कथासरित्सागरः/लम्बकः ९/तरङ्गः १

कथासरित्सागरः ।

अलंकारवती नाम नवमो लम्बकः ।

इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना-
त्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।
प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो
धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ।।
-
निशुम्भभरनम्रोर्वीखर्विताः पर्वता अपि। ।
यं नमन्तीव नृत्यन्तं नमामस्तं विनायकम् ।। १
एवं वत्सेश्वरसुतः कौशाम्ब्यां भवने पितुः ।
वसन्विद्याधराधीशैरादावेव कृतानतिः ।। २
नरवाहनदत्तः स कदाचिन्मृगयागतः ।
विवेश गोमुखसखो मुक्तसैन्यो महद्वनम् ।। ३
स तत्र दक्षिणेनाक्ष्णा स्फुरतोक्तशुभागमः ।
दिव्यवीणारवोन्मिश्रमशृणोद्गीतनिःस्वनम् ।। ४
गत्वा तदनुसारेण नातिदूरं ददर्श सः ।
स्वयंभ्वायतनं शैवं संयताश्वो विवेश च ।। ५
तत्रोपवीणयन्तीं च देवेशं देवकन्यकाम् ।
अपश्यद्वरकन्याभिर्बह्वीभिः परिवारिताम् ।। ५
सा दृष्टा तस्य हृदयं प्रसरत्कान्तिनिर्झरा ।
इन्दुमूर्तिरिवाम्भोधेः क्षोभयामास तत्क्षणम् ।। ७
सापि तं सरसस्निग्धमुग्धेनालोक्य चक्षुषा ।
तदेकगतचित्ताभूद्विस्मृतस्वरसारणा ।। ८
नरवाहनदत्तस्य चित्तज्ञो गोमुखस्ततः ।
केयं कस्य सुता चेति यावत्पृच्छति तत्सखीः ।। ९
तावच्च सदृशी तस्याः पूर्वं हेमारुणप्रभा ।
पश्चादवततारैका प्रौढा विद्याधरी दिवः ।। 9.1.१०
सा चावतीर्य कन्यायास्तस्याः पार्श्व उपाविशत् ।
कन्याप्युत्थाय सा तस्याः पादयोरपतत्तदा ।। ११
सर्वविद्याधराधीशं निर्विघ्नं पतिमाप्नुहि ।
इति प्रौढापि सा तस्याः कन्याया आशिषं ददौ ।। १२
नरवाहनदत्तोऽथ तामुपेत्य प्रणम्य च ।
दत्ताशिषं पर्यपृच्छत्सौम्यां विद्याधरी शनैः ।। १३
केयं कन्या भवत्यम्ब तव का कथ्यतामिति ।
ततो विद्याधरी सा तमुवाच शृणु वच्म्यदः ।। १४
अस्ति गौरीगुरोः शैले श्रीसुन्दरपुरं पुरम् ।
आस्तेऽलंकारशीलाख्यस्तत्र विद्याधरेश्वरः ।। १५
तस्योदारगुणस्यास्ति महिषी काञ्चनप्रभा ।
तस्यां तस्य च कालेन राज्ञः सूनुरजायत ।। १६
एष धर्मपरो भावीत्यादिष्टमुमया यदा ।
स्वप्ने तदा धर्मशीलं नाम्ना तमकरोत्पिता ।। १७
क्रमेण यौवनप्राप्तं धर्मशीलं स तं सुतम् ।
राजा संयोज्य विद्याभिर्यौवराज्येऽभिषिक्तवान् ।। १८
ततः स यौवराज्यस्थो धर्मैकपरमो वशी ।
अरञ्जयद्धर्मशीलः पितुरभ्यधिकं प्रजाः ।। १९
ततोऽलंकारशीलस्य राज्ञः सा काञ्चनप्रभा ।
अन्तर्वत्नी सती राज्ञी तस्य सूते स्म कन्यकाम् ।। 9.1.२०
नरवाहनदत्तस्य भार्यैषा चक्रवर्तिनः ।
कन्या भवित्रीति तदा दिव्या वागुदघोषयत् ।। २१
ततोऽत्र तेनालंकारवतीति कृतनामिका ।
पित्रा क्रमेणावर्धिष्ट बाला शशिकलेव सा ।। २२
कालेन यौवनस्था च प्राप्तविद्या निजात्पितुः ।
तत्तदायतनं शंभोर्भक्त्या भ्रमितुमुद्यता ।। २३
तावच्च धर्मशीलोऽस्य भ्राता शान्तो युवापि सन् ।
रहोऽलंकारशीलं तं पितरं स्वं व्यजिज्ञपत् ।। २४
न मां भोगा इमे तात प्रीणन्ति क्षणभङ्गुराः ।
किं तदस्ति हि संसारे पर्यन्तविरसं न यत् ।। २५
तथा चैतत्त्वया किं न श्रुतं व्यासमुनेर्वचः ।
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।। २६
