प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ततः स गोमुखाख्यातकथातुष्टः प्रियासखः ।
दृष्ट्वा सकोपविकृतिं मरुभूतिं तदीर्ष्यया ।। १
नरवाहनदत्तस्तं निजगादानुरञ्जयन् ।
मरुभूते त्वमप्येकां किं नाख्यासि कथामिति ।। २
ततः स बाढमाख्यामीत्युक्त्वा तुष्टेन चेतसा ।
समाख्यातुं कथामेतां मरुभूतिः प्रचक्रमे ।। ३
चन्द्रस्वामीत्यभूत्पूर्वं राज्ञः कमलवर्मणः ।
नगरे देव कमलपुराख्ये ब्राह्मणोत्तमः ।। ४
तस्य लक्ष्मीसरस्वत्योस्तृतीया विनयोज्ज्वला ।
भार्या देवमतिर्नाम समाना सुमतेरभूत् ।। ५
तस्यां तस्य च विप्रस्य पत्न्यां जले सुलक्षणः ।
पुत्रः स यस्य जातस्य वागेवमुदगाद्दिवः ।। ६
चन्द्रस्वामिन्महीपालो नाम्ना कार्यः सुतस्त्वया ।
राजा भूत्वा चिरं यस्मात्पालयिष्यत्ययं महीम् ।। ७
एतद्दिव्यं वचः श्रुत्वा स महीपालमेव तम् ।
चन्द्रस्वामिसुतं नाम्ना चकार रचितोत्सवः ।। ८
क्रमाच्च स महीपालो विवृद्धो ग्राहितोऽभवत् ।
शस्त्रास्त्रवेदं विद्यासु समं सर्वासु शिक्षितः ।। ९
तावच्च सुषुवे तस्य सा चन्द्रस्वामिनः पुनः ।
भार्या देवमतिः कन्यां सर्वावयवसुन्दरीम् ।। १०
सा च चन्द्रवती नाम महीपालः स च क्रमात् ।
भ्रातरौ ववृधाते तौ स्वपितुस्तस्य वेश्मनि ।। ११
अथावृष्टिकृतस्तत्र देशे दुर्भिक्षविप्लवः ।
उदपद्यत दग्धेषु सस्येषु रविरश्मिभिः ।। १२
तद्दोषेण च राजात्र प्रारेभे तस्करायितुम् ।
अधर्मेण प्रजाभ्योऽर्थमाकर्षन्मुक्तसत्पथः ।। १३
ततोऽवसीदत्यत्यर्थं देशे तस्मिन्नुवाच सा ।
भार्या देवमतिर्विप्रं चन्द्रस्वामिनमत्र तम् ।। १४
आगच्छ मत्पितृगृहं व्रजामो नगरादितः ।
एते ह्यपत्ये नश्येतामावयोरिह जातुचित् ।। १५
तच्छ्रुत्वा तां स वक्ति स्म चन्द्रस्वामी स्वगेहिनीम् ।
मैवं पापं महद्गेहाद्दुर्भिक्षे हि पलायनम् ।। १६
तदहं बालकावेतौ नीत्वा त्वत्पितृवेश्मनि ।
स्थापयामि त्वमास्वेह शीघ्रं चैष्याम्यहं पुनः ।। १७
इत्युक्त्वा स्थापयित्वा तां तथेत्युक्तवती गृहे ।
भार्या स चन्द्रस्वामी तौ गृहीत्वा दारकौ निजौ ।। १८
महीपालं च तं तां च कन्यां चन्द्रवतीमुभौ ।
ततः प्रतस्थे नगरात्पत्नीं पितृगृहं प्रति ।। १९
गच्छन्क्रमात्त्रिचतुरैर्दिनैः प्राप महाटवीम् ।
अर्कांशुतप्तसिकतां विशुष्कविरलद्रुमाम् ।। २०
तस्यां तृषाभिभूतौ तौ स्थापयित्वा स दारकौ ।
चन्द्रस्वामी ययौ दूरमन्वेष्टुं वारि तत्कृते ।। २१
तत्र तस्याययावग्रे सानुगः शबराधिपः ।
अकस्मात्सिंहदंष्ट्राख्यः कार्याय प्रस्थितः क्वचित् ।। २२
स तं दृष्ट्वात्र पृष्ट्वा च बुद्ध्वा भिल्लो जलार्थिनम् ।
संज्ञां कृत्वाब्रवीद्भृत्यान्नीत्वाम्भः प्राप्यतामयम् ।। २३
तच्छ्रुत्वा तस्य भृत्यास्ते द्वित्रा लब्धाशया ऋजुम् ।
ते चन्द्रस्वामिनं पल्लीं नीत्वा बद्धमकुर्वत ।। २४
नरोपहारायात्मानं तेभ्यो बुद्ध्वा स संयतम् ।
चन्द्रस्वामी शुशोच स्वौ दारकावटवीगतौ ।। २५
हा महीपाल हा वत्से चन्द्रवत्यपदे कथम् ।
मयारण्ये युवां त्यक्त्वा सिहव्याघ्रामिषीकृतौ ।। २६
आत्मा च घातितश्चौरैर्न चास्ति शरणं मम ।
इत्याक्रन्दन्स विप्रोऽर्कं व्योम्न्यपश्यदसंमदात् ।। २७
हन्त मोहं विहायैतं स्वं प्रभुं शरणं श्रये ।
इत्यालोच्य द्विजः सूर्यं स स्तोतुमुपचक्रमे ।। २८
तुभ्यं परापराकाशशायिने ज्योतिषे विभो ।
आभ्यन्तरं च बाह्यं च तमः प्रणुदते नमः ।। २९
त्वं विष्णुस्त्रिजगद्व्यापी त्वं शिवः श्रेयसां निधिः ।
सुप्तं विचेष्टयन्विश्वं परमस्त्वं प्रजापतिः ।। ३०
अप्रकाशौ प्रकाशेतामेतावित्यग्निचन्द्रयोः ।
न्यस्तात्मतेजा दययेवान्तर्धि यासि यामिनीम् ।। ३१
विद्रवन्त्यपि रक्षांसि प्रभवन्ति न दस्यवः ।
प्रमोदन्ते च गुणिनो भास्वन्नभ्युदिते त्वयि ।। ३२
तद्रक्ष शरणापन्नं त्रैलोक्यैकप्रदीप माम् ।
इदं दुःखान्धकारं मे विदारय दयां कुरु ।। ३३
इत्यादिभिस्तदा वाक्यैर्भक्त्या स्तुतवतो रविम् ।
चन्द्रस्वामिद्विजस्यास्य गगनादुच्चचार वाक् ।। ३४
तुष्टोऽस्मि चन्द्रस्वामिंस्ते न त्वं वधमवाप्स्यसि ।
मत्प्रसादाच्च पुत्रादिसंगमस्ते भविष्यति ।। ३५
इत्युक्तो दिव्यया वाचा जातास्थस्तत्र तस्थिवान् ।
चन्द्रस्वामी स शबरोपाहृतस्नानभोजनः ।। ३६
तावच्च तं महीपालं स्वस्रा युक्तमरण्यगम् ।
पितर्यनायत्याक्रन्दविधुरं शङ्किताशुभम् ।। ३७
ददर्श तेन मार्गेण सार्थवाहः समागतः ।
महान्सार्थधरो नाम वृत्तान्तं पृच्छति स्म च ।। ३८
स तमाश्वास्य कृपया शिशुं दृष्ट्वा सुलक्षणम् ।
सार्थवाहो निनाय स्वं देशं स्वसृसखं ततः ।। ३९
तत्रासीत्स महीपालो बाल्येऽप्यग्निक्रियारतः ।
सदने तस्य वणिजः पुत्रस्नेहेन पश्यतः ।। ४०
एकदा नृपतेर्मन्त्री तारापुरनिवासिनः ।
ताराधर्माभिधानस्य कार्यात्तेनागतः पथा ।। ४१
विवेश सार्थवाहस्य तस्य मित्त्रं द्विजोत्तमः ।
गृहाननन्तस्वामीति सहस्त्यश्वपदातिकः ।। ४२
स विश्रान्तोऽत्र तं दृष्ट्वा महीपालं शुभाकृतिम् ।
जपाग्निकार्यादिरतं वृत्तान्तं परिपृच्छ्य च ।। ४३
अनपत्यो विदित्वा च सवर्णं सार्थवाहतः ।
तस्माद्ययाचेऽपत्यार्थी मन्त्री तद्भगिनीं च ताम् ।। ४४
ततस्तौ तेन वैश्येन दत्तावादाय दारकौ ।
सार्थवाहेन सोऽनन्तस्वामी तारापुरं ययौ ।। ०५५
तत्र पुत्रीकृतस्तेन महीपालः स मन्त्रिणा ।
तस्थौ तद्भवनेऽप्यस्य विद्याविपुलसंपदि ।। ४६
अत्रान्तरे च बद्धं तं चन्द्रस्वामिनमेत्य सः ।
भिल्लाधिपः सिंहदंष्ट्रः पल्ल्यां तस्यामभाषत ।। ४७
ब्रह्मन्स्वप्नेऽहमादिष्टस्तथा देवेन भानुना ।
यथा संपूज्य मोक्तव्यो न हन्तव्यो मया भवान् ।। ४८
तदुत्तिष्ठ व्रज स्वेच्छमित्युक्त्वा स मुमोच तम् ।
प्रत्तमुक्तामृगमदं क्लृप्तारण्यानुयात्रिकम् ।। ४९
सोऽथ मुक्तस्ततश्चन्द्रस्वामी तमनुजायुतम् ।
अप्राप्यारण्यतः पुत्रं महीपालं गवेषयन् ।। ५०
भ्रमन्नब्धेस्तटे प्राप्य नाम्ना जलपुरं पुरम् ।
प्रविवेशातिथिर्भूत्वा गृहं विप्रस्य कस्यचित् ।। ५१
तत्र भुक्तोत्तराख्यातस्ववृत्तान्तं प्रसङ्गतः ।
तं स विप्रो गृहपतिश्चन्द्रस्वामिनमभ्यधात् ।। ५२
वणिक्कनकवर्माख्योऽतीतेष्वागाद्दिनेष्विह ।
