ञायते सर्वमित्युक्ते गुणशर्मणा ।
अशक्यमेतदित्यूचुस्तद्वेषेणान्यमन्त्रिणः ।। १४३
देव तत्त्वमनन्विष्य वक्तुमेवं न ते क्षमम् ।
प्रभुश्च निर्विचारश्च नीतिज्ञैर्न प्रशस्यते ।। १४४
इत्यस्य वदतो भूयः स राजा गुणशर्मणः ।
धावित्वा छुरिकाघातं ददौ धृष्ट इति ब्रुवन् ।। १४५
तस्मिन्प्रहारे करणप्रयोगात्तेन वञ्चिते ।
अन्ये तु प्रहरन्ति स्म वीरे तस्मिन्नृपानुगाः ।। १४६
स चापि युद्धकरणैर्वञ्चयित्वा कृपाणिकाः ।
गुणशर्मा समं तेषां सर्वेषामप्यपाहरत् ।। १४७
बबन्ध चैतानन्योन्यकेशपाशेन वेष्टितान् ।
कृत्वा करणयुक्त्यैव चित्रशिक्षितलाघवः ।। १४८
निर्ययौ च ततस्तस्याः प्रसह्य नृपसंसदः ।
जघान शतमात्रं च योधानामनुधावताम् ।। १४९
ततो दत्त्वाञ्चलस्थं तदन्तर्धानाञ्जनं दृशोः ।
अदृश्यः प्रययौ तस्माद्देशात्तत्क्षणमेव सः ।। १५०
दक्षिणापथमुद्दिश्य गच्छंश्चाचिन्तयत्पथि ।
नूनं तयाशोकवत्या मूढोऽसौ प्रेरितो नृपः ।। १५१
अहो विषादप्यधिकाः स्त्रियो रक्तविमानिताः ।
अहो असेव्याः साधूनां राजानोऽतत्त्वदर्शिनः ।। १५२
इत्यादि चिन्तयन्प्राप गुणशर्मा कथंचन ।
ग्रामं तत्र वटस्याधो ददशैकं द्विजोत्तमम् ।। १५३
शिष्यानध्यापयन्तं तमुपसृत्याभ्यवादयत् ।
सोऽपि तं विहितातिथ्यः पप्रच्छ ब्राह्मणः क्षणात् ।। १५४
द्वे ब्रह्मन्कतमां शाखामधीषे कथ्यतामिति ।
ततः स गुणशर्मा तं ब्राह्मणं प्रत्यवोचत ।। १५५
पठामि द्वादश ब्रह्मञ्शाखा द्वे सामवेदतः ।
ऋग्वेदाद्द्वे यजुर्वेदात्सप्त चैकामथर्वतः ।। १५६
तच्छ्रुत्वा तर्हि देवस्त्वमित्युक्त्वा ब्राह्मणोऽथ सः ।
आकृत्या कथितोत्कर्षं प्रह्वः पप्रच्छ तं पुनः ।। १५७
को देशः कोऽन्वयो ब्रूहि जन्मनालंकृतस्त्वया ।
किं ते नाम कथं चेयत्त्वयाधीतं क्व वा वद ।। १५८
तच्छ्रुत्वा गुणशर्मा तमुवाचोज्जयिनीपुरि ।
आदित्यशर्मनामासीत्कोऽपि ब्राह्मणपुत्रकः ।। १५९
पिता तस्य च बालस्य सतः पञ्चत्वमाययौ ।
माता तेन समं पत्या विवेश च हुताशनम् ।। १६०
ततः स ववृधे तस्यां पुरि मातुलवेश्मनि ।
आदित्यशर्माधीयानो वेदान्विद्याः कलास्तथा ।। १६१
प्राप्तविद्यस्य तस्यात्र जपव्रतनिषेविणः ।
प्रव्राजकेन केनापि सख्यं समुदपद्यत ।। १६२
स परिव्राट् समं तेन मित्त्रेणादित्यशर्मणा ।
गत्वा पितृवने होमं यक्षिणीसिद्धये व्यधात् ।। १६३
तत्र तस्याविरासीच्च कार्तस्वरविमानगा ।
वरकन्यापरिवृता दिव्यकन्या स्वलंकृता ।। १६४
सा तं मधुरया वाचा बभाषे मस्करिन्नहम् ।
विद्युन्मालाभिधा यक्षी यक्षिण्यश्चापरा इमाः ।। १६५
