प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← उपोद्घातः आर्षेयकल्पः
अध्यायः १
मशकः
अध्यायः २ →

कॢप्तो ज्योतिष्टोमोऽतिरात्रोऽषोडशिकः १-१-१

पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुत उपास्मै गायता नर उपो षु जातमप्तुरं दविद्युतत्या रुचैते आसृग्रमिन्दवः पवमानस्य ते वयं पवमानस्य ते कव उप प्र यन्तो अध्वरं प्र वो मित्राय गायतेन्द्रा याहि चित्रभानो इन्द्रे अग्ना नमो बृहद्वृशा पवस्व धारयेति गायत्रं चामहीयवं चैडं च सौपर्ण ँ! रोहितकूलीयं च पुनानः सोम धारयेति समन्तं तिसृषु समन्तमेकस्यां प्लव एकस्यां दैर्घश्रव-समेकस्यामिति वा रथंतरं तिसृषु गौङ्गवँ रौरवं त्रिणिधनमायास्यं त एकर्चाः प्र काव्यमुशनेव ब्रुवाण पार्थमन्त्यं बृहच्च वामदेव्यं च मा चिदन्य-द्विशँसतेत्यभीवर्तः स्वासु कालेयं यस्ते मदो वरेण्य इति गायत्रं मौक्षं जराबोधीयं पवस्वेन्द्रमच्छेति सफसुज्ञाने पुरोजिती वो अन्धस इति गौरीवितं च क्रौञ्चं च प्रो अयासीदिति कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसामाग्निं वो वृधन्तमिति सत्रासाहीयँ सौभरमुद्वँशीयं चतुर्वि शँ स्तोमः १-१-२

उपास्मै गायता नरः पवमानस्य ते वयं पवमानस्य ते कवे अग्न आ याहि वीतय इत्याज्यानि प्र सोमासो विपश्चित इति गायत्रं चाश्वं च प्र सोम देववीतय इति पज्रं च यौधाजयं चौशनमन्त्यँ रथंतरं च वामदेव्यं च तं वो दस्ममृतीषहमित्यभीवर्तः स्वासु कालेयँ स्वादिष्ठया मदिष्ठयेति गायत्रसँहिते अया पवस्व देवयुः पवते हर्यतो हरिरिति सफसुज्ञाने काशीतं वै प्र सुन्वानायान्धस इति गौरीवितं तिसृषु गौरीवितमेकस्यामौष्णिहमोकोनि-धनमेकस्यामौदलमेकस्यामिति वा साध्रं तिसृषु कावमन्त्यं यज्ञायज्ञीयम-ग्निष्टोमसाम ज्योतिष्टोम स्तोमः १-२

पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुना पवमानस्य ते कवे अग्निं दूतं वृणीमह इत्याज्यानि वृषा पवस्व धारयेति गायत्रं च हाविष्मतं च यौक्ताश्वमुत्तरेषु यदुत्तरं परीतो षिञ्चता सुतमिति माधुच्छन्दसं च भर्गश्च यशो वायास्ये वृषा शोण इति पार्थमन्त्यं बृहच्च वामदेव्यं चाभि प्र वः सुराधसमित्यभीवर्तः स्वासु कालेयं यस्तेमदो वरेण्य इति गायत्रमौक्षे हाविष्मतमुत्तरेषु पवस्वेन्द्रमच्छेति शङ्कु सुज्ञाने अयं पूषा रयिर्भग इति गौरीवितं च क्रौञ्चं च वृषा मतीनां पवत इति याममन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम साकमश्व मभ्रातृव्यो अना त्वमित्यामहीयवमाष्टादँष्ट्रं यदुहोवद्गोष्टोम स्तोमः १-३

दविद्युतत्या रुचैते असृग्रमिन्दवः पवमानस्य ते कवे अग्निनाग्निः समिध्यत इत्याज्यान्युच्चा ते जातमन्धस इति गायत्रं च वैरुपं चाभि सोमास आयव इति रौरवं च गौतमं चाञ्जश्च वैरूपमग्नेस्त्रिणिधनं तिस्रो वाच इत्यङ्गिरसाँ संक्रोशोऽन्त्यो रथंतरं च वामदेव्यं चा त्वा सहस्रमा शतमित्यभीवर्तः स्वासु कालेयं तिस्रो वाच उदीरत इति गायत्रं च क्षुल्लकवैष्टम्भं चासोता परि षिञ्चत सखाय आ निषीदतेति वाचश्च साम सुज्ञानं च दैवोदासं वा सुतासो मधुमत्तमा इति गौरीवितं चान्धीगवं च पवित्रं त इति सामराजमन्त्यं यज्ञायज्ञीयमग्नि-ष्टोमसाम स्वान्युक्थान्यायुष्टोम स्तोमः १-४

