प्रमुखा विकल्पसूचिः उद्घाट्यताम्

कथासरित्सागरः/लम्बकः १३/तरङ्गः १

< कथासरित्सागरः‎ | लम्बकः १३(कथासरित्सागरः/लम्बक १३ इत्यस्मात् पुनर्निर्दिष्टम्)

इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।

प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ।।

स वो विघ्नेश्वरः पायान्नमितोन्नमितेव यम् ।
अनुनृत्यति नृत्यन्तं संध्यासु भुवनावली ।। १
गौरीप्रसाधनालग्नचरणालक्तकश्रियः ।
सखी सुखाय भूयाद्वः शंभोर्भालेक्षणप्रभा ।। २
कवीन्द्रमानसाम्भोजनिवासभ्रमरीं नुमः ।
देवीं सहृदयानन्दशब्दमूर्ति सरस्वतीम् ।। ३
ततो विरहसंतप्तो विना मदनमञ्जुकाम् ।
नरवाहनदत्तः स तेषु वत्सेश्वरात्मजः ।। ४
मलयाचलपादेषु तदुपान्तवनेषु च ।
भ्रमन्मधुमनोज्ञेषु नैव प्राप रतिं क्वचित् ।। ५
बिभेद तस्य मृदुरप्यापतद्भिः शिलीमुखैः ।
स्मरचापलतेवात्र हृदयं चूतमञ्जरी ।। ६
कर्णौ मधुरमप्यस्य दुनोति स्म च दुःसहम् ।
मारनिर्भर्त्सनावाक्यकटु कोकिलकूजितम् ।। ७
पुष्परेणुपिशङ्गश्च मदनाग्निरिवापतन् ।
विददाह तमङ्गेषु शीतोऽपि मलयानिलः ।। ८
ततोऽलिकुलझांकारमुखरैस्तैः स काननैः ।
निष्काल्यमान इव तं प्रदेशं शनकैर्जहौ ।। ९
गच्छन्क्रमेण च प्राप कथंचिद्देवतासखः ।
गङ्गागामिपथाभ्यर्णवनान्तसरसस्तटम् ।। १०
तरुमूलोपविष्टौ च तत्र ब्राह्मणपुत्रकौ ।
उभौ भव्याकृती स्वैरं कथासक्तौ ददर्श सः ।। ११
तौ च दृष्ट्वा तमुत्थाय प्रह्वौ मदनशङ्कया ।
अवोचतां नमस्तुभ्यं भगवन्कुसुमायुध ।। १२
ब्रूहि देव किमेकाकी त्यक्तकौसुमकार्मुकः ।
इतो भ्रमसि सा कुत्र रतिः सहचरी तव ।। १३
तच्छ्रुत्वा तौ स वत्सेशसुतो विप्रावभाषत ।
नाहं कामो मनुष्योऽहं नष्टा सत्यं तु मे रतिः ।। १४
इत्युक्त्वाख्यातवृत्तान्तस्तौ विप्रौ पृष्टवान्नृपः ।
कौ युवां कीदृशी चैषा कथात्र युवयोरिति ।। १५
ततस्तयोर्विप्रयूनोरेकस्तं विनतोऽब्रवीत् ।
राज्ञां भवादृशामग्रे रहस्यं कथमुच्यते ।। १६
तथाप्याज्ञानिरोधात्ते कथयामि निशम्यताम् ।
अस्ति शोभावती नाम कलिङ्गविषये पुरी ।। १७
कलिना न प्रविष्टा सा न स्पृष्टा पापकर्मभिः ।
न दृष्टा परराष्ट्रेण धात्रा सृष्टेव तादृशी ।। १८
तस्यां यशस्करो नाम विद्वानाढ्यो बहुक्रतुः ।
ब्राह्मणोऽभूदभूत्तस्य सत्पत्नी मेखलेति च ।। १९
तयोरेकोऽहमुत्पन्नः सुतो वयसि मध्यमे ।
वर्धितश्चोपनीतश्च ताभ्यामस्मि ततः क्रमात् ।। २०
ततः पठत्यध्ययनं बाले मय्यतिदुस्तरम् ।
तत्रावृष्टिकृतं देशे दुर्भिक्षमुदपद्यत ।। २१
तेन तातोऽम्बया साकं मामादाय ततो गतः ।
विशालां नाम नगरीं सधनः सपरिच्छदः ।। २२
तस्यां लक्ष्मीसरस्वत्योर्वसतौ मुत्त्घ्र्वैरयोः ।
ततो मिषेण वणिजा दत्तवासः स्थितिं व्यधात् ।। २३
अहं च विद्याधिगमं कुर्वाणो गुरुवेश्मनि ।
तत्रावसं सवयसां मध्ये सब्रह्मचारिणाम् ॥२४
एकश्च तेषु मे मित्रमभूत्क्षत्रकुमारकः ।
गुणी विजयसेनाख्यो महाढ्यक्षत्रियात्मजः ॥ २५
एकदास्मदुपाध्यायगृहं मित्रस्य तस्य मे ।
स्वसा कुमारी मदिरावती नाम सहागमत् ॥२६
यस्या वदनलावण्यशेषेण हिमदीधितेः ।