तदितो मत्परीवाराद्गृहाणैकां यथारुचि ।
एतावदेव सिद्धं ते मन्त्रसाधनयानया ।। १६६
त्वया हि नैव विज्ञातं पूर्णं मन्मन्त्रसाधनम् ।
अतोऽहं ते न सिद्धैव मान्यं क्लेशं वृथा कृथाः ।। १६७
एवमुक्तस्तया यक्ष्या परिव्राडनुमान्य सः ।
यक्षिणीमग्रहीदेकां तस्मात्तत्परिवारतः ।। १६८
ततश्च विद्युन्माला सा तिरोऽभूत्तां च यक्षिणीम् ।
आदित्यशर्मा पप्रच्छ सिद्धा प्रव्राजकस्य या ।। १६९
अप्यस्ति विद्युन्मालातो यक्षिणी काचिदुत्तमा ।
तच्छ्रुत्वा यक्षिणी सा तं प्रत्युवाचास्ति सुन्दर ।। १७०
विद्युन्माला चन्द्रलेखा तृतीया च सुलोचना ।
उत्तमा यक्षिणीष्वेता एतास्वपि सुलोचना ।। १७१
इत्युक्त्वा सा यथाकालमागन्तुं यक्षिणी ययौ ।
आदित्यशर्मणा साकमगात्प्रव्राट् च तद्गृहम ।। १७२
तत्र प्रतिदिनं तस्मै प्रीता प्रव्राजकाय सा ।
प्रायच्छद्यक्षिणी भोगानिष्टान्कालोपगामिनी ।। १७ ऽऽ
एकदादित्यशर्मा च प्रव्राजकमुखेन ताम् ।
सुलोचनामस्त्रविधिं को जानातीति पृष्टवान् ।। १७४
सापि तन्मुख एवास्मै यक्षिण्येवं किलाब्रवीत् ।
अस्ति तुम्बवनं नाम स्थानं दक्षिणदिग्भुवि ।। १७५
तत्रास्ति विष्णुगुप्ताख्यो वेणातीरकृतास्पदः ।
प्रव्राजको भदन्ताग्र्यः स तद्वेत्ति सविस्तरम् ।। १७६
बुद्ध्वैतद्यक्षिणीवाक्यात्तं देशं चोत्सुको ययौ ।
आदित्यशर्मानुगतः प्रीत्या प्रव्राजकेन सः ।। १७७
तत्रान्विष्य यथावत्तं भदन्तमभिगम्य च ।
परिचर्यापरो भक्त्या त्रीणि वर्षाण्यसेवत ।। १७८
उपाचरच्च यक्षिण्या परिव्राट्सिद्धया तया ।
यथोपयोगोपहृतैरुपचारैरमानुषैः ।। १७९
ततस्तुष्टो भदन्तोऽसौ तस्मायादित्यशर्मणे ।
ददौ सुलोचनामन्त्रमर्थितं सविधानकम् ।। १८०
ततश्चादित्यशर्मा तं मन्त्रं प्राप्य समाप्य च ।
होमं चकार संपूर्णं गत्वैकान्ते यथाविधि ।। १८१
ततस्तस्य विमानस्था यक्षिणी सा सुलोचना ।
प्रादुर्बभूव रूपेण जगदाश्चर्यदायिना ।। १८२
जगाद चैतमेह्येहि सिद्धाहं तव किं पुनः ।
षण्मासं कन्यकाभावो नापनेयो मम त्वया ।। १८३
यदि मत्तो महावीरमृद्धिपात्रं सुलक्षणम् ।
सर्वज्ञकल्पमजितं पुत्रं संप्राप्तुमिच्छसि ।। १८४
इत्युक्त्वा सा तथेत्येनमुक्तवन्तं च यक्षिणी ।
आदायादित्यशर्माणं विमानेनालकां ययौ ।। १८५
स च तत्र समीपस्थां तां पश्यन्नास्त सर्वदा ।
आदित्यशर्मा षण्मासानसिधाराव्रतं चरन् ।। १८६
ततस्तुष्टो धनाध्यक्षो दिव्येन विधिना स्वयम् ।
आदित्यशर्मणे तस्मै व्यतरत्तां सुलोचनाम् ।। १८७
तस्यां तस्य द्विजस्यात्र जातोऽयमहमात्मजः ।
पित्रा च मे कृतं नाम गुणशर्मेति सद्गुणान् ।। १८८
