प्रमुखा विकल्पसूचिः उद्घाट्यताम्

कथासरित्सागरः/लम्बकः ९/तरङ्गः २

< कथासरित्सागरः‎ | लम्बकः ९(कथासरित्सागरः/लम्बकः ९/तरङ् २ इत्यस्मात् पुनर्निर्दिष्टम्)

ततोऽलंकारवत्या स युक्तो वत्सेश्वरात्मजः ।
नरवाहनदत्तोऽत्र नववध्वा पितुर्गृहे ।। १
तच्चेटिकानां दिव्येन नृत्यगीतेन रञ्जितः ।
आपानं सेवमानश्च सचिवैः सह तस्थिवान् ।। २
एकदा च तमागत्य सा श्वश्रूः काञ्चनप्रभा ।
अलंकारवतीमाता विहितातिथ्यमब्रवीत् ।। ३
आगच्छास्मद्गृहं पश्य तत्सुन्दरपुरं पुरम् ।
रमस्व तत्रोपवनेष्वलंकारवतीयुतः ।। ४
एतच्छ्रुत्वा तथेत्युक्त्वा पितुरावेद्य तद्गिरा ।
वसन्तक सहादाय वध्वा सह समन्त्रिकः ।। ५
श्वश्र्वा विद्याप्रभावेण तयैव स विनिर्मितम् ।
विमानवरमारुह्य प्रतस्थे व्योमवर्त्मना ।। ६
विमानस्थश्च गगनात्सोऽधस्तात्प्रविलोकयन् ।
स्थलीपरिमितां पृथ्वीं समुद्रान्परिखालघून् ।। ७
 ... ............... ........ ... .. ।
............... .............. ।। ८
श्वश्रूभार्यादिभिः साकं क्रमात्प्राप हिमाचलम् ।
नादितं किंनरीगीतैः स्वर्वधूसंघसुन्दरम् ।। ९
तत्राश्चर्याणि सुबहून्येष पश्यन्नवाप्तवान् ।
नरवाहनदत्तोऽथ तत्सुन्दरपुरं युवा ।। १०
सौवर्णै रत्ननिचितैः प्रासादैर्हिमवत्यपि ।
सुमेरुशिखरभ्रान्तिं कुर्वद्भिरुपशोभितम् ।। ११
व्योमावतीर्णश्चोत्तीर्य विमानात्प्रविवेश तत् ।
सानाथ्यदर्शनान्नृत्यदिव लोलैर्ध्वजांशुकैः ।। १२
प्रविशद्राजधानीं च स श्वश्र्वा कृतमङ्गलः ।
अलंकारवतीयुक्तः सवयस्यवसन्तकः ।। १३
तत्र तं दिवसं दिव्यैर्भोगैः श्वश्रूप्रभावजैः ।
उवास सुकृती स्वर्ग इव श्वशुरवेश्मनि ।। १४
अन्येद्युस्तं च सा श्वश्रूरवोचत्काञ्चनप्रभा ।
अस्ति स्वयंभूर्भगवान्नगरेऽस्मिन्नुमापतिः ।। १४
स दृष्टपूजितो भोगं मोक्षं चैव प्रयच्छति ।
अलंकारवतीपित्रा तत्रोद्यानं कृतं महत् ।। १६
तीर्थं गङ्गासरःसंज्ञमन्वर्थं चावतारितम् ।
तं तत्रार्चयितुं देवं विहर्तुं चाद्य गच्छत ।। १७
एवं श्वश्र्वा तयोक्तस्तु शार्वोद्यानं सहानुगः ।
नरवाहनदत्तोऽगादलंकारवतीसखः ।। १८
तरुभिः काञ्चनस्कन्धै रत्नशाखामनोरमैः ।
मुक्तागुच्छाच्छकुसुमैः कान्तं विद्रुमपल्लवैः ।। १९
तत्र गङ्गासरःस्नातः पूजितोमापतिश्च सः ।
बभ्राम रत्नसोपाना वापीः काञ्चनपङ्कजाः ।। २०
तासां तीरेषु हृद्येषु कल्पवल्लीगृहेषु च ।
सहालंकारवत्या स विजहारानुगान्वितः ।। २१
दिव्यैरापानसंगीतैः परिहासैश्च पेशलैः ।
मरुभूत्यार्जवकृतै रमते स्म च तेषु सः ।। २२
मासमात्रमुवासैवं क्रीडन्नुद्यानभूमिषु ।
नरवाहनदत्तोऽत्र श्वश्रूविद्याविभूतिभिः ।। २३
ततो देवोचितैर्वस्त्रैरलंकारैश्च पूजितः ।
सवधूकः सहामात्यः काञ्चनप्रभया तया ।। २४
आययौ स विमानेन तेनैव सह सानुगः ।
कौशाम्बीं सहितो वध्वा पित्रोर्दत्तेक्षणोत्सवः ।। २५
तत्र वासवदत्ताया वत्सराजस्य चाग्रतः ।
अलंकारवतीमाह माता सा काञ्चनप्रभा ।। २६
दुःखं स्थाप्यस्त्वया भर्ता नेर्ष्याकोपेन जातुचित् ।
तत्पापजो हि विरहः पुत्रि गाढानुतापकृत् ।। २७
ईर्ष्यावत्या मया पूर्वं दुःखं यत्स्थापितः पतिः ।
ततोऽद्य पश्चात्तापेन दह्ये तस्मिन्गते वनम् ।। २८
इत्युक्त्वा तां समाश्लिष्य बाष्पसंरुद्धनेत्रया ।
काञ्चनप्रभया जग्मे खमुत्पत्य निजं पुरम् ।। २९
ततस्तस्मिन्दिने याते प्रातः कृत्वोचिताः क्रियाः ।
नरवाहनदत्तेऽत्र स्थिते स्वसचिवान्विते ।। ३०
अलंकारवतीपार्श्वं प्रविश्यैव विलासिनी ।
एकाब्रवीद्भीतमीता देवि स्त्रीं रक्ष रक्ष माम् ।। ३१
एष हि ब्राह्मणो हन्तुमागतो मां बहिः स्थितः ।
एतद्भयात्प्रविष्टाहं पलाय्य शरणैषिणी ।। ३२
मा भैषीर्ब्रूहि वृत्तान्तं कोऽयं किं त्वां जिघांसति ।
इति पृष्टा च सा वक्तुं भूय एव प्रचक्रमे ।। ३३
अशोकमाला नामाहमस्यामेव पुरि प्रभो ।
बलसेनाभिधानस्य क्षत्रियस्यात्मसंभवा ।। ३४
साहं कन्या सती पूर्वं रूपलुब्धेन याचिता ।
हठशर्माभिधानेन विप्रेणार्थवता पितुः ।। ३५
नाहं दुराकृतिं घोरमुखमिच्छाम्यमुं पतिम् ।
दत्ता नासे गृहेऽस्येति पितरं चाहमब्रवम् ।। ३६
तच्छ्रुत्वाप्यकरोत्तावद्धठशर्मा गृहे पितुः ।
प्रायं यावदहं दत्ता तेनास्मै वधभीरुणा ।। ३७
ततो विवाह्यानिच्छन्तीमप्यनैषीत्स मां द्विजः ।
अहं गता च तं त्यक्त्वैवान्यं क्षत्रियपुत्रकम् ।। ३८
सोऽभिभूतोऽर्थसंदर्पाद्यत्तेन हठशर्मणा ।
तद्द्वितीयो मया क्षत्रकुमारो धनवाञ्छ्रितः ।। ३९
तस्य तेनाग्निना रात्रौ गत्वैवोद्दीपितं गृहम् ।
ततस्तेन विमुक्ताहं तृतीयं क्षत्रियं गता ।। ४०
तस्याप्यादीपितं तेन निशि वेश्म द्विजन्मना ।
ततस्तेनाप्यहं त्यक्ता संप्राप्ता कांदिशीकताम् ।। ४१
जम्बुकादविकेवाथ बिभ्यती हन्तुकामतः ।
हठशर्मद्विजात्तस्मात्पदात्पदममुञ्चतः ।। ४२
इहैव युष्मद्भृत्यस्य बलिनो वीरशर्मणः ।
राजपुत्रस्य दासीत्वे शरण्यस्याहमाश्रयम् ।। ४३
तद्बुद्ध्वा मयि नैराश्यविधुरो विरहातुरः ।
त्वगस्थिशेषः संवृत्तो हठशर्मा स दुर्मतिः ।। ४४
मद्रक्षार्थं प्रवृत्तश्च बन्धनायेह तस्य सः ।
राजपुत्रो मया देवि वीरशर्मा निवारितः ।। ४५
अद्य मां निर्गतां दैवाद्दृष्ट्वाकृष्टकृपाणिकः ।
हठशर्मा स हन्तुं मामितो यावत्प्रधावितः ।। ४६
तेनागता पलाय्येह प्रतीहार्या दयार्द्रया ।
मुक्तद्वारा प्रविष्टाहं स च जाने स्थितो बहिः ।। ४७
इत्युक्तवत्यां तस्यां च हठशर्माणमात्मनः ।
नरवाहनदत्तस्तमग्रमानाययद्द्विजम् ।। ४८
क्रोधादशोकमालां तां पश्यन्तं दीप्तया दृशा ।
विकृतं क्षुरिकाहस्तं कोपकम्पाङ्गसंधिकम् ।। ४९
उवाच चैनं कुब्रह्मन्स्त्रियं हंसि दहस्यपि ।
तदर्थं परवेश्मानि किमर्थं पापकार्यसि ।। ५०
तच्छ्रुत्वा स द्विजोऽवादीद्धर्मदारा इयं मम ।
त्यक्त्वा मां चान्यतो याता सहेय तदहं कथम् ।। ५१