जननेत्रामृतं जाने बिम्बं धात्रा विनिर्मितम् ।२७
जगत्संमोहनं षष्ठमस्त्रमालोक्य तद्वपुः ।
पञ्चस्वन्येषु बाणेषु मन्ये मन्दादरः स्मरः ।२८
तां दृष्ट्वा सुहृदस्तस्माच्छ्रुतनामान्वयामहम् ।
स्मराज्ञाविवशोऽभूवं सद्यस्तन्मयमानसः ॥२९
पश्यन्ती सापि मां तिर्यक्स्निग्धमुग्धेन चक्षुषा ।
ब्रुवाणाङ्कुरितं प्रेम पुलकेन कपालयोः ॥ ३०
क्रीडानिभाचिरं स्थित्वा कथंचित्स्वगृहानगात्।
क्षिपन्ती वलितापाङ्गां प्रीतिदूतीं दृशं मयि ।३१
ततस्तद्विरहार्तोऽहं गृहं गत्वा निपत्य च ।
स्थले मत्स्य इवाकार्षमुद्वर्तनविवर्तने ॥३२
लावण्यामृतसर्वस्वनिधानं यत्प्रजापतेः ।
अपि भूयोऽपि तत्तस्याः पश्येयमहमाननम् ॥३३
धन्यः सखीजनो यं सा तेन स्मेरेण पश्यति ।
चक्षुषा तेन च मुखेनालपत्यपयन्त्रणाम् ॥३४
इत्यादि चिन्तेयन्कृच्छ्रादहोरात्रं व्यतीत्य तम् ।
तदुपाध्यायसदनं द्वितीयेऽहन्यहं गतः ।३५
तत्रोपेत्य सविस्रम्भकथामध्ये स सादरः ।
सुहृद्विजयसेनो मां सप्रहर्षोऽब्रवीदिदम् । ३६
स्वसुर्मे मदिरावत्या मुखान्मन्मित्रमीदृशम् ।
श्रुत्वा त्वां मामकी माता सस्नेहा द्रष्टुमिच्छति ।३७
तदेह्यस्मद्गृहं साकं मया स्नेहोऽस्ति चेन्मयि ।
त्वत्पादपद्मरजसा तद्विभूषितमस्तु नः ॥३८
एतत्तद्वचनं सद्यो निर्वापणमभून्मम ।
मरुभूम्यध्वगस्येव महद्वर्षमशङ्कितम् ॥३९
तथेति तद्गृहं गत्वा दृष्ट्वा तन्मातरं ततः ।
तत्सत्कृतोऽहं तत्रासं प्रियादर्शननिर्वृतः । ४०
गते विजयसेनेऽथ पित्राहूते मदन्तिकात् ।
मामेत्य मदिरावत्या धात्रेयी प्रणतावदत् ॥ ४१
भर्तृदारिकयास्माकमुद्याने भर्तृदारक ।
विवृद्धिं मदिरावत्या नीता या मालतीलता ॥४२
नूतनो वर्तते तस्याः खलु पुष्पभरोद्गमः ।
मधुसंगमसानन्दविलासहसितोज्ज्वलः ।४३
विषह्यापतितस्तस्याः कुसुमेषुशिलीमुखान् ।
मुकुलान्युच्चितान्यद्य भर्तृदारिकया स्वयम् ।४४
मौक्तिकैरिव तैरेषा विधायैकावली तया ।
प्रहिता ते नवं वस्तु पूर्वं प्रेष्ठाय दीयते ।४५
इत्युक्त्वा सार्पिता मह्यं माला चतुरया तया ।
सपञ्चफलकर्पूरैर्नागवल्लीदलैर्युता ।४६
प्रियास्वहस्तरचितां कण्ठे कृत्वा च तामहम् ।
सुखं किमपि संप्रापं तत्तदालिङ्गनाधिकम् ।४७
मुखे कृत्वा च ताम्बूलं तामवोचं प्रियासखीम्।
किं ब्रवीम्यधिकं भद्रे हृदि कामो ममेदृशः ।४८
त्यजेयं जीवितमिदं त्वद्वयस्याकृते यदि ।
तदेव मे जन्मफलं सा हि प्राणेषु मे प्रभुः ।४९
इत्युक्त्वा तां विसृज्याहमुपाध्यायगृहानगाम् ।
समं विजयसेनेन समायातेन तत्क्षणम्। ५०
अन्येद्युर्मदिरावत्या सहितोऽस्मद्गृहं च सः ।
अगाद्विजयसेनोऽत्र मत्पित्रोर्दत्तसंमदः ॥५१
तदेवं मदिरावत्या मम चैकनिवासतः ।
गूढ एव गतो वृद्धिमनुरागोऽनुवासरम् ॥५२
एकदा मदिरावत्या दासी मामब्रवीद्रहः ।
श्रृणु यत्ते महाभाग वच्मि चित्ते तथा कुरु । ५३
यतः प्रभृति दृष्टस्त्वं तत्रोपाध्यायवेश्मनि ।
वत्सया मदिरावत्या ततः प्रभृति सा किल ॥५४
अभिनन्दति नाहारं न तनोति प्रसाधनम् ।
रमते न च संगीते न क्रीडति शुकादिभिः ।५५
कदलीपत्रपवनै: श्रीखण्डार्द्रविलेपनैः ।
तप्यते चन्द्रपादैश्च तुषारशिशिरैरपि ।५६