पवमानो अजीजनत् पुनानो अक्रमीदभि प्र यद्गावो न भूर्णयः पवमानस्य ते कवे अग्निर्वृत्राणि जङ्घनदिति होतुराज्यँ स्वान्युत्तराणि पवस्व दक्षसाधन इति गायत्रं चादारसृच्च परीतो षिञ्चता सुतमिति पृश्नि चाथर्वणं चाभीशवं च यौधाजयं चोहु वा अस्येति वासिष्ठम् अन्त्यं बृहच्च वामदेव्यं च यो राजा चर्षणीनामित्यभीवर्तः स्वासु कालेयं परि प्रिया दिवः कविरिति गायत्रं चौर्णायवं च यदीनिधनं त्वँ ह्यङ्ग दैव्य सोम पुनान ऊर्मिणेति बृहत्कसुज्ञाने पुरोजिती वो अन्धस इति गौरीवितं च त्वाष्ट्रीसाम च यदूर्ध्वेदं प्रो अयासीदिति लौशमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम सैन्धुक्षितँ सौभरं वीङ्कँ शुद्धाशुद्धीयं वा यदीडाभिरैडं गोष्टोम स्तोमः १-५

पवमानस्य विश्वजिद् यत्सोम चित्रमुक्थ्यं पवमानस्य ते कवे अग्ने स्तोमं मनामह इति होतुराज्यं स्वान्युत्तरान्यित्याज्यानि अर्षा सोम द्युमत्तम इति गायत्रं च यण्वं चापत्यँ सन्तनि शाक्वरवर्णं तान्युत्तरेष्वभिसोमास आयव इति मानवं चानूपं च वांरं चाग्नेस्त्रिणिधनमभि त्रिपृष्ठमिति सम्पान्त्या रथंतरं च वामदेव्यं च त्वमिन्द्र यश असित्यभीवर्तः स्वासु कालेयमसाव्यँशुर्मदायेति गयत्रं च गौषूक्तं चाभि द्युम्नं बृहद्यशः प्राणा शिशुर्महीनामिति च्यावनसुज्ञाने दैवोदासं वा पवस्व वाजसातय इति गौरीवितं च रयिष्ठं चासावि सोमो अरुषो वृषा हविरिति द्व्यभ्याघातं लौशमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम यजिष्ठं त्वा ववृमह इति सध्यँ सांवर्तं मारुतमायुष्टोम स्तोमः १-६

असृक्षत प्र वाजिन एतमु त्यं दश क्षिपः पवमानस्य ते कवे यमग्ने पृत्सु मर्त्यमिति होतुराज्यँ स्वान्युत्तराणी न्द्रायेन्दो मरुत्वत इति गायत्रं चाश्वसूक्तं च सकृदिषोवृधीयं कुर्यान् मृज्यमानः सुहस्त्येत्यैडं चौक्ष्णोरन्ध्रं त्रिणिधनमायास्यँ सकृत्समन्तं कुर्यात् साकमुक्ष इतीहवद्वासिष्ठमन्त्यं बृहच्च वामदेव्यं च पिबा सुतस्य रसिन इत्यभीवर्तः स्वासु कालेयं परि स्वानो गिरिष्ठा इति गायत्रं चैध्मवाहं च यदिहवत् स सुन्वे यो वसूनां तं वः सखायो मदायेति दीर्घसुज्ञाने काशीतं वा सोमाः पवन्त इन्दव इति गौरीवितं च क्रौञ्चं च यत्स्वयोनि त्रिरस्मै सप्त धेनवो दुदुह्रिर इति मरुतां धेन्वन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम गूर्दस् त्रैककुभं नार्मेधमित्युक्थानि यद्युक्थ्योऽग्निष्टोमस्त्वेव ज्योतिष्टोम स्तोमः १-७

एवमन्येऽपि त्रयोऽभिप्लवाः कर्तव्याः तेषु विशेषः द्वितीयेऽहनि हाविष्मतस्य स्थाने यौक्ताश्वमुत्तरम् मौक्षस्य हाविष्मतं द्वितीयेऽभिप्लवे पञ्चमेऽहनि यण्वस्य स्थानेऽपत्यम् तृतीयेऽभिप्लवे पञ्चमेऽहनि मानवात्पूर्वम्वाम्रं च मानवं चानूपं चेति पञ्चमेऽहनि यदहर्ग्रामेगेयं सन्तनि स्यान् मानवात् पूर्वं वाम्रं स्यादेतच्चाजाम्यर्थं तत्र वाम्रम् प्रथमायां मानवं तृचे चतुर्थेऽभिप्लवे पञ्चमे ऽहनि यण्वस्य स्थाने शाक्वरवर्णम् तत्रैव षष्ठेऽहन्याश्वसूक्तस्येषोवृधीयं त्रिणिधनस्य समन्तम् भर्गयशसोर्वीङ्कशुद्धाशुद्धीययोश्च व्यवस्थाप्रकार उक्तो न प्रस्मर्तव्यः अन्यत्सर्वं प्रथमवत् एवं चतुरोऽभिप्लवानुपेत्य पृष्ठ्यं षडहमुपयन्तीति तस्य कॢप्तिमाह पृष्ठ्यः षडहः समूढो वा व्यूढो वा पृष्ठ्यस्य यद्व्यूढत्वं तद् यदि दशरात्रप्रयुक्तं तत्र समूढोऽयं भवितुमर्हत्यविच्छिन्नत्वात् अथ पृष्ठ्यप्रयुक्तस्ततो व्यूढ इति संदेहाद्विकल्प इति पूर्वः पक्षः सिद्धान्तमाह समूढस्त्वेव दशरात्रप्रयुक्तो व्यूह इत्य् भावः तथा च निदानमथापि विलुप्तो व्यूढः षडह इत्यादि श्रुत्यन्तरं च नर्ते छन्दोमेभ्यः पृष्ठ्यो व्यूहमानश इति तस्य तस्य समूढस्य कॢप्तिर्वक्ष्यत इत्याह तस्य कल्प इति प्रथममहराह उपास्मै गायता नर उपोषु जातमप्तुरं पवमानस्य ते कव इति प्रथमस्याह्नो बहिष्पवमानं प्र सोम देववीतय इत्यभीवर्त एकस्यां पज्रमेकस्यां यौधाजयमेकस्याँ समानमितरं द्वितीयस्याह्नः पुनानः सोम धारयेत्यैदमायास्यमेकस्यामभीवर्त एकस्यां कालेयमेकस्यं वृषा शोण इति पार्थमन्त्यं मध्यंदिनस्य समानमितरं तृतीयस्याह्नो भि सोमास आयव इति पौरुमद्गं प्रथमायां तस्यामेवाभीवर्तः कालेयं द्वितीयायां गौतमं तृतीयायाँ समानमितरम् १-८