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ।
तदेषु का रतिस्तात नश्वरेषु मनस्विनाम् ।। २७
परत्र च सहायान्ति न भोगा नार्थसंचयाः ।
एकस्तु बान्धवो धर्मो न जहाति पदात्पदम् ।। २८
तस्माद्वनाय गत्वाहं साधयाम्युत्तमं तपः ।
आसादयेयं तद्येन शाश्वतं परमं पदम् ।। २९
इत्युक्तवन्तं तं पुत्रं धर्मशीलं समाकुलः ।
राजालंकारशीलोऽथ वक्ति स्मोदश्रुलोचनः ।। 9.1.३०
बालस्यैव तवाकाण्डे कोऽयं पुत्र मतिभ्रमः ।
उपयुक्ते हि तारुण्ये प्रशमः सद्भिरिष्यते ।। ३१
कृतदारस्य धर्मेण राज्यं पालयतस्तव ।
भोगान्भोक्तुमयं कालो न वैराग्यस्य सांप्रतम् ।। ३२
एतत्पितुर्वचः श्रुत्वा धर्मशीलोऽभ्यधात्पुनः ।
न शमाशमयोरत्र नियमोऽस्ति वयःकृतः ।। ३३
ईश्वरानुगृहीतो हि कश्चिद्बालोऽपि शाम्यति ।
वृद्धोऽपि न शमं याति कश्चित्कापुरुषः पुनः ।। ३४
न च राज्ये रतिर्मेऽस्ति न वा दारपरिग्रहे ।
ममैतज्जीवितफलं यच्छिवाराधनं तपः ।। ३५
इति ब्रुवाणं यत्नेनाप्यनिवार्यमवेक्ष्य तम् ।
पितालंकारशीलोऽसौ विमुच्याश्रूण्यभाषत ।। ३६
यदि यूनोऽपि ते पुत्र वैराग्यमिदमीदृशम् ।
नास्ति वृद्धस्य मे तत्किमहमप्याश्रये वनम् ।। ३७
इत्युक्त्वा मर्त्यलोकं च गत्वा भारायुतं ददौ ।
ब्राह्मणेभ्यो दरिद्रेभ्यो रत्नानां काञ्चनस्य च ।। ३८
एत्य च स्वपुरं भार्यामवोचत्काञ्चनप्रभाम् ।
त्वया मदाज्ञयेहैव स्थातव्यं नगरे निजे ।। ३९
रक्षालंकारवत्येषा कन्या पूर्णे च वत्सरे ।
अस्ति वैवाहलग्नोऽस्यास्तिथावद्यतने शुभः ।। 9.1.४०
नरवाहनदत्ताय दास्याम्येतामहं तदा ।
स चक्रवर्ती जामाता पास्यतीदं पुरं च नः ।। ४१
इत्युक्त्वा दत्तशपथां भार्यां राजा निवर्त्य सः ।
ससुतां विलपन्तीं तां सपुत्रः शिश्रिये वनम् ।। ४२
सा तु स्वपुरमध्यास्त तद्भार्या काञ्चनप्रभा ।
दुहित्रा सह साध्वी स्त्री भर्त्राज्ञां का हि लङ्घयेत् ।। ४३
तत्सुताथ तया मात्रा सह स्नेहानुयातया ।
अलंकारवती भ्रान्ता बहून्यायतनानि च ।। ४४
एकदा तां च वक्ति स्म विद्या प्रज्ञप्तिसंज्ञिका ।
कश्मीरेषु स्वयंभूनि गत्वा क्षेत्राणि पूजय ।। ४५
नरवाहनदत्तं हि निर्विघ्नं तं पतिं ततः ।
सर्वविद्याधरेन्द्रैकचक्रवर्तिनमाप्स्यसि ।। ४६
इत्युक्ता विद्यया गत्वा कश्मीरान्सा समातृका ।
अलंकारवती शंभुं पुण्यक्षेत्रेष्वपूजयत् ।। ४७
नन्दिक्षेत्रे महादेवगिरावमरपर्वते ।
सुरेश्वर्याद्रिषु तथा विजये कपटेश्वरे ।। ४८
एवमादिषु संपूज्य क्षेत्रेषु गिरिजापतिम् ।
विद्याधरेन्द्रकन्या सा तन्माता चागते गृहान् ।। ४९
तामेतां विद्ध्यलंकारवलीं सुभग कन्यकाम् ।
तां च मातरमेतस्या विद्धि मां काञ्चनप्रभाम् ।। 9.1.५०
अद्य चैषा ममानुक्त्वैवागतेमं शिवालयम् ।
ततः प्रज्ञप्तिविद्यातो विज्ञायाहमिहागता ।। ५१
तन्मुखादेव च ज्ञातस्त्वमपीहागतो मया ।
तदेतां देवतादिष्टामुपयच्छस्व मे सुताम् ।। ५२
प्रातश्च सोऽस्याः पित्रोक्तः प्राप्तो वैवाहवासरः ।
तदद्य पुत्र कौशाम्बीं स्वामेव नगरीं व्रज ।। ५३
आवामितश्च गच्छावः प्रातरेत्य तपोवनात् ।
राजालंकारशीलस्ते दास्यत्येता सुतां स्वयम् ।। ५४
एवं तयोक्तेऽलंकारवत्यास्तस्याश्च तस्य च ।
नरवाहनदत्तस्य काप्यवस्था द्वयोरभूत् ।। ५५
