प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ततोऽन्येद्युरलंकारवतीवासगृहे स्थितम् ।
नरवाहनदत्तं तं संनिधौ सर्वमन्त्रिणाम् ।। १
एत्य विज्ञापयामास मरुभूतिकसेवकः ।
सोदर्यः सौविदल्लस्य तदन्तःपुररक्षिणः ।। २
मरुभूतेर्मया देव सेवा वर्षद्वयं कृता ।
भोजनाच्छादनं दत्तं सभार्यस्यामुना मम ।। ३
आभाषितास्तु तत्पृष्ठे दीनाराः प्रतिवत्सरम् ।
पञ्चाशद्ये ममानेन तानेष न ददाति मे ।। ४
मृग्यमाणेन चैतेन चरणेनाहमाहतः ।
तेनोपविष्टः प्रायेऽहं सिंहद्वारेऽस्य तावके ।। ५
विचारयति चेन्नात्र देवो मे तत्करोम्यहम् ।
अग्निप्रवेशमधिकं किं वच्म्येष हि मे प्रभुः ।। ६
इत्युक्त्वा विरते तस्मिन्मरुभूतिरभाषत ।
देया मयास्मै दीनाराः सांप्रतं तु न सन्ति मे ।। ७
इत्युक्तवन्तं सर्वेषु प्रहसत्सु स्वमन्त्रिणम् ।
नरवाहनदत्तस्तं मरुभूतिमभाषत ।। ८
किमेवं मूर्खभावस्ते नाधिकेयं मतिस्तव ।
उत्तिष्ठ दीनारशतं देह्यस्मा अविलम्बितम् ।। ९
एतत्प्रभोर्वचः श्रुत्वा मरुभूतिर्विलज्जितः ।
तदैवानीय तत्तस्मै स दीनारशतं ददौ ।। १०
ततोऽत्र गोमुखोऽवादीन्न वाच्यो मरुभूतिकः ।
विचित्रचित्तवृत्तिर्यत्सर्गो देव प्रजापतेः ।। ११
युष्माभिरेषा किं चात्र चिरदातुर्महीपतेः ।
तत्सेवकस्य च कथा प्रसङ्गाख्यस्य न श्रुता ।। १२
चिरदातेत्यभूत्पूर्वं राजा चिरपुरेश्वरः ।
सुजनस्यापि तस्यासीत्परिवारोऽतिदुर्जनः ।। १३
देशान्तरागतस्तस्य प्रसङ्गो नाम भूपतेः ।
मित्त्राभ्यां सहितो द्वाभ्यां बभूव किल सेवकः ।। १४
सेवां च कुर्वतस्तस्य व्यतीतं वर्षपञ्चकम् ।
न स राजा ददौ किंचिन्निमित्तेऽप्युत्सवादिके ।। १२
स च तस्य न संप्राप विज्ञप्त्यवसरं प्रभोः ।
परिवारस्य दौरात्म्यात्सख्योः प्रेरयतोः सदा ।। १६
एकदा तस्य राज्ञश्च बालः पुत्रो व्यपद्यत ।
दुःखितं चैत्य सर्वेऽपि भृत्यास्तं पर्यवारयन् ।। १७
तन्मध्ये च प्रसङ्गाख्यः शोकादेव स सेवकः ।
सखिभ्यां वार्यमाणोऽपि राजानं तं व्यजिज्ञपत् ।। १८
बहुकालं वयं देव सेवका न च नस्त्वया ।
दत्तं किंचित्तथापीह स्थिताः स्मस्त्वत्सुताशया ।। १९
त्वया यदि न दत्तं तत्त्वत्पुत्रोऽस्मासु दास्यति ।
सोऽपि दैवेन नीतश्चेत्तन्नः किमिह सांप्रतम् ।। २०
व्रजाम इति जल्पित्वा पतित्वा सोऽस्य पादयोः ।
राज्ञः प्रसङ्गो निरगात्सखिद्वययुतस्ततः ।। २१
अहो पुत्रेऽपि बद्धास्थाः सेवका मे दृढा इमे ।
तदेते मम न त्याज्या इति संचिन्त्य तत्क्षणम् ।। २२
स राजा तान्प्रसङ्गादीनानाय्यैव तथा धनैः ।
अपूरयद्यथा भूयो नैतान्दारिद्र्यमस्पृशत् ।। २३
एवं विचित्रा दृश्यन्ते स्वभावा देव देहिनाम् ।
यत्काले स नृपो नादादकाले तु ददौ तथा ।। २४
इत्याख्याय कथाख्यानपटुर्भूयः स गोमुखः ।
वत्सेश्वरसुतादेशादिमामकथयत्कथाम् ।। २५
आसीद्गङ्गातटे पूर्वं पूतपौरं तदम्बुभिः ।
सौराज्यरम्यं कनकपुराख्यं नगरोत्तमम् ।। २६
यत्र बन्धः कविगिरां छेदः पत्त्रेष्वदृश्यत ।
भङ्गोऽलकेषु नारीणां सस्यसंग्रहणे खलः ।। २७
तत्र वासुकिनागेन्द्रतनयात्प्रियदर्शनात् ।
जातो यशोधराख्यायां राजपुत्र्यां महायशाः ।। २८
आसीत्कनकवर्षाख्यो नगरे नृपतिः पुरा ।
कृत्स्नभूभारवोढापि योऽशेषगुणभूषितः ।। २९
लुब्धो यशसि न त्वर्थे भीतः पापान्न शत्रुतः ।
मूर्खः परापवादेषु न च शास्त्रेषु योऽभवत् ।। ३०
