प्रमुखा विकल्पसूचिः उद्घाट्यताम्

चतुर्थस्तरङ्गः ।
इत्याख्याय कथां मध्ये विन्ध्यान्तः काणभूतये ।
पुनर्वररुचिस्तस्मै प्रकृतार्थमवर्णयत् ।। १
एवं व्याडीन्द्रदत्ताभ्यां सह तत्र वसन्क्रमात् ।
प्राप्तोऽहं सर्वविद्यानां पारमुत्क्रान्तशैशवः ।। २
इन्द्रोत्सवं कदाचिच्च प्रेक्षितुं निर्गता वयम् ।
कन्यामेकामपश्याम कामस्यास्त्रमसायकम् ।। ३
इन्द्रदत्तो मया पृष्टस्ततः केयं भवेदिति ।
उपवर्षसुता सेयमुपकोशेति सोऽब्रवीत् ।। ४
सा सखीभिश्च मां ज्ञात्वा प्रीतिपेशलया दृशा ।
कर्षन्ती मन्मनः कृच्छ्रादगच्छद्भवनं निजम् ।। ५
पूर्णचन्द्रमुखी नीलनीरजोत्तमलोचना ।
मृणालनालललितभुजा पीनस्तनोज्ज्वला ।। ६
कम्बुकण्ठी प्रवालाभरदनच्छदशोभिनी ।
स्मरभूपतिसौन्दर्यमन्दिरेवेन्दिरापरा ।। ७
ततः कामशरापातनिर्भिन्ने हृदये न मे ।
निशि तस्यामभून्निद्रा तद्बिम्बोष्ठपिपासया ।। ८
कथंचिल्लब्धनिद्रोऽहमपश्यं रजनीक्षये ।
शुक्लाम्बरधरां दिव्यां स्त्रियं सा मामभाषत ।। ९
पूर्वभार्योपकोशा ते गुणज्ञा नापरं पतिम् ।
कंचिदिच्छत्यतश्चिन्ता पुत्र कार्यात्र न त्वया ।। 1.4.१०
अहं सदा शरीरान्तर्वासिनी ते सरस्वती ।
त्वद्दुःखं नोत्सहे द्रष्टुमित्युक्त्वान्तर्हिताभवत् ।। ११
ततः प्रबुद्धो जातास्थो गत्वातिष्ठमहं शनैः ।
दयितामन्दिरासन्नबालचूततरोरधः ।। १२
अथागत्य समाख्यातं तत्सख्या मन्निबन्धनम् ।
उद्गाढमुपकोशाया नवानङ्गविजृम्भितम् ।। १३
ततोऽहं द्विगुणीभूततापस्तामेवमब्रवम् ।
अदत्तां गुरुभिः स्वेच्छमुपकोशां कथं भजे ।। १४
वरं हि मृत्युर्नाकीर्तिस्तत्सखीहृदयं तव ।
गुरुभिर्यदि बुध्येत तत्कदाचिच्छिवं भवेत् ।। १५
तदेतत्कुरु भद्रे त्वं तां सखीं मां च जीवय ।
तच्छ्रुत्वा सा गता सख्या मातुः सर्वं न्यवेदयत् ।। १६
तया तत्कथितं भर्तुरुपवर्षस्य तत्क्षणम् ।
तेन भ्रातुश्च वर्षस्य तेन तच्चाभिनन्दितम् ।। १७
विवाहे निश्चिते गत्वा व्याडिरानयति स्म ताम् ।
वर्षाचार्यनिदेशेन कौशाम्ब्या जननीं मम ।। १८
अथोपकोशा विधिवत्पित्रा मे प्रतिपादिता ।
ततो मात्रा गृहिण्या च समं तत्रावसं सुखम् ।। १९
अथ कालेन वर्षस्य शिष्यवर्गो महानभूत् ।
तत्रैकः पाणिनिर्नाम जडबुद्धितरोऽभवत् ।। 1.4.२०
स शुश्रूषापरिक्लिष्टः प्रेषितो वर्षभार्यया ।
अगच्छत्तपसे खिन्नो विद्याकामो हिमालयम् ।। २१
तत्र तीव्रेण तपसा तोषितादिन्दुशेखरात् ।
सर्वविद्यामुखं तेन प्राप्तं व्याकरणं नवम् ।। २२
ततश्चागत्य मामेव वादायाह्वयते स्म सः ।
प्रवृत्ते चावयोर्वादे प्रयाताः सप्त वासराः ।। २३
