प्रमुखा विकल्पसूचिः उद्घाट्यताम्

कर्पूरादिस्तोत्रम्

(कर्पूरादिस्तोत्रम्) इत्यस्मात् पुनर्निर्दिष्टम्)

<poem> .. कर्पूरादिस्तोत्रम्..

श्रीगुरवे नमः . ॐ नमः परमदेवतायै .. श्रीकर्पूरादिस्तोत्रम् कर्पूरं मधमान्त्यस्वरपरिरहितं सेन्दुवामाक्षियुक्तं बीजं ते मातरेतत्त्रिपुरहरवधु त्रिःकृतं ये जपन्ति . तेषां गद्यानि पद्यानि च मुकुहुहरादुल्लसन्त्येव वाचः स्वच्छन्दं ध्वान्तधाराधरुरुचिरुचिरे सर्वसिद्धिं गतानाम्.. १.. ईशान् सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि द्वन्द्वं ते मन्दचेता यदि जपति जनो वारूमेकं कदाचित् . जित्वा वाचामधीशं धनमपि चिरं मोहयन्नम्बुजाक्षीवृन्दं चन्द्रार्धचूडे प्रभवति स महाघोरबालावतंसे.. २.. ईशो वैश्वानरस्थः शशधरविलसद् वामनेत्रेण युक्तो बीजं ते द्वन्द्वमन्यद् विगलितचिकुरे कालिके ये जपन्ति . द्वेष्टारं घ्नन्ति ते च त्रिभुवनमपि ते वश्यभावं नयन्ति सृक्कद्वन्दास्रधाराद्वयधरवदने दक्षिणे त्र्यक्षरेति.. ३.. ऊर्ध्वे वामे कृपाणं करकमलतले छिन्नमुण्डं तथाधः सव्ये चाभीर्वरं च त्रिजगदघहरे दक्षिणे कालिके च . जप्त्वैतन्नाम ये वा तव मनुविभवं भावयन्त्येतदम्ब तेषामष्टौ करस्था: प्रकटितरदने सिद्धयस्त्र्यम्बकस्य.. ४.. वर्गाद्यं वह्निसंस्थं विधुरतिललितं तत्त्रयं कूर्चयुग्मं लज्जाद्वन्द्वं च पश्चात् स्मितमुखि तदधष्ठद्वयं योजयित्वा . मातर्ये ये जपन्ति स्मरहरमहिले भावयन्तः स्वरूपं ते लक्ष्मीलास्यलीलाकमलदलदृशः कामरूपा भवन्ति.. ५.. प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं त्वन्नाम्ना योजयित्वा सकलमपि सदा भावयन्तो जपन्ति . तेषां नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रांशुबिम्बे वाग्देवी देवि मुण्डस्त्रगतिशयलसत्कण्ठि पीनस्तनाढ्ये.. ६.. गतासूनां बाहुप्रकरकृतकञ्चीपरिलसन्नितम्बां दिग्वस्त्रा.म् त्रिभुवनविधात्रीं त्रिणयनां . श्मशानस्ते तल्पे शवहृदि महाकालसुरतप्रयुक्तां त्वा.म् ध्यायन् जननि जडचेता अपि कविः .. ७.. शिवाभिर्घोराभिः शवनिवहमुण्डास्थिकरैः परं स.म्कीर्णाया.म् प्रकटितचितायां हरवधूम् .प्रविष्टां . स.म्तुष्टामुपरिसुरतेनातियुवतीं सदा त्वां ध्यायन्ति क्वचिदपि च न तेषां परिभवः .. ८.. वदामस्ते किं वा जननि वयमुच्चैर्जडधियो न धाता नापीशो हरिरपि न ते वेत्ति परमम् . तथापि त्वद्भक्तिर्मुखरयति चास्माकममिते तदेतत्क्षन्तव्यं न खलु पशुरोषः समुचितः .. ९.. समन्तादापीनस्तनजघनधृघौवनवतीरतासक्तो नक्तं यदि जपति भक्तस्तव मनुम् . विवासास्त्वां ध्यायन् गलितचिकुरस्तस्य वशगाः समस्ताः सिद्धौघा भुवि चिरतरं जीवति कविः .. १०.. समाः सुस्थीभूतो जपति विपरीतां यदि सदा विचिन्त्य त्वा.