अल्पत्वं यस्य कोपेऽभून्न प्रसादे महात्मनः ।
चापे च बद्धमुष्टित्वं न दाने धीरचेतसः ।। ३१
येनात्यद्भुतरूपेण रक्षता चाखिलं जगत् ।
मारव्यथाकुलश्चक्रे दृष्टेनैवाबलाजनः ।। ३२
स कदाचिच्छरत्काले सोष्मण्युन्मदवारणे ।
राजहंसपरीवारे सोत्सवानन्दितप्रजे ।। ३३
आलतुल्यगुणे रन्तुं चित्रप्रासादमाविशत् ।
आकृष्टकमलामोदवहन्मारुतशीतलम् ।। ३४
तत्र निर्वर्णयन्यावत्तच्चित्रं स प्रशंसति ।
तावत्प्रविश्य भूपं तं प्रतीहारो व्यजिज्ञपत् ।। ३५
इहागतो विदर्भेभ्योऽपूर्वश्चित्रकरः प्रभो ।
अनन्यसममात्मानं चित्रकर्मण्युदाहरन् ।। ३६
रोलदेवाभिधानेन सिंहद्वारेऽत्र तेन च ।
एतद्देवाभिलिख्याद्य चीरिकोल्लम्बिता किल ।। ३७
तच्छ्रुत्वैवादराद्भूपेनादिष्टानयनं स तम् ।
आनिनाय प्रतीहारो गत्वा चित्रकरं क्षणात् ।। ३८
स प्रविश्य ददर्शात्र चित्रालोकनलीलया ।
स्थितं कनकवर्षं तं नृपं चित्रकरो रहः ।। ३९
वरनारीकुचोत्सङ्गसमर्पिततनूभरम् ।
सहेलोदञ्चितकरोपात्तताम्बूलवीटिकम् ।। ४०
प्रणम्य चोपविष्टस्तं राजानं विहितादरम् ।
शनैर्विज्ञापयामास रोलदेवः स चित्रकृत् ।। ४१
चीरिकोल्लम्बिता देव त्वत्पादाब्जदिदृक्षया ।
मया न विज्ञानमदात्तत्क्षन्तव्यमिदं मम ॥ ४२
आदिश्यतां च चित्रे किमालिखामीह रूपकम् ।
भवत्वेतत्कलाशिक्षायत्नो मे सफल: प्रभो । ४३
इति चित्रकरेणोक्ते स राजा निजगाद तम् ।
उपाध्याय यथाकामं किंचिदालिख्यतां त्वया ।४४
ह्लादयामो वयं चक्षुर्भ्रान्तिस्त्वत्कौशले तु का ।
इत्युते तेन राज्ञात्र तत्पार्श्वस्था बभाषिरे।। ४५
राजैवालिख्यतामन्यैर्विरूपैः किं प्रयोजनम् ।
तच्छ्रुत्वा चित्रकृत्तुष्टः स तं राजानमालिखत् ॥ ४६
तुङ्गेन नासावंशेन दीर्घरक्तेन चक्षुषा ।
विपुलेन ललाटेन कुन्तलैः कुञ्चितासितैः ॥ ४७
विस्तीर्णेनोरसा रूढबाणादिव्रणशोभिना ।
भुजयुग्मेन दिग्दन्तिकराकारेण हारिणा। ४८
मध्येन मुष्टिमेयेन केसरीन्द्रकिशोरकैः ।
उपायनीकृतेनेव पराक्रमपराजितैः ।। ४९
यौवनद्विरदालाननिभेनोरुयुगेण च ।
अशोकपल्लवनिभेनाङ्घ्रियुग्मेन चारुणा । ५०
दृष्ट्वैव स्वानुरूपेण रूपेणालिखितं नृपम् ।
साधुवादं ददुः सर्वे तस्य चित्रकृतस्तदा । ५१
जगदुस्तं च नेच्छामो द्रष्टुमेकाकिनं प्रभुम्।
चित्रभित्तौ तदेतस्यामेतास्वालिखितास्विह। ५२
राज्ञीषु मध्यादेकां त्वं सुविचार्यानुरूपिकाम् ।
लिखोपाध्याय पार्श्वेऽस्य पूर्णो नेत्रोत्सवोऽस्तु नः ॥ ५३
तच्छ्रुत्वा स विलोक्यात्र चित्रं चित्रकरोऽब्रवीत् ।
भूयसीष्वपि नैतासु तुल्या राज्ञोऽस्ति काचन ॥ ५४
जाने च पृथ्व्यामेवास्य तुल्यरूपास्ति नाङ्गना ।
अस्त्येका राजपुत्री तु शृणुताख्यामि तां च वः ॥ ५५
विदर्भेष्वस्ति नगरं श्रीमत्कुण्डिनसंज्ञकम् ।
देवशक्तिरिति ख्यातस्तत्रास्ति च महीपतिः ॥ ५६
तस्यानन्तवतीत्यस्ति राज्ञी प्राणाधिकप्रिया ।
तस्यां तस्य सुतोत्पन्ना नाम्ना मदनसुन्दरी ॥ ५७
यस्या वर्णयितुं रूपमेकया जिह्वयानया ।
मादृशः कः प्रगल्भेत किं त्वेतावद्वदाम्यहम् । ५८
तां निर्माय विधिर्मन्ये संजातेच्छोऽपि तद्रसात् ।
निर्मातुमन्यां तद्रूपां युगैरपि न वेत्स्यति ॥ ५९
सैकास्य राज्ञः सदृशी पृथिव्यां राजकन्यका ।
रूपलावण्यविनयैर्वयसा च कुलेन च ॥ ६०
अहं तया हि तत्रस्थः कदाचित्प्रेष्य चेटिकाम् ।
आहूतोऽन्तःपुरं तस्या राजपुत्र्या गतोऽभवम् ॥ ६१