ततस्तत्रैव यक्षाधिपतेर्मणिधराभिधात् ।
क्रमाद्वेदाश्च विद्याश्च कलाश्चाधिगता मया ।। १८१
अथैकदा किमप्यागाच्छक्रोऽत्र धनदान्तिकम् ।
उदतिष्ठंश्च तं दृष्ट्वा ये तत्रासत केचन ।। १९०
मत्पितादित्यशर्मा तु तत्कालं विधियोगतः ।
अन्यत्र गतचित्तत्वान्नोदतिष्ठत्ससंभ्रमः ।। १९१
ततस्तमशपत्क्रुद्धः स शक्रो धिग्जड व्रज ।
स्वमेव मर्त्यलोकं तं नेह योग्यो भवानिति ।। १९२
प्रणिपत्यानुनीतोऽथ स सुलोचनया तया ।
शक्रोऽब्रवीत्तर्हि मा गान्मर्त्यलोकमयं स्वयम् ।। १९३
एतत्पुत्रस्तु यात्वेष पुत्रो ह्यात्मैव कथ्यते ।
मा भून्मद्वचनं मोघमित्युक्त्वेन्द्रः शमं ययौ ।। १९४
ततः पित्राहमानीय निजमातुलवेश्मनि ।
उज्जयिन्यां विनिक्षिप्तो भवितव्यं हि यस्य तत् ।। १९५
तत्राजायत सख्यं मे राज्ञात्रत्येन दैवतः ।
ततोऽत्र मम यद्वृत्तं तत्सर्वं शृणु वच्मि ते ।। १९६
इत्युक्त्वामूलवृत्तान्तं यदशोकवतीकृतम् ।
यच्च राज्ञा कृतं तस्य युद्धान्तं तदवर्णयत् ।। १९७
पुनश्चोवाच तं ब्रह्मन्नित्थमस्मि पलायितः ।
देशान्तरं व्रजन्मार्गे भवन्तमिह दृष्टवान् ।। १९८
श्रुत्वैतद्ब्राह्मणस्तं स गुणशर्माणमभ्यधात् ।
तर्हि धन्योऽस्मि संवृत्तस्त्वदभ्यागमनात्प्रभो ।। १९९
तदेहि मे गृहं तावदग्निदत्तं च विद्धि माम् ।
नाम्ना मदग्रहारश्च ग्रामोऽयं निर्वृतो भव ।। २००
इत्युक्त्वा सोऽग्निदत्तस्तं गृहं प्रावेशयन्निजम् ।
ऋद्धिमद्गुणशर्माणं बहुगोमहिषीहयम् ।। २१
तत्र स्नानाङ्गरागाभ्यां वस्त्रैराभरणैश्च तम् ।
अतिथिं मानयामास भोजनैर्विविधैश्च सः ।। २०२
अदर्शयच्च तस्मै स्वां काम्यरूपां सुरैरपि ।
लक्षणावेक्षणमिषात्सुन्दरीं नाम कन्यकाम् ।। २०३
गुणशर्मापि सोऽनन्यसमरूपां विलोक्य ताम् ।
सपत्न्योऽस्या भविष्यन्तीत्यग्निदत्तमुवाच तम् ।। २०४
नासायां तिलकोऽस्त्यस्यास्तत्संबन्धाच्च वच्म्यहम् ।
उरस्यस्ति द्वितीयोऽपि तयोश्चैतत्फलं विदुः ।। २०५
एवं तेनोदिते तस्या भ्राता पितुरनुज्ञया ।
उद्धाटयत्युरो यावत्तावत्तिलकमैक्षत ।। २०६
ततोऽग्निदत्तः साश्चर्यो गुणशर्माणमभ्यधात् ।
सर्वज्ञस्त्वमिमौ त्वस्यास्तिलकौ नाशुभप्रदौ ।। २०७
सपत्न्यो हि भवन्तीह प्रायः श्रीमति भर्तरि ।
दरिद्रो बिभृयादेकामपि कष्टं कुतो बहूः ।। २०८
तच्छ्रुत्वा गुणशर्मा तं प्रत्युवाच यथात्थ भोः ।
सुलक्षणाया ईदृश्या ह्याकृतेरशुभं कुतः ।। २०९
इत्यूचिवान्प्रसङ्गेन पृष्टस्तस्मै शशंस सः ।
प्रत्यङ्गं तिलकादीनां फलं स्त्रीपुंसयोः पृथक् ।। २१०