कृष्णपक्षेन्दुलेखेव क्षामीभवति सान्वहम् ।
निर्वाति युष्मत्कथया केवलं क्रियमाणया ॥५७
एतन्मे स्वदुहित्रोक्तं तस्याः सर्वक्रियाविदा ।
या छायेव न तत्पार्श्वात्क्षणमप्यपसर्पति ।५८
पुनर्नीत्वा च विस्रम्भं सा स्वयं मदिरावती ।
पृष्टा मया तया प्रोक्तं स्वं मनस्त्वद्गतं मम ।५९
तदिदानीं यथा तस्याः फलेदेव मनोरथः ।
तथा सुभग कुर्वीथा जीवन्तीं तां यदीच्छसि ॥६०
इति वाक्सुधया तस्या दत्तानन्दोऽहमभ्यधाम् ।
युष्मदायत्तमेवैतत्स्वाधीनोऽयं जनस्तव ।। ६१
एतच्छ्रुत्वा प्रहृष्टा सा ततो याता यथागतम् ।
तत्प्रत्ययाच्च जातास्थो निर्वृतोऽहमगां गृहम् ।। ६२
अन्येद्युस्तां च मदिरावतीं पितुरयाचत ।
उज्जयिन्याः समायातो महान्क्षत्त्रियपुत्रकः ।। ६३
तत्पिता च सुतां तस्मै प्रदातुं प्रत्यपद्यत ।
तच्चाहं तत्परिजनाच्छ्रुतवाञ्श्रोत्रदारुणम् ।। ६४
ततः स्वर्गादिव भ्रष्टो वज्रेणेव समाहतः ।
आक्रान्त इव भूतेन मोहं प्रापमहं चिरम् ।। ६५
आश्वस्याचिन्तयं चाहं वैक्लव्येनाधुनैव किम् ।
पश्यामि तावत्पर्यन्तं प्राप्नोतीष्टमविक्लवः ।। ६६
इत्याशयाहं दिवसान्यावत्कांश्चिन्नयामि तान् ।
प्रियासखीभिरागत्य धार्यमाणस्तदुक्तिभिः ।। ६७
लग्नोऽत्र निश्चितस्तावदभ्यक्ता मदिरावती ।
प्राप्तश्चोद्वाहदिवसस्तस्याः प्रविततोत्सवः ।। ६८
स्वेच्छासंचाररुद्धायां तस्यां तत्पितृवेश्मनि ।
जन्ययात्राप्रवेशोऽभूदासन्नस्तूर्यनादितैः ।। ६९
तद्दृष्ट्वा तन्निराशोऽहं कष्टं जीवितवैशसम् ।
कलयन्मन्यमानश्च विरहान्मरणं सुखम् ।। ७०
गत्वा च नगरीबाह्यमारुह्य वटपादपम् ।
पाशं व्यरचयं तेन पाशेनानोकहात्ततः ।। ७१
प्रियाप्राप्तिमनोराज्यमात्मानं चात्यजं समम् ।
क्षणाच्चापश्यमात्मानं नष्टां संप्राप्य चेतनाम् ।। ७२
यूनः पतितमुत्सङ्गे छिन्नपाशस्य कस्यचित् ।
अनेन नूनं त्रातोऽहमिति मत्वाब्रवं च तम् ।। ७३
महासत्त्व त्वया तावद्दर्शितैव दयालुता ।
किं तु मे विरहार्तस्य मृत्युरिष्टो न जीवितम् ।। ७४
चन्द्रोऽग्निर्विषमाहारो गीतानि श्रुतिसूचयः ।
उद्यानं बन्धनं पौष्पी माला दिग्धा शरावली ।। ७५
ज्वलिताङ्गारवर्षं च चन्दनाद्यनुलेपनम् ।
............ ।। ७६
येषां मित्र विपर्यस्तं संसारे विधुरात्मनाम् ।
जीविते को रसस्तेषां मादृशां विप्रयोगिनाम् ।। ७७
इत्युक्त्वावर्णयं चास्मै तमहं कृच्छ्रबन्धवे ।
पृष्टोदन्ताय मदिरावतीवृत्तान्तविस्तरम् ।। ७८
ततोऽब्रवीत्स साधुर्मां किं प्राज्ञोऽपि विमुह्यसि ।
सर्वं यस्य कृते तेन किं त्यक्तेनात्मना फलम् ।। ७९
आत्मीयमत्र वृत्तान्तं शृण्विमं कथयामि ते ।
अस्तीह निषधो नाम देशो हिमवदाश्रयः ।। ८०
कलिविद्रावितस्यैको यो धर्मस्य समाश्रयः ।
जन्मक्षेत्रं च सत्यस्य गृहं कृतयुगस्य च ।। ८१
अतृप्तिर्यत्र लोकस्य श्रुते न त्वर्थसंचये ।
संतोषश्च स्वदारेषु नोपकारेषु सर्वदा ।। ८२
तत्र शीलश्रुताढ्यस्य ब्राह्मणस्याहमात्मजः ।
सोऽहं देशान्तरालोककौतुकान्निर्गतो गृहात् ।। ८३
भ्रमन्देशानुपाध्यायान्पश्यन्प्राप्तोऽस्मि च क्रमात् ।
सखे शङ्खपुरं नाम नातिदूरमितः पुरम् ।। ८४