अष्टमेऽह्नि मया तस्मिञ्जिते तत्समनन्तरम् ।
नभःस्थेन महाघोरो हुंकारः शंभुना कृतः ।। २४
तेन प्रणष्टमैन्द्रं तदस्मद्व्याकरणं भुवि ।
जिताः पाणिनिना सर्वे मूर्खीभूता वयं पुनः ।। २५
अथ संजातनिर्वेदः स्वगृहस्थितये धनम् ।
हस्ते हिरण्यगुप्तस्य विधाय वणिजो निजम् ।। २६
उक्त्वा तच्चोपकोशायै गतवानस्मि शंकरम् ।
तपोभिराराधयितुं निराहारो हिमालयम् ।। २७
उपकोशा हि मे श्रेयः काङ्क्षन्ती निजमन्दिरे ।
अतिष्ठत्प्रत्यहं स्नान्ती गङ्गायां नियतव्रता ।। २८
एकदा सा मधौ प्राप्ते क्षामा पाण्डुर्मनोरमा ।
प्रतिपच्चन्द्रलेखेव जनलोचनहारिणी ।। २९
स्नातुं त्रिपथगां यान्ती दृष्टा राजपुरोधसा ।
दण्डाधिपतिना चैव कुमारसचिवेन च ।। 1.4.३०
तत्क्षणात्ते गताः सर्वे स्मरसायकलक्ष्यताम् ।
सापि तस्मिन्दिने स्नान्ती कथमप्यकरोच्चिरम् ।। ३१
आगच्छन्तीं च सायं तां कुमारसचिवो हठात् ।
अग्रहीदथ साप्येनमवोचत्प्रतिभावती ।। ३२
अभिप्रेतमिदं भद्र यथा तव तथा मम ।
किं त्वहं सत्कुलोत्पन्ना प्रवासस्थितभर्तृका ।। ३३
कथमेवं प्रवर्तेय पश्येत्कोऽपि कदाचन ।
ततश्च ध्रुवमश्रेयस्त्वया सह भवेन्मम ।। ३४
तस्मान्मधूत्सवाक्षिप्तपौरलोके गृहं मम ।
आगन्तव्यं युवं रात्रेः प्रथमे प्रहरे त्वया ।। ३५
इत्युक्त्वा कृतसंधा सा तेन क्षिप्ता विधेर्वशात् ।
यावत्किंचिद्गता तावन्निरुद्धा सा पुरोधसा ।। ३६
तस्यापि तत्रैव दिने तद्वदेव तया निशि ।
संकेतकं द्वितीयस्मिन्प्रहरे पर्यकल्प्यत ।। ३७
मुक्तां कथंचित्तेनापि प्रयातां किंचिदन्तरम् ।
दण्डाधिपो रुणद्धि स्म तृतीयस्तां सुविह्वलाम् ।। ३८
अथ तस्यापि दिवसे तस्मिन्नेव तथैव सा ।
संकेतकं त्रियामायां तृतीये प्रहरे व्यधात् ।। ३९
दैवात्तेनापि निर्मुक्ता सकम्पा गृहमागता ।
कर्तव्या सा स्वचेटीनां संविदं स्वैरमब्रवीत् ।। 1.4.४०
वरं पत्यौ प्रवासस्थे मरणं कुलयोषितः ।
न तु रूपारमल्लोकलोचनापातपात्रता ।। ४१
इति संचिन्तयन्ती च स्मरन्ती मां निनाय सा ।
शोचन्ती स्वं वपुः साध्वी निराहारैव तां निशाम् ।।४२
प्रातर्ब्राह्मणपूजार्थं व्यसर्जि वणिजस्तया ।
चेटी हिरण्यगुप्तस्य किचिन्मार्गयितुं धनम् ।। ४३
आगत्य सोऽपि तामेवमेकान्ते वणिगब्रवीत् ।
भजस्व मां ततो भर्तृस्थापितं ते ददामि तत् ।। ४४
तच्छ्रुत्वा साक्षिरहितां मत्वा भर्तृधनस्थितिम् ।
वणिजं पापमालोक्य खेदामर्षकदर्थिता ।। ४५
तस्यामेवात्र संकेतं रात्रौ तस्यापि पश्चिमे ।
शेषे पतिव्रता यामे साकरोदथ सोऽगमत् ।। ४६
ततः साकारयद्भूरि चेटीभिः कुण्डकस्थितम् ।