तत्रापश्यमहं तां च चन्दनार्द्रविलेपनाम् ।
मृणालहारां बिसिनीपत्रशय्याविवर्तिनीम् ॥ ६२
कदलीपत्रपवनैर्वीज्यमानां सखीजनैः ।
पाण्डुक्षामामभिव्यक्तस्मरसंज्वरलक्षणाम् ॥ ६३
हे सख्यश्चन्दनालेपकदलीदलमारुतैः ।
कृतमेभिः किमेतेन विफलेन श्रमेण वः । ६४
एते हि मन्दपुण्यां मां दहन्ति शिशिरा अपि ।
एवं निवारयन्तीं च सखीराश्वासनाकुलाः ॥ ६५
विलोक्य तदवस्थां तां तद्वितर्कसमाकुलः ।
कृतप्रणामस्तस्याश्च पुरतोऽहमुपाविशम् ॥ ६६
उपाध्यायेदृगालिख्य चित्रे मे देहि रूपकम् ।
इत्युक्त्वा वेपमानेन पाणिना धृतवर्तिना ॥ ६७
शनैरालिख्य सा भूमौ दर्शयन्ती नृपात्मजा ।
अलेखयन्मया कंचिद्युवानं रूपवतरम् ॥ ६८
आलिख्य सुन्दरं तं च देव चिन्तितवानहम् ।
काम एवानया साक्षादयमालेखितो मया । ६९
किं तु पुष्पमयश्चापो हस्ते यन्नास्य लेखितः ।
तेन जाने न कामोऽयं तद्रूपः कोऽप्यसौ युवा ॥ ७०
अयं च नूनमनया दृष्टः क्वापि श्रुतोऽपि वा ।
एतन्निबन्धनं चेदमस्याः स्मरविजृम्भितम् ॥ ७१
तदितो मेऽपयातव्यमुग्रदण्डो ह्ययं नृपः ।
एतत्पिता देवशक्तिर्बुद्ध्वेदं न क्षमेत मे ॥ ७२
इत्यालोच्येव नत्वा तामहं मदनसुन्दरीम् ।
राजकन्यां निरगमं तया संमानितस्तत: । ७३
श्रुतं चात्र महाराज मया परिजनान्मिथः ।
स्वैरं कथयतो यत्सा सानुरागा श्रुते त्वयि । ७४
ततचित्रपटे गुप्तं लिखितां तां नृपात्मजाम्।
आदायाहं भवत्पादमूलं त्वरितमागतः ।७५
दृष्ट्वा च देवस्याकारं निवृत्तः संशयो मम ।
देव एव तया चित्रे मद्धस्तेनाभिलेखितः ॥ ७६
सा चासकृन्न सदृशी शक्या लिखितुमित्यहम् ।
चित्रे देवस्य पार्श्वे तां न लिखामि समामपि ॥ ७७
इत्युक्तवन्तं तं रोलदेवं राजा जगाद् सः ।
तर्हि त्वया सा तच्चित्रपटस्था दर्श्यतामिति ॥ ७८
ततो वल्गुलिकातस्तं कृष्ट्वा पटमदर्शयत् ।
स चित्रकृत्तां चित्रस्थां राज्ञे मदनसुन्दरीम्। ७९
राजा कनकवर्षोंऽपि तां स चित्रगतामपि ।
विचित्ररूपामालोक्य सद्य: स्मरवशं ययौ । ८०.
पूरयित्वा च बहुना हेम्ना चित्रकरं स तम् ।
आत्तप्रियाचित्रपटो विवेशाभ्यन्तरं नृपः ।। ८१
तत्र तद्रूपलावण्यदर्शनात्तृप्तलोचनः ।
त्यक्तसर्वक्रियस्तस्थौ तदेकमयमानसः ।। ८२
बबाधे धैर्यहारी तं निघ्नँल्लब्धान्तरः शरैः ।
रूपस्पर्धासमुद्भूतमात्सर्य इव मन्मथः ।। ८३
या दत्ता रूपलुब्धानां स्मरार्तिस्तेन योषिताम् ।
फलितेव च सैवास्य शतशाखं महीक्षितः ।। ८४
ततो दिनैश्च विरहक्षामपाण्डुः शशंस सः ।
आप्तेभ्यः सचिवेभ्यस्तत्पृच्छद्भ्यः स्वं मनोगतम् ।। ८५
मन्त्रयित्वा च तैः साकं कन्यां मदनसुन्दरीम् ।
याचितुं प्राहिणोद्दूतं स राज्ञे देवशक्तये ।। ८६
संगमस्वामिनामानं कालज्ञं कार्यवेदिनम् ।
विप्रमाप्तं कुलीनं च मधुरोदात्तभाषिणम् ।। ८७
स गत्वा सुमहार्हेण विप्रः परिकरेण तान् ।
विदर्भान्संगमस्वामी प्राविशत्कुण्डिनं पुरम् ।। ८८
यथावत्तत्र राजानं देवशक्तिं ददर्श तम् ।
स स्वामिनोऽर्थे तस्माच्च प्रार्थयामास तत्सुताम् ।। ८९
देया तावन्मयान्यस्मै दुहितैषा स चोचितः ।
भूपः कनकवर्षोऽस्मादृशोऽप्येतां च याचते ।। ९०
तदेतस्मै ददाम्येनामिति संमन्त्र्य सोऽपि च ।
श्रद्दधे देवशक्तिस्तत्संगमस्वामिनो वचः ।। ९१
दर्शयामास तस्मै च तस्या रूपमिवाद्भुतम् ।
नृत्तं मदनसुन्दर्याः सुतायाः स महीपतिः ।। ९२
ततस्तद्दर्शनप्रीतं संगमस्वामिनं स तम् ।