इत्युक्ते तेन विग्ना साशोकमाला तदाब्रवीत् ।
भो लोकपाला ब्रूतैतत्किं न युष्मासु साक्षिषु ।। ५२
अनिच्छन्ती हठान्नीता विवाह्याहमिहामुना ।
किं तदा च मया नोक्तं नासिष्ये ते गृहेष्विति ।। ५३
एवमुक्ते तया तत्र दिव्या वागेवमभ्यधात् ।
यथैवाशोकमालेयं वक्ति सत्यं तथैव तत् ।। ५४
न चैषा मानुषी तत्त्वमेतदीयं निशम्यताम् ।
अस्त्यशोककरो नाम वीरो विद्याधरेश्वरः ।। ५५
तस्यापुत्रस्य चैकैव दैवादजनि कन्यका ।
अशोकमाला नाम्ना सावर्धतास्य पितुर्गृहे ।। ५६
यौवनस्था च सा तेन दीयमानान्वयार्थिना ।
न कंचिदैच्छद्भर्तारमतिरूपाभिमानतः ।। ५७
तेन शापमदात्सोऽस्यै निर्बन्धकुपितः पिता ।
मानुष्यं व्रज नामात्र भविता च स्वमेव ते ।। ५८
परिणेष्यति चात्र त्वां विरूपो ब्राह्मणो हठात् ।
तं त्यक्त्वा तद्भयाद्भर्तॄन्क्रमेण त्रीनुपैष्यसि ।। ५९
ततोऽऽप्युपद्रुता तेन दासीत्वेनाश्रयिष्यसि ।
राजपुत्रं बलीयांसं न चैव स निवर्त्सति ।। ६०
दृष्ट्वा च धाविते तस्मिन्हन्तुकामे पलायिता ।
प्रविष्टा राजभवनं शापादस्माद्विमोक्ष्यसे ।। ६१
एवं याशोकमाला सा पित्रा विद्याधरी पुरा ।
शप्ता तेनैव नाम्नाद्य सैषा जातात्र मानुषी ।। ६२
जातश्च सैष शापान्तोऽमुष्या गत्वाधुना पदम् ।
वैद्याधरं स्वं तत्रस्था प्रवेक्ष्यति निजां तनुम् ।। ६३
ततोऽभिरुचिताख्येन विद्याधरमहीभुजा ।
वृतेन भर्त्रा सहिता शापं संस्मृत्य रंस्यते ।। ६४
इत्युक्त्वा विरतं वाचा दिव्यया सापि तत्क्षणम् ।
अशोकमाला सहसा गतजीवापतद्भुवि ।। ६५
दृष्ट्वा च तदलंकारवती बाष्पायितेक्षणा ।
नरवाहनदत्तश्च तत्पार्श्वस्थौ बभूवतुः ।। ६६
स तु दुःखजितामर्षो रागान्धो विलपन्नपि ।
अकस्माद्धठशर्माभूद्धर्षोत्फुल्लाननो द्विजः ।। ६७
किमेतदिति पृष्टश्च सर्वैर्विप्रो जगाद सः ।
मया जन्म स्मृतं पूर्वं तच्च वच्मि निशम्यताम् ।। ६८
हिमाद्रावस्ति मदनपुरं नामोत्तमं पुरम् ।
प्रलम्बभुज इत्यस्ति तत्र विद्याधरेश्वरः ।। ६९
तस्मोदपद्यत स्थूलभुजाख्यस्तनयः प्रभो ।
स च राजसुतो भव्यो यौवनस्थोऽभवत्क्रमात् ।। ७०
ततः सुरभिवत्साख्यो विद्याधरपतिः स्वयम् ।
सकन्यो गृहमागत्य प्रलम्बभुजमाह तम् ।। ७१
इयं सुरभिदत्ताख्या सुता त्वत्सूनवे मया ।
दत्ता स्थूलभुजायाद्य गुणवान्स वहत्विमाम् ।। ७२
तच्छ्रुत्वा प्रतिपद्यैव समाहूय स्वसूनवे ।
स प्रलम्बभुजस्तस्मायेतमर्थं न्यवेदयत् ।। ७३
ततः स तं स्थूलभुजो रूपदर्पात्सुतोऽब्रवीत् ।
परिणेष्ये न तातैनां रूपेणैषा हि मध्यमा ।। ७४
किं पुत्रात्यन्तरूपेण मान्या ह्येषा महान्वया ।
पित्रा दत्ता मया चात्ता त्वत्कृते मान्यथा कृथाः ।। ७५
इत्युक्तश्च पुनस्तेन पित्रा स्थूलभुजः स तत् ।
नाकरोद्यत्ततस्तं स शशाप कुपितः पिता ।। ७६
रूपाहंकारदोषेण मानुष्येऽवतरामुना ।
भविष्यसि च तत्र त्वं विकृतो विकटाननः ।। ७७
भार्यामशोकमालाख्यां प्राप्य शापच्युतां हठात् ।
प्राप्तासि विरहक्लेशमनिच्छन्त्या तयोज्झितः ।। ७८
तस्याश्चान्यप्रसक्तायाः कृते दुःखकृशीकृतः ।
करिष्यस्यग्निदाहादि पातकं रागमोहितः ।। ७९
इत्युक्तशापं रुदती तं प्रलम्बभुजं तदा ।
साध्वी सुरभिदत्ता सा पादलग्ना व्यजिज्ञपत् ।। ८०
देहि शापं ममाप्येवं समास्तु गतिरावयोः ।
मा भून्मे भर्तुरेकस्य क्लेशो मदपराधतः ।। ८१
एवमुक्तवतीं तुष्टः साध्वीं तां परिसान्त्वयन् ।
स प्रलम्बभुजः सूनोरेवं शापान्तमभ्यधात् ।। ८२
यदैवाशोकमालायाः शापमोक्षो भविष्यति ।
तदैव जातिं स्मृत्वायं शापादस्माद्विमोक्ष्यते ।। ८३
प्राप्य च स्वतनुं शापं संस्मरन्निरहंकृतिः ।
अचिरात्त्वां विवाह्येह त्वद्युक्तो भविता सुखी ।। ८४
इत्युक्ता तेन सा साध्वी कथंचिद्धृतिमाददे ।
तं च जानीत मां स्थूलभुजं शापादिह च्युतम् ।। ८५
दृष्टं मया चाहंकारदोषाद्दुःखमिदं महत् ।
पुंसामदृष्टे दृष्टे वा श्रेयोऽहंकारिणां कुतः ।। ८६
क्षीणो मे स च शापोऽद्येत्युक्त्वा मुक्त्वा च तां तनुम् ।
हठशर्मा स संपेदे विद्याधरकुमारकः ।। ८७
अशोकमालादेहं च नीत्वा विद्याप्रभावतः ।
अदृश्यमेव चिक्षेप गङ्गायामानृशंस्यतः ।। ८८
विद्याप्रभावानीतैश्च तत्तोयैरभितः क्षणात् ।
अक्षालयदलंकारवतीवासगृहं स तत् ।। ८७
नरवाहनदत्तं च नत्वा तं भाविनं प्रभुम् ।
स्वकार्यसिद्धये प्रायादुत्पत्य स नभस्ततः ।। ९०
विस्मितेष्वथ सर्वेषु प्रसङ्गादत्र गोमुखः ।
अनङ्गरतिसंबद्धामिमामकथयत्कथाम् ।। ९१
अस्ति शूरपुरं नाम यथार्थं नगरं भुवि ।
महावराह इत्यासीद्राजा तत्रातिदुर्मदः ।। ९२
गौर्याराधनतस्तस्य देव्यां पद्मरतौ सुता ।
जज्ञेऽनङ्गरतिर्नाम भूपस्यानन्यसंततेः ।। ९३
कालेन यौवनारूढा सा च रूपाभिमानिनी ।
नेच्छति स्म पतिं कंचिद्याचमानेषु राजसु ।। ९४
यः शूरो रूपवानेकं विज्ञानं वेत्ति शोभनम् ।
तस्मै मयात्मा दातव्य इत्युवाच तु निश्चयात् ।। ९५
अथ तत्राययुर्वीराश्चत्वारो दक्षिणापथात् ।
तत्प्रेप्सवः श्रुतोदन्तास्तदीप्सितगुणान्विताः ।। ९६
द्वाःस्थैरावेदितांस्तांश्च प्रविष्टान्पृच्छति स्म सः ।
महावराहो नृपतिरनङ्गरतिसंनिधौ ।। ९७
नाम किं कस्य युष्माकं जातिर्विज्ञानमेव च ।
एतद्राजवचः श्रुत्वा तेष्वेकस्तं व्यजिज्ञपत् ।। ९८
पञ्चपट्टिकनामाहं शूद्रो विज्ञानमस्ति मे ।
वयामि प्रत्यहं पञ्च पट्टिकायुगलानि यत् ।। ९९
तेभ्य एकं प्रयच्छामि ब्राह्मणाय ददामि च ।
द्वितीयं परमेशाय तृतीयं च वसे स्वयम् ।। १००
चतुर्थे मे भवेद्भार्या यदि तस्यै ददामि तत् ।
शरीरयात्रां विक्रीय पञ्चमेन करोम्यहम् ।। १०१
अथ द्वितीयोऽप्याचख्यावहं भाषाज्ञसंज्ञकः ।
वैश्यो रुतं विजानामि सर्वेषां मृगपक्षिणाम् ।। १०२
ततस्तृतीयोऽप्यवददहं खड्गधराभिधः ।
क्षत्रियः खड्गयुद्धेन जीये नान्येन केनचित् ।। १०३
चतुर्थश्चाब्रवोज्जीवदत्ताख्योऽहं द्विजोत्तमः ।
गौरीप्रसादविद्याभ्यां जीवयामि मृतां स्त्रियम् ।। १०४