तेनाटव्यां स्वसृसखः प्राप्तो ब्राह्मणदारकः ।। ५३
तौ चादायातिभव्यौ द्वौ दारकौ स इतो गतः ।
नारिकेलमहाद्वीपे नोक्तं तन्नाम तेन तु ।। ५४
तच्छ्रुत्वा मामकावेव नूनं ताविति चिन्तयन् ।
चन्द्रस्वामी मतिं चक्रे गन्तुं द्वीपवरं स तम् ।। ५५
नीत्वा च रात्रिमन्विष्य वणिजा विष्णुवर्मणा ।
स व्यधात्संगतिं द्वीपं नारिकेलं प्रयास्यता ।। ५६
तेनैव च सहारुह्य यानपात्रं जगाम सः ।
चन्द्रस्वामी सुतस्नेहाद्द्वीपमब्धिपथेन तम् ।। ५७
तत्र प्रच्छन्तमूचुस्तं वणिजस्तन्निवासिनः ।
वणिक्कनकवर्माख्यः काममासीदिहागतः ।। ५८
सुरूपावटवीप्राप्तावादाय द्विजदारकौ ।
गतः कटाहद्वीपं तु तद्युक्तः स इतोऽधुना ।। ५९
तच्छ्रुत्वा स ततो विप्रो वणिजा दानवर्मणा ।
पोतेन गच्छता साकं कटाहद्वीपमभ्यगात् ।। ६०
तत्रापि स द्विजोऽश्रौषीद्गतं तं वणिजं ततः ।
द्वीपात्कनकवर्माणं द्वीपं कर्पूरसंज्ञकम् ।। ६१
एवं क्रमेण कर्पूरसुवर्णद्वीपसिंहलान् ।
वणिग्भिः सह गत्वापि तं प्राप वणिजं न सः ।। ६२
सिंहलेभ्यस्तु शुश्राव गतं तं वणिजं निजम् ।
देशं कनकवर्माणं चित्रकूटाभिधं पुरम् ।। ६३
ततः कोटीश्वराख्येन वणिजा स समं ययौ ।
चन्द्रस्वामी चित्रकूटं तत्पोतोत्तीर्णवारिधिः ।। ६४
तस्मिन्कनकवर्माणं वणिजं तमवाप सः ।
आचख्यौ चाखिलं तस्मै स्वोदन्तं दारकोत्सुकः ।। ६५
ततः कनकवर्मा तौ ज्ञातार्तिः सोऽस्य दारकौ ।
दर्शयामास यौ तेन लब्ध्वा नीतावरण्यतः ।। ६६
चन्द्रस्वामी च तौ यावद्वीक्षते दारकावुभौ ।
तावन्नैव तदीयौ तौ तावन्यावेव कौचन ।। ६७
ततः सबाष्पं शोकार्तो निराशो विललाप सः ।
इयद्भ्रान्त्वापि हा प्राप्तो न पुत्रो न सुता मया ।। ६८
धात्रा कुप्रभुणेवाशा दर्शिता मे न पूरिता ।
भ्रामितोऽस्मि च मिथ्यैव दूराद्दूरं दुरात्मना ।। ६९
इत्यादि शोचन्वणिजा क्रमात्कनकवर्मणा ।
आश्वासितः स तेनाथ चन्द्रस्वामी शुचाब्रवीत् ।। ७०
वत्सरेणात्मजौ तौ चेन्न प्राप्स्यामि भुवं भ्रमन् ।
ततस्त्यक्ष्यामि तपसा गङ्गातीरे शरीरकम् ।। ७१
इत्युक्तवन्तं तत्रस्थो ज्ञानी कोऽपि तमभ्यधात् ।
नारायण्याः प्रसादात्तौ प्राप्स्यस्येवात्मजौ व्रज ।। ७२
तच्छ्रुत्वा स प्रहृष्टात्मा भास्करानुग्रहं स्मरन् ।
वणिग्भिः पूजितः प्रायाच्चन्द्रस्वामी पुरात्ततः ।। ७३
ततोऽग्रहारान्ग्रामांश्च चिन्वन्स नगराणि च ।
भ्रमन्प्रापैकदा सायं वनं प्रांशुबहुद्रुमम् ।। ७४
तत्र क्षपयितुं रात्रिं कृत्वा वृत्तिं फलाम्बुभिः ।
स तस्थौ तरुमारुह्य सिंहव्याघ्रादिशङ्कया ।। ७५
अनिद्रश्च निशीथेऽत्र ददर्श स तरोरधः ।
महन्नारायणीमुख्यं मातृचक्रं समागतम् ।। ७६
उपहारान्समाहृत्य नानारूपान्निजोचितान् ।
प्रतीक्षमाणं देवस्य भैरवस्य किलागमम् ।। ७७
चिरयत्यद्य किं देव इति तत्र च मातरः ।
नारायणीमथापृच्छन्सा जहास तु नाब्रवीत् ।। ७८
अतिनिर्बन्धपृष्टा च ताभिस्ताः प्रत्युवाच सा ।
लज्जावहं यदप्येतत्सख्यस्तदपि वच्म्यहम् ।। ७९
अस्तीह सुरसेनाख्यो राजा सुरपुरे पुरे ।
तस्य विद्याधरी नाम ख्यातरूपास्ति चात्मजा ।। ८०
प्रदेयायाश्च तेनास्या राज्ञा रूपसमः श्रुतः ।
विमलाख्यस्य तनयो राज्ञो नाम्ना प्रभाकरः ।। ८१
तस्मै दित्सति तां तस्मिन्राज्ञि तेनापि सा श्रुता ।
विमलेन सुता तस्य निजपुत्रानुरूपिका ।। ८२
ततः स विमलस्तस्मात्सुरसेनादयाचत ।
विद्याधरीं दूतमुखात्पुत्रार्थे तां तदात्मजाम् ।। ८३
सोऽप्यपेक्षितसंपत्त्या तत्सुताय सुतामदात् ।
प्रभाकराय तस्मै तां सुरसेनो यथाविधि ।। ८४
ततः सा प्राप्य विमलपुराख्यं श्वाशुरं पुरम् ।
विद्याधरी समं भर्त्रा शयनीयमगान्निशि ।। ८५
तत्रासंभोगसुप्तं सा पतिं सोत्का प्रभाकरम् ।
यावन्निरीक्षते तावत्तमपश्यन्नपुंसकम् ।। ८६
हा हतास्मि कथं षण्ढः पतिः प्राप्तो मयेति सा ।
शोचन्ती चेतसा रात्रिं राजपुत्री निनाय ताम् ।। ८७
नपुंसकाय दत्ताहमनन्विष्य कथं त्वया ।
इति लेखं लिखित्वा च पित्रे सा प्राहिणोत्ततः ।। ८८
स लेखं वाचयित्वैव विमलेनास्मि वञ्चितः ।
छद्मनेत्यगमत्क्रोधं तत्पिता विमलं प्रति ।। ८९
सुतां नपुंसकायाहं यद्व्याजाद्दापितस्त्वया ।
पुत्राय तत्फलं भुङ्क्ष्व पश्य त्वामेत्य हन्म्यहम् ।। ९०
इति तस्मै स्वलेखेन संदिदेश स भूपतिः ।
सुरसेनो बलोद्रिक्तो विमलाय महीक्षिते ।। ९१
विमलश्चाधिगत्यैतं तल्लेखार्थं समन्त्रिकः ।
विमृशन्दुर्जये तस्मिन्नोपायं कंचिदैक्षत ।। ९२
ततस्तं पिङ्गदत्ताख्यो मन्त्री विमलमभ्यधात् ।
एक एवास्त्युपायोऽत्र तं देव श्रेयसे कुरु ।। ९३
अस्ति स्थूलशिरा नाम यक्षस्तस्य च वेद्म्यहम् ।
मन्त्रमाराधनं येन वरमिष्टं ददाति सः ।। ९४
तेनोपात्तेन मन्त्रेण यक्षमाराध्य संप्रति ।
लिङ्गं याचस्व पुत्रार्थं सद्यः शाम्यतु विग्रहः ।। ९५
इत्युक्तो मन्त्रिणा तस्मान्मन्त्रमादाय तं नृपः ।
सुतार्थं यक्षमाराध्य स तं लिङ्गमयाचत ।। ९६
तेन संप्रति दत्ते च लिङ्गे यक्षेण तत्सुतः ।
पुमान्प्रभाकरः सोऽभूद्यक्षस्त्वासीन्नपुसंकः ।। ९७
सा तु विद्याधरी दृष्ट्वा पुमांसं तं प्रभाकरम् ।
तेन पत्या सहावाप्तरतसौख्या व्यचिन्तयत् ।। ९८
भ्रान्ताहं मददोषेण न मे भर्ता नपुंसकः ।
पुमानेवैष सुभगो नात्र कार्यान्यथा मतिः ।। ९९
इत्यालोच्यैनमेवार्थं लिखित्वा लज्जिता पुनः ।
पित्रे सा प्राहिणोल्लेखं शमं भेजे च तेन सः ।। १००
एतं ज्ञात्वा च वृत्तान्तं भैरवेणाद्य कुप्यता ।
आनाय्य स स्थूलशिराः शप्तो देवेन गुह्यकः ।। १०१
लिङ्गत्यागेन षण्ढत्वमाश्रितं यत्त्वया ततः ।
षण्ढ एव भवाजीवं पुमान्सोऽस्तु प्रभाकरः ।। १०२
एव नपुंसकीभूतो गुह्यकः सोऽद्य दुःखभाक् ।
प्रभाकरश्च पुरुषीभूतो भोगसुखाय सः ।। १०३
तदेतेनाद्य कार्येण देवस्यागमने मनाक् ।
जातो विलम्बः क्षिप्राच्च जानीतागतमेव तम् ।। १०४
इति नारायणी देवी मातृर्यावद्ब्रवीति सा ।
देवश्चक्रेश्वरस्तावदाययौ सोऽत्र भैरवः ।। १५
संपूजितश्च सर्वाभिरुपहारैः स मातृभिः ।
ताण्डवेन क्षणं नृत्यन्नक्रीडद्योगिनीसखः ।। १०६
तच्च सर्वं तरोः पृष्ठाच्चन्द्रस्वामी विलोकयन् ।
नारायण्या ददर्शैकां दासीं सापि तमैक्षत ।। १०७