कस्तूरिकादिसंयुक्तं कज्जलं तैलमिश्रितम् ।। ४७
तल्लिप्ताश्चेलखण्डाश्च चत्वारो विहितास्तया ।
मञ्जूषा कारिता चाभूत्स्थूला सबहिरर्गला ।। ४८
अथ तस्मिन्महावेषो वसन्तोत्सववासरे ।
आययौ प्रथमे यामे कुमारसचिवो निशि ।। ४९
अलक्षितं प्रविष्टं तमुपकोशेदमब्रवीत् ।
अस्नातं न स्पृशामि त्वां तत्स्नाहि प्रविशान्तरम् ।। 1.4.५०
अङ्गीकुर्वन्स तन्मूढश्चेटिकाभिः प्रवेशितः ।
अभ्यन्तरगृहं गुप्तमन्धकारमयं ततः ।। ५१
गृहीत्वा तत्र तस्यान्तर्वस्त्राण्याभरणानि च ।
चेलखण्डं तमेकं च दत्त्वान्तर्वाससः कृते ।। ५२
आ शिरःपादमङ्गेषु ताभिस्तत्तैलकज्जलम् ।
अभ्यङ्गभङ्ग्या पापस्य न्यस्तं घनमपश्यतः ।। ५३
अतिष्ठन्मर्दयन्त्यस्तत्प्रत्यङ्गं यावदस्य ताः ।
तावद्द्वितीये प्रहरे स पुरोधा उपागमत् ।। ५४
मित्रं वररुचेः प्राप्तः किमप्येष पुरोहितः ।
तदिह प्रविशेत्युक्त्वा चेट्यस्तास्तं तथाविधम् ।। ५५
कुमारसचिवं नग्नं मञ्जूषायां ससंभ्रमम् ।
निचिक्षिपुरथाबध्नन्नर्गलेन बहिश्च ताम् ।। ५६
सोऽपि स्नानमिषान्नीतस्तमस्यन्तः पुरोहितः ।
तथैव हृतवस्त्रादिस्तैलकज्जलमर्दनैः ।। ५७
चेलखण्डधरस्तावच्चेटिकाभिर्विमोहितः ।
यावत्तृतीये प्रहरे दण्डाधिपतिरागमत् ।। ५८
तदागमनजाच्चैव चेटीभिः सहसा भयात् ।
आद्यवत्सोऽपि निक्षिप्तो मञ्जूषायां पुरोहितः ।। ५९
तस्य दत्त्वार्गलं ताभिः स्नानव्याजात्प्रवेश्य सः ।
दण्डाधिपोऽपि तत्रैव तावत्कज्जलमर्दनैः ।। 1.4.६०
अन्यवद्विप्रलब्धोऽभूच्चेलखण्डैककर्पटः ।
यावत्स पश्चिमे यामे वणिक्तत्रागतोऽभवत् ।। ६१
तद्दर्शनभयं दत्त्वा क्षिप्तो दण्डाधिपोऽप्यथ ।
मञ्जूषायां स चेटीभिर्दत्तं च बहिरर्गलम् ।। ६२
ते च त्रयोऽन्धतामिस्रवासाभ्यासोद्यता इव ।
मञ्जूषायां भियान्योन्यं स्पर्शं लब्ध्वापि नालपन् ।। ६३
दत्त्वाथ दीपं गेहेऽत्र वणिजं तं प्रवेश्य सा ।
उपकोशावदद्देहि तन्मे भर्त्रार्पितं धनम् ।। ६४
तच्छ्रुत्वा शून्यमालोक्य गृहं सोऽप्यवदच्छठः ।
उक्तं मया ददाम्येव यद्भर्त्रा स्थापितं धनम् ।। ६५
उपकोशापि मञ्जूषां श्रावयन्ती ततोऽब्रवीत् ।
एतद्धिरण्यगुप्तस्य वचः शृणुत देवताः ।। ६६
इत्युक्त्वा चैव निर्वाप्य दीपं सोऽप्यन्यवद्वणिक् ।
लिप्तः स्नानापदेशेन चेटीभिः कज्जलैश्चिरम् ।। ६७
अथ गच्छ गता रात्रिरित्युक्तः स निशाक्षये ।
अनिच्छन्गलहस्तेन ताभिर्निर्वासितस्ततः ।। ६८
अथ चीरैकवसनो मषीलिप्तः पदे पदे ।
भक्ष्यमाणः श्वभिः प्राप लज्जमानो निजं गृहम् ।। ६९
तत्र दासजनस्यापि तां प्रक्षालयतो मषीम् ।