एवमुक्तवतां तेषां शूद्रविट्क्षत्रियास्त्रयः ।
रूपं शौर्यं बलं चैव शशंसुः पृथगात्मनः ।। १०५
ब्राह्मणो रूपवर्जं तु बलवीर्यं शशंस सः ।
ततो महावराहः स्वं क्षत्तारमवदन्नृपः ।। १०६
नीत्वा विश्रमयैतास्त्वं संप्रति स्वगृहेऽखिलान् ।
तच्छ्रुत्वा स तथेत्युक्त्वा क्षत्ता तानानयद्गृहम् ।। १०७
ततोऽब्रवीत्स राजा तामनङ्गरतिमात्मजाम् ।
एषां चतुर्णां वीराणां पुत्रि कोऽभिमतस्तव ।। १०८
श्रुत्वैतत्पितरं तं सा प्राहानङ्गरतिस्तदा ।
चतुर्णामपि तातैषां न कोऽप्यभिमतो मम ।। १०९
शूद्रश्च वायकश्चैकः क्रियते तस्य किं गुणैः ।
वैश्यो द्वितीयः पक्ष्यादिरुतैर्ज्ञातैश्च तस्य किम् ।। ११०
ताभ्यां कथमहं दद्यामात्मानं क्षत्रिया सती ।
तृतीयस्तुल्यवर्णो मे भवति क्षत्रियो गुणी ।। १११
किं तु सेवोपजीवी स दरिद्रः प्राणविक्रयी ।
पृध्वीपतिसुता भूत्वा कथं स्यां तस्य गेहिनी ।। ११२
चतुर्थो ब्राह्मणो जीवदत्तोऽप्यभिमतो न मे ।
स विरूपो विकर्मस्थः पतितो वेदवर्जितः ।। ११३
स ते दण्डयितुं युक्तः किं नु तस्मै ददासि माम् ।
वर्णाश्रमाणां धर्मस्य राजा त्वं तात रक्षिता ।। ११४
खड्गशूराच्च नृपतेर्धर्मशूरः प्रशस्यते ।
खड्गशूरसहस्राणां धर्मशूरो भवेत्पतिः ।। ११५
इत्याद्युक्तवतीमेतां सुतामन्तःपुरं निजम् ।
विसृज्य च समुत्तस्थौ स्नानाद्यर्थं स भूपतिः ।। ११६
द्वितीयेऽह्नि च ते वीरा गृहात्क्षत्तुर्विनिर्गताः ।
बभ्रमुर्नगरे तत्र चत्वारोऽपि सकौतुकाः ।। ११७
तावच्च पद्मकवलो नामात्र व्यालवारणः ।
भग्नालानो जनं मथ्नञ्शालाया निरगान्मदात् ।। ११८
सोऽप्यधावच्च तान्दृष्ट्वा वीरान्हन्तुं महागजः ।
ते चापि तस्याभिमुखं प्राधावन्नुद्यतायुधाः ।। ११९
ततः खड्गधराख्यो यस्तन्मध्ये क्षत्रियः स तान् ।
अन्यान्निवार्य त्रीनेको गजमभ्यापपात तम् ।। १२०
लुलाव च करं तस्य गर्जतोऽग्रप्रसारितम् ।
एकेनापि प्रहारेण बिसकन्दावहेलया ।। १२१
पादमध्ये च निर्गत्य दर्शयित्वा च लाघवम् ।
प्रहारं प्रददौ पृष्ठे द्वितीयं तस्य दन्तिनः ।। १२२
तृतीयेन च चिच्छेद तस्य पादावुभावपि ।
ततो मुक्तारटिर्हस्ती पपात च ममार च ।। १२३
तं दृष्ट्वा विक्रमं तस्य जनः सर्वो विसिस्मिये ।
राजा महावराहस्तद्बुद्ध्वा चित्रीयते स्म च ।। १२४
अन्येद्युः स गजारूढो मृगयायै नृपो ययौ ।
वीराः खड्गधराद्यास्ते चत्वारोऽपि तमन्वगुः ।। १२५
तत्र व्याघ्रमृगक्रोडान्ससैन्ये राज्ञि निघ्नति ।
अधावन्कुपिताः सिंहाः श्रुतवारणबृंहिताः ।। १२६
अभ्यापतन्तमेकं च सिंहं खड्गधरोऽथ सः ।
एकेन तीक्ष्णनिस्त्रिंशप्रहारेण द्विधाकरोत् ।। १२७
द्वितीयं च गृहीत्वैव चरणे वामपाणिना ।
आस्फोट्य भूतले सिंहं चकार गतजीवितम् ।। १२८
भाषाज्ञो जीवदत्तश्च पञ्चपट्टिक एव च ।
एकैकः सिंहमेकैकं तथैवास्फोटयद्भुवि ।। १२९
एवं क्रमेण ते राज्ञः पश्यतः पादचारिभिः ।
लीलया बहवो वीरैः सिंहव्याघ्रादयो हताः ।। १३०
ततः सविस्मयस्तुष्टः कृताखेटः स भूपतिः ।
विवेश स्वपुरं तेऽपि वीराः क्षत्तुर्गृहं ययुः ।। १३१
स च राज्ञा प्रविश्यान्तःपुरं श्रान्तोऽपि तत्क्षणम् ।
तत्रैवानाययामास तामनङ्गरतिं सुताम् ।। १३२
आख्याय तेषां वीराणामेकैकस्य पराक्रमम् ।
आखेटके यथादृष्टं तामुवाचातिविस्मिताम् ।। १३३
पञ्चपट्टिकभाषाज्ञावसवर्णावुभौ यदि ।
विप्रोऽपि जीवदत्तश्चेद्रूपहीनो विकर्मकृत् ।। १३४
तत्क्षत्रियस्य दोषोऽस्ति तस्य खड्गधरस्य कः ।
सुप्रमाणसुरूपस्य बलविक्रमशालिनः ।। १३५
येन हस्ती हतस्तादृग्यः पिनष्टि च भूतले ।
गृहीत्वा पादतः सिंहान्खड्गेनान्यान्निहन्ति च ।। १३६
दरिद्रः सेवकश्चेति दोषस्तस्योच्यते यदि ।
अहं तं सेव्यमन्येषां करिष्यामीश्वरं क्षणात् ।। १३७
तत्तं वृणीष्व भर्तारं यदि ते पुत्रि रोचते ।
इत्युक्ता तेन सानङ्गरतिः पित्रा जगाद तम् ।। १३८
तर्ह्यानीतेषु सर्वेषु तेषु वीरेष्विह त्वया ।
गणकः पृच्छयतां तावत्पश्यामः किं ब्रवीति सः ।। १३९
एवं तयोक्तः स नृपो वीरानानाय्य तत्र तान् ।
तत्संनिधौ सानुरोधः पप्रच्छ गणकं स्वयम् ।। १४०
पश्यानङ्गरतेरेषां मध्यात्केन समं मिथः ।
अस्त्यानुकूल्यं लग्नश्च भवेत्तस्याः कदा शुभः ।। १४१
तच्छ्रुत्वा पृष्टनक्षत्रस्तेषां स गणकोत्तमः ।
गणयित्वा चिरं कालं राजानं तमभाषत ।। १४२
न चेत्कुप्यसि मे देव स्फुटं विज्ञापयामि तत् ।
अस्ति त्वद्दुहितुर्नैषामेकेनाप्यनुकूलता ।। १४३
न चेहास्ति विवाहोऽस्या एषा शापच्युतात्र यत् ।
विद्याधरी स शापोऽस्यास्त्रिभिर्मासैर्निवर्त्सति ।। १४४
तस्मान्मासत्रयं तावत्प्रतीक्षन्ताममी इह ।
नैषां स्वलोकं याता चेत्तत एतद्भविष्यति ।। १४५
एतन्मौहूर्तिकस्यास्य वचः सर्वेऽपि तत्र ते ।
श्रद्दधुस्तत्र चैवासन्वीरा मासत्रयावधि ।। १४६
गते मासत्रये राजा तान्वीरान्गणकं च तम् ।
स्वाग्रमानाययामास तामनङ्गरतिं च सः ।। १४७
दृष्ट्वा चाधिकसौन्दर्यामकस्मात्तां सुतां नृपः ।
जहर्ष गणकस्तां तु प्राप्तकालाममन्यत ।। १४८
इदानीं ब्रूहि यद्युक्तं ते हि मासास्त्रयो गताः ।
इति यावच्च तं राजा गणकं पृच्छति स्म सः ।। १४९
तावज्जातिं निजां स्मृत्वा सानङ्गरतिराननम् ।
आच्छाद्य स्वोत्तरीयेण मानुषीं तां तनुं जहौ ।। १५०
एवमेषा स्थिता किंस्विदिति राज्ञा स्वयं मुखम् ।
यावदुद्धाट्यते तस्यास्तावत्सा ददृशे मृता ।। १५१
व्यावृत्तनेत्रभ्रमरा विवर्णवदनाम्बुजा ।
हंसमञ्जुस्वनोन्मुक्ता पद्मिनीव हिमाहता ।। १५२
ततः स सद्यस्तच्छोकवज्रपाताहतो भुवि ।
भूभृत्पपात निश्चेष्टः स्वपक्षच्छेदमूर्च्छितः ।। १५३
राज्ञी पद्मरतिः सापि व्यामोहपतिता ययौ ।
भ्रष्टाभरणपुष्पा क्ष्मामिभभग्नेव मञ्जरी ।। १५४
मुक्ताक्रन्दे परिजने तेषु वीरेषु दुःखिषु ।
लब्धसंज्ञः क्षणाद्राजा जीवदत्तमुवाच तम् ।। १५५