अन्योन्यसाभिलाषौ च दैवाद्वौ तौ बभूवतुः ।
सा च नारायणी देवी तथाभूतौ विवेद तौ ।। १०८
गतेऽथ मातृसहिते भैरवे सा विलम्ब्य तम् ।
नारायणी पादपस्थं चन्द्रस्वामिनमाह्वयत् ।। १०९
अवरुह्यागतं तं च स्वदासीं तां च सा ततः ।
पप्रच्छ कच्चिदन्योन्यमभिलाषोऽस्ति वामिति ।। ११०
अस्ति देवीति विज्ञप्ता ताभ्यां तथ्यं ततश्च सा ।
देवी विमुक्तकोपा तं चन्द्रस्वामिनमभ्यधात् ।। १११
सत्येनोक्तेन तुष्टाहं युवयोर्न शपामि वाम् ।
ददाम्येतां तु दासीं ते भवतं निर्वृतौ युवाम् ।। ११२
तच्छ्रुत्वा सोऽब्रवीद्विप्रो देवि यद्यपि चञ्चलम् ।
मनो रुणध्मि तदपि स्पृशामि न परस्त्रियम् ।। ११३
मनसः प्रकृतिर्ह्येषा रक्ष्यं पापं तु कायिकम् ।
इत्यूचिवांसं तं धीरं विप्रं देवी जगाद सा ।। ११४
प्रीतास्मि ते वरश्चायं पुत्रादीञ्शीघ्रमाप्स्यसि ।
इदं चोत्पलमम्लायि विषादिघ्नं गृहाण मे ।। ११५
इत्युक्त्वा नीरजं दत्त्वा चन्द्रस्वामिद्विजस्य सा ।
नारायणी सदासीका देवी तस्य तिरोदधे ।। ११६
स च प्राप्तोत्पलो रात्रौ क्षीणायां प्रस्थितस्ततः ।
तारापुरं तन्नगरं प्राप विप्रः परिभ्रमन् ।। ११७
यत्रास्य स स्थितः पुत्रो महीपालः सुता च सा ।
अनन्तस्वामिनस्तस्य गृहे विप्रस्य मन्त्रिणः ।। ११८
तत्र गत्वा स तस्यैव मन्त्रिणो भोजनेप्सया ।
द्वारे प्राध्ययनं चक्रे श्रुत्वा तमतिथिं प्रियम् ।। ११९
स च मन्त्री प्रतीहारैरावेद्यान्तः प्रवेशितम् ।
न्यमन्त्रयत दृष्ट्वैव विद्वांसं भोजनाय तम् ।। १२०
निमन्त्रितोऽथ स श्रुत्वा तत्र पापहरं सरः ।
चन्द्रस्वामी ययौ स्नातुमनन्तह्रदसंज्ञकम् ।। १२१
आगच्छति ततः स्नात्वा यावत्तावत्समन्ततः ।
हाकष्टशब्दं शुश्राव नगरे तत्र स द्विजः ।। १२२
तत्कारणं च पृच्छन्तं तमेवमवदज्जनः ।
इह स्थितो महीपालो नाम ब्राह्मणपुत्रकः ।। १२३
अटव्याः सार्थवाहेन प्राप्तः सार्थधरेण सः ।
तस्मात्सुलक्षणो दृष्ट्वा याचित्वा भगिनीसखः ।। १२४
अनन्तस्वामिना यत्नादिहानीतः स मन्त्रिणा ।
पुत्रीकृतश्चापुत्रेण स तेन प्रियतां गतः ।। १२५
तारावर्मनृपस्येह राष्ट्रस्यास्य च सद्गुणः ।
सोऽद्य कृष्णाहिना दष्टस्तेन हाहारवः पुरे ।। १२६
एतच्छ्रुत्वा स एवैष मत्पुत्र इति चिन्तयन् ।
आययौ त्वरितश्चन्द्रस्वामी मन्त्रिगृहं स तत् ।। १२७
तत्र सर्वैर्वृतं दृष्ट्वा परिज्ञाय च तं सुतम् ।
नन्दति स्म स हस्तस्थदेवीदत्तागदोत्पलः ।। १२८
अढौकयच्च नासायां महीपालस्य तस्य तत् ।
नीलोत्पलं तदैवाभूत्तद्गन्धेन स निर्विषः ।। १२९
उत्तस्थौ च महीपालो निद्रायुक्त इवास्त सः ।
पुरे चात्रोत्सवं चक्रे जनः सर्वः सराजकः ।। १३०
चन्द्रस्वामी च स तदा देवांशः कोऽप्यसाविति ।
अनन्तस्वामिना पौरै राज्ञा चार्थैरपूज्यत ।। १३१
तस्थौ च तत्रैव सुखं मन्त्रिवेश्मनि सोऽर्चितः ।
पश्यन्पुत्रं महीपालं सुतां चन्द्रवतीं च ताम् ।। १३२
परिज्ञायापि चान्योन्यं तूष्णीं तस्थुस्त्रयोऽपि ते ।
कुर्वन्त्यकालेऽभिव्यक्तिं न कार्यापेक्षिणो बुधाः ।। १३३
अथ तस्मै महीपालायान्तः संतोषितो गुणैः ।
राजा बन्धुमतीं नाम तारावर्मा ददौ सुताम् ।। १३४
प्रदत्तनिजराज्यार्धे तस्मिन्नेव व्यधात्तदा ।
सुखी राज्यभरं कृत्स्नं स नृपोऽनन्यपुत्रकः ।। १३५
महीपालोऽपि स प्राप्तराज्यः प्रख्याप्य तं निजम् ।
पितरं स्वानुजां स्थाने दत्त्वा तस्थौ यथासुखम् ।। १३६
एकदा तं पिता चन्द्रस्वामी स्वैरमभाषत ।
एहि स्वदेशं गच्छावो मातुरानयनाय ते ।। १३७
राज्यस्थं त्वां हि बुद्ध्वा सा कथं तेनास्मि विस्मृता ।
इति क्रुद्धा शपेज्जातु पुत्रातिचिरदुःखिता ।। १३८
मातापितृभ्यां शप्तः सन्न जातु सुखमश्नुते ।
तथा चैतां पुरावृत्तां वणिक्पुत्रकथां शृणु ।। १३९
चक्रो नाम वणिकपुत्रो धवलाख्येऽभवत्पुरे ।
सोऽनिच्छतोरगात्पित्रोः स्वर्णद्वीपं वणिज्यया ।। १४०
ततः स पञ्चभिर्वर्षैरुपार्जितमहाधनः ।
आगच्छन्नारुरोहाब्धौ वहनं रत्नपूरितम् ।। १४१
अल्पावशेषे गन्तव्ये वारिधौ तस्य चोन्नदन् ।
उदतिष्ठन्महावातवर्षवेगाकुलोऽम्बुदः ।। १४२
पितराववमन्यैष किमायात इतीव तत् ।
क्रोधात्प्रवहणं तस्य निर्बभञ्जुर्महोर्मयः ।। १४३
तत्स्था केऽपि हृतास्तोयैर्मकरैः केऽपि भक्षिताः ।
चक्रस्त्वायुर्बलान्नीत्वा तीरे क्षिप्तश्च वीचिभिः ।। १४४
तत्रस्थो निःसहः स्वप्न इव रौद्रासिताकृतिम् ।
पाशहस्तं ददर्शैकं पुरुषं स वणिक्सुतः ।। १४५
तेनोत्क्षिप्य च नीतोऽभूत्स चक्रः पाशवेष्टितः ।
दूरं सिंहासनस्थेन पुरुषेणास्थितां सभाम् ।। १४६
तस्याज्ञयासनस्थस्य तेनैव स वणिग्युवा ।
नीत्वा पाशभृता लोहमये गेहे न्यवेश्यत ।। १४७
तत्रान्तः पीड्यमानं स चक्रः पुरुषमैक्षत ।
मूर्ध्नि तप्तेन लौहेन चक्रेण भ्रमतानिशम् ।। १४८
कस्त्वं केनाशुभेनेदं तव जीवस्यहो कथम् ।
इत्यपृच्छत्स चक्रस्तं सोऽप्येवं प्रत्युवाच तम् ।। १४९
खड्गाख्योऽहं वणिक्पुत्रः पित्रोर्यच्च वचो मया ।
न कृतं तेन संक्रुद्धौ तौ मामशपतां क्रुधा ।। १५०
शिरःस्थायससंतप्तचक्राभौ नौ दुनोषि यत् ।
तदीदृश्येव ते पीडा दुराचार भविष्यति ।। १५१
इत्युक्त्वा तौ विरम्योभौ रुदन्तं मामवोचताम् ।
मा रोदीरेकमेवास्तु मासं पीडा तवेदृशी ।। १५२
तच्छ्रुत्वाहं शुचा नीत्वा तद्दिनं शयनाश्रितः ।
निशि स्वप्न इवाद्राक्षं भीमं पुरुषमागतम् ।। १५३
तेनादाय बलेनाहमस्मिंल्लोहमये गृहे ।
क्षिप्तो न्यस्तं च मे मूर्ध्नि ज्वलच्चक्रमिदं भ्रमत् ।। १५४
इति मे पितृशापोऽयं तेन प्राणा न यान्ति मे ।
स च मासोऽद्य संपूर्णो न च मुच्ये तथाप्यहम् ।। १५५
इत्युक्तवन्तं तं खड्गं स चक्रः सकृपोऽब्रवीत् ।
पित्रोः प्रवसतार्थार्थं मयापि न कृतं वचः ।। १५६
प्राप्तं नङ्क्ष्यति ते वित्तमिति मां शपतः स्म तौ ।
तेनाब्धौ मे धनं नष्टं कृत्स्नं द्वीपान्तरार्जितम् ।। १५७
एषैव वार्ता चान्यत्र तत्कोऽर्थो जीवितेन मे ।
देह्येतन्मूर्ध्नि मे चक्रं खड्ग शापोऽपयातु ते ।। १५८
इति चक्रे वदत्येव वाणी दिव्यात्र शुश्रुवे ।
खड्ग मुक्तोऽसि चक्रस्य मूर्ध्न्येतच्चक्रमर्पय ।। १५९
तच्छ्रुत्वा चक्रशिरसि न्यस्तचक्रस्तदैव सः ।
