प्रमुखा विकल्पसूचिः उद्घाट्यताम्

कर्णभारम्

(कर्णभारः इत्यस्मात् पुनर्निर्दिष्टम्)
कर्णभारम्
भासः
कर्णभारम्
भासस्य कृतयः

(नान्द्यन्ते ततः प्रविशति सूत्रधारः।)

सूत्रधारः- नरमृगपतिवष्र्मालोकनभ्रान्तनारी-

नरदनुजसुपर्वव्रातपाताललोकः।

करजकुलिशपालीभिन्नदैत्येन्द्रवक्षाः

सुररिपुबलहन्ता श्रीधरोऽस्तु श्रिये वः ।। 1 ।।

(नेपथ्ये)

भो भोः! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय।

सूत्रधारः- भवतु विज्ञातम्।

सङ्ग्रामे तुमुले जाते कर्णाय कलिताञ्जलिः।

निवेदयति सम्भ्रान्तो भृत्यो दुर्योधनाज्ञया ।। 2 ।।

(निष्क्रान्तः।)

प्रस्तावना

(ततः प्रविशति भटः।)

भटः- भो भोः! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय युद्धकाल उपस्थित इति।

करितुरगरथस्थैः पार्थकेतोः पुरस्तात्

मुदितनृपतिसिंहैः सिंहनादः कृतोद्य।

त्वरितमरिनिनादैर्दुस्सहालोकवीरः

समरमधिगतार्थः प्रस्थितो नागकेतुः ।। 3 ।।

(परिक्रम्य विलोक्य) अये अयमङ्गराजः समरपरिच्छदपरिवृतः शल्यराजेन सहस्वभवनान्निष्क्रम्येत एवाभिवर्तते। भोः! किं नु खलु युद्धोत्सवप्रमुखस्य

दृष्टपराक्रमस्याभूतपूर्वो हृदयपरितापः। एष हि

अत्युग्रदीप्तिविशदः समरेऽग्रगण्यः

शौर्ये च संप्रति सशोकमुपैति धीमान्।

प्राप्ते निदाघसमये घनराशिरुद्धः

सूर्यः स्वभावरुचिमानिव भाति कर्णः ।। 4 ।।

यावदपसर्पामि।

(निष्क्रान्तः।)

(ततः प्रविशति यथानिर्दिष्टः कर्णः शल्यश्च।)

कर्णः- मा तावन्मम शरमार्गलक्षभूताः

संप्राप्ताः क्षितिपतयः सजीवशेषाः।

कर्तव्यं रणशिरसि प्रियं कुरुणां

द्रष्टव्यो यदि स भवेद्धनञ्जयो मे ।। 5 ।।

शल्यराज! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः ।।

शल्यः- बाढम्। (चोदयति)

कर्णः- अहो नु खलु

अन्योन्यशस्त्रविनिपातनिकृत्तगात्र-

यौधाश्ववारणरथेषु महाहवेषु

कुद्धान्तकप्रतिमविक्रमिणो ममापि

वैधुर्यमापतति चेतसि युद्धकाले ।। 6 ।।

भोः कष्टम्।

पूर्वं कुन्त्यां समुत्पन्नो राधेय इति विश्रुतः।

युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः ।। 7 ।।

अयं स कालः क्रमलब्धशोभनो

गुणप्रकर्षो दिवसोऽयमागतः।

निरर्थमस्त्रं च मयाहि शिक्षितं

पुनश्च मातुर्वचनेन वारितः ।। 8 ।।

भोः शल्यराज श्रूयतां ममास्त्रस्य वृत्तान्तः।

शल्यः- ममाप्यस्ति कौतूहलमेनं वृत्तान्तं श्रोतुम्।

कर्णः- पूर्वमेवाहं जामदग्न्यस्य सकाशं गतवानस्मि।

शल्यः- ततस्ततः।

कर्णः- ततः,

विद्युल्लताकपिलतुङ्गजटाकलाप-

मुद्यत्प्रभावलयिनं परशुं दधानम्।

क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं

गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ।। 9 ।।

शल्यः- ततस्ततः।

कर्णः- ततो जामदग्न्येन ममाशीर्वचनं पृष्टोऽस्मि। को भवान् किमर्थमिहागत इति।

शल्यः- ततस्ततः।

कर्णः- ततः भगवन् अखिलान्यस्त्राण्युपशिक्षितुमिच्छामीत्युक्तवानस्मि।

शल्यः- ततस्ततः।

कर्णः- तत उक्तोऽहं भगवता ब्राह्मणेषूपदेशं करिष्यामि न क्षत्रियाणामिति।

शल्यः- अस्ति खलु भगवतः क्षत्रियवंश्यैः पूर्ववैरम्। ततस्ततः ।

कर्णः- ततो नाहं क्षत्रिय इत्यस्त्रोपदेशं ग्रहीतुमारब्धं मया।

शल्यः- ततस्ततः।

कर्णः- ततः कतिपयकालातिक्रमे कदाचित्फलमूलसमित्कुशकुसुमाहरणाय गतवता गुरुणा सहानुगतोऽस्मि।