शङ्खपालस्य यत्रास्ति नागराजस्य पावनम् ।
शङ्खह्रद इति ख्यातं स्वच्छतोयं महत्सरः ।। ८५
तत्रोपाध्यायसदने वसंस्तदहमेकदा ।
स्नानयात्रोत्सवेऽगच्छं द्रष्टुं शङ्खह्रदं सरः ।। ८६
असंख्यैः पूरिततटं नानादेशागतैर्जनैः ।
सुरासुरैरिवाम्भोधिं क्षोभ्यमाणं समन्ततः ।। ८७
वधूनां श्लथधम्मिल्लविस्नस्तकुसुमस्रजाम् ।
वीचिहस्तैः परामृष्टजघनस्तनमण्डलम् ।। ८८
आश्लिष्यापहृतेनाङ्गरागेणापिञ्जरीकृतम् ।
महाह्रदं तमद्राक्षं तन्वानं कामुकायितम् ।। ८९
तस्य दक्षिणतो गत्वा तरुखण्डं व्यलोकयम् ।
सधूममिव तापिच्छैः साङ्गारमिव किंशुकैः ।। ९०
सज्वालमिव चोत्फुल्ललोहिताशोकवल्लिभिः ।
हरनेत्रानलप्लुष्टं देहं रतिपतेरिव ।। ९१
तत्रातिमुक्तकलतामण्डपद्वारि कुर्वतीम् ।
कुसुमावचयं कांचिदपश्यं कन्यकामहम् ।। ९२
लीलाकटाक्षविक्षेपतर्जितश्रवणोत्पलाम् ।
उत्क्षिप्तबाहुलतिकालक्षितैकपयोधराम् ।। ९३
वहन्तीं कबरीपाशं पृष्ठतः परिमोचितम् ।
वदनेन्दुभयेनेव तिमिरं शरणागतम् ।। ९४
नूनं रम्भादिनिर्माणसिद्धहस्तेन वेधसा ।
सृष्टा साक्ष्णोर्निमेषेण विज्ञेया मानुषीति या ।। ९५
सा च दृष्टा प्रविष्टैव हृदयं मे मृगेक्षणा ।
हस्तभल्लीव मारस्य जगत्त्रितयमोहिनी ।। ९६
सापि मामवलोक्यैव सद्यः स्मरवशाभवत् ।
विमुच्य पुष्पावचयक्रीडां प्रेमविहस्तिता ।। ९७
चलद्धारलतामध्यपद्मरागप्रभोद्गमैः ।
अनुरागमिवोद्भिन्नं भरेण हृदयाद्बहिः ।। ९८
दर्शयन्ती परावृत्य तनुं मुहुरिवैक्षत ।
सा मामपाङ्गविश्रान्ततारकान्तेन चक्षुषा ।। ९९
एवं यावत्स्थितावावामन्योन्यालोकिनौ क्षणम् ।
तावत्तत्रोदभून्नश्यज्जनहाहारवो महान् ।। १००
आगाद्वन्येभगन्धान्धो धावन्दलितशृङ्खलः ।
मत्तहस्ती धुतारोहकर्णान्तलुलिताङ्कुशः ।। १०१
तं दृष्ट्वैव प्रधाव्याहं वित्रस्तां विद्रुतानुगाम् ।
जनमध्यमनैषं तामुत्सङ्गारोपितां प्रियाम् ।। १०२
समाश्वसिति यावत्सा तत्रागतपरिच्छदा ।
तावज्जनरवाकृष्टस्तत्रैवागात्स वारणः ।। १०३
तद्भयाद्विद्रवद्भूरिजनमध्यतिरोहिता ।
अनुगैः साम्यतः क्वापि नीताहं च गतोऽन्यतः ।। १०४
ततो गजभये शान्ते चिन्वानस्तां सुमध्यमाम् ।
यन्नावापमविज्ञातनामान्वयनिकेतनाम् ।। १०५
तच्छून्यचित्तो विभ्रष्टविद्यो विद्याधरो यथा ।
भ्रमन्नुपाध्यायगृहं कथमप्यहमाप्तवान् ।। १०६
तत्र संमूर्छित इव प्रध्वस्त इव चाभवम् ।
तत्प्रेमभङ्गसोत्कम्पस्तदाश्लेषसुखं स्मरन् ।। १०७
क्रमाच्च सुस्त्रीसुलभादार्द्रभावाश्रयादिव ।
निपातितोऽहमुत्सङ्गे चिन्तया दर्शिताशया ।। १०८
अश्रुत्या च परामृष्टो हृदये व्यथितात्मना ।
उत्तमाङ्गे गृहीतश्च शिरोर्त्यात्यन्तवृद्धया ।। १०९
तावच्च धैर्येण समं तन्मे विगलितं दिनम् ।
संकोचमागतं पद्मवनं सह मुखेन मे ।। ११०
मनोरथैर्मदीयैश्च साकं विघटितान्यथ ।
रथाङ्गनाम्नां मिथुनान्यस्तं याते विवस्वति ।। १११
ततः स्मरस्यैकसुहृत्सुखिनां नयनोत्सवः ।
उदगच्छन्निशानाथः प्राचीमुखविशेषकः ।। ११२
तेन ज्वलद्भिरिव मे करैरपि सुधामयैः ।
आशाप्रकाशकेणापि जीविताशां न्यमील्यत ।। ११३
अथ ज्योत्स्नानलक्षिप्तशरीरं मृत्युकाङ्क्षिणम् ।