अन्योन्यरजनीमात्रविश्लेषासहनात्मनोः ।
चक्राह्वयोरिवासन्ने दिनान्ते साश्रुनेत्रयोः ।। ५६
दृष्ट्वा तौ तादृशौ द्वावप्यवादीत्काञ्चनप्रभा ।
किमेकरात्रिविश्लेषे ह्यधैर्यं युवयोरिदम् ।। ५७
अनिश्चितावधिं धीराः सहन्ते विरहं चिरम् ।
श्रूयतां रामभद्रस्य सीतादेव्यास्तथा कथा ।। ५८
राज्ञो दशरथस्यासीदयोध्याधिपतेः सुतः ।
रामो भरतशत्रुघ्नलक्ष्मणानां पुराग्रजः ।। ५९
विष्णोरवततारांशो रावणोच्छेदनाय यः ।
सीता तस्याभवद्भार्या प्राणेशा जनकात्मजा ।। 9.1.६०
स पित्रा भरतन्यस्तराज्येन विधियोगतः ।
प्रेषितोऽभूद्वनं साकं सीतया लक्ष्मणेन च ।। ६१
तत्र तस्याहरत्सीतां मायया रावणः प्रियाम् ।
निनाय च पुरीं लङ्कां पथि हत्वा जटायुषम् ।। ६२
ततः स रामो विरही सुग्रीवं वालिनो वधात् ।
स्वीकृत्य मारुतिं प्रेष्य तत्प्रवृत्तिमबुध्यत ।। ६३
गत्वा च सागरे सेतुं बद्ध्वा हत्वा च रावणम् ।
लङ्कां विभीषणे न्यस्य सीतां प्रत्याजहार सः ।। ६४
अथावृत्तस्य वनतः शासतो भरतार्पितम् ।
तस्य राज्यमयोध्यायां सीता गर्भमधत्त सा ।। ६५
तावच्चात्र प्रजाचेष्टां ज्ञातुमल्पपरिच्छदः ।
स्वैरं परिभ्रमन्नेकं सोऽपश्यत्पुरुषं प्रभुः ।। ६६
हस्ते गृहीत्वा गृहिणीं निरस्यन्तं निजाद्गृहात् ।
परस्येयं गृहमगादिति दोषानुकीर्तनात् ।। ६७
रक्षोगृहोषिता सीता रामदेवेन नोज्झिता ।
अयमभ्यधिको यो मामुज्झति ज्ञातिवेश्मगाम् ।। ६८
इति तद्गृहिणीं तां च ब्रुवतीं तं निजं पतिम् ।
रामो राजा स शुश्राव खिन्नश्चाभ्यन्तरं ययौ ।। ६९
लोकापवादभीतश्च सीतां तत्याज तां वने ।
सहते विरहक्लेशं यशस्वी नायशः पुनः ।। 9.1.७०
सा च गर्भालसा दैवाद्वाल्मीकेः प्रापदाश्रमम् ।
तेनर्षिणा समाश्वास्य तत्रैव ग्राहिता स्थितिम् ।। ७१
नूनं सीता सदोषेयं त्यक्ता भर्त्रान्यथा कथम् ।
तदेतद्दर्शनान्नित्यं पापं संक्रामतीह नः ।। ७२
वाल्मीकिः कृपया चैनां निर्वासयति नाश्रमात् ।
एतद्दर्शनजं पापं तपसा च व्यपोहति ।। ७३
तदेत यावद्गच्छामो द्वितीयं कंचिदाश्रमम् ।
इति संमन्त्रयामासुस्तत्रान्ये मुनयस्तदा ।। ७४
तद्बुद्ध्वा तान्स वाल्मीकिरब्रवीन्नात्र संशयः ।
शुद्धैषा प्रणिधानेन मया दृष्टा द्विजा इति ।। ७५
तथाप्यप्रत्ययस्तेषां यदा सीता तदाभ्यधात् ।
भगवन्तो यथा वित्थ तथा शोधयतेह माम् ।। ७६
अशुद्धायाः शिरश्छेदनिग्रहः क्रियतां मम ।
तच्छ्रुत्वा जातकरुणा जगदुर्मुनयोऽत्र ते ।। ७७
अस्त्यत्र टीटिभसरोनाम तीर्थं महद्वने ।
टीटिभी हि पुरा कापि भर्त्रान्यासङ्गशङ्किना ।। ७८
मिथ्यैव दूषिता साध्वी चक्रन्दाशरणा भुवम् ।
लोकपालांश्च तैस्तस्याः शुद्ध्यर्थं तद्विनिर्मितम् ।। ७९
तत्रैषा राघववधूः परिशुद्धिं करोतु नः ।
इत्युक्तवद्भिस्तैः साकं जानकी तत्सरो ययौ ।। 9.1.८०
यद्यार्यपुत्रादन्यत्र न स्वप्नेऽपि मनो मम ।
तदुत्तरेयं सरसः पारमम्ब वसुंधरे ।। ८१
इत्युक्त्वैव प्रविष्टा च तस्मिन्सरसि सा सती ।
नीता च पारमुत्सङ्गे कृत्वाविर्भूतया भुवा ।। ८२
ततस्तां ते महासाध्वीं प्रणेमुर्मुनयोऽखिलाः ।
राघवं शप्तुमैच्छंश्च तत्परित्यागमन्युना ।। ८३
युष्माभिरार्यपुत्रस्य न ध्यातव्यममङ्गलम् ।
शप्तुमर्हथ मामेव पापामञ्जलिरेष वः ।। ८४