शल्यः- ममाप्यस्ति कौतूहलमेनं वृत्तान्तं श्रोतुम्।

कर्णः- पूर्वमेवाहं जामदग्न्यस्य सकाशं गतवानस्मि।

शल्यः- ततस्ततः।

कर्णः- ततः,

विद्युल्लताकपिलतुङ्गजटाकलाप-

मुद्यत्प्रभावलयिनं परशुं दधानम्।

क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं

गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ।। 9 ।।

शल्यः- ततस्ततः।

कर्णः- ततो जामदग्न्येन ममाशीर्वचनं पृष्टोऽस्मि। को भवान् किमर्थमिहागत इति।

शल्यः- ततस्ततः।

कर्णः- ततः भगवन् अखिलान्यस्त्राण्युपशिक्षितुमिच्छामीत्युक्तवानस्मि।

शल्यः- ततस्ततः।

कर्णः- तत उक्तोऽहं भगवता ब्राह्मणेषूपदेशं करिष्यामि न क्षत्रियाणामिति।

शल्यः- अस्ति खलु भगवतः क्षत्रियवंश्यैः पूर्ववैरम्। ततस्ततः।

कर्णः- ततो नाहं क्षत्रिय इत्यस्त्रोपदेशं ग्रहीतुमारब्धं मया।

शल्यः- ततस्ततः।

कर्णः- ततः कतिपयकालातिक्रमे कदाचित्फलमूलसमित्कुशकुसुमाहरणाय गतवता गुरुणा सहानुगतोऽस्मि।

शल्यः- ततस्ततः।

कर्णः- ततः स गुरुर्वनभ्रमणपरिश्रमान्मदङ्के निद्रावशमुपगतः।

शल्यः- ततस्ततः।

कर्णः- ततः

कृत्ते वज्रमुखेन नाम कृमिणा दैवान्ममोरुद्धये

निद्राच्छेदभयादसह्यत गुरोर्धैर्यात्तदा वेदना।

उत्थाय क्षतजाप्लुतः स सहसा रोषानलोद्दीपितो

बुध्वा मां च शशाप कालविफलान्यस्त्राणि ते सन्त्विति ।। 10 ।।

शल्यः- अहो कष्टामभिहितं तत्रभवता।

कर्णः- परीक्षामहे तावदस्त्रस्य वृत्तान्तम्। (तथा कृत्वा) एतान्यस्त्राणि निर्वीर्याणीव लक्ष्यन्ते। अपि च।

इमे हि दैन्येन निमीलितेक्षणा

मुहुः स्खलन्तो विवशास्तुरङ्गमाः।

गजाश्च सप्तच्छददानगन्धिनो

निवेदयन्तीव रणे निवर्तनम् ।। 11 ।।

शङ्खदुन्दुभयश्च निःशब्दाः।

शल्यः- भोः कष्टं किं नु खल्विदम्।

कर्णः- शल्यराज! अलमलं विषादेन।

हतोऽपि लभते स्वर्गं जित्वा तु लभते यशः ।

उभे बहुमते लोके नास्ति निष्फलता रणे ।। 12 ।।

अपि च

इमे हि युद्धेष्वनिवर्तिताशा

हयाः सुपर्णेन समानवेगाः।

श्रीमत्सु काम्बोजकुलेषु जाताः

रक्षन्तु मां यद्यपि रक्षितव्यम् ।। 13 ।।

अक्षयोऽस्तु गोब्राह्मणानाम्। अक्षयोऽस्तु पतिव्रतानाम्। अक्षयोऽस्तु रणेष्वपराङ्मुखानां यौधपुरुषाणाम्। अक्षयोऽस्तु मम प्राप्तकालस्य। एष

भोः प्रसन्नोऽस्मि।

समरमुखमसह्यं पाण्डवानां प्रविश्य

प्रथितगुणगणाढ्यं धर्मराजं च बद्ध्वा।

मम शरवरवेगैरर्जुनं पातयित्वा

वनमिव हतसिंहं सुप्रवेशं करोमि ।। 14 ।।

शल्यराज! यावद्रथमारोहावः।

शल्यः- बाढम्।

(उभौ रथारोहणं नाटयतः।)

कर्णः- शल्यराज! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः।

(नेपथ्ये)

भो कण्ण! महत्तरं भिक्खं याचेमि। (भोः कर्ण! महत्तरां भिक्षां याचे।)