एकोऽब्रवीत्सहाध्यायी विधुरं वीक्ष्य तत्र माम् ।। ११४
किमेवं दुःखितोऽस्यद्य व्याधिस्तव न दृश्यते ।
अर्थकामकृतस्त्वाधिर्यदि तद्वच्मि ते शृणु ।। ११५
अतिगर्धेन ये ह्यर्था वञ्चयित्वा परं च ये ।
अपहृत्य परेषां वा वाञ्छ्यन्ते नैव ते स्थिराः ।। ११६
पापमूला यतः पापफलभारं प्रसूय ते ।
तद्भरेणैव भज्यन्ते शीघ्रं धनविषद्रुमाः ।। ११७
अर्जनादिपरिक्लेशः केवलं तैर्धनैरिह ।
अमुत्र दुःखमाचन्द्रतारकं नारकं महत् ।। ११८
कामोऽप्यप्राप्य नष्टो यः सा प्राणान्तविडम्बना ।
यश्चाधर्मोऽग्रदूतः स निरयाग्नेर्मुखप्रियः ।। ११९
न्याय्यौ तु पूर्वसुकृतैर्धीधैर्योत्साहवान्पुमान् ।
अर्थकामाववाप्नोति न तु क्लीबो भवादृशः ।। १२०
तद्भद्र धैर्यमालम्ब्य यतस्वाभीष्टसिद्धये ।
इत्युक्तस्तेन सख्याहं नादां यत्किंचिदुत्तरम् ।। १२१
निगूह्याशयमाश्रित्य धैर्यं नीत्वा निशां क्रमात् ।
इहागतोऽहं सा नाम मास्यां पुरि वसेदिति ।। १२२
अत्र प्राप्तेन दृष्टस्त्वं पाशार्पितगलो मया ।
पाशोत्तीर्णाच्छ्रुतं त्वत्तस्त्वद्दुःखं स्वं च वर्णितम् ।। १२३
तदविज्ञातनामादेरपि तस्याः कृते सखे ।
सुतनोराश्रितोद्योगः पौरुषागोचरेऽप्यहम् ।। १२४
अतस्त्वं मदिरावत्याः स्थिताया अपि गोचरे ।
प्राप्तौ पुरुषकारादि मुक्त्वा क्लीबायसे कथम् ।। १२५
न श्रुतः पूर्ववृत्तान्तः किं त्वया रुक्मिणीगतः ।
दत्तापि चेदिपतये हृता सा हरिणा न किम् ।। १२६
इति ब्रुवति मित्रे मे तस्मिन्नातोद्यमङ्गलैः ।
अग्रतस्तत एवागात्सानुगा मदिरावती ।। १२७
मातृदेवकुलेऽमुष्मिन्कामपूजार्थमागताः ।
अत्र स्थिताः कामदेवं विवाहेऽर्चन्ति कन्यकाः ।। १२८
अत एवैतदग्रेऽस्मिन्वटे पाशो मयार्पितः ।
इहागता सा तदर्थं मृतं पश्यतु मामिति ।। १२९
एतच्छ्रुत्वैव स सुहृद्वीरो मामब्रवीद्द्विजः ।
तर्हि देवकुलेऽत्रैव प्रविश्याभ्यन्तरे द्रुतम् ।। १३०
मातॄणां पृष्ठतश्छन्नावेहि सांप्रतमास्वहे ।
पश्यावः किमुपायोऽत्र कश्चित्स्यादावयोर्न वा ।। १३१
एवमुक्तवता तेन सख्या साकं तथेत्यहम् ।
गत्वा देवकुलं तत्र तथैवासमलक्षितः ।। १३२
ततः परिणयोद्गीतमङ्गलागत्य सा शनैः ।
प्राविशत्तत्र मदिरावती देवकुलान्तरे ।। १३३
एकाकिन्येव याचिष्ये वरं कंचिन्मनोगतम् ।
कामदेवाद्भगवतस्तद्बहिर्भवताखिलाः ।। १३४
इति सर्वा बहिष्कृत्वा सखीरनुचरैः सह ।
एकैव कामदेवं तमर्चयित्वा व्यजिज्ञपत् ।। १३५
मनोभवेनापि सता त्वया देव कथं न मे ।
मनोगतः प्रियो ज्ञातो विप्रलब्धा हतास्मि किम् ।। १३६
मास्मिञ्जन्मनि भूतश्चेत्त्वं वराय क्षमो मम ।
जन्मान्तरेऽपि तत्कुर्याः कृपां रतिपते मयि ।। १३७
तथा प्रसादं कुर्वीथा यथा देहान्तरेऽपि मे ।
स एव भर्ता सुभगो भवेद्विप्रकुमारकः ।। १३८
इत्युक्त्वा सावयोर्बाला पश्यतोः शृण्वतोरपि ।
शङ्कौ कृत्वोत्तरीयेण पाशं कण्ठे न्यवेशयत् ।। १३९
उपेत्य दर्शयात्मानमस्याः पाशं गलाद्धर ।
इत्युक्तस्तेन सख्याहमुपासर्पं तदैव ताम् ।। १४०
मा प्रिये साहसं पश्य सैष प्राणपणार्जितः ।
आर्तिकालोक्तसहजस्नेहो दासोऽग्रतस्तव ।। १४१