चतुर्थस्याह्नः पवमानो अजीजनत्पुनानो अक्रमीदभूति स्तोत्रीयानुरूपाव-ग्निर्वृत्राणि जङ्घनदिति होतुराज्यं तवाहँ सोम रारणेत्याष्टादँष्ट्रमेकस्यामभीवर्त एकस्यां कालेयमेकस्याँ सोमः पवते जनिता मतीनामिति जनित्रमन्त्यं मध्यंदिनस्य प्र त आश्विनीः पवमान धेनव इति लौशमन्त्यमार्भवस्य समान-मितरं १-९
-१

पञ्चमस्याह्नः पवमानस्य विश्वजिद्यत्सोम चित्रमुक्थ्यमिति स्तोत्रीयानुरूपावग्ने स्तोमं मनूमह इति होतुराज्यँ सोम उ ष्वणः सोतृभिरिति मानवानुपे तृचयोर्वाम्रमेकस्याम् अभीवर्त एकस्यां कालेयमेकस्यामिन्दुर्वाजी पवते गोन्योघा इति संपान्त्या मध्यांदिनस्य पार्थस्य लोके त्वाष्ट्रीसाम यद् द्व्यनुतोदं गोवित्पवस्वेति द्व्यभ्याघातं लौशमन्त्यमार्भवस्य समानमितरँ १-९-२

षष्ठस्याह्नो ऽसृक्षत प्र वाजिन एतमु त्यं दश क्षिप इति स्तोत्रीयानुरूपौ यमग्ने पृत्सु मर्त्यमिति होतुराज्यं मृज्यमानः सुहस्त्येति स्वारमौक्ष्णोरन्ध्रं तिसृष्वैडमौक्ष्णोरन्ध्रं एकस्यामभीवर्त एकस्यां कालेयमेकस्यामया पवा पवस्वैना वसूनीतीहवद्वासिष्ठमन्त्यं मध्यं दिनस्य ज्योतिर्यज्ञास्य पवते मधु प्रियम् मरुतां धेन्वन्त्यमार्भवस्य समानमितरँ समानमितरम् १-९-३

विवृति

91
मशककल्पसूत्रम्

प्रथमोऽध्यायः

गवामयनम्

चतुर्विंशः प्रायणीयः

उक्तौ ज्योतिष्टोमद्वादशाहौ । अथ तदुपजीवनेन कल्पकार ऋक्समाम्नाये दशरात्रानन्तरम् अधीतस्य ब्राह्मणे च दाशरात्रिक- विष्टुतिसमाम्नायानन्तरं गावो वा एतत् सत्रमासते(तां० ब्रा० ४.१. १) त्यारभ्य अध्यायद्वयेन विहितस्य संवत्सरसत्रस्य गवामयनस्यस्तोत्र- क्लृप्तिमध्यायद्वयेनाह- क्लृप्तो ज्योतिष्टोम इत्यादिना ।।
इह गवामयनस्य एकषष्ट्यधिकं शतत्रयं सौत्यान्यहानि सन्ति । तानि च सत्रप्रकरणे शतरात्रानन्तरमतिरात्रश्चतुर्विंशं प्रायणीयमहरित्यारभ्य संवत्सरब्राह्मणमि(तां० ब्रा० २४२ ०.२)त्यन्तेनानु- वाकेन संगृह्य दर्शितानि । तद्यथा-अतिरात्रश्चतुर्विशं प्रायणीय- महश्चत्वारोऽभिप्लवाः षडहाः । पृष्ठ्यः षडहः । इति प्रथमो मासः ।