कर्णः- (आकण्र्य) अये वीर्यवान् शब्दः।

श्रीमानेष न केवलं द्विजवरो यस्मात्प्रभावो महा-

नाकण्र्य स्वरमस्य धीरनिनदं चित्राप्रिताङ्गा इव।

उत्कर्णस्तिमिताञ्चिताक्षवलितग्रीवार्पिताग्रानना-

स्तिष्ठन्त्यस्ववशाङ्गयष्टि सहसा यान्तो ममैते हयाः ।। 15 ।।

आहूयतां स विप्रः। न न। अहमेवाह्वयामि। भगवन्नित इतः।

(ततः प्रविशति ब्राह्मणरूपेण शक्रः।)

शक्रः- भो मेघाः। सूर्येणैव निवत्र्य गच्छन्तु भवन्तः। (कर्णमुपगम्य) भो कण्ण! महत्तरं भिक्खं याचेमि। (भोः कर्ण! महत्तरां भिक्षां याचे।)

कर्णः- दृढं प्रीतोऽस्मि भगवन्!

यातः कृतार्थगणनामहमद्य लोके

राजेन्द्रमौलिमणिरञ्चितपादपद्मः।

विप्रेन्द्रपादरजसा तु पवित्रमौलिः

कर्णो भवन्तमहमेष नमस्करोमि ।। 16 ।।

शक्रः- (आत्मगतम्) किं नु खलु मया वक्तव्यं, यदि दीर्घायुर्भवेति वक्ष्ये दीर्घायुर्भविष्यति। यदि न वक्ष्ये मूढ इति मां परिभवति। तस्मादुभयं परिहृत्यं किं नु खलु वक्ष्यामि। भवतु, दृष्टम्। (प्रकाशम्) भो कण्ण! सुय्ये विअ, चन्दे विअ, हमिवन्ते विअ, सागळे विअ, चिट्ठदु दे जसो।

(भोः कर्ण! सूर्य इव चन्द्र इव हिमवान् इव सागर इव तिष्ठतु ते यशः।)

कर्णः- भगवन्! किं नं वक्तव्यं दीर्घायुर्भवेति। अथवा एतदेव शोभनम्। कुतः-

धर्मो हि यत्नैः पुरुषेण साध्यो

भुजङ्गजिह्वाचपला नृपश्रियः।

तस्मात्प्रजापालनमात्रबुद्ध्या

हतेषु देहेषु गुणा धरन्ते ।। 17 ।।

भगवन्, किमिच्छसि। किमहं ददामि।

शक्रः- महत्तरं भिक्खं याचेमि। (महत्तरां भिक्षां याचे।)

कर्णः- महत्तरां भिक्षां भवते प्रदास्ये। श्रूयन्तां मद्विभवाः।

गुणवदमृतकल्पक्षीरधाराभिवर्षि

द्विजवर! रुचितं ते तृप्तवत्सानुयात्रम्।

तरुणमधिकमर्थिप्रार्थनीयं पवित्रं

विहितकनकश्रृङ्गं गोसहस्रं ददामि ।। 18 ।।

शक्रः- गोसहस्सं त्ति। मुहुत्तअं खिरं पिबामि। णेच्छामि कण्ण! णेच्छामि। (गोसहस्रमिति। मुहूर्तकं क्षीरं पिबामि। नेच्छामि कर्ण! नेच्छामि।)

कर्णः- किं नेच्छति भवान्। इदमपि श्रूयताम्।

रवितुरगसमानं साधनं राजलक्ष्म्याः

सकलनृपतिमान्यं मान्यकाम्बोजजातम्।

सुगुणमनिलवेगं युद्धदृष्टापदानं

सपदि बहु सहस्रं वाजिनां ते ददामि ।। 19 ।।

शक्रः- अस्स त्ति। मुहुत्तअं आळुहामि। णेच्छामि कण्ण! णेच्छामि। (अश्व इति। मुहूर्तकमारोहामि। नेच्छामि कर्ण! नेच्छामि।)

कर्णः- किं नेच्छति भगवान्। अन्यदपि श्रूयताम्।

मदसरितकपोलं षट्पदैः सेव्यमानं

गिरिवरनिचयाभं मेघगम्भीरघोषम्।

सितनखदशनानां वारणानामनेकं

रिपुसमरविमर्दं वृन्दमेतद् ददामि ।। 20 ।।

शक्रः- गअ त्ति मुहुत्तअं आळुहामि। णेच्छामि कण्ण! नेच्छामि।

(गज इति। मुहूर्तकमारोहामि। नेच्छामि कर्ण! नेच्छामि।)

कर्णः- किं नेच्छति भवान्। अन्यदपि श्रूयताम्। अपर्याप्तं कनकं ददामि।

शक्रः- गहिणअ गच्छामि। (किंचिद्गत्वा) णेच्छामि कण्ण! णेच्छामि। (गृहीत्वा गच्छामि। नेच्छामि कर्ण! नेच्छामि।)