इति यद्वारयामास सीता तान्सा पतिव्रता ।
तेन ते मुनयस्तुष्टास्तस्याः पुत्राशिषं ददुः ।। ८५
ततः सा तत्र तिष्ठन्ती समये सुषुवे सुतम् ।
तं च नाम्ना लवं चक्रे स वाल्मीकिमुनिः शिशुम् ।। ८६
बालमादाय तं तस्यां गतायां स्नातुमेकदा ।
तेन शून्यं तदुटजं दृष्ट्वा सोऽचिन्तयन्मुनिः ।। ८७
स्थापयित्यार्भकं याति स्नातुं सा तत्क्व सोऽर्भकः ।
नीतः स श्वापदेनेह नूनमन्यं सृजामि तत् ।। ८८
स्नात्वागतान्यथा सीता न प्राणान्धारयेदिह ।
इति ध्यात्वा कुशैः कृत्वा पवित्रं निर्ममेऽर्भकम् ।। ८९
लवस्य सदृशं तं च स तथास्थापयन्मुनिः ।
आगता तं च सा दृष्ट्वा मुनिं सीता व्यजिज्ञपत् ।। 9.1.९०
स्वकोऽयं मे स्थितो बालस्तदेषोऽन्यः कुतो मुने ।
तच्छ्रुत्वा स यथावृत्तमुक्त्वा मुनिरुवाच ताम् ।। ९१
भवितव्यं गृहाणैतं द्वितीयमनघे सुतम् ।
कुशसंज्ञं मयायं यत्स्वप्रभावात्कुशैः कृतः ।। ९२
इत्युक्ता तेन मुनिना सीता लवकुशौ सुतौ ।
तेनैव कृतसंस्कारौ वर्धयामास तत्र तौ ।। ९३
बालावेव च तौ दिव्यमस्त्रग्राममवापतुः ।
विद्याश्च सर्वा वाल्मीकिमुनेः क्षत्रकुमारकौ ।। ९४
एकदा आश्रममृगं हत्वा तन्मांसमादतुः ।
अर्चालिङ्गं च वाल्मीकेश्चक्रतुः क्रीडनीयकम् ।। ९५
तेन खिन्नो मुनिः सोऽथ सीतादेव्यानुनाथितः ।
प्रायश्चित्तं तयोरेवमादिदेश कुमारयोः ।। ९६
गत्वा कुबेरसरसः स्वर्णपद्मान्ययं लवः ।
तदुद्यानाच्च मन्दारपुष्पाण्यानयतु द्रुतम् ।। ९७
तैरेतौ भ्रातरावेतल्लिङ्गमर्चयतामुभौ ।
तेनैतयोरिदं पापमुपशान्तिं गमिष्यति ।। ९८
एतच्छ्रुत्वैव कैलासं स बालोऽपि लवो ययौ ।
आचस्कन्द कुबेरस्य सरश्चोपवनं च तत् ।। ९९
निहत्य यक्षानादाय पद्मानि कुसुमानि च ।
आगच्छन्पथि स श्रान्तो विशश्राम तरोस्तले ।। 9.1.१००
अत्रान्तरे च रामस्य नरमेधे सुलक्षणम् ।
चिन्वन्पुरुषमागच्छत्तेन मार्गेण लक्ष्मणः ।। १०१
स लवं समराहूतं मोहनास्त्रेण मोहितम् ।
क्षत्रधर्मेण बद्ध्वा तमयोध्यामनयत्पुरीम् ।। १०२
तावच्च सीतामाश्वास्य लवागमनदुःस्थिताम् ।
वाल्मीकिः स्वाश्रमे तत्र ज्ञानी कुशमभाषत ।। १०३
नीतोऽयोध्यामवष्टभ्य लक्ष्मणेन सुतो लवः ।
गच्छ मोचय तं तस्मादेभिरस्त्रैर्विनिर्जितात् ।। १०४
इत्युक्त्वा दत्तदिव्यास्त्रस्तेन गत्वा कुशस्ततः ।
रोध्यमानामयोध्यायां यज्ञभूमिं रुरोध सः ।। १०५
जिगाय लक्ष्मणं चात्र तन्निमित्तं प्रधावितम् ।
युद्धे दिव्यैर्महास्त्रैस्तैस्ततो रामस्तमभ्यगात् ।। १०६
सोऽपि प्रभावाद्वाल्मीकेर्जेतुं नास्त्रैः शशाक तम् ।
कुशं यत्तेन पप्रच्छ कोऽर्थस्ते को भवानिति ।। १०७
कुशस्ततोऽब्रवीद्बद्ध्वा लक्ष्मणेनाग्रजो मम ।
आनीत इह तस्याहं मोचनार्थमिहागतः ।। १०८
आवां लवकुशौ रामतनयाविति जानकी ।
माता नौ वक्ति चेत्युक्त्वा तद्वृत्तान्तं शशंस सः ।। १०९
ततः सबाष्पो रामस्तं लवमानाय्य तावुभौ ।
कण्ठे जग्राह सैषोऽहं पापो राम इति ब्रुवन् ।। 9.1.११०
अथ सीतां प्रशंसत्सु वीरौ पश्यत्सु तौ शिशू ।
पौरेषु मिलितेष्वत्र स तौ रामोऽग्रहीत्सुतौ ।। १११
आनाय्य सीतादेवीं च वाल्मीकेराश्रमात्ततः ।
तया सह सुखं तस्थौ पुत्रन्यस्तभरोऽथ सः ।। ११२
एवं सहन्ते विरहं धीराश्चिरमपीदृशम् ।