नाशकत्संमुखे स्थातुं कष्टो ह्यविनयक्रमः ।। 1.4.७०
उपकोशाप्यथ प्रातश्चेटिकानुगता गता ।
गुरूणामनिवेद्यैव राज्ञो नन्दस्य मन्दिरम् ।। ७१
वणिग्घिरण्यगुप्तो मे भर्त्रा न्यासीकृतं धनम् ।
जिहीर्षतीति विज्ञप्तस्तत्र राजा तया स्वयम् ।। ७२
तेन तच्च परिज्ञातुं तत्रैवानायितो वणिक् ।
मद्धस्ते किंचिदप्यस्या देव नास्तीत्यभाषत ।। ७३
उपकोशा ततोऽवादीत्सन्ति मे देव साक्षिणः ।
मञ्जूषायां गतः क्षिप्त्वा भर्ता मे गृहदेवताः ।। ७४
स्ववाचा पुरतस्तासामनेनाङ्गीकृतं धनम् ।
तामानाय्येह मञ्जूषां पृच्छ्यन्तां देवतास्त्वया ।। ७५
तच्छ्रुत्वा विस्मयाद्राजा तदानयनमादिशत् ।
ततः क्षणात्सा मञ्जूषा प्रापिता बहुभिर्जनैः ।। ७६
अथोपकोशा वक्ति स्म सत्यं वदत देवताः ।
यदुक्तं वणिजानेन ततो यात निजं गृहम् ।। ७७
नो चेद्ददाम्यहं युष्मान्सदस्युद्धाटयामि वा ।
तच्छ्रुत्वा भीतभीतास्ते मञ्जूषास्था बभाषिरे ।। ७८
सत्यं समक्षमस्माकमनेनाङ्गीकृतं धनम् ।
ततो निरुत्तरः सर्वं वणिक्तत्प्रपद्यत ।। ७९
उपकोशामथाभ्यर्थ्य राज्ञा त्वतिकुतूहलात् ।
सदस्युद्धाटिता तत्र मञ्जूषा स्फोटितार्गला ।। 1.4.८०
निष्कृष्टास्तेऽपि पुरुषास्तमःपिण्डा इव त्रयः ।
कृच्छ्राच्च प्रत्यभिज्ञाता मन्त्रिभिर्भूभृता तथा ।। ८१
प्रहसत्स्वथ सर्वेषु किमेतदिति कौतुकात् ।
राज्ञा पृष्टा सती सर्वमुपकोशा शशंस तत् ।। ८२
अचिन्त्यं शीलगुप्तानां चरितं कुलयोषिताम् ।
इति चाभिननन्दुस्तामुपकोशां सभासदः ।। ८३
ततस्ते हृतसर्वस्वाः परदारैषिणोऽखिलाः।
राज्ञा निर्वासिता देशादशीलं कस्य भूतये॥८४
भगिनी मे त्वमित्युकत्वा दत्त्वा प्रीत्या धनं बहु ।
उपकोशापि भूपेन प्रेषिता गृहमागमत्॥८५
वर्षोपवर्षो तद्बुद्ध्वा साध्वीं तामभ्यनन्दताम्।
सर्वाश्च विस्मयस्मेरः पुरे तत्राभवज्जनः॥८६
अत्रान्तरे तुषाराद्रौ कृत्वा तीव्रतरं तपः ।
आराधितो मया देवो वरदः पार्वतीपतिः॥८७
तदेव तेन शास्त्रं मे पाणिनीयं प्रकाशितम्।
तदिच्छानुग्रहादेव मया पूर्णीकृतं च तत्॥८८
ततोऽह्ं गृहमागच्छमज्ञाताध्वपरिश्रमः।
निशाकरकलामौलिप्रसादामृतनिर्भरः॥८९
अथ मातुर्गुरूणां च कृतपादाभिवन्दनः।
तत्रोपकोशावृत्तान्तं तमश्रौषं महाद्भुतम्॥1.4.९०
तेन मे परमां भूमिमात्मन्यानन्दविस्मयो ।
तस्यां च सहजस्नेहबहुमानावगच्छताम् ॥९१
वर्षोऽथ मन्मुखादेच्छ्रोतुं व्याकरणं नवम् ।
ततः प्रकाशितं स्वमिकुमारेणैव तस्य तत्॥९२
ततो व्याडीन्द्रदत्तभ्यां विज्ञप्तो दक्षिणां प्रति।
 गुरूर्वषोऽब्रवीत्स्वर्णकोटिर्मे दीयतामिति॥९३