कर्णः- तेन हि जित्वा पृथिवीं ददामि।

शक्रः- पुहुवीए किं करिस्सम्। (पृथिव्या किं करिष्यामि।)

कर्णः- तेन ह्यग्निष्टोमफलं ददामि।

शक्रः- अग्निट्ठोमफळेण किं कय्यं। (अग्निष्टोमफलेन किं कार्यम्।)

कर्णः- तेन हि मच्छिरो ददामि।

शक्रः- अविहा अविहा (अविहा अविहा।)

कर्णः- न भेतव्यं न भेतव्यम्। प्रसीदतु भवान्। अन्यदपि श्रूयताम्।

अङ्गैः सहैव जनितं मम देहरक्षा

देवासुरैरपि न भेद्यमिदं महास्त्रै:।

देयं तथापि कवचं सह कुण्डलाभ्यां

प्रीत्या मया भगवते रुचितं यदि स्यात् ।। 21 ।।

शक्रः- (सहर्षम्।) देदु, देदु। (ददातु, ददातु।)

कर्णः- (आत्मगतम्) एष एवास्य कामः। किं नु खल्वनेककपटबुद्धेः कृष्णस्योपायः। सोऽपि भवतु। धिगयुक्तमनुशोचितुम्। नास्ति संशयः। (प्रकाशम्) गृह्यताम्।

शल्यः- अङ्गराज! न दातव्यं न दातव्यम्।

कर्णः- शल्यराज! अलमलं वारयितुम्। पश्य

शिक्षा क्षयं गच्छति कालपर्ययात्

सुबद्धमूला निपतन्ति पादपाः।

जलं जलस्थानगतं च शुष्यति

हुतं च दत्तं च तथैव तिष्ठति ।। 22 ।।

तस्मात् गृह्यताम्। (निकृत्य ददाति।)

शक्रः- (गृहीत्वा आत्मगतम्।) हन्त गृहीते एते। पूर्वमेवार्जुनविजयार्थं सर्वदेवैर्यत् समर्थितं तदिदानीं मयानुष्टितम्। तस्मादहमप्यैरावतमारुह्यार्जुनकर्णयोद्र्वन्द्वयुद्धं पश्यामि। (निष्क्रान्तः।)

शल्यः- भो अङ्गराज! वञ्चितः खलु भवान्।

कर्णः- केन।

शल्यः- शक्रेण।

कर्णः- न खलु। शक्रः खलु मया वञ्चितः। कुतः,

अनेकयज्ञाहुतितर्पितो द्विजैः

किरीटिमान् दानवसङ्घमर्दनः।

सुरद्विपास्फालनकर्कशाङ्गुलि-

र्मया कृतार्थः खलु पाकशासनः ।। 23 ।।

(प्रविश्य ब्राह्मणरूपेण)

देवदूतः- भोः कर्ण! कवचकुण्डलग्रहणाज्जनितपश्चात्तापेन पुरन्दरेणानुगृहीतोऽसि। पाण्डवेष्वेकपुरुषवधार्थममोघमस्त्रं विमला नाम शक्तिरियं प्रतिगृह्यताम्।

कर्णः- धिग्, दत्तस्य न प्रतिगृह्णामि।

देवदूतः- ननु ब्राह्मणवचनाद् गृह्यताम्।

कर्णः- ब्राह्मणवचनमिति। न मयातिक्रान्तपूर्वम्। कदा लभेय।

देवदूतः- यदा स्मरसि तदा लभस्व।

कर्णः- बाढम्। अनुगृहीतोऽस्मि। प्रतिनिवर्ततां भवान्।

देवदूतः- बाढम्। (निष्क्रान्तः।)

कर्णः- शल्यराज! यावद्रथमारोहावः।

शल्यः- बाढम्!

(रथारोहणं नाटयतः)

कर्णः- अये शब्द इव श्रूयते। किं नु खल्विदम्।

शङ्खध्वनिः प्रलयसागरघोषतुल्यः

कृष्णस्य वा न तु भवेत्स तु फाल्गुनस्य।

नूनं युधिष्ठिरपराजयकोपितात्मा

पार्थः करिष्यति यथाबलमद्य युद्धम् ।। 24 ।।

शल्वराज! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः।

शल्यः- बाढम्।

(भरतवाक्यम्)

सर्वत्र सम्पदः सन्तु नश्यन्तु विपदः सदा।

राजा राजगुणोपेतो भूमिमेकः प्रशास्तु नः ।। 25 ।।

(निष्क्रान्तौ।)

कर्णभारमवसितम्

"https://sa.wikisource.org/w/index.php?title=कर्णभारम्&oldid=168944" इत्यस्माद् पुनः प्राप्तिः