प्रतिपन्नसुतादानः संमान्य प्राहिणोन्नृपः ।। ९३
निश्चित्य लग्नमुद्वाहहेतोरागम्यतामिह ।
संदिश्येति समं तेन प्रतिदूतं ससर्ज च ।। ९४
आगत्य संगमस्वामी प्रतिदूतयुतोऽथ सः ।
राज्ञे कनकवर्षाय सिद्धं कार्यं न्यवेदयत् ।। ९५
ततो लग्नं विनिश्चित्य प्रतिदूतं प्रपूज्य तम् ।
असकृत्तां च विज्ञाय रक्तां मदनसुन्दरीम् ।। ९६
तद्विवाहाय दुर्वारवीर्यो निःशङ्कमानसः ।
राजा कनकवर्षोऽसौ प्रायात्तत्कुण्डिनं पुरम् ।। ९७
अशोकलतयारूढः प्रत्यन्तारण्यवासिनः ।
प्राणिप्राणहरान्निघ्नन्सिंहादीञ्शबरानिव ।। ९८
विदर्भान्प्राप्य नगरं कुण्डिनं तद्विवेश सः ।
निर्गतेनाग्रतो राज्ञा सहितो देवशक्तिना ।। ९९
तत्र पौरपुरंध्रीणां विलब्धनयनोत्सवः ।
सज्जितोद्वाहसंभारं प्राविशद्राजमन्दिरम् ।। १००
विश्राम्यति स्म तत्रैतत्स दिनं सपरिच्छदः ।
देवशक्तिनृपोदारकृताचारानुरञ्जितः ।। १०१
अन्येद्युर्देवशक्तिस्तां तस्मै मदनसुन्दरीम् ।
सुतां राज्यैकशेषेण सर्वस्वेन समं ददौ ।। १०२
स्थित्वा च तत्र सप्ताहं स राजा नगरं निजम् ।
आगात्कनकवर्षोऽथ नववध्वा समं तया ।। १०३
प्राप्ते कान्तायुते तस्मिञ्जगदानन्ददायिनि ।
सकौमुदीके शशिनीवासीत्तत्सोत्सवं पुरम् ।। १०४
साथ प्राणाधिका तस्य राज्ञो मदनसुन्दरी ।
आसीद्बह्ववरोधस्याप्यच्युतस्येव रुक्मिणी ।। १०५
अन्योन्यवदनासक्तलोचनैः स्मरसायकैः ।
कीलिताविव तौ चास्तां दंपती चारुपक्ष्मभिः ।। १०६
एकदा चाजगामात्र विकसत्केसरावलिः ।
दलयन्मानिनीमानमातङ्गं मधुकेसरी ।। १०७
लग्नालिमालामौर्वीकाः पुष्पेषोः कुसुमाकरः ।
सज्जीचकार चोत्फुल्लचूतवल्लीधनुर्लताः ।। १०८
ववौ चोपवनानीव चेतांस्यध्वगयोषिताम् ।
समुद्दीपितकामानि कम्पयन्मलयानिलः ।। १०९
पूरा नदीनां पुष्पाणि तरूणां शशिनः कलाः ।
क्षीणानि पुनरायान्ति यौवनानि न देहिनाम् ।। ११०
भो मुक्तमानकलहा रमध्वं दयितान्विताः ।
इतीव मधुरालापाः कोकिला जगदुर्जनान् ।। १११
तत्काले च मधूद्यानं विहर्तुं प्रविवेश सः ।
राजा कनकवर्षोऽत्र सर्वैरन्तःपुरैः सह ।। ११२
मुष्णञ्श्रियमशोकानां रक्तैः परिजनाम्बरैः ।
गीतैर्वराङ्गनानां च कोकिलभ्रमरध्वनिम् ।। ११३
देव्या मदनसुन्दर्या समं तत्र स भूपतिः ।
चिक्रीड सावरोधोऽपि कुसुमावचयादिभिः ।। ११४
विहृत्य चात्र सुचिरं स्नातुं गोदावरीं नृपः ।
अवतीर्य जलक्रीडां सान्तःपुरजनो व्यधात् ।। ११५
मुखैः पद्मानि नयनैरुत्पलानि पयोधरैः ।
रथाङ्गनाम्नां युग्मानि नितम्बैः पुलिनस्थलीः ।। ११६
विजित्य तस्याः सरितः क्षोभयामासुराशयम् ।
तरङ्गदर्शितामर्षभ्रूभङ्गायास्तदङ्गनाः ।। ११७
अम्भोविहारविचलद्वस्त्रव्यक्ताङ्गभङ्गिषु ।
रेमे कनकवर्षस्य तासु तस्य तदा मनः ।। ११८
एकां चाताडयद्राज्ञीं हेमकुम्भद्वयोपमे ।
कुचयुग्मे च विस्रस्तवसने करवारिणा ।। ११९
तद्दृष्ट्वा सा चुकोपास्यै सेर्ष्या मदनसुन्दरी ।
कियत्क्षोभ्या नदीत्येव सोद्वेगेव जगाद च ।। १२०
उत्तीर्य चाम्भसः प्रायादात्तवस्त्रान्तरा रुषा ।
प्रियापराधं शंसन्ती तं सखीभ्यः स्वमन्दिरम् ।। १२१
ततो ज्ञाताशयस्तस्या जलक्रीडां विमुच्य सः ।
राजा कनकवर्षोऽपि तद्वासगृहमाययौ ।। १२२
वार्यमाणो रुषा तत्र पञ्जरस्थैः शुकैरपि ।
प्रविश्य स ददर्शान्तर्देवीं तां मन्युपीडिताम् ।। १२३
वामहस्ततलन्यस्तविषण्णवदनाम्बुजाम् ।
स्वच्छमुक्ताफलनिभैः पतद्भिर्बाष्पबिन्दुभिः ।। १२४