न सहेथे युवां पुत्रौ कथमेकामपि क्षपाम् ।। ११३
इत्यात्मजामलंकारवतीं परिणयोत्सुकाम् ।
नरवाहनदत्तं च तमुक्त्वा काञ्चनप्रभा ।। ११४
नभसा प्रातरागन्तुमगादादाय तां सुताम् ।
नरवाहनदत्तोऽपि कौशाम्बीं विमना ययौ ।। ११५
तत्रानिद्रं निशि स्माह गोमुखस्तं विनोदयन् ।
पृथ्वीरूपकथां देव शृण्विमां कथयामि ते ।। ११६
अस्ति नाम्ना प्रतिष्ठानं नगरं दक्षिणापथे ।
पृथ्वीरूपाभिधानोऽभूद्राजा तत्रातिरूपवान् ।। ११७
तं परिज्ञानिनौ जातु श्रमणौ द्वावुपेयतुः ।
विलोक्याद्भुतरूपं च तावेवं नृपमूचतुः ।। ११८
देवावां पृथिवीं भ्रान्तौ न च रूपेण ते समम् ।
अन्यं पुमांसं नारीं वा दृष्टवन्तौ क्वचित्प्रभो ।। ११९
किं तु मुक्तिपुरद्वीपे राज्ञो रूपधरस्य या ।
अस्ति हेमलतादेव्यां जाता रूपलता सुता ।। 9.1.१२०
सैका ते सदृशी कन्या तस्याश्चैको भवानपि ।
युवयोर्यदि संयोगो भवेत्स्यात्सुकृतं ततः ।। १२१
इति श्रमणवाक्येन समं मदनसायकाः ।
प्रविश्य श्रुतिमार्गेण राज्ञस्तस्यालगन्हृदि ।। १२२
ततः समुत्सुको राजा निजं चित्रकरोत्तमम् ।
कुमारिदत्तनामानं पृथ्वीरूपः समादिशत् ।। १२३
पटे यथावल्लिखितां समादाय मदाकृतिम् ।
एताभ्यां सह भिक्षुभ्यां द्वीपं मुक्तिपुरं व्रज ।। १२४
तत्र रूपधराख्यस्य राज्ञस्तद्दुहितुस्तथा ।
युक्त्या रूपलतायास्त्वं मदाकारं प्रदर्शय ।। १२५
पश्य किं स नृपस्तां मे ददाति तनयां न वा ।
तां च रूपलतां चित्रे लिखित्वा त्वमिहानय ।। १२६
एवमुक्त्वाभिलेख्य स्वं रूपं चित्रपटे स तम् ।
सभिक्षुकं चित्रकरं द्वीपं तं प्राहिणोन्नृपः ।। १२७
ते च क्रमाच्चित्रकरश्रमणाः प्रस्थितास्ततः ।
प्रापुः पत्रपुरं नाम नगरं वारिधेस्तटे ।। १२८
ततः प्रवहणारूढा गत्वैवाम्बुधिवर्त्मना ।
ते तं मुक्तिपुरद्वीपमवापुः पञ्चभिर्दिनैः ।। १२९
तत्र चित्रकरो गत्वा राजद्वारि स चीरिकाम् ।
मम चित्रकरस्तुल्यो नान्योऽस्तीत्युदलम्बयत् ।। 9.1.१३०
तद्बुद्ध्वैव समाहूतो राज्ञा रूपधरेण सः ।
प्रविश्य राजभवनं तं प्रणम्य व्यजिज्ञपत् ।। १३१
पृध्वीं भ्रान्त्वा मया देव न दृष्टश्चित्रकृत्समः ।
तद्देवासुरमर्त्यानामालिखामि कमादिश ।। १३२
तच्छ्रुत्वानाय्य नृपतिः स तां रूपलतां पुरः ।
इमामालिख्य मत्पुत्रीं दर्शयेत्यादिदेश तम् ।। १३३
ततः कुमारिदत्तः स चित्रकृद्राजकन्यकाम् ।
आलिख्य दर्शयामास तद्रूपामेव तां पटे ।। १३४
अथ रूपधरो राजा तुष्टो मत्वा विचक्षणम् ।
पृच्छति स्म स तं चित्रकरं जामातृलिप्सया ।। १३५
भद्र पृथ्वी त्वया भ्रान्ता तद्ब्रूहि यदि कुत्रचित् ।
रूपे मदुहितुस्तुल्या दृष्टा स्त्री पुरुषोऽपि वा ।। १३६
इत्युक्तस्तेन राज्ञा स चित्रकृत्प्रत्युवाच तम् ।
नैतत्तुल्या मया दृष्टा नारी काप्यथवा पुमान् ।। १३७
एकस्तु पृध्वीरूपाख्यः प्रतिष्ठाने महीपतिः ।
दृष्टः समोऽस्यास्तेनैषा युज्यते यदि साधु तत् ।। १३८
तुल्यरूपा यदा तेन न प्राप्ता राजकन्यका ।
तदा नवेऽपि तारुण्ये स तिष्ठत्यपरिग्रहः ।। १३९
मया च देव दृष्ट्वैव स राजा लोचनप्रियः ।
अभिलिख्य पटे सम्यग्गृहीतो रूपकौतुकात् ।। 9.1.१४०
तच्छ्रुत्वा किं पटः सोऽस्तीत्युक्तस्तेन स भूभृता ।
अस्तीत्युक्त्वा च तं चित्रकरः पटमदर्शयत् ।। १४१