92

स द्वितीयः । स तृतीयः । स चतुर्थः । स पञ्चमः । इति पञ्च मासाः । अथ षष्ठे मासि त्रयोऽभिप्लवाः षडहाः । पृष्ठ्यः षडहोऽभिजित् त्रयः स्वरसामान तां० ब्रा० २४.२०. १) इत्यष्टा- विंशतिरहानि । अतिरात्रश्चतुर्विंशाभ्यां सह षष्ठो मास इति पूर्वः पक्षः । मध्ये विषुवान् दिवाकीर्त्यमहः । आत्मा वा एष संवत्सरस्य यद्विषुवान् पक्षावेतावभितो भवतः ( तां० ब्रा० ४.७.१) इति श्रुतेः ।।
अथोत्तरः पक्षः । त्रयः स्वरसामानो विश्वजित् पृष्ठ्यः षडहः त्रयस्त्रिंशारम्भणः त्रयोऽभिप्लवाः षडहा इत्यष्टाविंशतिरहानि । व्रतातिरात्राभ्यां सह प्रथमो मासः । व्रतातिरात्राभ्यां प्रथम उत्तरस्मिन्नि- (ला०श्रौ० १ ०.९.७)ति वचनात् । पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भणश्चत्वारो- ऽभिप्लवाः षडहा इति द्वितीयो मासः । तथैव तृतीयस्तथैव चतुर्थस्तथैव पञ्चमः । त्रयोऽभिप्लवाः षडहा आयुश्च गौश्च द्वे अहनी द्वादशाहस्य द्वादशाहानि (तां० ब्रा० २४.२०.१) इति षष्ठो मासः ।।
अथ महाव्रतं चातिरात्रश्च । तौ च प्रथममासपूरकावित्युक्तम् । तस्यैतस्य गवामयनस्य सत्रभूतद्वादशाहवत् प्रयोगः । उक्तकाले दीक्षा । ब्राह्मणेन गवामयनस्येत्यादिना दीक्षाकालादिकमुक्तम् । औपसथ्यान्तं कृत्वा प्रायणीयमतिरात्रमुपयन्ति । तस्य सत्रस्यर्द्ध्यादि सुब्रह्मण्यान्तं द्वादशाहवत् । स्तोत्रक्लृप्तिमाह-
क्लृप्तो ज्योतिष्टोमोऽतिरात्रोऽषोडशिक ।। १ ।।


93

गवामयनम् – चतुर्विंशस्तोमः (अ. 1 ख.1)

ब्राह्मणेनैवंभूतोऽतिरात्रः क्लृप्त इत्यर्थः । तत्राहरन्तिकी सुब्रह्मण्या द्वादशाहवदेव ।। १ ।।
अथ प्रायणीयमेतदहर्भवतीत्युक्तं चतुर्विंशमहराह-
पवस्व वाचो अग्रियः ( सा० ७७५-७) पवस्वेन्दो वृषा सुतः ( सा० ७७८-८०) उपास्मै गायता नर ( सा० ६५१-३) उपोषु जातमप्तुरम् ( सा० १३३५-७) दविद्युतत्या रुचा ( सा० ६५४-६) एते असृग्रमिन्दवः ( सा० ८३०-२) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९) ।। २ ।।
इति बहिष्पवमानम् ।।
द्वितीयादीनामह्नांसदसि बहिष्पवमानस्तवनं द्वादशाहवत् । रेतस्या- रथन्तरवर्णयोः सर्वत्र प्रवृत्तिः । न धुराम् ।। २ ।।
उप प्रयन्तो अध्वरम् ( सा० १३७९-८१) प्र वो मित्राय गायते (सा० ११४३-५) न्द्रायाहि चित्रभानो ( सा० ११४३-८) इन्द्रे अग्ना नमो बृहद् ( सा० ८००-२) ।। ३ ।।
इत्याज्यानि ।।
तृचसूक्तानामादिग्रहणेनविधिरनादेश (ला०श्रौ० ६.३.१) इति वचनात् उपप्रयं-चतुर्ऋचस्य ठपावदानेऽपि आवृत्तिस्तोत्रत्वात् अन्त्याया
उद्धारः । शिष्टास्तृचः ।। ३ ।।
वृषा पवस्व धारये(सा० ८०३ ५)ति गायत्रं चामहीयवं (ऊ० ६. २.१) चैडं सौपर्णं (ऊ० ४.१. २) रोहितकूलीयं ( ऊ० ४.१.३) च पुनानः सोम धारये( सा० ६७५-६) ति समन्तं (ऊ० ६.२.२) तिसृषु समन्तमेकस्याम् प्लव एकस्यां

