प्रमुखा विकल्पसूचिः उद्घाट्यताम्
कपीनामुपवासः
डि टि ताताचारियर्
१९१३

Some opinions about the
Author.


Lata, R. RAJARAJAWARMA, Professor of Sanskrit, and Dravidian languages, Trivandruin :-


1). T. Tatachariyar of Tanjore paid me a few visits and read to me some of his poetical productions. The ീng pandit has written many a lyric poem and also a few panegyrics of certain Rajas and Chiefs. He wrotes chaste, elegant and idiomatic sanskrit. Both in diction and conception of ideas he is far above the level of a modern versifier. He has very favourably impressed me as a budding poet of extraordinary abilities and I hope his precocious genious will receive due appreciation in the hands of Rajas and Maharajas.

Trivandrunn
5-2-1913


M. R.Ry. S. Kuppuswami Sastriar AYl. M. A., F. M, UI., Professor of Sanskrit and Comparative Philology, Presidency College, and Curator, Government Orientad Manuscripts Library, MADRAS :-


…He is a remarkably intelligent Pandit of exceptio" nally high attainments in Sanskrit. He has acquired a specialistic proficiency, up to the highest standard in Nyaya and Mimamsa and he possesses a sound knowledge of Sahitya, Alankara and Vyakarana. Hus oral exposition in Sanskrit and in Tamil has been found to be strikingly lucid, impressive and attractive and his Sanskrit composition in prose and vers is very good and always exhibits such characteristically good features as would never fail to Command the appreciation and esteem of all discerning critics....... I have no hesitation in saying that of all the Siromanis that his been turned out till now by the Madras University, since the first Oriental Titles Examination held in April 1915, Mr. D. Tirumalaitat a chari is, in my opinion, the best and the ablest man, in respect of Pandi† rudi. ion and depth and likewise on the side of the nodern methods of scientific study and criticism.


M. R. Ry S. VEDANTA AIYANGAR av. M. A., I.T, Principal Board Sanskrit Gollege, Tiruvadi, Tanjore :-

......Considering his high specialistic proficiency in Nyaya, Mimamsa, and Vedanta with a good insight in the other Sastras and Belles Lettres, his powers of Sanskrit elocution and his critical acumen, I am glad, I should consider that he is one of the rarest and best productions which this institution should always be proud of,



कपीनामुपवासः.pdf
श्रीः ।
कपीनामुपवासः ।
कपीनामुपवासः.pdf
पुरा कदाचित् कपिसार्वैर्भीमः
कश्चित्समाहृय जनान् स्वकीयान् ।
प्रवत्र्य समेलनमात्मनीना
मुवाच वाचं वदतां वरेण्यः ॥ १ ॥


ज्ञातं हि वो वानरवंशवृद्धाः
प्राश्वो यदस्मत्कुलजा महान्तः ।
शौर्यण वीर्यण च विद्यया च
लोकत्रयेऽपि प्रथिता वभूवुः ।। २ ।।


प्रियोपलम्भाय बृतः सहायो
यः कोसलेन्द्रस्य कुमारकेण |
कस्यात्र लोके विदितो न जन्तोः
सुग्रीवनामा स कपिप्रचीरः ॥ ३ ॥
कैलासकम्पप्रथितप्रभावं
लङ्केश्वरं यः क्रिमिवच्चकर्ष ।
निलीय विद्धो रघुनन्दनेन
कस्मिन् कुलेऽजायत सैष वाली ॥४ ॥


उदन्वदुछङ्घनलब्धवर्णो
लङ्कापुरीदाहलसत्प्रतापः ।
श्रीमान् नवव्याकरणप्रवीणो
जज्ञे हनूमान् स च कुत्र वशे ॥ ८९ ।।


नेिबन्धितोऽब्धौ रघुपुङ्गवेन
यस्याख्यया सेतुरिह प्रसिद्धः ।
आचढ़माहो कपिर्वेशवृद्धा:
सोऽयं नलः कुत्र बभूव वंश ॥ ६ ॥


किमद्य सर्वेगाणतैर्महन्द्रि-
ये नः कुलालंकृतयो बभूवुः ।
विवक्षितं किञ्चिदिदं वदामि
विधाय कर्णे विमृशन्तु सन्तः ॥ ७ ।।
किन्तावदस्मासु न विद्यते य-
न्मनुष्यजातेरवरा भवेम ।
किंवा मनुष्येष्यधिक चकास्ति
यतः गकृष्येत मनुष्यवर्गः ॥ ८ ॥


इतीरयित्वा गिरमर्थयुतां
तूष्णीं भवन् वानरवावद्कः ।
वाग्मित्वदपॉद्धतधीरमन्द
सभां समन्तात् क्षणमालुलोके ।। ९ ।।


स्वोत्कर्षवाचा विकसन्मुखानां
पुवङ्गमानां विविधाङ्गहारैः ॥
प्रोत्साहितोऽसौ पुवगाधिराजः
प्रीतः पुनर्धीरमुवाच वाचम् ॥ १० ॥


तदद्य मान्याः परिचिन्तयध्वं
धर्मषु शाखैरुपदार्शतषु ।
मनुष्यवर्गस्य यथाऽधिकार-
स्तथा किमस्मत्कुलजस्य न स्यात् ॥ ११ ॥
चित्रप्रलीनोऽपि स सम्प्रदायो
नूनं भवद्भिः परिपालनीयः ।
धर्मव्यपाये हि मृगत्ववादः
प्रवार्तितोऽस्मासु भवेन्निरूढः ॥ १२ ।।