तत्र दृष्ट्वा स तद्रूपं पृथ्वीरूपस्य भूपतेः ।
राजा रूपधरो दध्रे विस्मयाघूर्णितं शिरः ।। १४२
जगाद च वयं धन्या यैरत्र लिखितोऽप्ययम् ।
दृष्टो राजा नमस्तेभ्यः साक्षात्पश्यन्ति ये त्वमुम् ।। १४३
एतत्पितृवचः श्रुत्वा दृष्ट्वा चित्रे च तं नृपम् ।
सोत्का रूपलता नान्यच्छुश्राव न ददर्श च ।। १४४
सा मारमोहिता दृष्ट्वा सुतां स नृपतिस्तदा ।
कुमारिदत्तं तं चित्रकरं रूपधरोऽभ्यधात् ।। १४५
नास्त्यालेख्यविसंवादस्तव तद्दुहितुर्मम ।
एतस्याः प्रतिरूपः स पृध्वीरूपनृपः पतिः ।। १४६
तदेतं मत्सुताचित्रपटं नीत्वाद्य सत्वरम् ।
पृध्वीरूपनृपायैतां मत्सुतां गच्छ दर्शय ।। १४७
आख्याय च यथावृत्तं तत्तस्मै यदि रोचते ।
तदिह द्रुतमायातु परिणेतुं मदात्मजाम् ।। १४८
इत्युक्त्वा पूजयित्वार्थैः स सहस्थितभिक्षुकम् ।
राजा चित्रकरं तं च स्वदूतं च विसृष्टवान् ।। १४९
ते गत्वाम्बुधिमुत्तीर्य चित्रकृद्दूतभिक्षुकाः ।
सर्वे प्रापुः प्रतिष्ठानं पृथ्वीरूपनृपान्तिकम् ।। 9.1.१५०
तत्र प्राभृतकं दत्त्वा कार्यं तत्ते यथाकृतम् ।
सरूपधरसंदेशं राज्ञे तस्मै न्यवेदयन् ।। १५१
स च चित्रकृदेतस्मै भूभृते तामदर्शयत् ।
कुमारिदत्तश्चित्रस्थां प्रियां रूपलतां ततः ।। १५२
राज्ञस्तस्य वपुष्यस्या लावण्यसरसीक्षतः ।
मग्ना दृष्टिस्तथा नैतामुद्धर्तुमशकद्यथा ।। १५३
स हि कान्तिसुधास्यन्दमयीं तां चर्वयन्नृपः ।
नातृप्यदधिकोत्कण्ठश्चकोरश्चन्द्रिकामिव ।। १५४
प्राह चित्रकरं तं च वन्द्यो वेधाः करश्च ते ।
येनेदं निर्मितं रूपं येन चालिखितं सखे ।। १५५
तद्रूपधरभूपस्य प्रतिपन्नं वचो मया ।
यामि मुक्तिपुरद्वीपमुपयच्छे च तत्सुताम् ।। १५६
इत्युक्त्वा चित्रकृद्दूतभिक्षून्संमान्य तान्धनैः ।
आसीच्चित्रपटं पश्यन्पृथ्वीरूपनृपोऽत्र सः ।। १५७
उद्यानादिषु नीत्वा च तद्दिनं विरहातुरः ।
लग्नं निश्चित्य सोऽन्येद्युश्चक्रे राजा प्रयाणकम् ।। १५८
युक्तो विविधहस्त्यश्वैः सामन्तै राजसूनुभिः ।
सरूपधरदूतैस्तैश्चित्रकृच्छ्रमणैश्च सः ।। १५९
गजेन्द्रं मङ्गलघटं राजारुह्य व्रजन्दिनैः ।
प्राप्य विन्ध्याटवीद्वारं सायं तत्र स्थितोऽभवत् ।। 9.1.१६०
द्वितीयेऽह्नि समारुह्य शत्रुमर्दनसंज्ञकम् ।
गजं तामटवीं राजा पृथ्वीरूपो विवेश सः ।। १६१
यावद्याति पुरस्तावदग्रयायि निजं बलम् ।
पलायमानमावृत्तमकस्मात्स व्यलोकयत् ।। १६२
किमेतदिति संभ्रान्तं तं चाभ्येत्यैव तत्क्षणम् ।
राजपुत्रो गजारूढो निर्भयाख्यो व्यजिज्ञपत् ।। १६३
देवाग्रतोऽतिमहती भिल्लसेनाभिधाविता ।
तैर्वारणा नः पञ्चाशन्मात्रा भिल्लै रणे हताः ।। १६४
सहस्रं च पदातीनामश्वानां च शतत्रयम् ।
अस्मदीयैश्च भिल्लानां द्वे सहस्रे निपातिते ।। १६५
एको ह्यस्मद्बले दृष्टः कबन्धो द्वौ च तद्बले ।
ततोऽस्मत्सैनिका भग्नास्तद्बाणाशनिपीडिताः ।। १६६
तच्छ्रुत्वा कुपितो राजा पृध्वीरूपः प्रधाव्य सः ।
जघान सेनां भिल्लानां कौरवाणामिवार्जुनः ।। १६७
निर्भयादिभिरन्येषु निहतेष्वथ दस्युषु ।
स चिच्छेदैकभल्लेन भिल्लसेनापतेः शिरः ।। १६८
बाणव्रणगलद्रक्तस्तस्येभः शत्रुमर्दनः ।
सधातुनिर्झरोद्गारमञ्जनाद्रिं व्यडम्बयत् ।। १६९
ततो लब्धजयावृत्ते तत्सैन्ये मिलितेऽखिले ।