अड्गीकृत्य गुरोर्वाक्यं तौ च मामित्यवोचताम् ।
एही राज्ञः सखे नन्दाद्याचितुं गुरुदक्षिणाम्॥९४
गच्छामो नान्यतोऽस्माभिरियत्काञ्चनमाप्यते ।
नवाधिकाया नवतेः कोटिनामधिपो हि सः॥९५
वाचा तेनोपकोशा च प्राग्धर्मभगिनी कृता ।
अतः श्यालः स ते किंचितत्वद्गुणैः समवाप्यते॥९६
इति निश्चित्य नन्दस्य भूपतेः कटकं वयम् ।
अयोध्यास्थमगच्छाम त्रयः सब्रह्मचारिणः ॥९७
प्राप्तमात्रेषु चस्मासु स राजा पञ्चतां गतः ।
राष्ट्रे कोलाहलं जातं विषादेन सहैव नः ॥९८
अवोचदिन्द्रदत्तोऽथ तत्क्षणं योगसिध्दिमान् ।
गतासोरस्य भूपस्य शरीरं प्रविशाम्यहम् ॥९९
अर्थी वररुचिर्मेऽस्तु दास्याम्यस्मै च काज्चनम् ।
व्याडी रक्षतु मे देहं ततः प्रत्यागमावधि॥1.4.१००
इत्युक्त्वा नन्ददेहान्तरिन्द्रदत्तः समाविशत् ।
प्रत्युज्जीवति भूपे च राष्ट्रे तत्रोत्सवोऽभवत् ।। १०१
शून्ये देवगृहे देहमिन्द्रदत्तस्य रक्षितुम् ।
व्याडौ स्थिते गतोऽभूवमहं राजकुलं तदा ।। १०२
प्रविश्य स्वस्तिकारं च विधाय गुरुदक्षिणाम् ।
योगनन्दो मया तत्र हेमकोटिं स याचितः ।। १०३
ततः स शकटालाख्यं सत्यनन्दस्य मन्त्रिणम् ।
सुवर्णकोटिमेतस्मै दापयेति समादिशत् ।। १०४
मृतस्य जीवितं दृष्ट्वा सद्यश्च प्राप्तिमर्थिनः ।
स तत्त्वं ज्ञातवान्मन्त्री किमज्ञेयं हि धीमताम् ।। १०५
देव दीयत इत्युक्त्वा स च मन्त्रीत्यचिन्तयत् ।
नन्दस्य तनयो बालो राज्यं च बहुशत्रुमत् ।। १०६
तत्संप्रत्यत्र रक्षामि तस्य देहमपीदृशम् ।
निश्चित्यैतत्स तत्कालं शवान्सर्वानदाहयत् ।। १०७
चारैरन्विष्य तन्मध्ये लब्ध्वा देवगृहात्ततः ।
व्याडिं विधूय तद्दग्धमिन्द्रदत्तकलेवरम् ।। १०८
अत्रान्तरे च राजानं हेमकोटिसमर्पणे ।
त्वरमाणमथाह स्म शकटालो विचारयन् ।। १०९
उत्सवाक्षिप्तचित्तोऽयं सर्वः परिजनः स्थितः ।
क्षणं प्रतीक्षतामेष विप्रो यावद्ददाम्यहम् ।। 1.4.११०
अथैत्य योगनन्दस्य व्याडिना क्रन्दितं पुरः ।
अब्रह्मण्यमनुत्क्रान्तजीवो योगस्थितो द्विजः ।। १११
अनाथशव इत्यद्य बलाद्दग्धस्तवोदये ।
तच्छ्रुत्वा योगनन्दस्य काप्यवस्थाभवच्छुचा ।। ११२
देहदाहात्स्थिरे तस्मिञ्जाते निर्गत्य मे ददौ ।
सुवर्णकोटिं स ततः शकटालो महामतिः ।। ११३
योगनन्दोऽथ विजने सशोको व्याडिमब्रवीत् ।
शूद्रीभूतोऽस्मि विप्रोऽपि किं श्रिया स्थिरयापि मे ।। ११४
तच्छ्रुत्वाश्वास्य तं व्याडिः कालोचितमभाषत ।
ज्ञातोऽसि शकटालेन तदेनं चिन्तयाधुना ।। ११५
महामन्त्री ह्ययं स्वेच्छमचिरात्त्वां विनाशयेत् ।
पूर्वनन्दसुतं कुर्याच्चन्द्रगुप्तं हि भूमिपम् ।। ११६