तात्कालिक कशमत: सहाद्र-
र्निधीयतां धीः स्थिरधर्ममार्गे ।
एकादशी श्वो भविता तदानी
मुपोष्य धर्मे प्रथमं कुरुध्वम् ॥ १३ ।।


शाखामृगाणामिति चक्रवर्ती
निषिच्य कर्णेष्वमृतं कपीनाम् ।
सन्तोषचिह्नवैहुधोपलक्ष्यै-
स्तेषां प्रहृष्यन विरतो बभूव । १४ ।


कीचकारसान्द्रां प्लुतभेदटश्यां
तस्यार्हणां प्रेममयीं प्रवाचः ।
कृत्योपवास कृतनिश्चयास्ते
मुदा ययुर्मानुषसाम्यहृष्टाः ।। १५ ।।
अथ प्रभाते किल जागारत्वा
नदीजलस्नानपवित्रताङ्गाः ।
निधाय रामं हृदि तेऽभिरामं
सङ्कल्पयामासुरुपोषणाय । १६ ।


अथ क्षणार्ध निभृतं स्थितानां
परस्परप्रेक्षणतत्पराणाम् ।
हृदीव गात्रेऽपि बभूव लौल्यं
प्रभुः स्वभावं व्यत्रिवर्तितुं कः ॥ १७ |


विधाय जृम्भां व्यवधूय हस्तं
प्रसार्ये पादं परिवत्यै गात्रम् ।
आचुंब्य पुन्छाग्रमसोढकण्डू
रन्ते कपिः कोऽपि विभेद मौनम् ॥ १८ ।।


असंशयं सम्प्रति पालनौर्य
व्रतं महापुण्यमिदं महान्तः ।
तथाऽपि जम्यूट्ठममूलभाजां
*घः पारणा नः मुष्करेति-भाति ।। १९ !}
इत्येवमुक्त स्वगुणानुरूप
कीशेन तेन प्रतिमोदमानाः ।
स्थिरासनक्कशविनाशतोषात्
कीशाः परे तुल्यमिति प्रणेदुः ॥ २० ॥


तथाऽस्तु को दोष इह स्थिताश्चेद-
व्रतोपवासश्रमपीडिताङ्गाः ।
वृक्षान् प्रति प्रातरितः प्रयातुं
प्रायेण शक्ता न वयं भवेम ॥ २१ ।।


इत्थं विनिश्चित्य तटात्तटिन्याः
स्वच्छन्दमुत्प्लुत्य विचेष्टमानाः ।
आसाद्य जम्बूद्वममूलदेश-
माबध्य पार्ङ्गिं हरयो निषेदुः ॥ २२ ॥


तथा स्थितास्ते क्षणिकानुबन्दै-
रुद्वीक्षणैर्विष्वगवक्षणैश्च ।
कण्डूयनैश्शीघ्रतमैश्च कांश्चित्
क्षणान् कथञ्चित् क्षपयांबभूवुः ।। २३ ।।
अथोत्थितः कश्चिदलुप्तधैर्यः
कपिः कपीन्द्रान् कथयाम्बभूव ।
अारुह्य वृक्षं यदि संविशम
का नः क्षतिस्तत्र भविष्यतीति ॥ २४ ।।


व्रतस्य हानिर्नहि काचिदप्ति
तत्रेत्युरीकृत्य तदप्यमी द्राक ।
अारुह्य वृक्षं विततासु तस्थुः
शाखासु तस्य व्रतिनः कपीन्द्राः ॥ २५ ॥


तत्रैकतो जोषमवास्थितानां
निर्बन्धजातद्विगुणश्रमाणाम्।
अभक्षणध्याननिरन्तराणां
क्षणः क्षणोऽदृश्यत कल्पदीर्घः ।। २६ ।।


वातेरिताभ्यो दुमशाखिकाभ्यः
सशब्दपातीनि रसोल्बणानि ।
फलानि दृश्यानि निरीक्ष्य नेर्य-
द्दन्तोदकानां क्षुभितं मनोऽभूत् ॥ २७॥
फलानुपातिस्वमनोरथेषु
हीयन्त्रणान्मौनमभञ्जयत्सु ।
सर्वेषु कश्चित् प्रतिलभ्य धैर्य
सर्वाशयं स्वाशयवज्जगाद ।। २८ ॥


प्रकल्पिता सर्वविदा विधात्रा
कपोलयोरस्ति हि भखिका नः ।
तां पूरयेमाद्य फलैरदुष्टै-
नस्तां फलान्वेषणसङ्कटं श्वः ।। २९ ।।


तथेत्यथोत्प्लुत्य हरिप्रवीराः
शाखोपशाखासु परिभ्रमन्तः ।
फलैरशुष्कै: परिपाकरम्यै-
रपूरयनाननकन्दराणि ॥ ३० ॥


ततः परं यत् करणीयमत्र
न किञ्चिदन्योन्यनिवेद्यमासीत् ।
तस्माच्चरन्तः कपयो यथेच्छं
जहुर्लिखन्तों किल लेखिनीं नः ॥ ३५ ।
कपीनामुपवासः.pdf
"https://sa.wikisource.org/w/index.php?title=कपीनामुपवासः&oldid=156046" इत्यस्माद् पुनः प्राप्तिः