'जइ विरहो ण सहिज्जइ माणो [ सुहा वि] परिवज्जणीओ ते ।
विरहो हिअअ सहिज्जइ माणो [ एव्व] परिवढ्ढणीओ ते ।। १२५
इअ जाणिऊण णिउणं चिट्ठसु ओलम्बिऊण इक्कदरम् ।
उहअतडदिण्णपाओ मत्झणिविडिओ धुवं विणिस्सिहसि ।।' १२६
इतीमं द्विपदीखण्डं पठन्तीं साश्रुगद्गदम् ।
निर्यद्दन्तांशुहारिण्या गिरापभ्रंशमुग्धया ।। १२७
विलोक्य च तथाभूतां तां कोपेऽपि मनोरमाम् ।
उपाययौ सलज्जश्च सभयश्च स भूपतिः ।। १२८
पराङ्मुखीमथाश्लिष्य वचोभिः प्रीतिपेशलैः ।
प्रवृत्तोऽभूत्सविनयैस्तां प्रसादयितुं च सः ।। १२९
वक्रोक्तिसूचितावद्ये परिवारे पपात च ।
तस्याश्चरणयोर्निन्दन्नात्मानमपराधिनम् ।। १३०
ततस्तन्मन्युनेवाश्रुवारिणा गलितेन सा ।
सिञ्चन्ती कण्ठलग्नास्य प्रससाद महीपतेः ।। १३१
अथैष हृष्टो नीत्वा तद्दिनं कुपिततुष्टया ।
राजा तया सहासेव्य रतं निद्रामगान्निशि ।। १३२
सुप्तो ददर्श चाकस्मात्स्वप्ने विकृतया स्त्रिया ।
हृतामेकावलीं कण्ठाच्चूडारत्नं च मूर्धतः ।। १३३
ततोऽप्यपश्यद्वेतालं नानाप्राण्यङ्गविग्रहम् ।
बाहुयुद्धे प्रवृत्तं च तं स भूमावपातयत् ।। १३४
पृष्ठोपविष्टश्चोड्डीय पक्षिणेव विहायसा ।
नीत्वा तेन नृपोऽम्भोधौ वेतालेन स चिक्षिपे ।। १३५
ततः कथंचिदुत्तीर्णः परमेकावलीं गले ।
चूडामणिं च तं मूर्ध्नि पूर्ववत्स्थितमैक्षत ।। १३६
एतद्दृष्ट्वा प्रबुद्धः स प्रातः परिचयागतम् ।
अस्य क्षपणकं राजा फलं स्वप्नस्य पृष्टवान् ।। १३७
 .................... ।
न वाच्यमप्रियं किं तु कथं पृष्टो न वच्मि ये ।। १३८
या त्वयैकावली दृष्टा हृता चूडामणिस्तथा ।
सैष देव्या वियोगस्ते पुत्रेण च भविष्यति ।। १३९
प्राप्ते चैकावलीरत्ने यवुत्तीर्णाब्धिना त्वया ।
दुःखान्ते सोऽपि भावी ते देवीपुत्रसमागमः ।। १४०
इति क्षपणकेनोक्ते विमृश्य स नृपोऽब्रवीत् ।
पुत्रो मेऽद्यापि नास्त्येव स तावज्जायतामिति ।। १४१
अथोपयातादश्रौषीत्स रामायणपाठकात् ।
पुत्रार्थं विहितक्लेशं राजा दशरथं नृपम् ।। १४२
तेनोद्भूतसुतप्राप्तिचिन्तः क्षपणके गते ।
राजा कनकवर्षस्तन्निनाय विमना दिनम् ।। १४३
रात्रावकस्माच्चैकाकी विनिद्रः शयनस्थितः ।
द्वारेऽनुद्घाटितेऽप्यन्तः प्रविष्टां स्त्रियमैक्षत ।। १४४
विनीता सौम्यरूपा च सा तं साश्चर्यमुत्थितम् ।
कृतप्रणामं दत्ताशीः क्षितीश्वरमभाषत ।। १४५
पुत्र मां विद्धि तनयां नागराजस्य वासुकेः ।
त्वत्पितुर्भगिनीं ज्येष्ठां नाम्ना रत्नप्रभामिमाम् ।। १४६
रक्षार्थं तेऽन्तिके शश्वददृष्टा च वसाम्यहम् ।
अद्य दृष्ट्वा सचिन्तं त्वामात्मा ते दर्शितो मया ।। १४७
न द्रष्टुमुत्सहे ग्लानिं तव तद्ब्रूहि कारणम् ।
इत्युक्तः स तया राजा पितृष्वस्रा जगाद ताम् ।। १४८
धन्योऽहमम्ब यस्यैवं त्वं प्रसादं करोषि मे ।
अनिर्वृतिं च मे विद्धि पुत्रासंभवहेतुकाम् ।। १४९
अपि राजर्षयो यत्र पुरा दशरथादयः ।
स्वर्गार्थमैच्छंस्तत्राम्ब कथं नेच्छन्तु मादृशाः ।। १५०
एतत्कनकवर्षस्य नृपतेस्तस्य सा वचः ।
श्रुत्वा रत्नप्रभा नागी भ्रातुः पुत्रमुवाच तम् ।। १५१
तर्हि पुत्र वदाम्येकं यमुपायं कुरुष्व तम् ।
गत्वा स्वामिकुमारं त्वमेतदर्थं प्रसादय ।। १५२
कुमारधारां विघ्नाय पतन्तीं मूर्ध्नि दुःसहाम् ।
शरीरान्तःप्रविष्टायाः प्रभावान्मे सहिष्यसे ।। १५३
विघ्नजातं विजित्यान्यदपि प्राप्स्यसि वाञ्छितम् ।