इत्यहं व्याहरन्हर्षभरगद्गदया गिरा ।
सुतनोस्त्वरितं तस्याः पाशं कण्ठादपाहरम् ।। १४२
ततो मां वीक्ष्य सहसा यावत्सानन्दसाध्वसा ।
क्षणं तिष्ठति सा तावत्सोऽब्रवीन्मा द्रुतं सुहृत् ।। १४३
दिनक्षयाप्रकाशेऽस्मिन्काले निर्गत्य याम्यहम् ।
वेषेण मदिरावत्या एतत्परिजनैः सह ।। १४४
आवयोरुत्तरीयाभ्यां संवीतां त्वमिमां वधूम् ।
आदायागच्छ निर्गत्य द्वितीयद्वारवर्त्मना ।। १४५
याहि देशान्तरं रात्रौ यथाकाममलक्षितः ।
मच्चिन्तां मा कृथा दैवं शिवं मम विधास्यति ।। १४६
इत्युक्त्वोपात्तमदिरावतीवेषः सुहृत्स मे ।
निर्गत्यैव ततः प्रायान्नक्तं तदनुगैर्वृतः ।। १४७
अहं च मदिरावत्यानर्घरत्नस्रजा समम् ।
द्वारेणान्येन निष्क्रम्य रात्र्या यातोऽस्मि योजनम् ।। १४८
प्रातर्निर्वर्तिताहारः क्रमाद्गच्छन्दिनैरहम् ।
प्राप्तोऽचलपुरं नाम नगरं दयितासखः ।। १०९
मित्त्रीभूय गृहे दत्ते तत्रैकेन द्विजन्मना ।
परिणीता मया सात्र सत्त्वरं मदिरावती ।। १५०
ततोऽत्र वसतः सिद्धयथेष्टसुखितस्य मे ।
किं स्यान्मित्त्रस्य मे वृत्तं तस्येत्येषाभवद्व्यथा ।। १५१
तदनन्तरमेषोऽद्य दृष्टोऽकारणबान्धवः ।
मयेह गङ्गास्नानार्थमागतेनोत्तरायणे ।। १५२
चिरं चैतं सवैलक्ष्यमिवाश्लिष्योपविश्य च ।
यावत्पृच्छामि वृत्तान्तं तावद्देव इहागतः ।। १५३
तमेतमपरं विद्धि प्राणदारप्रदं मम ।
कृच्छ्रैकमित्त्रं पार्श्वस्थं विप्रं वत्सेशनन्दन ।। १५४
इति तेन यथावृत्ते विप्रेणैकेन वर्णिते ।
नरवाहनदत्तस्तमपृच्छदपरं द्विजम् ।। १५५
तुष्टिर्मे ब्रूहि मुक्तस्त्वं तादृशात्संकटात्कथम् ।
मित्त्रार्थागणितप्राणा दुर्लभा हि भवादृशाः ।। १५६
एतत्तस्य वचः श्रुत्वा वत्सराजसुतस्य सः ।
द्वितीयोऽपि स्ववृत्तान्तं विप्रो वक्तुं प्रचक्रमे ।। १५७
तदा ततो मां मदिरावतीवेषं विनिर्गतम् ।
देवागारात्तदनुगास्तद्बुद्ध्या पर्यवारयन् ।। १५८
आरोप्य शिबिकां तैश्च नृत्यवाद्यमदाकुलैः ।
नीतोऽस्मि सोमदत्तस्य भवनं विभवान्वितम् ।। १५९
क्वचित्सद्वस्त्रभाराढ्यं संभृताभरणं क्वचित् ।
क्वचिन्निष्पन्नपक्वान्नं क्वचित्सज्जितवेदिकम् ।। १६०
क्वचित्प्रगीतदासीकं क्वचिच्चारणसंकुलम् ।
लग्नवेलाप्रतीक्षैश्च क्वचिदध्यासितं द्विजैः ।। १६१
तत्रैकस्मिन्गृहे पानक्षीबैः परिजनैरहम् ।
कृतावगुण्ठनो नक्तं वधूबुद्ध्या प्रवेशितः ।। १६२
उपविष्टं च मां तत्र वनिताः पर्यवारयन् ।
विवाहोत्सवसानन्दनानाचेष्टासमाकुलाः !। १६३
क्षणाद्द्वारोपकण्ठे च मेखलानूपुरारवः ।
अश्रावि प्राविशच्चात्र कन्यैका ससखीजना ।। १६४
नागीव विस्फुरद्रत्नमूर्धा धवलकञ्चुका ।
अब्धिवीचीव लावण्यपूर्णा मुक्तावलीचिता ।। १६५
उद्यानदेवता साक्षादिव सत्पुष्पमालिनी ।
सुपर्वबाहुलतिकाविराजत्करपल्लवा ।। १६६
सा चागत्योपविष्टा मे पार्श्वे प्रियसखीधिया ।
पश्यामि यावत्सैवात्र चित्तचौरी समागता ।। १६७
या सा शङ्खह्रदे दृष्टा कन्या स्नानागता मया ।
त्राता गजाद्दृष्टनष्टा मध्येलोकमगान्मम ।। १६८
किमेतत्काकतालीयं किं स्वप्नः सत्यमेव वा ।
इति हर्षभरोद्भ्रान्तस्तदा चाहमचिन्तयम् ।। १६९
