करुणालहरिः
पण्डितराजजगन्नाथः
१९३२

पण्डितराजश्रीजगन्नाथविरचिता

करुणालहरिः ।

विषीदता नाथ विषानलोपमे विषादभूमौ भवसागरे विभो
परं प्रतीकारमपश्यताधुना मयायमात्मा भवते निवेदितः ॥ १ ॥

भवानलज्वालविलुप्तचेतनः शरण्य तेऽङ्घ्रिं शरणं भयादयाम् ।
विभाव्य भूयोऽपि दयासुधाम्बुधे विधेहि मे नाथ यथा यथेच्छसि ॥ २ ॥

विहाय संसारमहामरुस्थलीमलीकदेहादिमिलन्मरीचिकाम् ।
मनोमृगो मे करुणामृताम्बुधे विगाढुमीश त्वयि गाढमीहते ॥ ३ ॥

त्वदङ्घ्रिफुल्लाम्बुजमध्यनिर्गलन्मरन्दनिःस्यन्दनितान्तलम्पटः ।
मनोमिलिन्दो मम मुक्तचापलस्त्वदन्यमीशान तृणाय मन्यते ॥ ४ ॥

जगत्त्रयत्राणविधौ धृतव्रतं तवाङ्घ्रिराजीवमपास्य ये जनाः ।
शरण्यमन्यन्मृगयन्ति यान्ति ते नितान्तमीशान कृतान्तदेहलीम् ॥ ५ ॥

रमामुखाम्भोजविकासनक्षमो जगत्त्रयोद्बोधविधानदीक्षितः ।
कदा मदज्ञानविभावरीं हरे हरिष्यति त्वन्नयनारुणोदयः ॥ ६ ॥

सुरासुरस्वान्तचकोरचुम्बिता समस्तसंतापचयापनोदिनी ।
महानिशीथे मम मानसे कदा स्फुरिष्यति त्वन्मुखचन्द्रचन्द्रिका ॥ ७ ॥

सुयौवनापाण्डुरगण्डमण्डलप्रतिस्फुरत्कुण्डलताण्डवाद्भुतम् ।
गदाग्रज त्वन्मुखफुल्लपङ्कजं कदा मदक्ष्णोरतिथीभविष्यति ॥ ८ ॥

सुरापगातुङ्गतरङ्गचालितां सुरासुरानीकललाटलालिताम् ।
कदा दधे देव दयामृतोदधे भवत्पदाम्भोरुहधूलिधोरणीम् ॥ ९ ॥

महाजवाश्छिन्नविवेकरश्मयो मदोद्धता देव मदक्षवाजिनः ।
हरे समासाद्य तवाङ्घ्रिमन्दुरामपास्तवेगा दधतां सुशीलताम् ॥ १० ॥

पुरातनानां वचसामगोचरं महेशितारं पुरुषोत्तमं पतिम् ।
अपास्य तं त्वां निरपत्रपा सती सती मतिर्मे कथमन्यमेष्यति ॥ ११ ॥

न जाग्रता स्वप्नगतेन वा मया समीहितं ते करुणालवादृते ।
गिरं मदीयां यदि वेत्सि तात्त्विकीं तदा जगन्नायक मामुरीकुरु ॥ १२ ॥

अयि दीनतरं दयानिधे दुरवस्थं सकलैः समुज्झितम् ।
अधुनापि न मां निभालयन्भजसे हा कथमश्मचित्तताम् ॥ १३ ॥

सुमहन्ति जगन्ति बिभ्रतस्तव यो नाविरभून्मनागपि ।
स कथं परमाप्त देहिनां परमाणोर्मम धारणे श्रमः ॥ १४ ॥

नितरां विनयेन पृच्छते सुविचार्योत्तरमत्र यच्छ मे ।
करितो गिरितोऽप्यहं गुरुस्त्वरितो नोद्धरसे यदद्य माम् ॥ १५ ॥

न धनं न च राज्यसंपदं नहि विद्यामिदमेकमर्थये ।
मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम् ॥ १६ ॥

अयमत्यधमोऽपि निर्गुणो दयनीयो भवता दयानिधे ।
वमतां फणिनां विषानलं किमु नानन्दयिता हि चन्दनः ॥ १७ ॥

क्षुधितस्य नहि त्रपास्ति मे प्रतिरथ्यं प्रतिगृह्णतः कणान् ।
अकलङ्क यशस्करं न ते भवदीयोऽपि यदन्यमृच्छति ॥ १८ ॥

नितरां नरकेऽपि सीदतः किमु हीनं गलितत्रपस्य मे ।
भगवन्कुरु सूक्ष्ममीक्षणं परतस्त्वां जनता किमालपेत् ॥ १९ ॥

नरके निजकर्मकल्पिता भजतो मे महतीरपि व्यथाः ।
इदमेकमसह्यमीक्षका यदनाथं निगदन्ति मां विभो ॥ २० ॥