इत्युक्त्वान्तर्दधे नागी राजा हृष्टोऽक्षिपत्क्षपाम् ।। १५४
प्रातर्मन्त्रिषु विन्यस्य राज्यं पुत्राभिकाङ्क्षया ।
ययौ स्वामिकुमारस्य पादमूलं स भूपतिः ।। १५५
तत्र तीव्रं तपश्चक्रे तमाराधयितुं प्रभुम् ।
तयार्पितबलो नाग्या शरीरान्तःप्रविष्टया ।। १५६
तनोऽशनिनिभा राज्ञः पतितुं तस्य मूर्धनि ।
कुमारवारिधारा सा प्रवृत्ताभूदनारतम् ।। १५७
स च सेहे शरीरान्तर्गतनागीबलेन ताम् ।
ततस्तस्याधिविघ्नार्थं हेरम्बं प्रैरयद्गुहः ।। १५८
हेरम्बश्चासृजत्तत्र धारामध्ये महाविषम् ।
तस्याजगरमत्युग्रं न स तेनाप्यकम्पत ।। १५९
ततो विनायकः साक्षाद्दन्ताघातानुरःस्थले ।
एत्य दातुं प्रववृते तस्याजय्यः सुरैरपि ।। १६०
मत्वा तं दुर्जयं देवं सोऽथ स्तुतिभिरर्चितुम् ।
राजा कनकवर्षस्तद्विषह्यैवोपचक्रमे ।। १६१
नमः सर्वार्थसंसिद्धिनिधिकुम्भोपमात्मने ।
लम्बोदराय विघ्नेश व्यालालंकरणाय ते ।। १६२
लीलोत्क्षिप्तकराघातविधुतासनपङ्कजम् ।
ब्रह्माणमपि सोत्कम्पं कुर्वञ्जय गजानन ।। १६३
सुरासुरमुनीन्द्राणामपि सन्ति न सिद्धयः ।
अतुष्टे त्वयि लोकैकशरण्ये शंकरप्रिय ।। १६४
घटोदरः शूर्पकर्णो गणाध्यक्षो मदोत्कटः ।
पाशहस्तोऽम्बरीषश्च जम्बकस्त्रिशिखायुधः ।। १६५
एवमाद्यैः स्तुवन्ति स्म पापघ्नैरष्टषष्टिभिः ।
तत्संख्यस्थाननियतैर्नामभिस्त्वां सुरोत्तमाः ।। १६६
स्मरतः स्तुवतश्च त्वां विनश्यति भयं प्रभो ।
रणराजकुलद्यूतचौराग्निश्वापदादिजम् ।। १६७
इति स्तुतिपदैरेतैरन्यैर्बहुविधैश्च सः ।
नृपः कनकवर्षस्तं विघ्नेश्वरमपूजयत् ।। १६८
तुष्टोऽस्मि न करिष्यामि विघ्नं ते पुत्रमाप्नुहि ।
इत्युक्त्वान्तर्दधे तत्र राज्ञस्तस्य स विघ्नजित् ।। १६९
ततः स्वामिकुमारस्तं तद्धाराधारिणं नृपम् ।
उवाच धीर तुष्टोऽस्मि तव याचस्व तद्वरम् ।। १७०
तच्छ्रुत्वा स प्रहृष्टस्तं देवं राजा व्यजिज्ञपत् ।
त्वत्प्रसादेन मे नाथ सूनुरुत्पद्यतामिति ।। १७१
एवमस्तु सुतो भावी भवतो मद्गणांशजः ।
नाम्ना हिरण्यवर्षश्च भविष्यति स भूपते ।। १७२
इत्युक्त्वा गर्भगेहान्तः प्रवेशाय तमाह्वयत् ।
सविशेषप्रसादेप्सुर्नृपतिं बर्हिवाहनः ।। १७३
तेनादृश्यास्य निरगान्नागी देहान्नृपस्य सा ।
विशन्ति शापभीता हि न कुमारगृहं स्त्रियः ।। १७४
ततः कनकवर्षोऽसौ स्वेन मानुषतेजसा ।
विवेश गर्भभवनं तस्य देवस्य पावकेः ।। १७५
स तं नाग्यनधिष्ठानात्पूर्वतेजोविनाकृतम् ।
दृष्ट्वा नृपं किमेतत्स्यादिति देवोऽप्यचिन्तयत् ।। १७६
ज्ञात्वा नागीबलव्याजनिर्व्यूढविषमव्रतम् ।
प्रणिधानाच्च तं क्रुद्धः शशाप स नृपं गुहः ।। १७७
व्याजस्त्वया कृतो यस्मादतो जातेन सूनुना ।
महादेव्या च दुर्दान्त वियोगस्ते भविष्यति ।। १७८
निर्घातदारुणं श्रुत्वा शापमेतं स भूपतिः ।
सूक्तैस्तुष्टाव तं देवं मोहं मुक्त्वा महाकविः ।। १७९
स सुभाषिततुष्टोऽथ षण्मुखस्तमभाषत ।
राजंस्तुष्टोऽस्मि सूक्तैस्ते शापान्तं तत्र वच्मि तत् ।। १८०
भविष्यत्यब्दमेकं ते पत्नीपुत्रवियुक्तता ।
मुक्तोऽपमृत्युत्रितयात्तौ च प्राप्स्यस्यतः परम् ।। १८१
इत्युक्त्वा विरतालापे षण्मुखे स प्रणम्य तम् ।
तत्प्रसादसुधातृप्तो राजा स्वपुरमाययौ ।। १८२
तत्र तस्यामृतस्यन्दो ज्योत्स्नायामिव शीतगोः ।
देव्यां मदनसुन्दर्यां क्रमात्सूनुरजायत ।। १८३
दृष्ट्वा सुतमुखं सोऽथ राजा राज्ञी च सा मुहुः ।