नात्रैषा शक्तिरन्येषामधुनावसरोऽस्तु ते ।
प्रतिज्ञातं त्वया नारीं जीवयामि मृतामिति ।। १५६
यदि विद्याबलं तेऽस्ति तज्जीवय सुतां मम ।
दास्यामि तुभ्यमेवैतां विप्राय प्राप्तजीविताम् ।। १५७
इति राज्ञो वचः श्रुत्वा जीवदत्तोऽभिमन्त्रितैः ।
अभ्युक्ष्य तोयैस्तां राजपुत्रीमार्यामिमां जगौ ।। १५८
अट्टाट्टहासहसिते करङ्कमालाकुले दुरालोके ।
चामुण्डे विकराले साहाय्यं मे कुरु त्वरितम् ।। १५९
एवं तेन कृते यत्ने जीवदत्तेन सा यदा ।
बाला न जीवितं प्राप विषण्णः सोऽवदत्तदा ।। १६०
दत्तापि विन्ध्यवासिन्या विद्या मे निष्फला गता ।
तदेतेनोपहास्येन किं कार्यं जीवितेन मे ।। १६१
इत्युक्त्वा जीवदत्तः स्वं शिरश्छेत्तुं महासिना ।
यावत्प्रवर्तते तावदुदगाद्भारती दिवः ।। १६२
भो जीवदत्त मा कार्षीः साहसं शूणु संप्रति ।
एषानङ्गप्रभा नाम सद्विद्याधरकन्यका ।। १६३
पित्रोः शापेन मानुष्यमियन्तं कालमागता ।
त्यक्त्वाद्यैतां तनुं याता स्वलोकं स्वतनुं श्रिता ।। १६४
तद्विन्ध्यवासिनीमेव गत्वाराधय तां पुनः ।
तत्प्रसादादिमां प्राप्स्यस्यपि विद्याधरीं सतीम् ।। १६५
न चैषा दिव्यभोगस्था शोच्या राज्ञो न चापि ते ।
इत्युदीर्य यथातत्त्वं दिव्या वाग्विरराम सा ।। १६६
ततः सुतायाः संस्कारं कृत्वा राजा जहौ शुचम् ।
सदारोऽपि ययुस्तेऽन्ये त्रयो वीरा यथागतम् ।। १६७
जीवदत्तस्तु जातास्थो गत्वा तां विन्ध्यवासिनीम् ।
तपसाराधयामास स्वप्ने साप्यादिदेश तम् ।। १६८
तुष्टा तवाहमुत्तिष्ठ शृणु चेदं ब्रवीमि ते ।
अस्ति वीरपुरं नाम नगरं तुहिनाचले ।। १६९
विद्याधराधिराजोऽस्ति समरो नाम तत्र च ।
तस्यानङ्गवतीदेव्यां सुतानङ्गप्रभाजनि ।। १७०
सा रूपयौवनोत्सेका नैच्छत्कंचित्पतिं यदा ।
तदातिदुर्ग्रहक्रुद्धौ पितरौ शपतः स्म ताम् ।। १७१
मानुष्यं व्रज तत्रापि न भर्तृसुखमाप्स्यसि ।
कन्येव षोडशाब्दा तां त्यक्त्वा तनुमिहैष्यसि ।। १७२
मर्त्यो विरूपो भावी च खड्गसिद्धोऽथ ते पतिः ।
मुनिकन्याभिलाषेण शापान्मर्त्यत्वमागतः ।। १७३
अनिच्छन्तीमपि त्वां च मर्त्यलोकं स नेष्यति ।
त्वया तस्य वियोगोऽत्र भविष्यत्यन्यनीतया ।। १७४
पूर्वजन्मनि तेनाष्टौ हृता हि परयोषितः ।
तेनाष्टजन्मभोगार्ह दुःखं सोऽनुभविष्यति ।। १७५
त्वं चात्र जन्मन्येकस्मिन्नष्टानामिव जन्मनाम् ।
दुःखं प्राप्स्यसि विद्यानां भ्रंशेन मनुजीकृता ।। १७६
सर्वस्यैव हि पापिष्ठसंपर्कः पापभागदः ।
समपापः पुनः स्त्रीणां भर्त्रा पापेन संगमः ।। १७७
नष्टस्मृतिः पतींश्चात्र बहून्प्राप्स्यसि मानुषान् ।
त्वयोचितवरद्वेषदुर्ग्रहो विहितो यतः ।। १७८
योऽयाचत समानस्त्वां द्युचरो मदनप्रभः ।
भूत्वा स मानुषो भूभृदन्ते भावी पतिस्तव ।। १७९
ततस्त्वं शापनिर्मुक्ता स्वलोकं पुनरागता ।
तमेव द्युचरीभूतं संप्राप्स्यस्युचितं पतिम् ।। १८०
तदेवं पितृशप्ता सा भूत्वानङ्गरतिः क्षितौ ।
प्राप्ताद्य पित्रोर्निकटं जातानङ्गप्रभा पुनः ।। १८१
अतो वीरपुरं गत्वा जित्वा तत्पितरं रणे ।
जानन्तमपि कौलीनरक्षितं तामवाप्नुहि ।। १८२
इमं गृहाण खड्गं च येन हस्तगतेन ते ।
गतिर्भविष्यत्याकाशे किं चाजेयो भविष्यसि ।। १८३
इत्युक्त्वार्पितखड्गा सा तस्य देवी तिरोदधे ।
स च प्रबुबुधे दिव्यं खड्गं हस्ते ददर्श च ।। १८४
अथोत्थाय प्रहृष्टात्मा जीवदत्तो नताम्बिकः ।
तत्प्रसादामृताप्यायशान्ताशेषतपःक्लमः ।। १८५
खड्गहस्तः खमुपत्य परिभ्रम्य हिमालयम् ।
प्राप वीरपुरस्थं तं समरं द्युचरेश्वरम् ।। १८६
तेन युद्धजितेनात्र प्रदत्तां परिणीय सः ।
तामनङ्गप्रभां भेजे दिव्यां संभोगसंपदम् ।। १८७
कंचित्कालं स्थितश्चात्र श्वशुरं समरं स तम् ।
जीवदत्तो जगादैवं तां चानङ्गप्रभां प्रियाम् ।। १८८
मनुष्यलोकं गच्छावस्तं प्रत्युत्कण्ठितोऽस्मि यत् ।
प्राणिनां हि निकृष्टापि जन्मभूमिः परा प्रिया ।। १८९
एतच्छ्रुत्वा वचस्तस्य श्वशुरः सोऽन्वमन्यत ।
सा त्वनङ्गप्रभा कृच्छ्रादनुमेने विजानती ।। १९०
अथाङ्कोपात्तया साकमनङ्गप्रभया तया ।
जीवदत्तः स नभसा मर्त्यलोकमवातरत् ।। १९१
दृष्ट्वात्र रम्यमेकं च पर्वतं सा जगाद तम् ।
श्रान्तानङ्गप्रभा क्षिप्रमिह विश्रम्यतामिति ।। १९२
ततस्तथेति तत्रैव सोऽवतीर्य तया सह ।
चकाराहारपानादि तत्तद्विद्याप्रभावतः ।। १९३
ततोऽनङ्गप्रभां जीवदत्तोऽसौ विधिचोदितः ।
तामुवाच प्रिये किंचिन्मधुरं गीयतां त्वया ।। १९४
तच्छ्रुत्वा गातुमारेभे सा भक्त्या धूर्जटेः स्तुतिम् ।
तेन तद्गीतशब्देन सोऽथ निद्रामगाद्द्विजः ।। १९५
तावदाखेटकश्रान्तो निर्झराम्भोभिलाषुकः ।
राजा हरिवरो नाम पथा तेन किलाययौ ।। १९६
स तेन गीतशब्देन श्रुतेन हरिणो यथा ।
आकृष्टोऽभ्यापतत्तत्र रथमुन्मुच्य केवलः ।। १९७
शकुनैः पूर्वमाख्यातशुभोऽपश्यत्स भूपतिः ।
तामनङ्गप्रभां संत्यामनङ्गस्य प्रभामिव ।। १९८
तदा तद्गीतरूपाभ्यां नीतं तस्य विहस्तताम् ।
निर्बिभेद यथाकामं हृदयं मदनः शरैः ।। १९९
सापि तं वीक्ष्य सहसा सुभगं पुष्पधन्वनः ।
पतिता गोचरेऽनङ्गप्रभा क्षणमचिन्तयत् ।। २००
कोऽयं किमयमुन्मुत्त पुष्पचापो मनोभवः ।
किं मूर्तो गीततुष्टस्य शर्वस्यानुग्रहो मयि ।। २०१
इति संचिन्त्य पप्रच्छ सा तं मदनमोहिता ।
कस्त्वं कथं वनं चेदमागतोऽस्युच्यतामिति ।। २०२
ततो यथागतो यः स सर्वं तस्यै शशंस तत् ।
स राजा तामथापृच्छत्का त्वं सुन्दरि शंस मे ।। २०३
यश्च सुप्तस्थितोऽत्रायमेष कः कमलानने ।
इति तं पृष्टवन्तं च संक्षेपेण जगाद सा ।। २०४
अहं विद्याधरी खङ्गसिद्धश्चैष पतिर्मम ।
दृष्टमात्रे च जातास्मि सानुरागाधुना त्वयि ।। २०५
तदेहि तावद्गच्छावस्त्वदीयं नगरं द्रुतम् ।
तावत्प्रबुध्यते नायं तत्र वक्ष्यामि विस्तरात् ।। २०६
श्रुत्वैतत्तद्वचो राजा प्रतिपद्य तथेति सः ।
त्रैलोक्यराज्यसंप्राप्तिहर्षं हरिवरो दधे ।। २०७