म् ध्यायन्नतिशयमहाकालसुरताम् . तदा तस्य क्षोणीतलविहरमाणस्य विदुषः कराम्भोजे वश्या पुरहस्वधू सिद्धिनिवहाः .. ११.. प्रसूते स.म्सारं जननि भवती पालयति च समस्तं क्षित्यादि प्रलयसमये स.म्हरति च . अतस्त्वं धातासि त्रिभुवनपतिः श्रीपतिरपि महेशोऽपि प्रायः सकलमपि किं स्तौमि भवतीम् .. १२.. अनेके सेवन्ते भवदधिकगीवार्णनिवहान् विमूढास्ते मातः किमपि न हि जानन्ति परमम् . समाराध्यामाद्यां हरिहरविरिञ्चादिविबुधैः प्रपन्नोऽस्मि स्वैर.म् रतिरससमहानन्दनिरताम् .. १३.. धरत्रि कीलालं शुचिरपि समीरोऽपि गगनं त्वमेका कल्याणी गिरिशरमणी कालि सकलम् . प्रसन्नां त्वं भूया भवमनु न भूयान्मम जनुः .. १४.. श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः सहस्रं त्वकार्णा.म् निजगलितवीर्येण कुसुमम् . जप.म्स्त्वत्प्रयेकं मनुमपि तव ध्याननिरतो महाकालि स्वैरं स भवति धरित्रीपरिवृढः .. १५.. गृहे स.म्मार्ज्यन्या परिगलितविर्यं हि चिकुरं समूलं मध्याह्ने वितरति चितायां कुजदिने . समुच्चार्य प्रमेणा मनुमपि सकृत्कालि सततं गजारूढो याति क्षितिपरिवृढः सत्कविवरः .. १६.. स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो पुरो ध्यायन्ध्यायन् यदि जपति भक्तस्तव मनुम् . स गन्धर्वश्रेणीपतिरपि कवित्वामृतनदीनदीनः पर्यन्ते परमपदलीनः प्रभवति .. १७.. त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदना.म् महाकालेनोच्चैर्मदनरसलावण्यनिरताम् . समासक्तो नक्तं स्वयमपि रतानन्दनिरतो जनो यो ध्यायेत्त्वामयि जननि स स्यात् स्मरहरः .. १८.. सलोमास्थि स्वैरं पललमपि मार्जारमसिते परं चोष्ट्त्र.म् मैश.म् नरमहिषयोश्छागमपि वा . बलिम् ते पूजायामयि वितरतां मर्त्यवसतां सतां सिद्धिः सर्वा प्रतिपदमपूर्वा प्रभवति .. १९.. वशी लक्षं मन्त्रं प्रजपति हविष्याशनरतो दिवा मातर्युष्मच्चरणयुगलध्याननिपुणः . परं नक्तं नग्नो निधुवनविनोदेन च मनुं जपेल्लक्षं स स्यात् स्मरहरसमानः क्षितितले .. २०.. इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः स्वरूपाख्य.म् पादाम्बुजयुगलपूजाविधियुतम् . निशार्धं वा पूजासमयमधि वा यस्तु पठति प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः .. २१.. कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं वशस्तस्य क्षोणीपतिरपि कुबेरप्रतिनिधिः . रिपुः कारागारं कलयति च तं केलिकलया चिरं जीवन्मुक्तः प्रभवति स भक्तः प्रतिजनुः .. २२..

इति श्रीमन्महाकालिविरचितं श्रीमद्दक्षिणकालिकायाः स्वरूपाख्यं स्तोत्रं समाप्तम्

<poem>

"https://sa.wikisource.org/w/index.php?title=कर्पूरादिस्तोत्रम्&oldid=37805" इत्यस्माद् पुनः प्राप्तिः