खड्गः केनाप्यदृश्येन निन्ये पितृगृहं ततः ।। १६०
तत्रासीत्स पुनः पित्रोरनुल्लङ्घितशासनः ।
चक्रस्त्वादाय तन्मूर्ध्नि चक्रं तत्रैवमभ्यधात् ।। १६१
पापिनोऽन्येऽपि मुच्यन्तां पृथ्व्यां तत्पातकैरपि ।
आ पापक्षयमेतन्मे चक्रं भ्राम्यतु मूर्धनि ।। १६२
इत्युक्तवन्तं तं चक्रं धीरसत्त्वं नभःस्थिताः ।
पुष्पवृष्टिमुचो देवाः परितुष्यैवमब्रुवन् ।। १६३
साधु साधु महासत्त्व शान्तं करुणयानया ।
पापं ते व्रज वित्तं च तवाक्षय्यं भविष्यति ।। १६४
इत्युक्तवत्सु देवेषु चक्रस्य शिरसः क्षणात् ।
आयसं तस्य तच्चक्रं जगाम काप्यदर्शनम् ।। १६५
तथोपेत्याम्बरादेको विद्याधरकुमारकः ।
तुष्टेन्द्रप्रेषितं दत्त्वा महार्घं रत्नसंचयम् ।। १६६
अङ्के कृत्वैव तं चक्रं नगरं धवलाभिधम् ।
निजं तत्प्रापयामास जगाम च यथागतम् ।। १६७
सोऽथ चक्रोऽन्तिकं पित्रोः प्राप्यानन्दितबान्धवः ।
तस्थावाख्यातवृत्तान्तस्तत्र धर्मापरिच्युतः ।। १६८
इत्याख्याय महीपालं चन्द्रस्वाम्यवदत्पुनः ।
ईदृक्पापफलं पुत्र मातापित्रोर्विरोधनम् ।। १६९
कामधेनुस्तु तद्भक्तिस्तत्राप्येतां कथां शृणु ।
आसीत्कोऽपि मुनिः पूर्वं वनचारी महातपाः ।। १७०
तरुच्छायोपविष्टस्य तस्योपरि बलाकया ।
विष्ठा कदाचिन्मुक्ताभूत्सोऽथ क्रुद्धो ददर्श ताम् ।। १७१
दृष्टमात्रैव सा तेन बलाका भस्मसादभूत् ।
तपःप्रभावाहंकारं स च भेजे ततो मुनिः ।। १७२
एकदा नगरे क्वापि स ब्राह्मणगृहं मुनिः ।
एकं प्रविश्य गृहिणीं तत्र भिक्षामयाचत ।। १७३
प्रतीक्षस्व मनाग्भर्तुः परिचर्यां समापये ।
इति तं सा च गृहिणी निजगाद पतिव्रता ।। १७४
ततस्तं क्रुद्धया दृष्ट्या वीक्षमाणं विहस्य सा ।
अभाषत मुने नाहं बलाका मृष्यतामिति ।। १७५
क्षुत्वैतत्स मुनिस्तस्थादुपविश्यात्र साद्भुतः ।
एतत्कथमिव ज्ञातमनयेति विचिन्तयन् ।। १७६
ततः कृत्वाग्निकार्यादेः शुश्रूषां भर्तुरत्र सा ।
साध्वी भिक्षां समादाय तस्यागादन्तिकं मुनेः ।। १७७
सोऽथ बद्धाञ्जलिर्भूत्वा मुनिस्तामवदत्सतीम् ।
कथं बलाकावृत्तान्तः परोक्षोऽपि मम त्वया ।। १७८
ज्ञात इत्यादितो ब्रूहि भिक्षां गृह्णाम्यहं ततः ।
इत्युक्तवन्तं तमृषिं सावोचत्पतिदेवता ।। १७९
न भर्तृभक्तेरपरं धर्मं कंचन वेद्म्यहम् ।
तेन मे तत्प्रसादेन विज्ञानबलमीदृशम् ।। १८०
किं चेह धर्मव्याधाख्यं मांसविक्रयजीविनम् ।
गत्वा पश्य ततः श्रेयो निरहंकारमाप्स्यसि ।। १८१
एवं सर्वविदा प्रोक्तः स पतिव्रतया मुनिः ।
गृहीतातिथिभागस्तां प्रणम्य निरगात्ततः ।। १८२
अन्येद्युः स मुनिर्धर्मव्याधमन्विष्य तत्र तम् ।
विपणिस्थमुपागच्छत्कुर्वाणं मांसविक्रयम् ।। १८३
धर्मव्याधश्च दृष्ट्वैव स तं मुनिमभाषत ।
किं पतिव्रतया ब्रह्मन्निह त्वं प्रेषितस्तया ।। १८४
तच्छ्रुत्वा विस्मितोऽवादीद्धर्मव्याधमृषिः स तम् ।
ईदृशं ते कथं ज्ञानं मांसविक्रयिणः सतः ।। १८५
इत्युक्तवन्तं तमृषिं धर्मव्याधो जगाद सः ।
मातापित्रोरहं भक्तस्तौ ममैकं परायणम् ।। १८६
तयोः स्नपितयोः स्नामि भुञ्जे भोजितयोस्तयोः ।
शये शयितयोस्तेन ज्ञानमीदृग्विधं मम ।। १८७
मांसं चान्यहतस्याहं मृगादेर्वृत्तये परम् ।
स्वधर्मनिरतो भूत्वा विक्रीणे नार्थगर्धतः ।। १८८
ज्ञानविघ्नमहंकारमहं सा च पतिव्रता ।
नैव कुर्वो मुने तेन निर्बाधज्ञानमावयोः ।। १८९
तस्मात्त्वमप्यहंकारं मुक्त्वा शुद्ध्यै मुनिव्रतः ।
स्वधर्मं चर येनाशु परं ज्योतिरवाप्स्यसि ।। १९०
इति तेनानुशिष्टश्च धर्मव्याधेन तद्गृहान् ।
गत्वा दृष्ट्वा च तच्चर्यां मुनिस्तुष्टो वनं ययौ ।। १९१
सिद्धस्तदुपदेशाच्च सोऽभूत्तावपि जग्मतुः ।
सिद्धिं पतिव्रताधर्मव्याधौ तद्धर्मचर्यया ।। १९२
एष प्रभावो भक्तानां पत्यौ पितरि मातरि ।
तदेहि संभावय तां मातरं दर्शनोत्सुकाम् ।। १९३
एवं पित्रा महीपालः स चन्द्रस्वामिनोदितः ।
प्रतिपेदे स्वदेशाय गन्तुं मात्रनुरोधतः ।। १९४
अनन्तस्वामिने सर्वं धर्मपित्रे निवेद्य तत् ।
तेनात्तभारः स ततः प्रायात्पितृसखो निशि ।। १९५
क्रमात्प्राप्य स्वदेशं च जननीं दर्शनेन ताम् ।
अनन्दयद्देवमतिं मधुः पिकवधूमिव ।। १९६
कंचित्कालं महीपालस्तस्थौ बान्धवसत्कृतः ।
तत्र मातृयुतः पित्रा वृत्तान्ताख्यायिना सह ।। १९७
तावत्तारापुरे तत्र तद्भार्या तु नृपात्मजा ।
निशाक्षये बन्धुमती सान्तः सुप्ता व्यबुध्यत ।। १९८
बुद्ध्वा च तं पतिं क्वापि गतं विरहविक्लवा ।
न लेभे सा रतिं कापि प्रासादोपवनादिषु ।। १९९
द्विगुणीकृतहारेण बाष्पेण रुदती परम् ।
आसीत्प्रलापैकमयी वाञ्छन्ती मृत्युना सुखम् ।। २००
यामि कार्येण केनापि शीघ्रमेष्यामि चेति मे ।
स्वैरमुक्त्वैव स गतस्तन्मा पुत्रि शुचं कृथाः ।। २०१
इत्याशादर्शिभिर्वाक्यैरनन्तस्वामिना ततः ।
मन्त्रिणाश्वासिताभ्येत्य कृच्छ्रात्सा धृतिमाददे ।। २०२
ततः प्रवृत्तिज्ञानार्थं भर्तुर्देशान्तरागतान् ।
पूजयन्ती सदैवासीद्दानैः सा द्विजपुंगवान् ।। २०३
तेन संगमदत्ताख्यं दीनं दानागतं द्विजम् ।
भर्तुः पप्रच्छ सा वार्तामुक्त्वाभिज्ञाननामनी ।। २०४
ततस्तां स द्विजोऽवादीद्दृष्टो नैवंविधो मया ।
कश्चित्तथापि देव्यत्र कार्या नैवाधृतिस्त्वया ।। २०५
चिरादवाप्यतेऽभीष्टसंयोगः शुभकर्मभिः ।
तथा च यन्मया दृष्टमाश्चर्यं वच्मि तच्छृणु ।। २०६
तीर्थान्यटन्नहं प्रापं हिमाद्रौ मानसं सरः ।
तत्रादर्शमिवापश्यमन्तर्मणिमयं गृहम् ।। २०७
ततोऽकस्माच्च निर्गत्य खड्गपाणिः पुमान्गृहात् ।
अध्यारोहत्सरस्तीरं दिव्यनारीगणान्वितः ।। २०८
तत्रोद्याने सह स्त्रीभिः सोऽक्रीडत्पानलीलया ।
दूरात्सकौतुकश्चाहं पश्यन्नासमलक्षितः ।। २०९
तावत्कुतोऽपि तत्रागात्सुभगः पुरुषोऽपरः ।
मिलिताय च तत्तस्मै यथादृष्टं मयोदितम् ।। २१०
दर्शितश्च स सस्त्रीकः पुमान्दूरात्कुतूहलात् ।
तद्दृष्ट्वैव स्ववृत्तान्तमेवमाख्यातवान्मम ।। २११
पुरे त्रिभुवनाख्येऽहं राजा त्रिभुवनाभिधः ।
तत्र मे सुचिरं सेवामेकः पाशुपतो व्यधात् ।। २१२
 ..................... ।
 ..................... ।। २१३
स पृष्टः कारणं स्वैरं बिलखड्गप्रसाधने ।