94

(ऊ० ६.२. ३) दैर्घश्रवसमेकस्या-(ऊ० ६.२. ४)मिति वा ।। रथन्तरं तिसृषु (र० २.२. १०) गौङ्गवं ( ऊ० ४. १. ५) रौरवं (ऊ० १ .१ .२) त्रिणिधनमायास्यं (ऊ० ४.१ .६) च एकर्चाः । प्र काव्यमुशनेव ब्रुवाण (सा० १११६-८) इति पार्थमन्त्यम् ऊ० ६.२.५) ।। ४ ।।
इति माध्यंदिनः पवमानः ।।
समन्तादीनामेकर्चानां गौङ्गवादीनां च सामतृचः । त्रीनेकतृचे नानास्तोत्रीयास्वि-(ला०श्रौ० ६.३.१४) ति वचनात् । अत्रैवंभूताया ऋक्सामक्लृप्तेर्निदानकारेण दर्शितम्- अथ खलु य ऊर्ध्वं ज्योतिष्टोमदशाहाभ्यामि-( नि० सू० ४. १२. १०) त्यादिना । तत्तु विस्तरभयादिह नोच्यते । अन्त्यशब्दोऽयं माध्यदिनस्य पवमानस्यान्त्य- माह । एवमुत्तरस्यार्भवस्य ।। ४ ।।
बृहच्च ( र० १. १. ५) वामदेव्यं च (ऊ० १. १. ५) मा चिदन्यद्विशंसते-( सा० १३६०-१) त्यभीवर्तः ( ऊ० ६. २.६) स्वासु कालेयम् (ऊ० १. १. ७) ।। ५ ।।
इति पृष्ठानि ।।
यस्ते मदो वरेण्यम्-( सा० ८१५-७) इति गायत्रं च मौक्षम् ( ऊ० ४. १. १०) जराबोधीयम् (ऊ० ६. २.७) पवस्वे- ( सा० ६९२-३ )-न्द्रमच्छे-( सा० ६९४-६) ति सफ-( ऊ० १. १. ९) सुज्ञाने ( ऊ० ६.२.८) । पुरोजिती वो अन्धस (सा० ६९७- ९) इति गौरीवितं च (ऊ० ४.१. १३)

95

गवामयनम् – अभिप्लवः षडहः (अ. 1. ख. 2)

क्रौञ्चं च (ऊ० ६. २. ९) । प्रो अयासीद् (सा ० ११५२-४) इति कावम् (ऊ० ६.२. १०) अन्त्यम् ।। ६ ।।
इति आर्भवः पवमानः । ।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।। ७ ।।
अग्निं वो वृधन्ताम् ( सा० ९४६-८) इति सत्रासाहीयं (ऊ ० ६.२. ११) सौभरम् ( ऊ० १. १. १६) उद्वंशीयम् ऊ. ४. १. ८) ।। ८ ।।
इत्युक्थानि । ।
चतुर्विंशस्तोमः ।। ९ ।।
अस्मिन्नहनि सर्वेषां स्तोत्राणामिति शेषः । उक्थान्ते स्तोम- विमोचनाद्यप्सुषोमान्तं सुब्रह्मण्या च ।। ९ ।।
इति चतुर्विंशस्तोमः ।। १ । ।
अभिप्लवः षडहः
प्रथममहः-ज्योतिः
ज्योतिर्गौरायुर्गौरायुर्ज्योतिरिति षडहोऽभिप्लव उच्यते । ज्वातिर्गौरायुर्(तां ० ब्रा० ४. १.७) इत्यारभ्य स एतं त्र्यहं पुनः प्रायुड्क्ते- (तां० ब्रा० ४. १.९) ति श्रुतेः । तस्य ज्योतिःसंज्ञकं प्रथममहराह-
उपास्मै गायता नरः (सा० ६५१ -३) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।
इति बहिष्पवमानम् । ।
अग्न आयाहि वीतये ( सा० ६६०-७१) ।। २ ।।

इत्याज्यानि ।।
अग्न (सा० ६६०-२) आ नो मित्रा ( सा० ६६३ -५) याही- ( सा० ६६६-८) न्द्राग्नी-( ६६९-७१) त्याज्यानीत्यर्थः ।। २ ।।

96

प्र सोमासो विपश्चित (सा० ७६४-६) इति गायत्रं चाश्वं च (ऊ० ६.२. १२) प्र सोम देववीतय ( सा ० ७६७ ८) इति पज्रं (ऊ० ६. २. १३) यौधाजयं (ऊ० १. २. १३) चौशनसम् (ऊ०१. १ .५) अन्त्यम् ।। ३ ।।
इति माध्यंदिनः पवमानः ।।
रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १. १. ५) च । तं वो दस्ममृतीषहमू (सा० ६८५-६) इत्यभीवर्तः (ऊ० ६. २. १४) स्वासु कालेयम् ( ऊ० १. १. ७) ।। ४ ।।
इति पृष्ठानि ।।
स्वादिष्ठया मदिष्ठये (सा० ६८९-९१ )ति गायत्रसंहिते (ऊ० १. १. ८) । अया पवस्व देवयुः ( सा० ७७२) पवते हर्यतो हरिर् (सा० ७७३) इति सफ(ऊ० १. १. १५) सुज्ञाने (ऊ० ६. २.१५) काशीतं (ऊ० ६.२.१६) वा । प्र सुन्वानायान्धसः (सा० ७७४) इति गौरीवितं तिसृषु (ऊ० ६.२.१७) गौरीवितमेकस्याम् (ऊ० १. १. १७) औष्णिहमोकोनिधनमेकस्याम् (ऊ० ६.२. १८) औदल- मेकस्याम् (ऊ० ६.२.१९) इति वा । साभ्रं तिसृषु (ऊ० ६.२.२०) कावमन्त्यम् (ऊ० १. १. १३) ।। ५ ।।
इति आर्भबः पवमानः ।।