नृपमङ्के गृहीत्वेमं गच्छाम्युत्पत्य खं जवात् ।
इत्यनङ्गप्रभा सान्तः सत्वरा समचिन्तयत् ।। २०८
तावच्च भ्रष्टविद्याभूद्भर्तृद्रोहेण तेन सा ।
स्मरन्ती पितृशापं च विषादं सहसा ययौ ।। २०९
तद्दृष्ट्वा कारणं पृष्ट्वा स राजा तामभाषत ।
न विषादस्य कालोऽयं प्रबुध्येतैष ते पतिः ।। २१०
दैवायत्तं च वस्त्वेतच्छोचितुं नार्हसि प्रिये ।
को हि स्वशिरसश्छायां विधेश्चोल्लङ्घयेद्गतिम् ।। २११
तदेहि याम इत्युक्त्वा तां स श्रद्धिततद्गिरम् ।
अङ्के हरिवरश्चक्रे राजानङ्गप्रभां द्रुतम् ।। २१२
ततो निधानलब्ध्येव तुष्टो गत्वा जवात्ततः ।
राजारुरोह स्वरथं स भृत्यैरभिनन्दितः ।। २१३
तेन स्वनगरं प्राप स मनःशीघ्रगामिना ।
रथेन रमणीयुक्तः प्रजानां दत्तकौतुकः ।। २१४
स्वनामलाञ्छने तस्मिन्सोऽनङ्गप्रभया तया ।
सह दिव्यसुखस्तस्थौ ततो हरिवरो नृपः ।। २१५
साप्यनङ्गप्रभा तत्रैवासीत्तदनुरागिणी ।
विस्मृत्य स्वं प्रभावं तं सर्वं शापविमोहिता ।। २१६
अत्रान्तरे स तत्राद्रौ जीवदत्तो न केवलम् ।
प्रबुद्धो नैक्षतानङ्गप्रभां यावत्स्वमप्यसिम् ।। २१७
क्व सानङ्गप्रभा कष्टं क्व स खड्गोऽपि किं नु तम् ।
हृत्वा गता सा किं वा तौ नीतौ द्वावपि केनचित् ।।२ १८
इत्युद्भ्रान्तो बहून्कुर्वन्वितर्कान्स दिनत्रयम् ।
गिरिं तं विचिनोति स्म दह्यमानः स्मराग्निना ।। २१९
ततोऽवतीर्य चिन्वानो वनानि दिवसान्दश ।
स बभ्राम न चापश्यत्तस्याः पादमपि क्वचित् ।। २२०
हा दुर्जनविधे कृच्छ्रात्सा दत्तापि कथं त्वया ।
खड्गसिद्ध्या सह हृता प्रियानङ्गप्रभा मम ।। २२१
इत्याक्रन्दन्निराहारो भ्रमन्नेकमवाप्तवान् ।
ग्रामं तत्र विवेशैकमाढ्यं द्विजगृहं च सः ।। २२२
गृहिणी तत्र सुभगा सुवस्त्रा चोपवेश्य तम् ।
आसने प्रियदत्ताख्या स्वचेटीः शीघ्रमादिशत् ।। २२३
त्वरितं जीवदत्तस्य पादौ क्षालयतास्य हि ।
निराहारस्य विरहाद्दिनमद्य त्रयोदशम् ।। २२४
तच्छ्रुत्वा विस्मितो जीवदत्तोऽन्तर्विममर्श सः ।
इहानङ्गप्रभा प्राप्ता किं किमेषाथ योगिनी ।। २२५
इति ध्यायन्धौतपादो भुक्ततद्दत्तभोजनः ।
प्रणतः प्रियदत्तां तामत्यार्त्या पृच्छति स्म सः ।। २२६
एकं ब्रूहि कथं वेत्सि मद्वृत्तान्तमनिन्दिते ।
द्वितीयं चापि कथय प्रियाखड्गौ क्व मे गतौ ।। २२७
तच्छ्रुत्वा तमवोचत्सा प्रियदत्ता पतिव्रता ।
भर्तुरन्यो न मे चित्ते स्वप्नेऽपि कुरुते पदम् ।। २२८
पुत्रभ्रातृसमानन्यान्पश्यामि पुरुषानहम् ।
न च मेऽनर्चितो याति कदाचिदतिथिर्गृहात् ।। २२९
तत्प्रभावेण जानामि भूतं भव्यं च भावि च ।
सा चानङ्गप्रभा नीता राज्ञा हरिवरेण ते ।। २३०
सुप्ते त्वयि विधेर्योगात्तन्मार्गागामिना तदा ।
गीताकृष्टोपयातेन स्वनामपुरवासिना ।। २३१
सा च शक्या न ते प्राप्तुं स हि राजा महाबलः ।
सा पुनस्तमपि त्यक्त्वा कुलटान्यत्र यास्यति ।। २३२
खड्गं च देवी प्रादात्ते तत्प्राप्त्यै तद्विधाय सः ।
तस्यां हृतायां दिव्यत्वाद्देव्या एवान्तिकं गतः ।। २३३
किं च देव्यैव तेऽनङ्गप्रभाशापोपवर्णने ।
स्वप्ने भावि यदादिष्टं तत्कथं विस्मृतं तव ।। २३४
तदेष भवितव्येऽर्थे व्यामोहस्ते वृथैव कः ।
पापानुबन्धं मुञ्चैनं भूयोभूयोऽतिदुःखदम् ।। २३५
किं वाधुना तव तया पापयान्यानुरक्तया ।
मानुषीभूतया भ्रातस्त्वद्द्रोहभ्रष्टविद्यया ।। २३६
इत्युक्तः स तया साध्व्या त्यक्तानङ्गप्रभास्पृहः ।
तच्चापलविरक्तात्मा जीवदत्तो जगाद ताम् ।। २२७
शान्तस्त्वद्वचसा मोहः सत्येनाम्बामुना मम ।
कामं न श्रेयसे कस्य संगमः पुण्यकर्मभिः ।। २३८
पूर्वपापवशादेतद्दुःखमापतितं मम ।
तत्क्षालनाय यास्यामि तीर्थान्युज्झितमत्सरः ।। २३९
को मेऽनङ्गप्रभाहेतोर्वैरेणार्थः परैः सह ।
जितक्रोधेन सर्वं हि जगदेतद्विजीयते ।। २४०
इति यावत्स वक्त्यत्र तावत्तस्याः पतिर्गृहे ।
आययौ प्रियदत्ताया धार्मिकोऽतिथिवत्सलः ।। २४१
कृतातिथ्येन तेनापि त्याजितो दुःखमत्र सः ।
विश्रम्य तीर्थयात्रायै प्रायादापृच्छ्य तावुभौ ।। २४२
ततः क्रमेण सर्वाणि पृथ्व्यां तीर्थानि सोऽभ्रमत् ।
विसोढानेककान्तारकष्टो मूलफलाशनः ।। २४३
भ्रान्ततीर्थश्च तामेव स ययौ विन्ध्यवासिनीम् ।
तत्र तेपे तपस्तीव्रं निराहारः कुशास्तरे ।। २४४
तपस्तुष्टा च सा साक्षादुवाचैवं तमम्बिका ।
उत्तिष्ठ पुत्र यूयं हि चत्वारो मामका गणाः ।। २४५
पञ्चमूलचतुर्वक्त्रमहोदरमुखास्त्रयः ।
त्वं चतुर्थश्च विकटवदनाख्यः क्रमोत्तमः ।। २४६
ते यूयं जातु गङ्गाया विहर्तुं पुलिनं गताः ।
तत्र स्नान्ती च युष्माभिर्दृष्टैका मुनिकन्यका ।। २४७
चापलेखेति कपिलजटाख्यस्य मुनेः सुता ।
प्रार्थ्यते स्म च सर्वैः सा भवद्भिर्मदनातुरैः ।। २४८
कन्याहमपयातेति तयोक्ते ते त्रयोऽपरे ।
तूष्णीमासंस्त्वया सा तु हठाद्वाहावगृह्यत ।। २४९
क्रन्दति स्म च सा तात तात त्रायस्व मामिति ।
तच्छ्रुत्वा निकटस्थोऽत्र स क्रुद्धो मुनिरागमत् ।। २५०
तं दृष्ट्वा सा त्वया मुक्ता ततो युष्माञ्शशाप सः ।
मनुष्ययोनिं पापिष्ठाः सर्वे यातेति तत्क्षणात् ।। २५१
प्रार्थितः सोऽथ शापान्तमेवं वो मुनिरभ्यधात् ।
यदानङ्गप्रभा राजसुता युष्माभिरर्थिता ।। २५२
गता वैद्याधरं लोकं मोक्ष्याश्चामी तदा त्रयः ।
त्वं तु विद्याधरीभूतां प्राप्यैतां हारयिष्यसि ।। २५३
ततः प्राप्तासि विकटवदन व्यसनं महत् ।
चिराच्च देवीमाराध्य शापादस्माद्विमोक्ष्यसे ।। २५४
त्वयास्याश्चापलेखाया हस्तस्पर्शो यतः कृतः ।
परदारापहारोत्थं पापमस्ति च ते बहु ।। २५५
इति ये मद्गणा यूयं शप्तास्तेन महर्षिणा ।
तेऽथ जाताः स्थ चत्वारः प्रवीरा दक्षिणापथे ।। २५६
पञ्चपट्टिकभाषाज्ञौ यौ तौ खड्गधरश्च यः ।
सखायस्ते त्रयस्त्वं च चतुर्थो जीवदत्तकः ।। २५७
ते च त्रयोऽनङ्गरतौ प्रयातायां निजं पदम् ।