सहायं प्रार्थयत मां प्रतिपन्नं मया च तत् ।२१४
ततो मया सहारण्यं गत्वा होमादिना निशि।
प्रकटीकृत्य विवरं स मां पाशुपतोऽभ्यधात्।।२१५
वीर प्रविश पूर्वं त्वं खड्गं प्राप्य च मामपि ।
प्रवेशयेस्त्वं निर्गत्य समयं चात्र मे कुरु ।। २१६
इत्युक्तस्तेन तस्याहं कृत्वा समयमाशु तत् ।
प्रविश्य विवरं प्रापमेकं रत्नमयं गृहम् ।। २१७
ततो निर्गत्य मां चैका प्रधानासुरकन्यका ।
अन्तः प्रावेशयत्प्रेम्णा प्रादात्खड्गं च सात्र मे ।। २१८
सर्वसिद्धिप्रदमिमं खड्गं खगतिदायिनम् ।
रक्षेरित्युक्तवत्याह तया तत्रावसं सह ।। २१९
स्मृत्वाथ खड्गहस्तोऽहं निर्गत्य विवरेण तम् ।
प्रावेशयं पाशुपतं तस्मिन्नसुरमन्दिरे ।। २२०
तत्राहमाद्यया साकं तया सपरिवारया ।
सोऽपि द्वितीयया साकमासीदसुरकन्यया ।। २२१
एकदा पानमत्तस्य स मे पाशुपतश्छलात् ।
हृत्वा पार्श्वस्थितं खड्गमकरोन्निजहस्तगम् ।। २२२
तस्मिन्हस्तस्थिते लब्धमहासिद्धिः स पाणितः ।
मामादायैव निष्काल्य विवरात्प्राक्षिपद्बहिः ।। २२३
ततो द्वादशवर्षाणि मया बिलमुखेषु सः ।
गवेषितः कदाचित्तं निर्गतं प्राप्नुयामिति ।। २२४
सोऽयमद्येह मे दृष्टिपथे निपतितः शठः ।
मदीययैतया साकं क्रीडन्नसुरकन्यया ।। २२५
इति यावत्त्रिभुवनः स राजा देवि वक्ति माम् ।
तावत्पानमदान्निद्रामगात्पाशुपतोऽत्र सः ।। २२६
सुप्तस्य तस्य गत्वैव पार्श्वात्खड्गं तमग्रहीत् ।
स राजा तेन भूयश्च प्रभावं दिव्यमाप्तवान् ।। २२७
ततः पाशुपतं पादप्रहारेण प्रबोध्य तम् ।
निरभर्त्सयदापन्नं स वीरो नावधीत्पुनः ।। २२८
प्राविशच्चासुरपुरं सपरिच्छदया तया ।
प्राप्तया स स्वया साकं सिद्ध्यैवासुरकन्यया ।। २२९
स च पाशुपतः सिद्धिभ्रष्टः कष्टमगात्परम् ।
कृतघ्नाश्चिरसिद्धार्था अपि भ्रश्यन्ति हि ध्रुवम् ।। २३०
एतत्साक्षाद्विलोक्याहमिह प्राप्तः परिभ्रमन् ।
तद्देवि प्रियसंयोगस्तव भावी चिरादपि ।। २३१
यथा त्रिभुवनस्याभूच्छुभकृन्नहि सीदति ।
इति तस्माद्द्विजाच्छ्रुत्वा तोषं बन्धुमती ययौ ।। २३२
चकार च कृतार्थं तं विप्रं दत्त्वा धनं बहु ।
अन्येद्युश्च द्विजोऽपूर्वस्तत्रागाद्दूरदेशजः ।। २३३
तं च बन्धुमती सोत्का प्रोक्ताभिज्ञाननामका ।
भर्तुर्वार्तामपृच्छत्सा सोऽथ तां ब्राह्मणोऽभ्यधात् ।। २३४
न स देवि मया दृष्टस्त्वद्भर्ता क्वापि किं त्वहम् ।
अन्वर्थः सुमनोनामा तवाद्य गृहमागतः ।। २३५
तदासु सौमनस्यं ते भावीत्याख्याति मे मनः ।
भवत्येव च संयोगश्चिरविश्लेषिणामपि ।। २३६
तथा च कथयाम्येतामत्र देवि कथां शृणु ।
निषधाधिपती राजा नलो नामाभवत्पुरा ।। २३७
यस्य रूपेण विजितः कामो मन्येऽवमानतः ।
कोपितत्रिपुरारातिनेत्राग्नावजुहोत्तनुम् ।। २३८
तेनाभार्येण सदृशी भार्याश्रावि विचिन्वता ।
दमयन्तीति भीमस्य विदर्भाधिपतेः सुता ।। २३९
भीमेनापि विचित्य क्ष्मां ददृशे तेन राजसु ।
न नलादपरो राजा तुल्यः स्वदुहितुः पतिः ।। २४०
अत्रान्तरे स्वनगरे दमयन्ती सरोवरम् ।
भीमात्मजा जलक्रीडाहेतोरवततार सा ।। २४१
तत्रैकं राजहंसं सा दृष्ट्वा दष्टोत्पलाम्बुजम् ।
बबन्ध क्रीडया बाला युक्तिक्षिप्तोत्तरीयका ।। २४२
स बद्धो दिव्यहंसस्तामुवाच व्यक्तया गिरा ।
राजपुत्र्युपकार ते करिष्यामि विमुञ्च माम् ।। २४३
नैषधोऽस्ति नलो नाम राजा हृदि वहन्ति यम् ।
सद्गुणैर्गुम्फितं हारमिव दिव्याङ्गना अपि ।। २४४
तस्य त्वं सदृशी भार्या भर्ता स सदृशस्तव ।
तदत्र तुल्यसंयोगे कामदूतो भवामि वाम् ।। २४५
तच्छ्रुत्वा दिव्यहंसं सा मत्वा सत्याभिभाषिणम् ।
मुमोच दमयन्ती तमेवमस्त्विति वादिनी ।। २४६
न मया वरणीयोऽन्यो नलादिति जगाद च ।
श्रुतिमार्गप्रविष्टेन तेनापहृतमानसा ।। २४७
स च हंसस्ततो गत्वा निषधेष्वाशु शिश्रिये ।
जलक्रीडाप्रवृत्तेन नलेनाध्यासितं सरः ।। २४८
नलः स राजा दृष्ट्वा तं राजहंसं मनोरमम् ।
बबन्ध स्वोत्तरीयेण लीलाक्षिप्तेन कौतुकात् ।। २४९
सोऽथ हंसोऽब्रवीन्मुञ्च नृपते मामहं यतः ।
इह त्वदुपकारार्थमागतः शृणु वच्मि ते ।। २५०
विदर्भेष्वस्ति भीमस्य राज्ञः क्षितितिलोत्तमा ।
दमयन्तीति दुहिता स्पृहणीया सुरैरपि ।। २५१
त्वमेव च मदाख्यातगुणो बद्धानुरागया ।
तया भर्ता वृतस्तच्च तवाहं वक्तुमागतः ।। २५२
इति हंसोत्तमस्यास्य वचोभिः सत्फलोज्ज्वलैः ।
विशिष्टैश्च स पुष्पेषोर्नलः सममविध्यत ।। २५३
अब्रवीत्स च हंसं तं धन्योऽहं विहगोत्तम ।
यो मनोरथसंपत्त्या मूर्तयेव वृतस्तया ।। २५४
इत्युक्त्वा तेन मुक्तः स हंसो गत्वा शशंस तत् ।
दमयन्त्यै यथावस्तु यथाकामं जगाम च ।। २५५
दमयन्ती च सोत्कण्ठा युक्त्या मातृमुखेन सा ।
पितुः स्वात्प्रार्थयामास नलप्राप्त्यै स्वयंवरम् ।। २५६
अनुमन्य स तस्याश्च स्वयंवरकृते पिता ।
भीमः पृथिव्यां सर्वेषां राज्ञां दूतान्विसृष्टवान् ।। २५७
प्राप्तदूताश्च निखिला विदर्भान्प्रति भूमिपाः ।
व्रजन्ति स्म नलोऽप्युत्को रथारूढश्चचाल सः ।। २५८
ततश्च दमयन्त्यास्तौ नलप्रेमस्वयंवरौ ।
इन्द्रादयो लोकपालाः शुश्रुवुर्नारदान्मुनेः ।। २५९
तेषां च बलभिद्वायुयमाग्निवरुणास्ततः ।
संमन्त्र्य दमयन्त्युक्त्वा नलस्यैवान्तिकं ययुः ।। २६०
ऊचुश्च प्राप्य तं प्रह्वं विदर्भान्प्रस्थितं पथि ।
गत्वास्मद्वचनाद्ब्रूहि दमयन्तीमिदं नृप ।। २६१
पञ्चानां वरयैकं नः किं मर्त्येन मलेन ते ।
मर्त्या मरणधर्माणस्त्रिदशास्त्वमरा इति ।। २६२
अस्मद्वराच्च तत्पार्श्वमदृष्टोऽन्यैः प्रवेक्ष्यसि ।
तथेत्येतां च देवाज्ञां प्रतिपेदे नलोऽथ सः ।। २६३
गत्वा चान्तःपुरं तस्याः प्रविश्यादृष्ट एव च ।
दमयन्त्याः शशंसैव देवादेशं तथैव तम् ।। २६४
सा तं श्रुत्वाब्रवीत्साध्वी देवास्ते सन्तु तादृशाः ।
तथापि मे नलो भर्ता न कार्यं त्रिदशैर्मम ।। २६५
इति सम्यग्वचस्तस्याः श्रुत्वात्मानं प्रकाश्य च ।
नलो गत्वा तथैवैतदिन्द्रादिभ्यः शशंस सः ।। २६६
वश्या वयमिदानीं ते स्मृतमात्रोपगामिनः ।
तथ्यवादिन्निति च ते तुष्टास्तस्मै ददुर्वरान् ।। २६७
ततो हृष्टे नले याते विदर्भान्वञ्चनेप्सुभिः ।
दमयन्त्याः सुरेशाद्यैर्नलरूपमकारि तैः ।। २६८