सुज्ञानकाशीतयोर्विकल्पः ।। ५ ।।
यज्ञायज्ञीयमग्निष्टोमसाम ।। ६ ।।
ज्योतिष्टोमस्तोमः ।। ७ ।।
ज्योतिष्टोमशब्देनात्र ज्योतिष्टोमसंबन्धिस्तोमसंनिवेश उच्यते । त्रिवृद्बहिष्पवमानम् । पञ्चदशानि आज्यानि । पञ्चदशो माध्यंदिनः पवमानः । सप्तदशानि पृष्ठानि । सप्तदश आर्भवः । एकविंशोऽग्निष्टोम इति स्तोम इत्यर्थः ।। अग्निष्टोमान्ते स्तोमविमोचनादि पूर्ववत् ।। ७ ।। इति ज्योतिष्टोमस्तोमः ।।२।।

97

गवामयनम् – अभिप्लवः षडहः (अ. 1. ख. 3)

अभिप्लवषडहस्य द्वितीयमहः-गौः
गोसंज्ञकं द्वितीयमाभिप्लविकमहराह-
पवस्व वाचो अग्रियः (सा० ७७५- ७) पवस्वेन्दो वृषा सुतः (सा० ७७८- ८०) वृषा सोम द्युमाँ असि (सा० ७८१ -३) वृषा ह्यसि भानुना ( सा० ७८४ - ६) पवमानस्य ते कवे (सा० ७८५) ।। १ ।।
इति बहिष्पवमानम् । ।
अग्निं दूतं वृणीमहे (सा० ७९०) ।। २ ।।
इत्याज्यानि ।।
अग्निं दूतं (सा० ७९० - १२) मित्रं वयं (सा० ७९३-९५) इन्द्रमिद्गा- ( सा० ७९६-९९) चतुर्ऋचम् । इन्द्रे अग्ना (सा० ८०० -८०२ )
इत्याज्यानि । इन्द्र इद्गा-चतुर्ऋचे अन्त्याया उद्धारः ।। २ । ।
वृषा पवस्व धारये- ( सा० ८०३ - ५) ति गायत्रं च हाविष्मतं च (ऊ ० ७. १. १) यौक्ताश्वमुत्तरेषु यदुत्तरम् (ऊ० ७.१.२) । ।
उत्तेरष्वभिप्लवेषु द्वितीयतृतीयचतुर्थेषु हाविष्मतस्य स्थाने यौक्ताश्व- मुत्तरमित्यर्थः ।।
परीतो षिञ्चता सुतम् (सा ० १३१३ -१५) इति माधुच्छन्दसं (अ ० ७.१. ३) च भर्गश्च (र ० १ .२. ५) यशो (र ० १. २. ६) वायास्ये (ऊ० ७.१ .४-५) ।।
मधुच्छन्दसं प्रथमायाम् । भर्गस्तृचे । यशो वा । आइ पराइ इत्यैडमायास्यं तृचे । श्रीणन्तो गोभिरूहाउ होवेति त्रिणिधनमायास्य-

98

मध्यास्यायाम् । साध्यास्यायां चैकोऽध्यास्यायामेवान्ततो द्वौ तस्यां चैवादितश्च सा शशकर्णक्लृप्ते-( ला० श्रौ० ६. ३. २०-२१) ति
वचनात् । एवं तृचैकर्चकरणम् । भर्गयशसोर्व्यवस्थां सूत्रकार आह- आभिप्लविकस्य द्वितीयेऽहनि भर्गो यश इति प्राग् विषुवतो व्यत्यासं स्यातामिति गौतम इत्यादिना यश उत्तरस्मिन्नपरमि-( द्रा० श्रौ० सू० ७.४.९-१३ )त्यन्तेन ।।
वृषा शोण ( सा० ८०६-८) पार्थम् (ऊ० ७.१ .६) अन्त्यम् ।।३।।
इति माध्यंदिनः पवमानः ।।
अथ पृष्ठानि-
बृहच्च (र० १. १.५) वामदेव्यं (ऊ. १. १ .५) चाभि प्र वः सुराधसम् (सा० ८९१-२) इत्यभीवर्तः (ऊ० ७.१. ७) स्वासु कालेयम् (ऊ० १ .१ .७) ।। ४ ।।
इति पृष्ठानि ।।
यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्र-मौक्षे (ऊ० ४. १. १०) हाविष्मतम् (ऊ० २ १. ५) उत्तरेषु । पवस्वेन्द्रमच्छे (सा० ६९२-६) ति शङ्कु-(ऊ० ७. १. ८) सुज्ञाने (ऊ० ६.२.८) । अयं पूषा रयिर्भग (सा० ८१८-२०) इति गौरीवितं (ऊ. ७.१. ९) च क्रौञ्चं (ऊ० २.१. ९) च । वृषा मतीनां पवत ( सा० ८२१ -३) इति याममन्त्यम् (ऊ० २.१. १०) ।। ५ ।।
]। इत्यार्भवः पवमानः ।।

99

गवामयनम् – अभिप्लवः षडहः (अ. 1. ख. 4)