मृगदन्तिमुखान्मया सह प्रतिरुद्धान्भवजालबन्धने ।
तव मामपहाय मुञ्चतः करुणा किं न भिनत्ति मानसम् ॥ २१ ॥

निरुपाधिजनार्तिहारिणं भगवंस्त्वामवगत्य तत्त्वतः ।
कृतपुण्यचयावहेलनं कथमब्जेक्षण मामुपेक्षसे ॥ २२ ॥

सततं निगमेषु शृण्वता वरद त्वां पतितानुपावनम् ।
पुरु पापमुपास्यतेऽनिशं त्वयि विश्वासधिया मया विभो ॥ २३ ॥

सुकृतं न कृतं पुरा कदाप्यथ सर्वं कृतमेव दुष्कृतम् ।
अधुना गलितह्रिया मया भगवंस्त्वां प्रति किं निगद्यताम् ॥ २४ ॥

मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव विह्वलम् ।
धृतशार्ङ्गगदारिनन्दक प्रतिकर्षन्ति कथं न लज्जसे ॥ २५ ॥

अयि गर्तमुखे गतः शिशुः पथिकेनापि निवार्यते जवात् ।
जनकेन पतन्भवार्णवे न निवार्यो भवता कथं विभो ॥ २६ ॥

सुकृतप्रिय मान्यथास्तु ते सुकृतिभ्यः सुखदस्य सुप्रथा ।
अपि पापमबिभ्रतस्तु मां तव विश्वंभरनाम दुर्लभम् ॥ २७ ॥

वचनैः पुरुषैरिह प्रभो यदि रोषं समुपागतोऽसि मे ।
मुखरं कृतकोटिकल्मषं करुणाब्धे जगतोऽपसारय ॥ २८ ॥

यदि वीक्ष्य ददासि मत्कृतिं न मयैव प्रतिगृह्यते तदा ।
अथ चेन्निजमाशयं प्रभो परितुष्टः शिरसा वहामि तत् ॥ २९ ॥

पतितोऽप्यतिदुर्गतोऽपि सन्नकृतज्ञो निखिलागसां पदम् ।
भवदीय इतीरयंस्त्वया दयनीयस्त्रपयैव केवलम् ॥ ३० ॥

सुकृतप्रकृतौ जने त्वया कृतया किं कृपया कृपानिधे ।
यदि मादृशि सा विधीयते तव कीर्तिर्वद कीदृशी तदा ॥ ३१ ॥

अयि शैशवलालितः शिशुः प्रतिबुद्धो जनकेन ताड्यते ।
न कदापि च लालितस्त्वया किमु ताड्यो भगवन्कुकर्मभिः ॥ ३२ ॥

अहमेव हि दोषदूषितो भगवंस्त्वां समुपालभे मुघा
रमणीविरहज्वरज्वलन्नमृतांशुं कुमतिर्विनिन्दति ॥ ३३ ॥

करुणाकर दुर्दशाकुलं पतितालम्बन पापपञ्जरम् ।
अमृताम्बुनिधे महाज्वरं नहि जह्या जगदीश जातु माम् ॥ ३४ ॥

कटुजल्पनमल्पकस्य मे नहि ते कल्पयतु क्रुधं विभो ।
कुपितातुरबालभाषितं किमु गृह्णन्ति मनाङ्महाशयाः ॥ ३५ ॥

भुजगाहितकल्पितध्वजं स्फुरदाशाभुजगालिवेल्लितम् ।
जटिलज्वरकुञ्जराङ्कुश ज्वरजुष्टं न जहीहि जातु माम् ॥ ३६॥

न वदामि न दुष्कृतं मया कृतमित्युक्तिमिमां तु मे शृणु ।
मम भीतिमनीनशद्विभो पतितोद्धारक नाम तावकम् ॥ ३७ ॥

अपि शर्वपितामहादिभिर्भजनीयः पुरुषोत्तमो हि यः ।
तमुपालभमानमुद्धतं धिगिमं मां धिगिमां धियं मम ॥ ३८ ॥

अथ सर्वमिदं मयोज्झितं भवतोऽन्यन्नहि किंचिदर्थये ।
मम मानसगोचरीभवत्वरविन्दाक्ष तवाद्भुतं वपुः ॥ ३९ ॥

हरिनीलमयावनीतले वरवृन्दाविपिने विलासिनि ।
मणिमण्डपमध्यविस्फुरद्विबुधक्ष्मारुहमूलमाश्रितम् ॥ ४० ॥

शिखिपिच्छमहामणिस्फुरन्मुकुटाकुञ्चितकान्तकुन्तलम् ।
कमनीयतरालकावलिभ्रमणभ्राजिललाटसुन्दरम् ॥ ११ ॥

शरदिन्दुसहोदराननं दलदम्भोजपलाशलोचनम् ।
अरुणाधरकान्तिदन्तुरस्फुटदन्तांशुविकासिताम्बरम् ॥ ४२ ॥