गत्वा च भीमस्य सभां मर्त्यधर्मानुपाश्रिताः ।
स्वयंवरे प्रस्तुते ते नलान्तिक उपाविशन् ।। २६९
अथैत्य दमयन्ती सा भ्रात्रा स्वेनैकशो नृपान् ।
आवेद्यमानानुज्झन्ती क्रमात्प्राप नलान्तिकम् ।। २७०
दृष्ट्वा छायानिमेषादिगुणांस्तत्र च षण्नलान् ।
सा भ्रातरि समुद्भ्रान्ते व्याकुला समचिन्तयत् ।। २७१
नूनं मे लोकपालैस्तैर्मायेयं पञ्चभिः कृता ।
षष्ठं मन्ये नलं त्वत्र न चान्यत्रास्ति मे गतिः ।। २७२
इत्यालोच्यैव साध्वी सा नलैकासक्तमानसा ।
आदित्याभिमुखी भूत्वा दमयन्त्येवमब्रवीत् ।। २७३
भो लोकपालाः स्वप्नेऽपि नलादन्यत्र चेन्न मे ।
मनस्तत्तेन सत्येन स्वं दर्शयत मे वपुः ।। २७४
वरात्पूर्ववृताच्चान्ये कन्यायाः परपूरुषाः ।
परदाराश्च सा तेषां तत्कथं मोह एष वः ।। २७५
श्रुत्वैतत्पञ्च शक्राद्याः स्वेन रूपेण तेऽभवन् ।
षष्ठः सत्यनलश्चाभूत्स्वरूपस्थः स भूपतिः ।। २७६
तस्मिन्सा दमयन्ती तां फुल्लेन्दीवरसुन्दरीम् ।
दृशं वरणमालां च हृष्टा राज्ञि नले न्यधात् ।। २७७
पपात पुष्पवृष्टिश्च नभोमध्यात्ततो नृपः ।
विवाहमङ्गलं भीमश्चक्रे तस्या नलस्य च ।। २७८
विहितोचितपूजाश्च तेन वैदर्भभूभृता ।
नृपा यथागतं जग्मुर्देवाः शक्रादयश्च ते ।। २७९
शक्रादयस्तु ददृशुर्द्वौ कलिद्वापरौ पथि ।
बुद्ध्वा च दमयन्त्यर्थमागतौ तौ च तेऽब्रुवन् ।। २८०
न गन्तव्यं विदर्भेषु तत एवागता वयम् ।
वृत्तः स्वयंवरो राजा दमयन्त्या नलो वृतः ।। २८१
तच्छ्रुत्वैवोचतुः पापौ तौ कलिद्वापरौ रुषा ।
देवान्भवादृशांस्त्यक्त्वा यत्स मर्त्यो वृतस्तया ।। २८२
तदवश्यं करिष्यावो वियोगमुभयोस्तयोः ।
एवं कृतप्रतिज्ञौ तौ निवर्त्य ययतुस्ततः ।। २८३
नलश्च सप्त दिवसान्स्थित्वा श्वशुरवेश्मनि ।
दमयन्त्या समं वध्वा कृतार्थो निषधानगात् ।। २८४
तत्रासीत्प्रेम दंपत्योर्गौरीशर्वाधिकं तयोः ।
शर्वस्य गौरी देहार्धं तस्य त्वात्मैव साभवत् ।। २८५
कालेन चेन्द्रसेनाख्यं दमयन्ती नलात्सुतम् ।
प्रसूते स्म तदन्वेकामिन्द्रसेनां च कन्यकाम् ।। २८६
तावच्च स कलिश्छिद्रं तस्यानुच्छास्त्रवर्तिनः ।
नलस्यासीञ्चिरं चिन्वन्प्रतिज्ञातार्थनिश्चितः ।। २८७
अथैकदानुपास्यैव संध्यामक्षालिताङ्घ्रिकः ।
स सुष्वाप नलः पानमदेन मुषितस्मृतिः ।। २८८
छिद्रमेतदवाप्यैव दत्तदृष्टिर्दिवानिशम् ।
कलिस्तस्य शरीरान्तर्नलस्य प्रविवेश सः ।। २८५
तेन देहप्रविष्टेन कलिना स नलो नृपः ।
विहाय धर्म्यमाचारमाचचार यथारुचि ।। २९०
अक्षैरदीव्यद्दासीभिररंस्तासत्यमब्रवीत् ।
असेवत दिवा स्वप्नं स जजागार रात्रिषु ।। २९१
चकाराकारणं कोपमन्यायेनार्थमाददे ।
अवमानं सतां चक्रे संमानमसतां च सः ।। २९२
तद्भातरं पुष्कराख्यं तथैवोत्क्रान्तसत्पथम् ।
छिद्रं प्राप्य शरीरान्तःप्रविष्टो द्वापरो व्यधात् ।। २९३
कदाचित्पुष्कराख्यस्य गृहे तस्यानुजस्य सः ।
नलो ददर्श दान्ताख्यं सुन्दरं धवलं वृषम् ।। २९४
लोभान्मृगयमानाय तं तस्मै ज्यायसे न सः ।
द्वापरग्रस्ततद्भक्तिः पुष्कराख्यो वृषं ददौ ।। २९५
जगाद तं च यद्यस्ति वाञ्छास्मिन्वृषभे तव ।
तद्द्यूतेन विजित्यैनं मत्तः स्वीकुरु मा चिरम् ।। २९६
तच्छ्रुत्वा स नलो मोहात्प्रतिपेदे तथेति तत् ।
ततः प्रववृते द्यूतं तयोर्भात्रोः परस्परम् ।। २९७
पुष्कराख्यस्य स वृषो नलस्येभादयः पणः ।
जिगाय पुष्कराख्यश्च नलो मुहुरजीयत ।। २९८
दिनैर्द्वित्रैर्बले कोषे हारितेऽपि दुरोदरात् ।
न नलो वार्यमाणोऽपि चचाल कलिविप्लुतः ।। २९९
तेन मत्वा गतं राज्यं दमयन्ती निजौ शिशू ।
रथोत्तमं समारोप्य प्राहिणोत्स्वपितुर्गृहम् ।। ३००
तावन्नलेन राज्यं स्वं समग्रमपि हारितम् ।
ततः स पुष्कराख्येन जगदे जितकाशिना ।। ३०१
त्वयान्यद्धारितं सर्वं तत्तस्योक्ष्णः पणस्य मे ।
दमयन्तीमिदानीं त्वं द्यूते प्रतिपणं कुरु ।। ३०२
इत्युक्तिवात्यया तस्य नलोऽनल इव ज्वलन् ।
न चाकालेऽब्रवीत्किंचिन्न च चक्रे पणक्रियाम् ।। ३०३
ततः स पुष्कराख्यस्तमवादीन्न करोषि चेत् ।
भार्यां पणं तदस्मान्मे देशान्निर्याहि तत्सखः ।। ३०४
तच्छ्रुत्वैव नलो देशाद्दमयन्त्या समं ततः ।
निरगाद्राजपुरुषैरा सीमान्तं प्रवासितः ।। ३०५
हा नलस्यापि यत्रेदृगवस्था कलिना कृता ।
तत्रोच्यतां किमन्येषां क्रिमीणामिव देहिनाम् ।। ३०६
धिग्धिङ्निर्धर्म निःस्नेहं राजर्षीणामपीदृशाम् ।
विपदामास्पदं द्यूतं कलिद्वापरजीवितम् ।। ३०७
अथ भ्रातृहृतैश्वर्यो विदेशं स नलो व्रजन् ।
दमयन्त्या सह प्राप क्षुधाक्लान्तो वनान्तरम् ।। ३०८
तत्र साकं तया दर्भभिन्नपेशलपादया ।
स विश्रान्तः सरस्तीरे हंसौ द्वावैक्षतागतौ ।। ३०९
आहारार्थं च स तयोर्ग्रहणायोत्तरीयकम् ।
चिक्षेप तच्च हृत्वैव हंसौ तौ तस्य जग्मतुः ।। ३१०
हंसरूपेण तावेतावक्षौ वासोऽप्युपेत्य ते ।
हृत्वा गताविति नलः स वाचं चाशृणोद्दिवः ।। ३११
उपविश्यैकवस्त्रोऽथ स युक्त्या विमना नृपः ।
पन्थानं दर्शयामास दमयन्त्याः पितुर्गृहे ।। ३१२
अयं मार्गो विदर्भेषु प्रिये पितृगृहे तव ।
अयमङ्गेषु मार्गोऽयमपरः कोशलेषु च ।। २१३
तच्छ्रुत्वा दमयन्ती सा शङ्कितेवाभवत्तदा ।
त्यक्ष्यन्निवार्य पुत्रो मे मार्गं किं वक्त्यसाविति ।। ३१४
ततस्तौ फलमूलान्नौ वने तत्र निशागमे ।
श्रान्तौ संविशतः स्मोभौ दंपती कुशसंस्तरे ।। ३०१५
दमयन्ती शनैर्निद्रामध्वखिन्ना जगाम सा ।
नलो गन्तुमनास्त्वासीदनिद्रः कलिमोहितः ।। ३१६
उत्थाय चैकवस्त्रां तां दमयन्तीं विमुच्य सः ।
छिन्नं तदुत्तरीयार्धं प्रावृत्य च ततो ययौ ।। ३१७
दमयन्ती च रात्र्यन्ते प्रबुद्धा तं पतिं वने ।
अपश्यन्ती गतं त्यक्त्वा विललाप विचिन्त्य सा ।। ३१८
हार्यपुत्र महासत्त्व रिपावपि कृपापर ।
हा मद्वत्सल केनासि मयि निष्करुणीकृतः ।। ३१९
एकाकी च कथं पद्भ्यामटवीषु प्रयास्यसि ।
कस्ते श्रमापनोदाय परिचर्यां करिष्यति ।। ३२०
मौलिमालापरागेण रञ्जितौ यौ महीभुजाम् ।
तौ ते पथि कथं पादौ धूलिः कलुषयिष्यति ।। ३२१
हरिचन्दनचूर्णेनाप्यालिप्तं सहते न यत् ।
अङ्गं सहिष्यते तत्ते मध्याह्नार्कातपं कथम् ।। ३२२