हाविष्मतमुत्तरेष्विति उत्तरेष्वभिप्लवेषु मौक्षस्य स्थाने हाविष्मत- मित्यर्थः ।। ५ ।।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४) ।। ६ ।।
साकमश्वम् (ऊ० १.१. १५) अभ्रातृव्यो अनात्वम् (सा० १ ३८९- ९०) इत्यामहीयवम् (ऊ० ७ १.१०) आष्टादंष्ट्रं यादौहो- वद् (ऊ० ७. १. ११) ।। ७ ।।
इत्युक्थानि ।।
यदौहोवदिति । इन्द्रं विश्वा अवीवृधन्नै( सा० ८२७ )यादौ होवेत्याष्टादंष्ट्रमित्यर्थः ।। ७ ।।
गोष्टोमस्तोमः ।। ८ ।।
पञ्चदशं बहिष्पवमानम् । त्रिवृदाज्यानि । सप्तदशं माध्यंदिनं सवनम् । एकविंशं तृतीयं सवनं सोक्थ्यम् इति गोष्टोमस्य स्तोम इत्यर्थः । स्तोमविमोचनादि पूर्ववत् ।। ८ ।।
इति गोष्टोमस्तोमः ।। ३ ।।
अथ अभिप्लवस्य तृतीयमहः-आयुः
आयुःसंज्ञिकं तृतीयमाभिप्लविकमहराह--
दविद्युतत्या रुचै-(सा० ६५४-६ ) ते असृग्रमिन्दवः (सा० ८३०-२) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।
इति बहिष्पवमानम् ।।
अग्निनाग्निः समिध्यते (सा० ८४४-५५) ।। २ ।।
इत्याज्यानि ।।
अग्निना (सा० ८४४-४६) मित्रं हुवे (सा० ८४७-४९) इन्द्रेण (सा० ८९०-५२ ) ता हुवे (८५३-५५)
इत्याज्यानि ।। २ ।।
उच्चा ते जातमन्धस (सा. ६७२-४) इति गायत्रं च वैरूपं (ऊ० ७. १. १२) चाभि सोमास आयवः (सा० ८५६-८) इति

100

रौरवं (ऊ० ७. १ .१३) च गौतमं (ऊ० २. १. १५) चाञ्जश्च वैरूपम् (र० १. २. ११) । अग्नेस्त्रिणिधनम् (ऊ० २.१. १४) । तिस्रो वाचः (सा० ८५९-६१) इत्यङ्गिरसां संक्रोशो- (ऊ. २ १ १७)न्त्यः ।। ३ ।।
इति माध्यंदिनः पवमानः ।।
रौरवं प्रथमायाम् । प्रहिन्वान (सा० ५३६) इत्यग्नेस्त्रिणिधन- मध्यास्यायाम् ।। ३ ।।
रथन्तरं ( र० १. १.१) च वामदेव्यं ( ऊ० १.१.५) चात्वा सहस्रमा शतम् (सा० १३९१.३) इत्यभीवर्तः । (ऊ. ७ १ १५) स्वासु कालेयम् (ऊ०. १.१.७) ।४।।
इति पृष्ठानि ।।
तिस्रो वाच उदीरत ( सा. ८६९-७१) इति गायत्रं च क्षुल्लकवैष्टम्भं (ऊ० ७. १. १६) चासोता परिषिञ्चत (सा. १३९४-५) सखाय आ निषीदते( सा० ११५७-९) ति वाचश्च साम (ऊ. ७. १. १७) सुज्ञानं च (ऊ० ७. १. १८) दैवोदासं (ऊ० ७. १. १९) च सुतासो मधुमत्तमा ( सा० ८७२-४) इति गौरीवितं (ऊ. २.२.३) चान्धी- गवं (ऊ. ७. १. २०) च पवित्र त (सा० ८७५-७) इति सामराजम् (ऊ. ७. २. १) अन्त्यम् । ५ ।।
इति आर्भवः पवमानः
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १ १४) ।। ६ ।।
स्वान्युक्थान ।। ७ ।।
षडहस्य तृतीयस्याह्नः उक्थानि- प्रमँहिष्ठीयं (ऊ. २.२ .५ हारिवर्णं ( ऊ० २.२.६) तैरश्च्य ( ऊ० २.२.७ )मिति ।। ७ ।।
आयुष्टोमस्तोमः ।। ८ ।।

101

गवामयनम् – अभिप्लवः षडहः (अ.1 ख.5)