पलाय्य हतशेषास्ते भिल्ला दश दिशो ययुः ।। 9.1.१७०
ततो निवृत्तसङ्ग्रामः पृथ्वीरूपो महीपतिः ।
स रूपधरदूतेन स्तूयमानपराक्रमः ।। १७१
व्रणितानीकविश्रान्त्यै तस्यामेवाटवीभुवि ।
विजयी सरसीतीरे दिवसं वसति स्म तम् ।। १७२
प्रातस्ततः प्रयातश्च स राजा क्रमशो व्रजन् ।
तत्प्राप नगरं पत्रपुरं तीरस्थमम्बुधेः ।। १७३
तत्रैकाहं विशश्राम तत्रत्येन महीभृता ।
उदारचरिताख्येन रचितोचितसत्क्रियः ।। १७४
तेनैवोपहृतैर्यानपात्रैस्तीर्त्वा च सागरम् ।
अष्टभिर्दिवसैः प्राप द्वीपं मुक्तिपुरं स तत् ।। १७५
बुद्ध्वा रूपधरस्तच्च राजा हृष्टस्तमभ्यगात् ।
मिलतः स्म च तौ भूपौ कृतकण्ठग्रहौ मिथः ।। १७६
ततस्तेन समं पृध्वीरूपो राजा स तत्पुरम् ।
विवेश पौरनारीणां पीयमान इवेक्षणैः ।। १७७
तत्र हेमलता राज्ञी स च रूपधरो नृपः ।
दृष्ट्वानुरूपं दुहितुर्भर्तारं तं ननन्दतुः ।। १७८
अथ स्वसंपदुचितै राज्ञा रूपधरेण सः ।
आचारैरर्चितस्तस्थौ पृध्वीरूपोऽत्र पार्थिवः ।। १७९
अन्येद्युश्च चिरोत्काया वेदीमारुह्य शोभने ।
लग्ने रूपलतायाः स सोत्सवः पाणिमग्रहीत् ।। 9.1.१८०
सत्यं श्रुतं त्वया पूर्वमिति वक्तुमिव श्रुतिम् ।
प्रापोत्फुल्ला तयोर्दृष्टिरन्योन्यरूपदर्शिनोः ।। १८१
रत्नानि लाजमोक्षेषु द्वयो रूपधरस्तयोः ।
ददौ तथा यथा सैष मेने रत्नाकरो जनैः ।। १८२
निर्वृत्ते च सुतोद्वाहे चित्रकृच्छ्रमणान्स तान् ।
संपूज्य वस्त्राभरणैः सर्वानन्यानपूजयत् ।। १८३
ततः पुरे स्थितस्तस्मिन्पृथ्वीरूपनृपोऽत्र सः ।
तद्द्वीपोचितमाहारं भेजे पानं च सानुगः ।। १८४
नृत्तगीतादिभिर्याते दिने नक्तं विवेश च ।
सूत्को रूपलतावासभवनं सोऽवनीपतिः ।। १८५
आस्तीर्णरत्नपर्यङ्कं रत्नकुट्टिमशोभितम् ।
रत्नस्तम्भोम्भिताभोगं रत्नदीपप्रकाशितम् ।। १८६
तत्र भेजे तया साकं स रूपलतया युवा ।
चिरसंकल्पगुणितं यथेच्छं सुरतोत्सवम् ।। १८७
सुरतश्रमसुप्तश्च पठद्भिर्बन्दिमागधैः ।
बोधितः प्रातरुत्थाय तस्थाविन्द्रो यथा दिवि ।। १८८
एवं दश दिनान्यत्र पृथ्वीरूपनृपोऽवसत् ।
द्वीपे नवनवैर्भोगैर्विलसञ्श्वशुराहृतैः ।। १८९
एकादशे दिने युक्तः स रूपलतया ततः ।
गणकानुमतो राजा प्रतस्थे कृतमङ्गलः ।। 9.1.१९०
कृतानुयात्रः श्वशुरेणा समुद्रतटं च सः ।
वध्वा सह प्रवहणान्यारुरोहानुगान्वितः ।। १९१
दिनाष्टकेन तीर्त्वाब्धिं तीरस्थे मिलिते बले ।
उदारचरिते चाग्रप्राप्ते पत्रपुरं ययौ ।। १९२
तत्रोपचरितस्तेन राज्ञा विश्रम्य कानिचित् ।
दिनानि स ततः प्रायात्पृध्वीरूपो नरेश्वरः ।। १९३
प्रियां रूपलतां हस्तिन्यारोप्य जयमङ्गले ।
कल्याणगिरिनामानमात्मनारुह्य च द्विपम् ।। १९४
गच्छन्क्रमादविरतैः सोऽथ राजा प्रयाणकैः ।
उत्पताकध्वजं प्राप प्रतिष्ठानं निजं पुरम् ।। १९५
तत्र रूप्रलतां दृष्ट्वा रूपदर्पं पुराङ्गनाः ।
जहुस्तत्कालमाश्चर्यनिर्निमेषविलोचनाः ।। १९६
राजधानीं प्रविश्याथ पृथ्वीरूपः कृतोत्सवः ।
ददौ चित्रकृते तस्मै ग्रामान्राजा धनं च सः ।। १९७
श्रमणौ पूजयित्वा च वसुभिस्तौ यथोचितम् ।
सामन्तान्सचिवान्राजपुत्रांश्च सममानयत् ।। १९८
ततः स रूपलतया प्रियया सहितस्तया ।
जीवलोकसुखं तत्र भेजे पृथ्वीपतिः कृती ।। १९९