क्षणान्तरे च मदिरावतीसख्योऽब्रुवंश्च ताम् ।
किमेवमार्यदुहितरुन्मना इव लक्ष्यसे ।। १७०
एतच्छ्रुत्वाब्रवीत्कन्या सा निगूह्याशयं तदा ।
जानीथ किं न मदिरावती मे यादृशी सखि ।। १७१
एषा कृतविवाहा च यास्यति श्वाशुरं गृहम् ।
एतद्वियुक्ता न स्थातुं शक्ष्यामीत्यस्मि दुःखिता ।। १७२
तन्निर्यात बहिः क्षिप्रं यावद्विस्रम्भसंकथाः ।
कुर्वती मदिरावत्या सह तिष्ठाम्यहं सुखम् ।। १७३
इति निष्कास्य ताः सर्वा द्वारे दत्त्वार्गलं स्वयम् ।
उपविश्य सखीबुद्ध्या सा मामेवमभाषत ।। १७४
मदिरावति नास्त्यस्मादुःखं त्वदुःखतोऽधिकम् ।
प्राणप्रिये यदन्यस्मिन्पित्रान्यस्मै प्रदीयसे ।। १७५
तथापि ते भवेज्जातु दर्शनं संगमोऽपि वा ।
संस्तवाज्ज्ञायमानेन तेन स्वप्रेयसा सह ।। १७६
मम त्वनास्थमुत्पन्नं यद्दुःखं तद्वदामि ते ।
यथाहं ते तथा त्वं हि विस्रम्भैकास्पदं मम ।। १७७
गतवत्यस्मि यात्रायां स्नातुं शङ्खह्रदं सरः ।
विनोदयितुमात्मानं भावित्वाद्विरहातुरम् ।। १७८
तत्रोद्यानं दिवा मुक्त्वा नभश्चन्द्र इवागतः ।
आलानकाञ्चनस्तम्भ इव सौन्दर्यदन्तिनः ।। १७९
नवीनश्मश्रुमधुपश्रेणीश्रितमुखाम्बुजः ।
कोऽपि कान्तो द्विजयुवा दृष्टो नववया मया ।। १८०
वनेषु केवलं क्लिष्टास्तपोभिर्मुनिकन्यकाः ।
न दृष्टोऽयं युवा याभिः किं तासां तपसः फलम् ।। १८१
इति संचिन्तयन्त्या मे कामेन हृदयं शरैः ।
तथा विद्धं यथा लज्जा भयं च गलितं ततः ।। १८२
ततः पश्यामि पश्यन्तं यावत्तं तिर्यगीक्षणा ।
आलानमुक्तो मत्तेभस्तावदागादशङ्कितम् ।। १८३
तेन नश्यत्परिजनां भीतां दृष्ट्वा स मां युवा ।
धावित्वाङ्के कृतां दूरे मध्ये लोकस्य नीतवान् ।। १८४
तत्संस्पर्शामृतानन्दमीलिताहं तदा सखि ।
को हस्ती किं भयं काहं क्व स्थितास्मीति नाविदम् ।। १८५
ततः परिजनो यावत्प्राप्तो मे तावदागतः ।
मत्तहस्ती स तत्रैव विरहो मूर्तिमानिव ।। १८६
उत्क्षिप्याहमथानीता तद्भयादनुगैर्गृहम् ।
स च मे जनसंक्षोभे न जाने क्व गतः प्रियः ।। १८७
तदाप्रभृत्यविज्ञातनामादिकमसुप्रदम् ।
स्मरन्ती तं करप्राप्तं केनापीह हृतं निधिम् ।। १८८
सर्वदुःखहरां निद्रां स्वप्ने तद्दर्शनेच्छया ।
वाञ्छन्ती चक्रवाकीभिः समं क्रन्दामि रात्रिषु ।। १८९
तदेवं निरुपायेऽस्मिन्दुःखे मम विनोदनम् ।
त्वद्दर्शनं यत्सखि तद्दूरीभवति चाधुना ।। १९०
उपस्थितं तदित्थं मे मरणं मदिरावति ।
त्वन्मुखालोकनसुखं संप्रत्यनुभवामि तत् ।। १९१
इत्युक्त्वा श्रोत्रपीयूषवर्षाभं वचनं मम ।
कलङ्कयन्ती वक्त्रेन्दुं साञ्जनैरश्रुबिन्दुभिः ।। १९२
अवगुण्ठनमुत्क्षिप्य मुखान्मम निरीक्ष्य माम् ।
परिज्ञाय तदा साभूत्सहर्षाश्चर्यसाध्वसा ।। १९३
ततो मयोक्तं मुग्धे किं संभ्रमः सोऽहमेव ते ।
विधिर्हि घटयत्यर्थानचिन्त्यानपि संमुखः ।। १९४
मयापि त्वत्कृते दुःखमनुभूतं सुदुःसहम् ।
यादृशं यादृशी चैषा प्रपञ्चरचना विधेः ।। १९५
वक्ष्यामि विस्तरात्तत्ते नायं कालः कथाक्रमे ।
निर्गमोपाय एवैकश्चिन्त्यतां संप्रति प्रिये ।। १९६
इत्युक्ता सा मया बाला प्राप्तकालमभाषत ।