तस्माद्वररुचिं मन्त्रिमुख्यत्वे कुरु येन ते ।
एतद्बुद्ध्या भवेद्राज्यं स्थिरं दिव्यानुभावया ।। ११७
इत्युक्त्वैव गते व्याडौ दातुं तां गुरुदक्षिणाम् ।
तदैवानीय दत्ता मे योगनन्देन मन्त्रिता ।। ११८
अथोक्तः स मया राजा ब्राह्मण्ये हारितेऽपि ते ।
राज्यं नैव स्थिरं मन्ये शकटाले पदस्थिते ।। ११९
तस्मान्नाशय युक्त्यैनमिति मन्त्रे मयोदिते ।
योगनन्दोऽन्धकूपान्तः शकटालं तमक्षिपत् ।। 1.4.१२०
किं च पुत्रशतं तस्य तत्रैव क्षिप्तवानसौ ।
जीवन्द्विजोऽमुना दग्ध इति दोषानुकीर्तनात् ।। १२१
एकः शरावः सक्तूनामेकः प्रत्यहमम्भसः ।
शकटालस्य तत्रान्तः सपुत्रस्य न्यधीयत ।। १२२
स चोवाच ततः पुत्रानमीभिः सक्तुभिः सुताः ।
एकोऽपि कृच्छाद्वर्तेत बहूनां तु कथैव का ।। १२३
तस्मात्संभक्षयत्वेकः प्रत्यहं सजलानमून् ।
यः शक्तो योगनन्दस्य कर्तुं वैरप्रतिक्रियाम् ।। १२४
त्वमेव शक्तो भुङ्क्ष्वैतदिति पुत्रास्तमब्रुवन् ।
प्राणेभ्योऽपि हि धीराणां प्रिया शत्रुप्रतिक्रिया ।। १२५
ततः स शकटालस्तैः प्रत्यहं सक्तुवारिभिः ।
एक एवाकरोद्वृत्तिं कष्टं क्रूरा जिगीषवः ।। १२६
अबुद्ध्वा चित्तमप्राप्य विस्रम्भं प्रभविष्णुषु ।
न स्वेच्छं व्यवहर्तव्यमात्मनो भूतिमिच्छता ।। १२७
इति चाचिन्तयत्तत्र शकटालोऽन्धकूपगः ।
तनयानां क्षुधार्तानां पश्यन्प्राणोद्गमव्यथाम् ।। १२८
ततः सुतशतं तस्य पश्यतस्तद्व्यपद्यत ।
तत्करङ्कैर्वृतो जीवन्नतिष्ठत्स च केवलः ।। १२९
योगनन्दश्च साम्राज्ये बद्धमूलोऽभवत्ततः ।
व्याडिरभ्याययौ तं च गुरवे दत्तदक्षिणः ।। 1.4.१३०
अभ्येत्यैव च सोऽवादीच्चिरं राज्यं सखेऽस्तु ते ।
आमन्त्रितो सि गच्छामि तपस्तप्तुमहं क्वचित् ।। १३१
तच्छ्रुत्वा योगनन्दस्तं बाष्पकण्ठोऽप्यभाषत ।
राज्ये मे भुङ्क्ष्व भोगांस्त्वं मुक्त्वा मां मास्म गा इति ।। १३२
व्याडिस्ततोऽवदद्राजञ्शरीरे क्षणनश्वरे ।
एवंप्रायेष्वसारेषु धीमान्को नाम मज्जति ।। १३३
नहि मोहयति प्राज्ञं लक्ष्मीर्मरुमरीचिका ।
इत्युक्त्वैव स तत्कालं तपसे निश्चितो ययौ ।। १३४
अगमदथ योगनन्दः पाटलिपुत्रं स्वराजनगरं सः ।
भोगाय काणभूते मत्सहितः सकलसैन्ययुतः ।। १३५
तत्रोपकोशापरिचर्यमाणः समुद्वहन्मन्त्रिधुरां च तस्य ।
अहं जनन्या गुरुभिश्च साकमासाद्य लक्ष्मीमवसं चिराय ।। १३६
बहु तत्र दिने दिने द्युसिन्धुः कनकं मह्यमदात्तपःप्रसन्ना ।
वदति स्म शरीरिणी च साक्षान्मम कार्याणि सरस्वती सदैव ।। १३७
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके चतुर्थस्तरङ्गः ।