इहागत्यैव निर्मुक्ता मत्प्रसादेन शापतः ।। २५८
त्वया चाराधितास्म्यद्य जातः शापक्षयश्च ते ।
तदाग्नेयीं गृहीत्वेमां धारणां स्वतनुं त्यज ।। २५९
अष्टजन्मोपभोग्यं च पातकं तत्सकृद्दह ।
इत्युक्त्वा धारणां दत्त्वा देवी तस्य तिरोदधे ।। २६०
स मर्त्यदेहं पापं च दग्ध्वा धारणया तया ।
जीवदत्तश्चिराच्छापमुक्तो जज्ञे गणोत्तमः ।। २६१
देवानामप्यहो येन पापेन क्लेश ईदृशः ।
परस्त्रीसंगमोत्थेन हान्येषां तेन का गतिः ।। २६२
तावच्च तत्र सानङ्गप्रभा हरिवरे पुरे ।
राज्ञो हरिवरस्यान्तःपुराणां प्राप मुख्यताम् ।। २६३
स च राजा तदेकाग्रमनास्तस्थौ दिवानिशम् ।
स्वमन्त्रिणि सुमन्त्राख्ये न्यस्तराज्यमहाभरः ।। २६४
एकदा तस्य राज्ञश्च निकटं मध्यदेशतः ।
आगाल्लब्धवरो नाम नाट्याचार्योऽत्र नूतनः ।। २६५
स दृष्टकौशलस्तेन भूभृता वाद्यनाट्ययोः ।
संमान्यान्तःपुरस्त्रीणां नाट्याचार्यो व्यधीयत ।। २६६
तेनानङ्गप्रभा नृत्ते प्रकर्षं प्रापिता तथा ।
नृत्यन्त्यपि सपत्नीनां स्पृहणीयाभवद्यथा ।। २६७
सहवासाच्च तस्याथ नृत्तशिक्षारसादपि ।
नाट्याचार्यस्य सानङ्गप्रभाभूदनुरागिणी ।। २६८
तस्याश्च रूपनृत्ताभ्यामाकृष्टः स शनैरहो ।
नाट्याचार्योऽपि कामेन किमप्यन्यदनृत्यत ।। २६९
विजने चैकदानङ्गप्रभा सा नाट्यवेश्मनि ।
प्रसह्य नाट्याचार्यं तमुपागाद्रतलालसा ।। २७०
सुरतान्ते च सात्यन्तसानुरागा जगाद तम् ।
त्वया विनाकृता नाहं स्थातुं शक्ष्याम्यपि क्षणम् ।। २७१
राजा हरिवरश्चैतद्बुद्ध्वा नैव क्षमिष्यते ।
तदेह्यन्यत्र गच्छावो यत्र राजा न बुध्यते ।। २७२
अस्ति हेमहयोष्ट्रादि धनं तव च भूभृता ।
नाट्यतुष्टेन यद्दत्तमस्ति चाभरणं मम ।। २७३
तत्तत्र त्वरितं यामः स्थास्यामो यत्र निर्भयाः ।
एतत्स तद्वचो हृष्टो नाट्याचार्योऽन्वमन्यत ।। २७४
ततः पुरुषवेषं सा कृत्वानङ्गप्रभा ययौ ।
नाट्याचार्यगृहं चेट्या सह सुस्निग्धयैकया ।। २७५
ततस्तदैव तेनोष्ट्रपृष्ठार्पितधनर्द्धिना ।
साकं सा तुरगारूढा प्रायान्नाट्योपदेशिना ।। २७६
सादौ वैद्याधरीं लक्ष्मीं त्यक्त्वा राजश्रियं पुनः ।
शिश्रिये चारणद्धि सा धिक् स्त्रीणां चपलं मनः ।। २७७
गत्वा च नाट्याचार्येण तेनानङ्गप्रभा सह ।
दूरं सा नगरं प्राप वियोगपुरसंज्ञकम् ।। २७८
तत्र तत्सहिता तस्थौ सुखं सा सोऽपि लब्धया ।
तया लब्धवराख्यां स्वां सत्यां मेने नटाग्रणीः ।। २७९
तावच्च तां गतां क्वापि बुद्ध्वानङ्गप्रभां प्रियाम् ।
राजा हरिवरः सोऽभूद्देहत्यागोन्मुखः शुचा ।। २८०
ततः सुमन्त्रो मन्त्री तमुवाचाश्वासयन्नृपम् ।
देव किं यन्न वेत्सि त्वं पर्यालोचय तत्स्वयम् ।। २८१
खड्गविद्याधरं त्यक्त्वा पतिं त्वां दृष्टमेव या ।
उपाश्रिता कथं तस्याः स्थैर्यं स्यात्त्वय्यपि प्रभो ।। २८२
लघुं कंचिद्गृहीत्वा सा गता सद्वस्तुनिःस्पृहा ।
तृणरत्नशलाकेव तृणदृष्ट्यनुरागतः ।। २८३
नाट्याचार्येण सा नूनं नीता स हि न दृश्यते ।
संगीतकगृहे प्रातस्तौ स्थिताविति च श्रुतम् ।। २८४
तद्देव वद कस्तस्या जानतोऽपि तवाग्रहः ।
विलासिनी हि सर्वस्य संध्येव क्षणरागिणी ।। २८५
इत्युक्तो मन्त्रिणा सोऽथ विचारपतितो नृपः ।
अचिन्तयदहो सत्यमुक्तं मे सुधियामुना ।। २८६
पर्यन्तविरसा कष्टा प्रतिक्षणविवर्तिनी ।
भवस्थितिरिवानित्यसंबन्धा हि विलासिनी ।। २८७
पतितं मज्जयन्तीषु दर्शितोत्कलिकासु च ।
प्राज्ञः पतत्यगाधासु न स्त्रीषु च नदीषु च ।। २८८
व्यसनेषु निरुद्वेगा विभवेष्वप्यगर्विताः ।
कार्येष्वकातरा ये च ते धीरास्तैर्जितं जगत् ।। २८९
इत्यालोच्य शुचं त्यक्त्वा मन्त्रिणो वचनेन सः ।
स्वदारेष्वेव संतोषं राजा हरिवरो व्यधात् ।। २९०
साप्यनङ्गप्रभा तत्र वियोगपुरनामनि ।
नाट्याचार्ययुता तावत्कचित्कालं स्थिता पुरे ।। २९१
तावत्तत्रापि संजज्ञे नाट्याचार्यस्य दैवतः ।
यूना सुदर्शनाख्येन द्यूतकारेण संगतिः ।। २५२
तेन द्यूतहृताशेषधनोऽनङ्गप्रभाग्रतः ।
कृतः सुदर्शनेनात्र नाट्याचार्योऽचिरेण सः ।। २९३
तद्रोषादिव निःश्रीकं त्यक्त्वानङ्गप्रभाथ तम् ।
सा सुदर्शनमेवैतं प्रसह्याशिश्रियत्पतिम् ।। २९४
नष्टदारधनः सोऽथ नाट्याचार्योऽप्रतिश्रयः ।
वैराग्यात्तपसे बद्धजटो गङ्गातटं ययौ ।। २९५
सा त्वनङ्गप्रभा तेन द्यूतकारेण संगता ।
सुदर्शनेन तत्रैव तस्थौ नवनवप्रिया ।। २९६
एकदा च पतिस्तस्यास्तस्करैः स सुदर्शनः ।
मुषिताशेषसर्वस्वः प्रविश्य रजनौ कृतः ।। २९७
ततस्तां द्रविणाभावाद्दुःस्थितामनुतापिनीम् ।
दृष्ट्वा सुदर्शनोऽनङ्गप्रभामिदमुवाच सः ।। २९८
हिरण्यगुप्तनामा यः सुहृन्मेऽस्ति महाधनः ।
तत्सकाशादृणं किंचिदेह्यद्य मृगयामहे ।। २९९
इत्युक्त्वा दैवहतधीः स गत्वैव तया सह ।
ऋणं हिरण्यगुप्तं तं वणिङ्मुख्यमयाचत ।। ३००
स चानङ्गप्रभां दृष्ट्वा वणिक्सापि च तं तदा ।
अन्योन्यसाभिलाषौ तौ बभूवतुरुभावपि ।। ३०१
उवाच चैवं स वणिक्तं सुदर्शनमादरात् ।
प्रातर्दास्ये हिरण्यं वामद्येहैव तु भुज्यताम् ।। ३०२
तच्छ्रुत्वान्यादृशं भावमुपलक्ष्य तयोर्द्वयोः ।
सुदर्शनोऽब्रवीन्नाहं भोजनेऽद्य पटुः स्थितः ।। ३०३
वणिक्पतिस्ततोऽवादीत्तर्हि त्वद्वनिता सखे ।
भुङ्क्तां प्रथममस्माकमेषा हि गृहमागता ।। ३०४
इत्युक्तस्तेन तूष्णीं स बभूव कितवोऽपि सन् ।
स चानङ्गप्रभायुक्तो ययावभ्यन्तरं वणिक् ।। ३०५
तत्र चक्रे तया साकं पानाहारादिनिर्वृतिम् ।
अतर्कितोपनतया लसन्मदविलासया ।। ३०६
सुदर्शनः स तस्याश्च निर्गमं प्रतिपालयन् ।
बहिः स्थितः संस्तद्भृत्यैरूचे तत्प्रेरितैस्ततः ।। ३०७
भुक्त्वा गृहं गता सा ते निर्यान्ती न त्वयेक्षिता ।
तत्त्वया किमिहाद्यापि क्रियते गम्यतामिति ।। ३०८
सान्तः स्थिता न निर्याता न यास्यामीति स ब्रुवन् ।
दत्त्वा पादप्रहारांस्तैस्तद्भृत्यैर्निरकाल्यत ।। ३०९
ततः सुदर्शनो गत्वा दुःखितः स व्यचिन्तयत् ।