अनेन पश्चाद्द्वारेण निर्गच्छावः शनैरितः ।। १९७
बहिश्चात्र गृहोद्यानं पितुः सुक्षत्रियस्य मे ।
तन्मार्गेणैव निर्गत्य व्रजावो यत्रकुत्रचित् ।। १९८
इत्युक्तवत्यैव तया गुप्ताभरणया सह ।
तदुक्तेनैव मार्गेण निरगच्छमहं ततः ।। १९९
रात्र्या च दूरमध्वानं तया गत्वा द्रुतं भयात् ।
प्रभाते प्राप्तवानस्मि प्रियायुक्तो महाटवीम् ।। २००
गच्छतोश्चावयोस्तस्यां स्वकथैकविनोदयोः ।
निर्मानुषायां शनकैर्मध्याह्नः समवर्तत ।। २०१
निराश्रयाध्वगमनां निराक्रन्दामतापयत् ।
भूमिं तां दुष्टभूपाल इव तीक्ष्णकरः करैः ।। २०२
तस्मिन्काले परिश्रान्तां प्रेयसीं तां तृषार्दिताम् ।
कृच्छ्रप्राप्तां तरुच्छायां शनैः प्रापितवानहम् ।। २०३
आश्वासयामि यावच्च तत्र तां पटमारुतैः ।
अकस्मान्महिषस्तावदागाद्व्रणितविद्रुतः ।। २०४
तस्य पश्चात्प्रधावंश्च हयारूढो धनुर्धरः ।
आगात्कोऽपि महासत्त्व इत्याकृत्यैव सूचितः ।। २०५
स महामहिषं भल्लीप्रहारेणापरेण तम् ।
वज्रघातेन वज्रीव गिरिं वीरो न्यपातयत् ।। २०६
दृष्ट्वा चास्मानुपागत्य स मां प्रीत्यैव पृष्टवान् ।
कस्त्वं कैषा च ते साधो केहायातौ युवामिति ।। २०७
अथोपवीतमुद्घाट्य प्रोक्तं सत्यानृतं मया ।
विप्रोऽहमेषा भार्या मे कार्याद्देशान्तरागतौ ।। २०८
आवां चौरहतात्सार्थाद्विभ्रष्टौ मार्गनाशतः ।
इह प्रविष्टौ दृष्टश्च भवान्नष्टाश्च भीतयः ।। २०९
एवं मयोक्ते ब्राह्मण्यात्सानुकम्पश्च सोऽभ्यधात् ।
अहं वनचराधीशो मृगयार्थमिहागतः ।। २१०
युवां चान्वपरिश्रान्तौ संप्राप्तावतिथी मम ।
तदेतं विश्रमायैतन्नातिदूरं मदास्पदम् ।। २११
इत्युक्त्वा मत्प्रियां श्रान्तामारोप्य स्वतुरंगमे ।
पादचारीभवन्नावां स्वनिवासं स नीतवान् ।। २१२
तत्र बान्धववत्सोऽस्मान्भोजनाद्यैरुपाचरत् ।
कुदेशेष्वपि जायन्ते क्वचित्केचिन्महाशयाः ।। २१३
ततोऽटवीं तामुत्क्रम्य तद्वितीर्णानुयात्रिकाम् ।
प्राप्याग्रहारमेकं सा परिणीता मया वधूः ।। २१४
ततः परिभ्रमन्देशान्दृष्ट्वा सार्थं समं तया ।
अद्य भागीरथीस्नानमहं कर्तुमिहागतः ।। २१५
इहैव चैष संप्राप्तः स्वयंवरसुहृन्मया ।
देवश्च दृष्ट इत्येष वृत्तान्तो मामकः प्रभो ।। २१६
इत्युक्त्वा विरतं स यावदथ तं निर्व्याजसत्त्वोचित-
प्राप्ताभीष्टफलं प्रशंसतितरां वत्सेशपुत्रो द्विजम् ।
यावत्तं युवराजमात्मसचिवा बम्भ्रम्यमाणाश्चिरं
चिन्वन्तः किल गोमुखप्रभृतयस्तत्रागता लेभिरे ।। २१७
स च नरवाहनदत्तश्चरणनतान्हर्षबाष्पधौतमुखान् ।
तानभिननन्द सर्वान्संमान्य यथोचितं सचिवान् ।। २१८
अथ तौ विप्रयुवानौ सदर्थनीतिप्रियौ सहादाय ।
स ययौ सह तैर्मन्त्रिभिरन्वागतललितलोचनः स्वपुरीम् ।। २१९
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदिरावतीलम्बके प्रथमस्तरङ्गः ।
समाप्तश्चायं मदिरावतीलम्बस्त्रयोदशः ।


सम्पाद्यताम्

इयमेव कथा मालतीमाधवप्रकरणस्य मूलभूता। मालतीमाधवे त्वेतद्वृत्तान्तस्थाने माधवस्य श्मशाने गमनं तत्राघोरघण्टादिसमागमश्च वर्णितः तत्सर्वमपि लावाणक-लम्बकचतुर्थतरङ्गस्थविदूषककथातः समुद्धृतं भवभूतिना