तदा च गुणशर्माणं तं सा दृष्ट्वैव सुन्दरी ।
इत्येष पातुं दृष्ट्यैव चकोरीवेन्दुमुत्सुका ।। २११
ततोऽग्निदत्तो विजने गुणशर्माणमाह तम् ।
महाभाग ददाम्येतां कन्यां ते सुन्दरीमहम् ।। २१२
मा गा विदेशं तिष्ठेह गृहे मम यथासुखम् ।
एतत्तद्वचनं श्रुत्वा गुणशर्माप्युवाच तम् ।। २१३
सत्यमेवं कृते किं किं न सौख्यं मम किं तु माम् ।
मिथ्याराजावमानाग्नितप्तं प्रीणाति नैव तत् ।। २१४
कान्ता चन्द्रोदयो वीणापञ्चमध्वनिरित्यमी ।
ये नन्दयन्ति सुखितान्दुःखितान्व्यथयन्ति ते ।। २१५
जाया च स्वरसा रक्ता भवेदव्यभिचारिणी ।
अवशा पितृदत्ता तु स्यादशोकवती यथा ।। २१६
इतः प्रदेशान्निकटा सा किं चोज्जयिनी पुरी ।
तद्बुद्ध्वा स नृपो जातु मम कुर्यादुपद्रवम् ।। २१७
तत्परिभ्रम्य तीर्थानि प्रक्षाल्याजन्मकिल्बिषम् ।
शरीरमेतत्त्यक्ष्यामि भविष्याम्यथ निर्वृतः ।। २१८
इत्युक्तवन्तं प्रत्याह सोऽग्निदत्तो विहस्य तम् ।
तवापि मोहो यत्रेदृक्तत्रान्यस्य किमुच्यताम् ।। २१९
अज्ञावमानाद्धानिः का वद शुद्धाशयस्य ते ।
पङ्को हि नभसि क्षिप्तः क्षेप्तुः पतति मूर्धनि ।। २२०
राजैव सोऽचिरात्प्राप्स्यत्यविशेषज्ञताफलम् ।
मोहान्धमविवेकं हि श्रीश्चिराय न सेवते ।। २२१
किं चाशोकवती दृष्ट्वा वैरस्यं स्त्रीषु चेत्तव ।
सतीं दृष्ट्वा न किं तासु श्रद्धा वेत्सि च लक्षणम् ।। २२२
निकटोज्जयिनी वा चेत्तव दास्याम्यहं तथा ।
यथा त्वामिह तिष्ठन्तं नैव ज्ञास्यति कश्चन ।। २२३
तीर्थयात्रा तवेष्टा वा तच्छस्ता तस्य सा बुधैः ।
संपत्तिर्विधिवन्न स्याद्वैदिके यस्य कर्मणि ।। २२४
अन्यथा देवपित्रग्निक्रियाव्रतजपादिभिः ।
गृहे या पुण्यनिष्पत्तिः साध्वनि भ्रमतः कुतः ।। २२५
भुजोपधानो भूशायी भिक्षाशी केवलोऽधनः ।
मुनेः समत्वं प्राप्यापि न क्लेशैर्मुच्यतेऽध्वगः ।। २२६
देहत्यागात्सुखं यद्वा वाञ्छस्येष तव भ्रमः ।
इतः कष्टतरं दुःखममुत्र ह्यात्मघातिनाम् ।। २२७
तदेषोऽनुचितो मोहो यूनश्च विदुषश्च ते ।
स्वयं विचारयावश्यं कर्तव्यं मद्वचस्तव ।। २२८
कारयामीह गुप्तं ते भूगृहं पृथु सुन्दरम् ।
विवाह्य सुन्दरीं तत्र तिष्ठाज्ञातो यथेच्छसि ।। २२९
इति तेनाग्निदत्तेन बोधितः स प्रयत्नतः ।
गुणशर्मा तथेत्येतत्प्रतिपद्य जगाद तम् ।। २३०
कृतं मया ते वचनं को भार्यां सुन्दरीं त्यजेत् ।
किं त्वेतामकृती नाहं परिणेष्यामि ते सुताम् ।। २३१
आराधयाम्यहं तावद्देवं कंचित्सुसंयतः ।
येन तस्य कृतघ्नस्य राज्ञः कुर्यां प्रतिक्रियाम् ।। २३२
इति तद्वचनं हृष्टः सोऽग्निदत्तोऽन्वमन्यत ।