कथं मे वणिजा दारा मित्त्रेणाप्यमुना हृताः ।। ३१०
इहैवोपनतं वा मे स्वपापफलमीदृशम् ।
यन्मया कृतमन्यस्य तदन्येन कृतं मम ।। ३११
कुप्यामि किं तदन्यस्मै कोपार्हं तत्स्वकर्म मे ।
तच्छिनद्मि न येन स्यात्पुनर्मम पराभवः ।। ३१२
इत्यालोच्य क्रुधं त्यक्त्वा गत्वा बदरिकाश्रमम् ।
द्यूतकारस्तदा तत्र भवच्छेदि व्यधात्तपः ।। ३१३
सा च रूपाधिकं प्राप्य प्रियं तं वणिजं पतिम् ।
रेमेऽनङ्गप्रभा भृङ्गी पुष्पात्पुष्पमिवागता ।। ३१४
क्रमेण तस्य सा चाभूद्वणिजो विपुलश्रियः ।
स्वामिनी सानुरागस्य प्राणेष्वपि धनेष्वपि ।। ३१५
राजात्र वीरबाहुश्च तत्रस्थामेकसुन्दरीम् ।
बुद्ध्वापि धर्ममर्यादां रक्षन्नैव जहार ताम् ।। ३१६
दिनैश्च तद्व्ययैः सोऽभूद्वणिगल्पीभवद्धनः ।
म्लायति श्रीः कुलस्त्रीव गृहे बन्धक्यधिष्ठिते ।। ३१७
ततः सुवर्णभूम्याख्यं द्वीपं संभृतभाण्डकः ।
हिरण्यगुप्तः स वणिक्प्रस्थितोऽभूद्वणिज्यया ।। ३१८
वियोगमीत्या चादाय तामनङ्गप्रभां सह ।
व्रजन्पथि क्रमात्प्राप स सागरपुरं पुरम् ।। ३१९
तत्र सागरवीराख्यो वास्तव्यो धीवराधिपः ।
नगरेऽम्भोधिनिकटे तस्यैको मिलितोऽभवत् ।। ३२०
तेनाब्धिजीविना साकं सोऽथ गत्वाम्बुधेस्तटम् ।
तड्ढौकितं यानपात्रमारुरोह प्रियासखः ।। ३२१
ततोऽऽब्धौ यानपात्रेण तेन यावत्प्रयाति सः ।
व्ययः सागरवीरेण दिनानि कतिचिद्वणिक् ।। ३२२
एकस्मिन्दिवसे तावज्वलद्विद्युद्विलोचनः ।
उग्रः संहारभयदः कालमेघः समाययौ ।। ३२३
स्वस्थूलवर्षधारेण वायुना बलिना हतम् ।
ततो मज्जितुमारेभे यानपात्रं तदूर्मिषु ।। ३२४
मुक्ताक्रन्दे परिजने मनोरथ इव स्वके ।
मज्यमाने प्रवहणे कक्ष्याबद्धोत्तरीयकः ।। ३२५
वणिग्घिरण्यगुप्तः सोऽदृष्ट्वानङ्गप्रभामुखम् ।
हा प्रिये क्व त्वमिप्युक्त्वा चिक्षेपात्मानमम्बुधौ ।। ३२६
गत्वा च बाहुविक्षेपात्कांचित्प्राप स दैवतः ।
वणिक्प्रवहणीमेकां तां चालम्ब्यारुरोह सः ।। ३२७
साप्यनङ्गप्रभा रज्ज्वा बद्धे फलहकोत्करे ।
तेन सागरवीरेण झगित्येवाध्यरोप्यत ।। ३२८
स्वयं चारुह्य तत्रैव भीतामाश्वासयन्स ताम् ।
प्लवमानो ययावब्धौ बाहुभ्यां वारि विक्षिपन् ।। ३२९
क्षणात्प्रवहणे भग्ने नष्टाभ्रमभवन्नभः ।
साधोः प्रशान्तकोपस्य तुल्योऽभूत्स्तिमितोऽम्बुधिः ।। ३३०
स चारूढः प्रवहणं पञ्चाहेनानिलेरितम् ।
हिरण्यगुप्तः प्रापाब्धेः कूलं दैवाद्वणिक्ततः ।। ३३१
अवतीर्य तटे सोऽथ प्रियाविरहदुःखितः ।
अशक्यप्रतिकारं च मत्वा विधिविचेष्टितम् ।। ३३२
गत्वा शनैः स्वनगरं बद्ध्वा धीराशयो धृतिम् ।
हिरण्यगुप्तो भूयोऽर्थानुपार्ज्यास्त सुनिर्वृतः ।। ३३३
सा त्वनङ्गप्रभैकाहाच्चित्रं फलहकस्थिता ।
तेन सागरवीरेण प्रापिताम्भोनिधेस्तटम् ।। ३३४
तत्राश्वास्य च नीताभूद्धीवरेन्द्रेण तेन सा ।
तत्सागरपुरं नाम नगरं भवनं निजम् ।। ३३५
तत्र राजसमश्रीकं वीरं प्राणप्रदायिनम् ।
सुयौवनं सुरूपं च विचिन्त्याज्ञाविधायिनम् ।। ३३६
तमेव चक्रे सानङ्गप्रभा दाशपतिं पतिम् ।
न स्त्री चलितचारित्रा निम्नोन्नतमवेक्षते ।। ३३७
ततः कैवर्तपतिना तेन साकमुवास सा ।
तद्वेश्मन्युपभुञ्जाना तत्समृद्धिं तदर्पिताम् ।। ३३८
एकदा सात्र हर्म्याग्रादपश्यद्रथ्यया तया ।
यान्तं विजयवर्माख्यं भव्यं क्षत्रियपुत्रकम् ।। ३३९
रूपलुब्धावतीर्यैव तमुपेत्य जगाद सा ।
दर्शनाकृष्टचित्तां मां भज प्रणयिनीमिति ।। ३४०
स चाभिनन्द्य हृष्टस्तामाकाशपतितामिव ।
गृहीत्वा च जगाम स्वं गृहं त्रैलोक्यसुन्दरीम् ।। ३४१
सोऽथ सागरवीरस्तां बुद्ध्वा क्वापि गतां प्रियाम् ।
त्यक्त्वा सर्वं तनुं त्यक्ष्यंस्तपसा सुरनिम्नगाम् ।। ३४२
यदगात्तत्कथं मा भूद्दुःखं तस्य तथाविधम् ।
क्व दाशत्वं क्व तादृश्या विद्याधर्या हि संगमः ।। ३४३
सा चानङ्गप्रभा तेन समं विजयवर्मणा ।
तस्थौ तत्रैव नगरे यथासुखमनर्गला ।। ३४४
ततः कदाचित्तत्रत्यः समारूढकरेणुकः ।
राजा सागरवर्माख्यो निरगाद्भ्रमितुं पुरम् ।। ३४५
स्वनामसंज्ञं स्वकृतं स पश्यंस्तत्पुरं नृपः ।
तेनाययौ पथा यत्र गृहं विजयवर्मणः ।। ३४६
बुद्ध्वा च नृपमायान्तं तद्दर्शनकुतूहुलात् ।
आरुरोहात्र सानङ्गप्रभा हर्म्यतलं तदा ।। ३४७
दृष्ट्वैव सा तं राजानं तथाभूत्तद्वशा यथा ।
हठाद्राजकरेणुस्थं हस्त्यारोहमभाषत ।। ३४८
भो हस्त्यारोह नैवाहमारूढा जातु हस्तिनम् ।
तदारोहय मामत्र वीक्षे तावत्कियत्सुखम् ।। ३४९
तच्छ्रुत्वाधोरणे तस्मिन्राजाननविलोकिनि ।
राजा ददर्श तामिन्दोर्दिवः कान्तिमिव च्युताम् ।। ३५०
पिबंश्च तामतृप्तेन चकोर इव चक्षुषा ।
नृपस्तत्प्राप्तिबद्धाशो हस्त्यारोहमुवाच सः ।। ३५१
नीत्वा करेणुं निकटं पूरयास्या मनोरथम् ।
आरोपयेन्दुवदनामेतामत्राविलम्बितम् ।। ३५२
इति राज्ञोदिते तेन हस्त्यारोहेण ढौकिता ।
अधस्तात्तस्य हर्म्यस्य तत्क्षणं सा करेणुका ।। ३५३
दृष्ट्वा तां निकटप्राप्तां राज्ञः सागरवर्मणः ।
उत्सङ्गे तस्य सानङ्गप्रभात्मानमपातयत् ।। ३५४
क्वादौ स भर्तृविद्वेषः कैषा भर्तृष्वतृप्तता ।
हा तस्याः पितृशापेन दर्शितोऽतिविपर्ययः ।। ३५५
निपातभीतेव च सा कण्ठे तं नृपमग्रहीत् ।
तत्स्पर्शामृतसिक्ताङ्गः सोऽपि प्राप परां मुदम् ।। ३५६
युक्त्या समर्पितात्मानं परिचुम्बनलालसाम् ।
तां स राजा गृहीत्वैव जगामाशु स्वमन्दिरम् ।। ३५७
तत्र तामुक्तवृत्तान्तां तदैव द्युचराङ्गनाम् ।
स चकार महादेवीं प्रवेश्यान्तःपुरे नृपः ।। ३५०
बुद्ध्वा राजहृतामेतामेत्य क्षत्त्रमिवाथ सः ।
बहिर्विजयवर्मात्र राजभृत्यानयोधयत् ।। ३५९
युद्धे च तत्र तत्याज शरीरमपराङ्मुखः ।
न शूरा विषहन्ते हि स्त्रीनिमित्तं पराभवम् ।। ३६०
किमेतया वराक्या ते भजास्मानेहि नन्दनम् ।
इतीव च सुरस्त्रीभिः स नीतोऽभूत्सुरालयम् ।। ३६१
साप्यनङ्गप्रभा तस्मिन्राज्ञि सागरवर्मणि ।