किं मे बालेन पुत्रेण किं दुहित्रा किमात्मना ।
तवैकस्य शिवं देवाः कुर्वतां यद्यहं सती ।। ३२३
इत्येककानुशोचन्ती दमयन्ती नलं तदा ।
तत्पूर्वदर्शितेनैव प्रतस्थे सा ततः पथा ।। ३२४
कथंचिच्चातिचक्राम नदीशैलवनाटवीः ।
नातिचक्राम भक्तिं तु सा भर्तरि कथंचन ।। ३२५
सतीतेजश्च मार्गे तामरक्षद्येन लुब्धकः ।
भस्मीकृतोऽहेस्त्रातायां तस्यां गतमनाः क्षणात् ।। ३२६
ततो दैवाद्वणिक्सार्थेनान्तरा मिलितेन सा ।
सह गत्वा पुरं प्राप सुबाह्वाख्यस्य भूपतेः ।। ३२७
तत्र सा राजसुतया दूराद्दृष्ट्वैव हर्म्यतः ।
सौन्दर्यप्रीतयानाय्य स्वमात्रे प्राभृतीकृता ।। ३२८
तस्याः पार्श्वे महादेव्याः सा तस्थौ च तदादृता ।
त्यक्त्वा गतो मां भर्तेति पृष्टा चैतावदब्रवीत् ।। ३२९
तावच्च तत्पिता भीमो नलोदन्तमवेत्य तम् ।
तयोरन्वेषणायाप्तान्नरान्दिक्षु विसृष्टवान् ।। ३३०
तन्मध्याच्च सुषेणाख्य एकस्तत्सचिवो भ्रमन् ।
सुबाहो राजधानीं तां प्राप ब्राह्मणरूपभृत् ।। ३३१
स तत्र दमयन्तीं तामागन्तूंश्चिन्वतीं सदा ।
अद्राक्षीत्साप्यपश्यत्तं दुःखिता पितृमन्त्रिणम् ।। ३३२
अन्योन्यं प्रत्यभिज्ञाय समेत्य रुदतः स्म तौ ।
तथा यथात्र राज्ञी सा सुबाहोस्तदबुध्यत ।। ३३३
यावच्चानाय्य सा देवी तौ यथावस्तु पृच्छति ।
बुबुधे दमयन्तीं तां तावत्स्वभगिनीसुताम् ।। ३३४
ततः सा भर्तुरावेद्य तां संमान्य पितुर्गृहम् ।
रथेऽधिरोप्य व्यसृजत्ससुषेणां ससैनिकाम् ।। ३३५
तत्र सा दमयन्त्यासीत्प्राप्तापत्यद्वया ततः ।
पित्रापि दृश्यमाना सा भर्तुर्वार्तां विचिन्वती ।। ३३६
तत्पिता व्यसृजच्चारानन्वेष्टुं तं च तत्पतिम् ।
सूदस्यन्दनविद्याभ्यां दिव्याभ्यामुपलक्षितम् ।। ३३७
बालां वने प्रसुप्तां नृशंस संत्यज्य कुमुदिनीकान्ताम् ।
प्राप्यैवाम्बरखण्डं चन्द्रादृश्यः क्व यातोऽसि ।। ३३८
एवं भवद्भिर्वक्तव्यं स्थितः शङ्क्येत यत्र सः ।
इत्यादिदेश चारांस्तान्स च भीमो महीपतिः ।। ३३९
अत्रान्तरे स राजा च नलस्तस्मिन्वने निशि ।
प्रावृतार्धपटो दूरं गत्वा दावाग्निमैक्षत ।। ३४०
भो महासत्त्व यावन्न दह्येऽहमबलोऽमुना ।
अपसारय मां तावद्दावाग्नेर्निकटादितः ।। ३४१
इत्यत्र तद्वचः श्रुत्वा दत्तदृष्टिर्ददर्श सः ।
आबद्धमण्डलं नागं नलो दावानलान्तिके ।। ३४२
फणारत्नप्रभाजालजटिलं वनवह्निना ।
गृहीतमिव तेनोग्रहेतिहस्तेन मूर्धनि ।। ३४३
उपेत्य कृपयांसे तं कृत्वा नीत्वा च दूरतः ।
त्यक्तुमिच्छति यावत्स तावन्नागोऽब्रवीत्स तम् ।। ३४४
गणयित्वा दशान्यानि पदानि नय मामितः ।
ततः स प्रययावेवं पदानि गणयन्नलः ।। ३४५
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त शृण्वहे ।
अष्टौ नव दशेत्युक्तवन्तमुक्तिच्छलेन तम् ।। ३४६
नलं स्कन्धस्थितो नागो ललाटान्ते ददंश सः ।
तेन ह्रस्वभुजः कृष्णो विरूपः सोऽभवन्नृपः ।। ३४७
ततोऽवतार्य स्कन्धात्तं स राजा पृष्टवानहिम् ।
को भवान्का कृता चेयं त्वया मे प्रत्युपक्रिया ।। ३४८
एतन्नलवचः श्रुत्वा स नागः प्रत्युवाच तम् ।
राजन्कार्कोटनामानं नागराजमवेहि माम् ।। ३४९
दंशो गुणाय च मया दत्तस्ते तच्च वेत्स्यसि ।
गूढवासे च वैरूप्यं महतां कार्यसिद्धये ।। ३५०
गृहाण चाग्निशौचाख्यमिदं वस्त्रयुगं मम ।
अनेन प्रावृतेनैव स्वं रूपं प्रतिपत्स्यसे ।। ३५१
इत्युक्त्वा दत्ततद्वस्त्रयुगे कार्कोटके गते ।
नलस्तस्माद्वनाद्गत्वा क्रमेण प्राप कोशलान् ।। ३५२
कोशलाधिपतेस्तत्र ऋतुपर्णस्य भूपतेः ।
स ह्रस्वबाहुनामा सन्सूदत्वं शिश्रिये गृहे ।। ३५३
भोजनानि च यत्तस्य चक्रे दिव्यरसानि सः ।
तेन प्रसिद्धिं प्रापात्र रथविज्ञानतस्तथा ।। ३५४
तत्रस्थे ह्रस्वबाह्वाख्ये नले तस्मिन्कदाचन ।
विदर्भराजचारेषु तेष्वेकोऽत्र किलाययौ ।। ३५५
ह्रस्वबाहुरितीहास्ति स्वविद्यारथविद्ययोः ।
नलतुल्यो नवः सूद इति चारोऽत्र सोऽशृणोत् ।। ३५६
नलं संभाव्य तं बुद्ध्या चास्थाने नृपतेः स्थितम् ।
युक्त्या स तत्र गत्वैतां पपाठार्यां प्रभूदिताम् ।। ३५७
बालां वने प्रसुप्तां नृशंस संत्यज्य कुमुदिनीकान्ताम् ।
प्राप्यैवाम्बरखण्डं चन्द्रादृश्यः क्व यातोऽसि ।। ३५८
तच्छ्रुत्वोन्मत्तवाक्याभं तत्रस्था अवजज्ञिरे ।
सूदच्छद्मस्थितस्त्वत्र स नलः प्रत्युवाच तम् ।। ३५९
क्षीणोऽम्बरैकदेशं चन्द्रः प्राप्यान्यमण्डलं प्रविशन् ।
कुमुदिन्या यददृश्यो जातस्तत्का नृशंसता तस्य ।। ३६०
एतत्तदुत्तरं श्रुत्वा सत्यं संभाव्य तं नलम् ।
विपदुद्भूतवैरूप्यं चारः सोऽथ ययौ ततः ।। ३६१
विदर्भान्प्राप्य भीमाय राज्ञे भार्यायुताय सः ।
दमयन्त्यै च तत्सर्वं दृष्टश्रुतमवर्णयत् ।। ३६२
ततोऽत्र दमयन्ती सा पितरं स्वैरमब्रवीत् ।
निःसंदेहं स एवार्यपुत्रः सूदमिषं श्रितः ।। ३६३
तत्तदानयने युक्तिर्मन्मता क्रियतामिह ।
ऋतुपर्णस्य नृपतेस्तस्य दूतो विसृज्यताम् ।। ३६४
प्राप्तमात्रश्च तं भूपमेवं तत्र ब्रवीतु सः ।
गतः क्वापि नलो राजा प्रवृत्तिर्नास्य बुध्यते ।। ३६५
तत्प्रातः कुरुते भूयो दमयन्ती स्वयंवरम् ।
अतोऽद्यैव विदर्भेषु शीघ्रमागम्यतामिति ।। ३६६
ततः श्रुतैतद्वार्तेन स रथज्ञानिना नृपः ।
एकाहेनार्यपुत्रेण साकं ध्रुवमिहैष्यति ।। ३६७
एवं सपितृकालोच्य संदिश्य च तथैव सा ।
कोशलान्व्यसृजद्दूतं दमयन्ती यथोचितम् ।। ३६८
तेनर्तुपर्णो गत्वा स तथैवोक्तः समुत्सुकः।
जगाद सूदरूपं तं प्रणयात्पार्श्वगं नलम्।। ३६९
ह्रस्वबाहो रथज्ञानं ममास्तीत्यवदद्भवान् ।
तत्प्रापय विदर्भान्मामद्यैवोत्सहसे यदि ।। ३७०
तच्छ्रुत्वैव नलो बाढं प्रापयामीत्युदीर्य सः ।
गत्वा वराश्वान्संयोज्य सज्जं चक्रे रथोत्तमम् ।। ३७१
स्वयंवरप्रवादोऽयं जाने मत्प्राप्तये तया ।
कृतो न दमयन्ती तु सा स्वप्नेऽपीदृशी भवेत् ।। ३७२
तत्तत्र तावद्गच्छामि पश्यामीति विचिन्त्य सः ।
राज्ञस्तस्यर्तुपर्णस्य सज्जं रथमुपानयत् ।। ३७३
आरूढे च नृपे तस्मिंस्तं संवाहयितुं रथम् ।
नलः प्रववृते तार्क्ष्यजवजैत्रेण रंहसा ।। ३७४
रथवेगच्युतं वस्त्रं प्राप्तं रथविधारणम् ।
ब्रुवाणमथ मार्गे तमृतुपर्णं नलोऽब्रवीत् ।। ३७५