इत्याख्याय कथां मन्त्री गोमुखस्तत्सुखोन्मुखः ।
नरवाहनदत्ताय तमुवाचोत्सुकं पुनः ।। 9.1.२००
एवं विषह्यते धीरैः सक्लेशो विरहश्चिरम् ।
त्वं पुनः सहसे नैकामपि देव निशां कथम् ।। २०१
प्रातर्भवानलंकारवतीं हि परिणेष्यति ।
गोमुखेनैवमुक्ते च तत्र तत्समयागतः ।। २०२
यौगन्धरायणसुतो मरुभूतिरभाषत ।
अदृष्टस्मरसंतापः स्वस्थस्त्वं किं न जल्पसि ।। २०३
तावद्धत्ते पुमान्धैर्यं विवेकं शीलमेव च ।
यावत्पतति कामस्य सायकानां न गोचरे ।। २०४
धन्याः सरस्वती स्कन्दो जिनश्च जगति त्रयः ।
पटान्तलग्नतृणवत्क्षिप्तो व्याधूय यैः स्मरः ।। २०५
मरुभूतौ वदत्येवमुद्विग्नं वीक्ष्य गोमुखम् ।
नरवाहनदत्तस्तं समर्थयितुमभ्यधात् ।। २०६
विनोदनार्थमेतन्मे गोमुखो युक्तमुक्तवान् ।
स्निग्धो हि विरहायासे साधुवादं ददाति किम् ।। २०७
समाश्वासो यथाशक्ति स्वजनैर्विरहातुरः ।
अतः परं स जानाति देवश्चासमसायकः ।। २०८
इत्यादि जल्पञ्छृण्वंश्च तास्ताः परिजनात्कथाः ।
नरवाहनदत्तस्तां त्रियामामत्यवाहयत् ।। २०९
अथ स प्रातरुत्थाय विहितावश्यकक्रियः ।
गगनादवरोहन्तीमपश्यत्काञ्चनप्रभाम् ।। 9.1.२१०
भर्त्रालंकारशीलेन धर्मशीलेन सूनुना ।
तयालंकारवत्या च स्वदुहित्रा समन्विताम् ।। २११
ते चावतीर्य सर्वेऽपि तत्समीपमुपागमन् ।
अभ्यनन्दच्च तान्सोऽपि तं च तेऽपि यथोचितम् ।। २१२
तावच्च हेमरत्नादिभारवाहाः सहस्रशः ।
अन्येऽप्यवतरन्ति स्म तत्र विद्याधरा दिवः ।। २१३
विज्ञायैतं च वृत्तान्तं वत्सराजः समन्त्रिकः ।
सपत्नीकश्च तत्रागात्तनयोत्कर्षहर्षितः ।। २१४
यथार्हविहितातिथ्ये तस्मिन्वत्सेश्वरेऽथ सः ।
राजालंकारशीलस्तमुवाच प्रणयानतः ।। २१५
राजन्नलंकारवती कन्येयं तनया मम ।
जातैव चैषा व्यादिष्टा गगनोद्गतया गिरा ।। २१६
नरवाहनदत्तस्य भार्यामुष्य सुतस्य ते ।
सर्वविद्याधरेन्द्राणां भाविनश्चक्रवर्तिनः ।। २१७
तदेतस्मै ददाम्येनां लग्नो ह्यद्यानयोः शुभः ।
एतदर्थं मिलित्वाहमेतैः सर्वैरिहागतः ।। २१८
एतद्विद्याधरेन्द्रस्य तस्य वत्सेश्वरो वचः ।
महाननुग्रह इति ब्रुवन्नभिननन्द सः ।। २१९
अथ निजविद्याविभवात्पाणितलोत्पादितेन तोयेन ।
अभ्युक्षति स्म सोऽङ्गनभूमिं विद्याधराधीशः ।। 9.1.२२०
तत्रोत्पेदे वेदी कनकमयी दिव्यवस्त्रसंछन्ना ।
नानारत्नमयं चाप्यकृत्रिमं कौतुकागारम् ।। २२१
उत्तिष्ठ लग्नवेला प्राप्ता स्नाहीत्युवाच तदनु कृती ।
तं नरवाहनदत्तं राजालंकारशीलोऽसौ ।। २२२
स्नाताय कौतुकभृते वेदीमानीय धृतवधूवेषाम् ।
हृष्टोऽलंकारवतीं स ददौ मनसात्मजां तस्मै ।। २२३
मणिकनकवस्त्रभूषणभारसहस्राणि दिव्यनारीश्च ।
अग्नौ लाजविसर्गेष्वददाच्च स सात्मजो दुहितुः ।। २२४
निर्वृत्ते च विवाहे सर्वान्संमान्य तदनु चामन्त्र्य ।
सह पत्न्या पुत्रेण च नभसैव यथागतं स ययौ ।। २२५
अथ वीक्ष्य तथोपचर्यमाणं प्रणतैः खेचरराजभिस्तनूजम् ।
उदयोन्मुखमत्र वत्सराजो मुदितस्तं चिरमुत्सवं ततान ।। २२६
स च नरवाहनदत्तः सद्वृत्तमनोरमामुदारगुणाम् ।
प्राप्यालंकारवतीं वाणीमिव सुकविरास्त तद्रसिकः ।। २२७
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलंकारवतीलम्बके प्रथमस्तरङ्गः ।