अत्यानन्दसमायुक्ते नावर्तेतां तदात्मनि ।। १८४
तत्कालं चोत्सवं चक्रे वसु वर्षन्स भूपतिः ।
निजां कनकवर्षाख्यां नयन्भुवि यथार्थताम् ।। १८५
पञ्चरात्रे गते षष्ठ्यां रजनौ जातवेश्मनि ।
कृते रक्षाविधौ तत्र मेघोऽशङ्कितमागतः ।। १८६
तेन वृद्धिमवाप्तेन तत्रावव्रे नभः क्रमात् ।
शत्रुणोपेक्षितेनेव राज्यं राज्ञः प्रमादिनः ।। १८७
मदस्येव क्षिपन्धारा वर्षस्योन्मूलितद्रुमः ।
ततो धावितुमारेभे वातमत्तमतङ्गजः ।। १८८
तत्क्षणं सार्गलमपि द्वारमुद्घाट्य भीषणा ।
स्त्री कापि क्षुरिकाहस्ता जातवेश्म विवेश तत् ।। १८९
सा तं मदनसुन्दर्याः स्तनासक्तमुखं सुतम् ।
हृत्वा देव्याः प्रदुद्राव संमोह्यैव परिच्छदम् ।। १९०
हा हा हृतो मे राक्षस्या सुत इत्यथ विह्वला ।
क्रन्दन्ती चान्वधावत्तां राज्ञी सा स्त्रीं तमस्यपि।।१९१
सा च गत्वा पपात स्त्री सरस्यन्तः सबालका।
राज्ञी चान्वपतत्सापि तत्रैवापत्यतृष्णया ।। १९२
क्षणान्मेघो निववृते जगामान्तं च यामिनी ।
जातवेश्मनि चाक्रन्दः परिवारस्य शुश्रुवे ।। १९३
राजा कनकवर्षोऽथ तच्छ्रुत्वा जातवासकम् ।
एत्य पुत्रप्रियाशून्यं दृष्ट्वा मोहं जगाम सः ।। १९४
समाश्वस्य च हा देवि हा पुत्रक शिशो इति ।
विलपन्नथ सस्मार शापं तं वत्सरावधिम् ।। १९५
भगवञ्शापसंपृक्तो मन्दपुण्यस्य मे वरः ।
कथं स्कन्द त्वया दत्तः सविषामृतसंनिभः ।। १९६
हाहा युगसहस्राभं कथं नेष्यामि वत्सरम् ।
देव्या मदनसुन्दर्या जीविताधिकया विना ।। १९७
इत्याक्रन्दंश्च स ज्ञातवृत्तान्तैर्मन्त्रिभिर्नृपः ।
बोध्यमानोऽपि न प्राप देव्या सह गतां धृतिम् ।। १९८
क्रमाच्च मदनावेगविवशो निर्गतः पुरात् ।
विवेश विन्ध्यकान्तारमुन्मनीभूय स भ्रमन् ।। १९९
तत्र बालमृगीनेत्रैः प्रियाया लोचनश्रियम् ।
कबरीभारसौन्दर्यं चमरीवालसंचयैः ।। २००
दृष्टैः करिकरेणूनां गतैर्मन्थरतां गतेः ।
स्मरतस्तस्य जज्वाल सुतरां मदनानलः ।। २०१
भ्राम्यंस्तृष्णातपक्लान्तो विन्ध्यपादमवाप्य सः ।
पीतनिर्झरपानीयस्तरुमूल उपाविशत् ।। २०२
तावद्गुहामुखाद्विन्ध्यस्याट्टहास इवोन्नदन् ।
सिंहः सटालो निर्गत्य हन्तुमभ्युत्पपात तम् ।। २०३
तत्क्षणं गगनायातः कोऽपि विद्याधरो जवात् ।
निपत्यासिप्रहारेण सिंहं तमकरोद्द्विधा ।। २०४
समीपमेत्य चापृच्छद्राजानं तं स खेचरः ।
राजन्कनकवर्षैवं प्राप्तोऽस्येतां कथं भुवम् ।। २०५
तच्छ्रुत्वा संस्मृतिं लब्धा स राजा प्रत्युवाच तम् ।
विरहानलविक्षिप्तं कुतस्त्वं वेत्सि मामिति ।। २०६
ततो विद्याधरोऽवादीदहं प्रव्राजको भवन् ।
मानुषो बन्धुमित्त्राख्यस्त्वत्पुरे न्यवसं पुरा ।। २०७
सेवया प्रार्थितेनात्र त्वया साहायके कृते ।
विद्याधरत्वं प्राप्तोऽस्मि वीरवेतालसाधनात् ।। २०८
तेन त्वां प्रत्यभिज्ञाय कर्तुं ते प्रत्युपक्रियाम् ।
त्वज्जिघांसुरयं दृष्ट्वा सिंहो व्यापादितो मया ।। २०९
नाम्ना बन्धुप्रभश्चाद्य संवृत्तोऽस्मीति वादिनम् ।
राजा कनकवर्षस्तं जातप्रीतिरभाषत ।। २१०
हन्त स्मरामि सा चेह मैत्री निर्वाहिता त्वया ।
तद्ब्रूहि मे कदा भावी भार्यापुत्रसमागमः ।। २११
इति तस्य वचः श्रुत्वा बुद्ध्वा विद्याप्रभावतः ।
विद्याधरोऽब्रवीद्बन्धुप्रभस्तं स महीभृतम् ।। २१२
दृष्टया विन्ध्यवासिन्या पत्नीपुत्रौ त्वमाप्स्यसि ।