राजन्क्व तव तद्वस्त्रमनेनैव क्षणेन हि ।
बहूनि योजनान्येष व्यतिक्रान्तो रथस्तव ।। ३७६
श्रुत्वैतदृतुपर्णस्तमवादीदङ्ग देहि मे ।
रथज्ञानमिदं तुभ्यमक्षज्ञानं ददाम्यहम् ।। ३७७
येन वश्या भवन्त्यक्षाः संख्याज्ञानं च जायते ।
संप्रत्येव च पश्यात्र वदामि प्रत्ययं तव ।। ३७८
दृश्यतेऽग्रे तरुर्योऽयं संख्यामेतस्य तेऽधुना ।
वच्म्यहं फलपर्णानां गणयित्वा च पश्य ताम् ।। ३७९
इत्युक्त्वा फलपर्णानि यावन्त्येव जगाद सः ।
नलेन गणितान्यासंस्तावन्त्येवात्र शाखिनः ।। ३८०
ततो नलो रथज्ञानमृतुपर्णाय तद्ददौ ।
ऋतुपर्णोऽप्यदादक्षज्ञानं तस्मै नलाय तत् ।। ३८१
परीक्षते स्म तज्ज्ञानं नलो गत्वापरे तरौ ।
सम्यक्च बुबुधे संख्या पत्त्रादिष्वत्र तेन सा ।। ३८२
ततो हृष्यति यावत्स तावत्तस्य शरीरतः ।
निरगात्पुरुषः कृष्णस्तं स कोऽसीति पृष्टवान् ।। ३८३
अहं कीलः शरीरान्तर्दमयन्तीवृतस्य ते ।
ईर्ष्यया प्राविशं तेन भ्रष्टा द्यूतेन ते श्रियः ।। ३८४
ततस्त्वां दशता तेन कार्कोटेन तदा वने ।
न दग्धस्त्वमहं त्वेष पश्य दग्धस्त्वयि स्थितः ।। ३८५
मिथ्या परापकारो हि कृतः स्यात्कस्य शर्मणे ।
तद्गच्छाम्यवकाशो हि नास्त्यन्येषु न वत्स मे ।। ३८६
इत्युक्त्वा स कलिस्तस्य तिरोऽभूत्सोऽपि तत्क्षणम् ।
जातधर्ममतिः प्राप्ततेजाः प्राग्वदभून्नलः ।। ३८७
आगत्य चारुह्य रथं तस्मिन्नेवाह्नि तं जवात् ।
विदर्भानृतुपर्णं तं प्रापयामास भूपतिम् ।। ३८८
स चोपहस्यमानोऽत्र पृष्टागमनकारणैः ।
ऋतुपर्णो जनै राजगृहासन्ने समावसत् ।। ३८९
प्राप्तं तं तत्र बुद्ध्वा सा श्रुताश्चर्यरथस्वना ।
दमयन्ती जहर्षान्तः संभावितनलागमा ।। ३९०
विससर्जाथ सा तत्त्वमन्वेष्टुं चेटिकां निजाम् ।
सा चान्विष्यागता चेटी तामुवाच प्रियोत्सुकाम् ।। ३९१
देवि गत्वा मयान्विष्टमेष यः कोशलेश्वरः ।
स्वयंवरप्रवादं ते मिथ्या श्रुत्वा किलागतः ।। ३९२
आनीतो रथवाहेन सूदेन ह्रस्वबाहुना ।
एकेनैव दिनेनाद्य रथविज्ञानशालिना ।। ३९३
स च तत्सूदशालायां गत्वा सूदो मयेक्षितः ।
कृष्णवर्णो विरूपश्च प्रभावः कोऽपि तस्य तु ।। ३९४
अक्षिप्तमेव यत्तस्य पानीयं चरुषूद्गतम् ।
काष्ठान्यनर्पिताग्नीनि स्वयं प्रज्वलितानि च ।। ३९५
क्षणाच्च भोजनैस्तैस्तैर्निष्पन्नं दिव्यमेव च ।
एतद्दृष्ट्वा महाश्चर्यं ततश्चाहमिहागता ।। ३९६
एतच्चेटीमुखाच्छ्रुत्वा दमयन्ती व्यचिन्तयत् ।
वश्याग्निवरुणः सूदो रथविद्यारहस्यवित् ।। ३९७
आर्यपुत्रो भवत्येष गतो वैरूप्यमन्यथा ।
जाने मद्विप्रयोगार्तं जिज्ञासेऽहं तदप्यमुम् ।। ३९८
इति संकल्प्य युक्त्या स्त्री सह चेट्या तयैव सा ।
तस्यान्तिकं दर्शयितुं प्राहिणोद्दारकावुभौ ।। ३९९
स तौ निजशिशू दृष्ट्वा कृत्वा चाङ्के नलश्चिरम् ।
बद्धधाराप्रवाहेण तूष्णीमरुददश्रुणा ।। ४००
ईदृशावेव मे बालौ मातामहगृहे स्थितौ ।
जातं मे तत्स्मृतेर्दुःखमित्युवाच च चेटिकाम् ।। ४०१
सा शिशुभ्यां सहागत्य चेटी सर्वं शशंस तत् ।
दमयन्त्यै ततः सापि जातास्था सुतरामभूत् ।। ४०२
अपरेद्युश्च तां प्रातः स्वचेटीमादिदेश सा ।
गत्वा तमृतुपर्णस्य सूदं मद्वचनाद्वद ।। ४०३
श्रुतं मया यद्भवता तुल्यो नान्योऽस्ति सूपकृत् ।
तन्ममाद्य त्वयागत्य व्यञ्जनं साध्यतामिति ।। ४०४
तथेति स तदा गत्वा नलश्चेट्या तयार्थितः ।
ऋतुपर्णमनुज्ञाप्य दमयन्तीमुपाययौ ।। ४०५
सत्यं ब्रूहि नलो राजा यदि त्वं सूदरूपभृत् ।
चिन्ताब्धिमग्नां पारं मां प्रापयाद्येत्युवाच सा ।। ४०६
तच्छ्रुत्वा स नलः स्नेहहर्षदुःखत्रपाकुलः ।
अवाङ्मुखः प्राप्तकालं तामुवाचाश्रुगद्गदम् ।। ४०७
स एवास्मि नलः सत्यं पापः कुलिशकर्कशः ।
त्वां संतापयता येन व्यामोहादनलायितम्।। ४०८
इत्युक्तवान्स पृष्टोऽभूद्दमयन्त्या तया नलः ।
यद्येवं तर्ह्यरूपत्वं कथं प्राप्तो भवानिति ।। ४०९
ततः स तस्यै स्वोदन्तं नलः कृत्स्नमवर्णयत् ।
कार्कोटसख्यादारभ्य कलिनिर्गमनावधिम् ।। ४१०
तदैव चाग्निशौचं तद्दत्तं कार्कोटकेन सः ।
प्रावृत्य वस्त्रयुगलं रूपं स्वं प्रत्यपद्यत ।। ४११
दृष्ट्वा नलं पुनरवाप्तनिजाभिरामरूपं तमाशु विकसद्वदनारविन्दा ।
नेत्राम्बुभिः शमितदुःखदवानलेव हर्षं कमप्यनुपमं दमयन्त्यवाप ।। ४१२
बुद्ध्वा च तत्परिजनात्प्रमदप्रवृत्तादागत्य तत्र सहसा स विदर्भराजः ।
भीमो नलं समभिनन्द्य कृतानुरूपपूजं महोत्सवमयं स्वपुरं चकार ।। ४१३
हसता हृदि भीमभूभुजा कृतसंवृत्त्युपचारसत्कियः ।
ऋतुपर्णनृपोऽपि तं नलं प्रतिपूज्याथ जगाम कोशलान् ।। ४१४
अथ निषधनरेश्वरो निजं कलिदौरात्म्यविजृम्भितं नलः ।
श्वशुराय स तत्र वर्णयन्नवसत्प्राणसमासखः सुखम् ।। ४१५
गत्वाल्पैश्च दिनैस्ततः स निषधान्सैन्यैः सह श्वाशुरै-
रक्षज्ञानजितं विधाय विनतं तं पुष्कराख्यं पुनः ।
धर्मात्मा कृतसंविभागमनुजं देहाद्गतद्वापरं
राज्यं स्वं दमयन्त्यवाप्तिसुखितो भेजे यथावन्नलः ।। ४१६
इति स व्याख्याय कथां नगरे तारापुरे द्विजः सुमनाः ।
राजसुतां बन्धुमतीं प्रोषितपतिकामुवाच तां भूयः ।। ४१७
एवं देवि महान्तो विषह्य दुःखं भजन्ति कल्याणम् ।
अनुभूयास्तमनं किल दिनकृत्प्रमुखा व्रजन्त्युदयम् ।। ४१८
तस्मात्त्वमपि तमाप्स्यसि पतिमनघे प्रोषितागतं नचिरात् ।
कुरु धृतिमरतिं परिहर विहर च पतिकामनालाभैः ।। ४१९
इति तं द्विजमुक्तयुक्तवाक्यं बहुनाभ्यर्च्य धनेन सद्गुणं सा ।
अवलम्ब्य धृतिं प्रतीक्षमाणा दयितं बन्धुमती स्वमत्र तस्थौ ।। ४२०
अल्पैरेव च तस्या दिनैः स पतिराययौ महीपालः ।
देशान्तरे स्थितां तां जननीमादाय पितृसहितः ।। ४२१
आगत्य चामृतांशुः पार्वण इव वारिराशिजललक्ष्मीम् ।
जननयनोत्सवदायी बन्धुमतीं नन्दयामास ।। - ४२२
अथ तत्र तया सहितस्तत्पित्रा पूर्वदत्तराज्यधुरः ।
स महीपालो बुभुजे राजा सन्नीप्सितान्भोगान् ।। ४२३
इत्यात्ममन्त्रिमरुभूतिमुखान्निशम्य चित्रां कथामनुपमामनुरागरम्याम् ।
रामासखः स नरवाहनदत्तदेवो वत्सेश्वरस्य तनयो भृशमभ्यतुष्यत् ।। ४२४
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलंकारवतीलम्बके षष्ठस्तरङ्गः ।

समाप्तश्चायमलंकारवतीलम्बको नवमः ।