दरपाण्डुरगण्डमण्डलप्रतिसर्पत्कमनीयकुण्डलम् ।
मणिमौक्तिकमञ्जुमञ्जरीमहनीयद्युतिरञ्जितश्रुति ॥ ४३ ॥

पृथुवर्तुलमौक्तिकावलीसुषमावेल्लितकान्तकंधरम् ।
हरिनीलगिरिद्युतिद्रुहा कमलामन्दिरवक्षसाञ्चितम् ॥ ४४ ॥

चरणाब्जनखावलम्बिनीं भुजागाकारभुजान्तरागताम् ।
निबिडाभ्रमिव क्षणप्रभां बृहदुत्फुल्लवनामलस्रजम् ॥ ४५ ॥

मणिकङ्कणकान्तिमांसलं दरफुल्लाम्बुजसुन्दरद्युति ।
पतितोद्धरणे दृढव्रतं कमनीयं करयोर्युगं दधत् ॥ ४६ ॥

वररत्नमयाङ्गुलीयकावलिशोभामिलिताङ्गुलीगणैः ।
मुहुराकुलितेन वेणुना वशयत्प्राणभृतां मनःश्रुतीः ॥ ४७ ॥

उदरद्युतिनिम्नगोच्छलल्लहरीरूपकरोमराजिकम् ।
पशुपालविलासिनीलसन्नयनाकर्षणनाभिनिम्नितम् ॥ ४८ ॥

कनकद्रवगौरमम्बरं दधतोरुद्वितयेन सुन्दरम् ।
उदयन्मणिनूपुरप्रभासरणिश्रेणिजटालजानुकम् ॥ ४९ ॥

अरिगीर्णगजेन्द्रगोपने दधता जाङ्घ्रिकतामलौकिकीम् ।
त्रिजगन्महनीयमूर्तिना वरजङ्घायुगलेन शोभितम् ॥ ५० ॥

कुलिशाङ्कुशकम्बुंसाम्बुजध्वजचक्रायभिरामलक्ष्मणा ।
अरुणारुणकोमलत्विषा कमनीयेन तलेन राजितम् ॥ ५१ ॥

विधिशर्वमुखामरस्फुरन्मुकुटोन्निन्द्रमणिप्रभाकुलम् ।
नखचन्द्रमयूखमूर्च्छिताखिलतापं पदयोर्युगं दधत् ॥ ५२ ॥

सरतः सरणौ सतो बहिः स्वपतो वालपतो गृहान्तरे ।
वपुरीदृशमीश तावकं हृदयालम्बनमस्तु मे सदा ॥ ५३ ॥ (कुलकम् )

नैवनीरदनीलिमद्युतिर्नमनीयो निगमैर्निरन्तरम् ।
निरये निपतन्तमाशु मां नयनेनापि सनाथयेद्विभुः ॥ ५४ ॥

प्रणिपत्य हरे भवन्तमद्धा विनिबद्धाञ्जलिरेकमेव याचे ।
जनुरस्तु कुले कृषीवलानामपि गोविन्दपदारविन्दभावः ॥ ५५ ॥

वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदा-
स्तां स्वप्नेऽपि न संस्मराम्यहमहंभावावृतो निस्त्रपः ।
इत्यागःशतशालिनं पुनरपि स्वीयेषु मां विभ्रत-
स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तः परः ॥ ५६ ॥

पातालं व्रज याहि वा सुरपुरीमारोह मेरोः शिरः
पारावारपरम्परां तर तथाप्याशा न शान्ता तव ।
आधिव्याधिजरापराहत यदि क्षेमं निजं वाञ्छसि
श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यैः श्रमैः ॥ ५७ ॥

वज्रं पापमहीभृतां भवगदोद्रेकस्य सिद्धौषधं
मिथ्याज्ञाननिशाविशालतमसस्तिग्मांशुबिम्बोदयः ।
क्रूरक्लेशमहीरहामुरुतरज्वालाजटालः शिखी
द्वारं निर्वृतिसद्मनो विजयते कृष्णेति वर्णद्वयम् ॥ ५८ ॥

विशाल विषयाटवीवलयलग्नदावानल-
प्रसृत्वरशिखावलीविकलितं मदीयं मनः ।

अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे
मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम् ॥ ५९ ॥

सुरस्रोतस्विन्याः पुलिनमधितिष्ठन्नयनयो-
र्विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान् ।
विधूतान्तर्ध्वान्तो मधुरमधुरायां चिति कदा
निमग्नः स्यां कस्यांचन नवनभस्याम्बुदरुचि ॥ ६० ॥

इति पण्डितराजश्रीजगन्नाथविरचिता करुणालहरिः समाप्ता ।


"https://sa.wikisource.org/w/index.php?title=करुणालहरिः&oldid=286649" इत्यस्माद् प्रतिप्राप्तम्