सोऽपि तां गुणशर्मात्र विशश्राम सुखं निशाम् ।। २३३
अन्येद्युश्चाग्निदत्तोऽस्य सौख्यार्थं तत्र गुप्तिमत् ।
पातालवसतिप्रख्यं कारयामास भूगृहम् ।। २३४
तत्रस्थश्चाग्निदत्तं स गुणशर्माब्रवीद्रहः ।
इहान्तर्ब्रूहि कं देवं केन मन्त्रेण भक्तितः ।। २३५
आराधयाम्यहं तावद्वरदं व्रतचर्यया ।
इत्युक्तवन्तं तं धीरमग्निदत्तोऽभ्यभाषत ।। २३६
अस्ति स्वामिकुमारस्य मन्त्रो मे गुरुणोदितः ।
तेनाराधय तं देवं सेनान्यं तारकान्तकम् ।। २३७
यस्य जन्मार्थिभिर्देवैः प्रेषितः शत्रुपीडितैः ।
दग्धोऽपि कामः संकल्पजन्मा शर्वेण निर्मितः ।। २३८
महेश्वरादग्निकुण्डादग्नेः शरवणादपि ।
कृत्तिकाभ्यश्च शंसन्ति विचित्रं यस्य संभवम् ।। २३९
जातेनैव जगत्कृत्स्नं दुष्प्रधर्षेण तेजसा ।
आनन्द्य येन निहतो दुर्जयस्तारकासुरः ।। २४०
तन्मन्त्रमिममादत्स्व मत्त इत्यभिधाय सः ।
अग्निदत्तो ददौ तस्मै मन्नं तं गुणशर्भणे ।। २४१
तेनाराधितवान्स्कन्दं गुणशर्मा स भूगृहे ।
तयोपचर्यमाणः सन्सुन्दर्या नियतव्रतः ।। २४२
ततः प्रत्यक्षतामेत्य साक्षाद्देवः स षण्मुखः ।
तुष्टोऽस्मि ते वरं पुत्र वृणीष्वेति तमादिशत् ।। २४३
................. ।
................. ।। २४४
आक्षीणकोषो भूत्वा त्वं महासेनं विजित्य च ।
गत्वाप्रतिहतः पुत्र पृध्वीराज्यं करिष्यसि ।। २४५
इति दत्त्वाधिकं तस्मै वरं स्कन्दस्तिरोदधे ।
संप्राप्ताक्षयकोशश्च गुणशर्मापि सोऽभवत् ।। २४६
ऋद्ध्या ततः स्वमहिमोचितयाग्निदत्तविप्रात्मजामनुदिनाधिकबद्धभावाम् ।
भाव्यर्थसिद्धिमिव रूपवतीमुपेतां तां सुन्दरीं स सुकृती विधिनोपयेमे ।। २४७
आक्षीणकोषनिचयप्रभवप्रभावात्संभूतभूरिगजवाजिपदातिसैन्यः ।
दानप्रसादमिलिताखिलपार्थिवानां रुन्धन्बलैरवनिमुज्जयिनीं जगाम ।। २४८
प्रख्याप्य तस्यां तदशोकवत्याः प्रजास्वशीलं समरे च भूपम् ।
जित्वा महासेनमपास्य राज्यारपृथ्वीपतित्वं स समाससाद ।। २४९
अन्याश्च कन्याः परिणीय राज्ञामब्धेस्तटेष्वप्यपराङ्मुखाक्षः ।
इष्टान्स भोगान्गुणशर्मसम्राट् चिराय भुङ्क्ते स्म ससुन्दरीकः ।। २५०
इति पुरुषविशेषाज्ञानतो मूढबुद्धिः सपदि विपदमाप प्राङ्महासेनभूपः ।
इति च स गुणशर्मा धैर्यमेकं सहायं कृतमतिरवलम्ब्य प्राप्तवानृद्धिमग्र्याम् ।। २५१
एवं कथां स्वसचिवस्य मुखादुदारां सूर्यप्रभो निशि निशम्य स वीतभीतेः ।
वीरो महासमरसागरमुत्तितीर्षुरुत्साहमभ्यधिकमाप शनैश्च शिश्ये ।। २५२
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके षष्ठस्तरङ्गः ।