नदीव सागरे स्थैर्यं बबन्धानन्यगामिनी ।। ३६२
भवितव्यबलान्मेने तेन पत्या कृतार्थताम् ।
सोऽपि जन्मफलं प्राप्तं तयामन्यत भार्यया ।। ३६३
दिनैश्च तस्य राज्ञी सा राज्ञः सागरवर्मणः ।
दध्रेऽनङ्गप्रभा गर्भं काले च सुषुवे सुतम् ।। ३६४
नाम्ना समुद्रवर्माणं तं स राजा पिता शिशुम् ।
चकार विहितोदारपुत्रजन्ममहोत्सवः ।। ३६५
क्रमाच्च वृद्धिमायातं सगुणं प्राप्तयौवनम् ।
यौवराज्येऽभ्यषिञ्चत्तं सुतं स भुजशालिनम् ।। ३६६
विवाहहेतोस्तस्याथ सूनोः समरवर्मणः ।
राज्ञः कमलवत्याख्यां सुतामाहरति स्म सः ।। ३६७
कृतोद्वाहाय तस्मै च पुत्रायावर्जितो गुणैः ।
समुद्रवर्मणे राज्यं निजं प्रादात्स भूपतिः ।। ३६८
सोऽपि प्राप्यैव तद्राज्यमोजस्वी क्षत्रधर्मवित् ।
समुद्रवर्मा पितरं प्रणतस्तं व्यजिज्ञपत् ।। ३६९
अनुजानीहि मां तात दिशो जेतुं व्रजाम्यहम् ।
अजिगीषुः पतिर्भूमेर्निन्द्यः क्लीब इव स्त्रियाः ।। ३७०
धर्म्या कीर्तिकरी सा च लक्ष्मीरिह महीभुजाम् ।
या जित्वा परराष्ट्राणि निजबाहुबलार्जिता ।। ३७१
किं तेषां तात राजत्वं क्षुद्राणामभिभूतये ।
स्वप्रजामेव खादन्ति मार्जारा इव लोलुपाः ।। ३७२
इत्यूचिवान्स तेनोचे पित्रा सागरवर्मणा ।
नूतनं पुत्र राज्यं ते तत्तावत्त्वं प्रसाधय ।। ३७३
नास्त्यपुण्यमकीर्तिर्वा प्रजा धर्मेण शासतः ।
अनवेक्ष्य च शक्तिं स्वां युक्तो राज्ञां न विग्रहः ।। ३७४
वत्स यद्यपि शूरस्त्वं सैन्यमस्ति च ते बहु ।
तथापि नैव विश्वासो जयश्रीश्चपला रणे ।। ३७५
इत्यादि पित्रा प्रोक्तोऽपि तमनुज्ञाप्य यत्नतः ।
समुद्रवर्मा स ययौ तेजस्वी दिग्जिगीषया ।। ३७६
क्रमेण च दिशो जित्वा स्थापयित्वा वशे नृपान् ।
प्राप्तहस्त्यश्वहेमादिराययौ नगरं निजम् ।। ३७७
तत्र पित्रोर्महारत्नैर्नानादेशोद्भवैश्च सः ।
चरणौ पूजयामास प्रणतः परितुष्टयोः ।। ३७८
तदाज्ञया च प्रददौ ब्राह्मणेभ्यो महायशाः ।
महादानानि हस्त्यश्वहेमरत्नमयानि सः ।। ३७९
ततो वसु तथार्थिभ्यो भृत्येभ्यश्च ववर्ष सः ।
एको दरिद्रशब्दोऽत्र यथाभूदर्थवर्जितः ।। ३८०
तद्दृष्ट्वा पुत्रमाहात्म्यमात्मनः कृतकृत्यताम् ।
राजा सागरवर्मा स मेनेऽनङ्गप्रभायुतः ।। ३८१
उत्सवेन च नीत्वा तान्यहानि नृपतिः स तम् ।
पुत्रं समुद्रवर्माणमवोचन्मन्त्रिसंनिधौ ।। ३८२
यन्मया पुत्र कर्तव्यं कृतं तदिह जन्मनि ।
भुक्तं राज्यसुखं दृष्टः परेभ्यो न पराभवः ।। ३८३
दृष्टस्त्वं चात्तसाम्राज्यः किमन्यत्प्राप्यमस्ति मे ।
तदाश्रयाम्यहं तीर्थं यावन्मे ध्रियते तनुः ।। ३८४
विनश्वरे शरीरेऽस्मिन्किमद्यापि गृहे तव ।
इतीवैषा जरा पश्य कर्णमूले ब्रवीति मे ।। ३८५
इत्युक्त्वा स सुतेऽनिच्छत्यपि तस्मिन्नृपः कृती ।
ययौ सागरवर्माथ प्रयागं प्रियया सह ।। ३८६
तमनुव्रज्य पितरं स चागत्य निजं पुरम् ।
समुद्रवर्मा स्वं राज्यं यथाविधि शशास तत् ।। ३८७
राजा सागरवर्मापि सोऽनङ्गप्रभया युतः ।
प्रयागे तपसा देवं वृषध्वजमतोषयत् ।। ३८८
स स्वप्ने तमुवाचैवं त्रिपुरारिर्निशाक्षये ।
तुष्टोऽस्मि ते सभार्यस्य तपसा तदिदं शृणु ।। ३८९
एषानङ्गप्रभा त्वं च युवां विद्याधरावुभौ ।
शापक्षयान्निजं लोकं प्रातः पुत्र गमिष्यथः ।। ३९०
तच्छ्रुत्वा स प्रबुबुधे राजानङ्गप्रभा च सा ।
तद्वदालोकितस्वप्ना तच्चान्योन्यमथोचतुः ।। ३९१
ततश्च नृपतिं तं सा हृष्टानङ्गप्रभाभ्यधात् ।
आर्यपुत्र मया जातिः कृत्स्नात्मीया स्मृताधुना ।। ३९२
अहं विद्याधरेन्द्रस्य समरस्यात्मसंभवा ।
एषानङ्गप्रभा नाम पुरे वीरपुराभिधे ।। ३९३
पितृशापादिहागत्य विद्याभ्रंशेन मानुषी ।
भूत्वा विद्याधरीभावं साहं व्यस्मरमात्मनः ।। ३९४
इदानीं च प्रबुद्धाहमिति यावच्च वक्ति सा ।
तावत्सोऽवततारात्र समरस्तत्पिता दिवः ।। ३९५
नमस्कृतः स तेनात्र राज्ञा सागरवर्मणा ।
उवाच पादपतितां तामनङ्गप्रभां सुताम् ।। ३९६
एहि पुत्रि गृहाणैता विद्याः शापः स ते गतः ।
त्वयाष्टजन्मदुःखं हि भुक्तमेकत्र जन्मनि ।। ३९७
इत्युक्त्वोत्सङ्गमारोप्य विद्यास्तस्मै पुनर्ददौ ।
ततः सागरवर्माणं राजानं तमभाषत ।। ३९८
भवान्विद्याधराधीशो मदनप्रभसंज्ञकः ।
अहं च समरो नाम सुतानङ्गप्रभा मम ।। ५९९
प्रदेया पूर्वमेषा च वरैस्तैस्तैरयाच्यत ।
न च तेषां कमप्यैच्छद्भर्तारं रूपगर्विता ।। ४००
ततस्तुल्यगुणेनैषा त्वयात्युत्केन याचिता ।
विधियोगाच्च न तदा त्वमप्यङ्गीकृतोऽनया ।। ४०१
मर्त्यलोकागमायास्यास्तेन शापमदामहम् ।
भूयान्मे मर्त्यलोकेऽपि भार्येयमिति रागिणा ।। ४०२
संकल्प्य हृदये ध्यात्वा वरदं गिरिजापतिम् ।
योगेन स्वा तनुस्त्यक्ता ततो वैद्याधरी त्वया ।। ४०३
ततस्त्वं मानुषो जातो जाता भार्या तवाप्यसौ ।
आगच्छतमिदानीं स्वं लोकं युक्तौ युवां मिथः ।। ४०४
इति समरेण स उक्तः स्मृतजातिस्तां तनुं प्रयागजले ।
मुक्त्वा सागरवर्मा बभूव मदनप्रभः सद्यः ।। ४०५
सा पुनरधिगतविद्या दीप्तानङ्गप्रभापि तेनैव ।
देहेनान्येव बभौ जाता विद्याधरी झगिति ।। ४०६
सानन्दो मदनप्रभः स च ततः सा चाप्यनङ्गप्रभा
दिव्यान्योन्यवपुर्विलोकनलसद्गाढानुरागावुभौ ।
स श्रीमान्समरश्च खेचरपतिः सर्वे समुत्पत्य खं
जग्मुर्वीरपुरं सहैव किल ते वैद्याधरं तत्पुरम् ।। ४०७
स तत्र समरो यथाविधि सुतामनङ्गप्रभां तदैव मदनप्रभद्युचरभूभृते तां ददौ ।
स च क्षपितशापया सममथैतया प्रीतया जगाम मदनप्रभः स्वपुरमत्र चासीत्सुखम् ।। ४०८
इत्थं स्वदुर्नयविपाकवशेन दिव्याः शापच्युता ह्यवतरन्ति मनुष्यलोके ।
भुक्त्वा फलं तदुचितं च निजां गतिं ते पूर्वार्जितेन सुकृतेन पुनः प्रयान्ति ।। ४०९
इति स कथां नरवाहनदत्तः सचिवान्निशम्य गोमुखतः ।
सालंकारवतीकस्तुतोष चक्रे ततश्च दिनकृत्यम् ।। ४१०
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलंकारवतीलम्बके द्वितीयस्तरङ्गः ।