तत्तत्र गच्छ सिद्ध्यै त्वं स्वलोकं च व्रजाम्यहम् ।। २१३
इत्युक्त्वा खं गते तस्मिन्राजा लब्धधृतिः शनैः ।
प्रायात्कनकवर्षोऽसौ द्रष्टुं तां विन्ध्यवासिनीम् ।। २१४
गच्छन्तमभ्यधावत्तं नृपं वन्यो महान्पथि ।
आधूतमस्तको मत्तः प्रसारितकरः करी ।। २१५
तं दृष्ट्वा श्वभ्रमार्गेण स राजापासरत्तथा ।
यथानुधावन्स गजो विपेदे श्वभ्रपाततः ।। २१६
ततः सोऽध्वश्रमायासक्लान्तो राजा व्रजन्क्रमात् ।
उद्दण्डपुण्डरीकाढ्यं प्रापदेकं महत्सरः ।। २१७
तत्र खात्वा च पीत्वा च जलं जग्धमृणालकः ।
विश्रान्तः पादपतले क्षणं जह्रे स निद्रया ।। २१८
तावच्च तेन मृगयानिवृत्ताः शबराः पथा ।
आगता ददृशुः सुप्तं तं राजानं सुलक्षणम् ।। २१९
ते च देव्युपहारार्थं बद्ध्वा निन्युस्तदैव तम् ।
स्वस्य मुक्ताफलाख्यस्य पार्श्वं शबरभूभृतः ।। २२०
सोऽप्येनं शबराधीशः प्रशस्तं वीक्ष्य नीतवान् ।
केतनं विन्ध्यवासिन्याः पशूकर्तुं नराधिपम् ।। २२१
दृष्ट्वैव च स देवीं तां प्रणमंस्तदनुग्रहात् ।
राजा स्कन्दप्रसादाच्च बभूव स्रस्तबन्धनः ।। २२२
तदालोक्याद्भुतं मत्वा तस्य तं देव्यनुग्रहम् ।
मुमोच तं स राजानं शबराधिपतिर्वधात् ।। २२३
एवं कनकवर्षस्य तृतीयादपमृत्युतः ।
अतिक्रान्तस्य तस्याभूत्पूर्णं तच्छापवत्सरम् ।। २२४
तावच्च तस्य सा नागी राज्ञो मदनसुन्दरीम् ।
देवीं सपुत्रामादाय तत्रैवागात्पितृष्वसा ।। २२५
जगाद तं च भो राजञ्ज्ञातकौमारशापया ।
एतौ ते रक्षितौ युक्त्वा नीत्वा स्वभवनं मया ।। २२६
तस्मात्कनकवर्ष स्वौ गृहाणैतौ प्रियासुतौ ।
भुङ्क्ष्वेदं पृथिवीराज्यं क्षीणशापोऽधुना ह्यसि ।। २२७
इत्युक्त्वा प्रणतं सा तं नृपं नागी तिरोदधे ।
नृपोऽपि स्वप्नमिव तन्मेने भार्यासुतागमम् ।। २२८
ततोऽस्य राज्ञो राज्ञ्याश्च चिरादाश्लिष्टयोर्मिथः ।
अगलद्विरहक्लेशो हर्षबाष्पाम्बुभिः सह ।। २२९
ततः कनकवर्षं तं बुद्ध्वा पृथ्वीपतिं प्रभुम् ।
मुक्ताफलोऽपतत्तस्य शबरेन्द्रः स पादयोः ।। २३०
क्षमयित्वा च पल्लीं स्वां प्रवेश्य च निजोचितैः ।
तैस्तैः ससुतदारं तमुपचारैरुपाचरत् ।। २३१
सोऽथ तत्र स्थितो राजा दूतैरानाययन्नृपम् ।
श्वशुरं देवशक्तिं तं स्वसैन्यं च निजात्पुरात् ।। २३२
अथास्थितकरेणुका मदनसुन्दरी तां प्रियां सुतं च शरजन्मनोदितहिरण्यवर्षाभिधम् ।
विधाय पुरतस्ततः श्वशुरवेश्मवासादितश्चचाल स तदन्वितः कनकवर्षपृथ्वीपतिः ।। २३३
अवाप च स वासरैः कतिपयैर्गृहं श्वाशुरं विदर्भविषयाश्रितं तदथ कुण्डिनाख्यं पुरम् ।
समृद्धिमति तत्र च श्वशुरसत्कृतः कानिचिद्दिनान्यभजत स्थितिं तनयदारसेनायुतः ।। २३४
प्रस्थाय ततश्च शनैः कनकपुरं प्राप्तवान्निजं नगरम् ।
पौरवधूजननयनैश्चिरोत्सुकैः पीयमान इव ।। २३५
अविशच्च राजधानीं सुतसहितो मदनसुन्दरीयुक्तः ।
उत्सव इव विग्रहवान्प्रमोदशोभान्वितः स नृपः ।। २३६
अभिषिच्य बद्धपट्टां तत्र च तां मदनसुन्दरीमकरोत् ।
सर्वान्तःपुरमुख्यामभ्युदये मानितप्रकृतिः ।। २३७
देव्या तया सह सुतेन च तेन बद्धनित्योत्सवः पुनरदृष्टवियोगदुःखः ।
निष्कण्टकं कनकवर्षनरेश्वरोऽथ भूमण्डलं सचतुरन्तमिदं शशास ।। २३८
इति गोमुखतः स्वमन्त्रिमुख्याद्रुचिरां तत्र कथामिमां निशम्य ।
नरवाहनदत्तराजपुत्रः सदलंकारवतीयुतस्तुतोष ।। २३९
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलंकारवतीलम्बके पञ्चमस्तरङ्गः ।