त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि । सप्तदशं माध्यंदिनं सवनम् । एकविंशं तृतीयसवनम् । सोक्थ्यम् ।। ८ । ।
इति आयुष्टोमस्तोमः ।। ४ ।।
अभिप्लवस्य चतुर्थमहः -गौः
गोसंज्ञिकं चतुर्थमाभिप्लविकमहराह-
पवमानो अजीजनत् (सा० ८८९-९१) पुनानो अक्रमीदभि ( सा. ९२४ -६) प्रयद्गावो न भूर्णयः ( सा० ८९२ - ७) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।
इति बहिष्पवमानम् । ।
प्रयद्गा - षडृचम् । तृचसूक्तानामादिग्रहणेन विधिरनादेश (ला० श्रौ० ६. ३.१) इति वचनात् । शिष्टास्तृचः । । १ ।।
अग्निर्वृत्राणि जङ्घनत् (सा ० १३९६-८) इति होतुराज्य- मिति । स्वान्युत्तराणि ।। २ । ।
इत्याज्यानि ।।
अग्निर्वृत्राणि (सा ० १३९६ -८) अयं वां मित्रावरुणा (सा ० ९१० - १२) इन्द्रो दधीचो अस्थभिर् (सा ० ९१३- १५) इयं वामस्य मन्मनः ( सा. ९१६-१८)
इत्याज्यानि स्वशब्देन गृह्यन्ते ।
चातुर्थिकत्वात् । । २ ।।
पवस्व दक्ष साधन (सा ० ७१९-२१) इति गायत्रं चादार० सृच्च (ऊ० ७.२.२) । परीतो षिञ्चता सुतम् (सा० १३१३-५) इति पृश्नि ( ऊ० ७.२. ३) चाथर्वणं (र ० १. २.१२) चाभीशवं (ऊ० ७.२. ४) च यौधाजयं (ऊ० ७. २. ५) चोहु वा अस्येति वासिष्ठम् (ऊ० ७.२.६) अन्त्यम् ।। ३ ।।
इति माध्यंदिनः पवमानः । ।
पृश्नि प्रथमायाम् । श्रीणन्त ( सा० १३१४) इति यौधाजयमध्यास्यायाम् । । ३ । ।

102

बृहच्च (र० १. १.५) वामदेव्यं (ऊ० १. १.५) च यो राजा चर्षणीनाम् ( सा० ९३३-४) इत्यभीवर्तः (ऊ० ७.२. ७) । स्वासु कालेयम् (ऊ० १. १. ७) ।। ४ ।
इति पृष्ठानि ।।
परि प्रिया दिवः कविर् ( सा० ९३५-७) इति गायत्रं चौर्णायवं च यदीनिधनम् (ऊ० ७. २. ८) । त्वं ह्यङ्ग दैव्य ( सा० ९८३-९) सोमः पुनान उर्मिणे( सा० ९४०- २) ति बृहत्क( ऊ० २.२. १६) सुज्ञाने (ऊ० ७.२.९) । पुरोजिती वो अन्धस (सा० ६९७-९) इति गौरीवितं (ऊ० ४. १. १३) च त्वाष्ट्रीसाम च यदूर्ध्वेडम् (ऊ० ७.२. १०) । प्रो अयासीद् (सा० ११५२-४) इति लौशम् (ऊ. ७. २. ११) अन्त्यम् ।। ५ ।।
इति आर्भवः पवमानः ।।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।। ६ ।
सैन्धुक्षितं (ऊ० २.२.२०) सौभरं (ऊ० १. १. १६) वीङ्कं (ऊ० ४. १. १९) शुद्धाशुद्धीयं वा यदीडाभिरैडम् (ऊ० ७. १२. १२) ।। ७ ।।
इत्युक्थानि ।।
वीङ्कशुद्धाशुद्धीययोर्व्यवस्था भर्गयशोभ्यामुक्ता । तदुक्तम्- एताभ्यामुक्ते वीङ्कशुद्धाशुद्धीये (ला० श्रौ० ३.४. १३) इति ।।७।।
गोष्टोमस्तोमः ।। ८ ।।
पञ्चदशं बहिष्पवमानमित्यादि ।। ८ ।।
इति अभिप्लवस्य चतुर्थमहः-गोष्टोमस्तोमः ।।५।।

103

गवामयनम् – अभिप्लवः षडहः (अ.1. ख.6)

अभिप्लवस्य पञ्चममहः-आयुः
आयुःसंज्ञकं पञ्चममाभिप्लविकमहराह-
पवमानस्य विश्वविद् ( सा० ९५८-६०) यत्सोम चित्रमुक्थ्यम् (सा० ९९९ -१००१) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।
इति बहिष्पवमानम् ।।
अग्ने स्तोमं मनामह (सा० १४०५-७) इति होतुराज्यम् । स्वान्युत्तराणि ।। २ ।।
इत्याज्यानि।।
पुरूरुणा चिद्ध्यस्ति ( सा० ९८५-८७) उत्तिष्ठन्नोजसा सह ( ९८८-९०) इन्द्राग्नी युवाम्(सा० ९९१-९३) इत्युत्तराण्याज्यानि ।।२ ।। अर्षा सोम द्युमत्तम (सा० ९९४-६) रटति गयत्रं च यण्वं (र० १. १. ११) च । अपत्यं (र० १ . २. १३) संतनि (ऊ० ७. २. १३) शाक्वरवर्णम् ( र० १. २. १४) । तान्युत्तरेषु । अभिसोमास आयवः (सा० ८५६-८) इति मानवं (ऊ० ७.२. १४) चानूपं(ऊ० ७.२. १५) च वाम्रं ( ऊ० ७.२. १६) चाग्नेस्त्रिणिधनम् ( ऊ० ७. १. १४) । अभि त्रिपृष्ठम् (सा० १४०८-१०) इति सम्पान्त्यमन्त्यम् (ऊ० ७.२. १७) ।।३।।
इति माध्यंदिनः पवमानः । ।
अपत्यं संतनि शाक्वरवर्णम् । तान्युत्तरेष्विति । अपत्यादीनि त्रीणि सामानि द्वितीयादिष्वभिप्लवेषु यथासंख्यं यण्वस्थान इत्यर्थः । मानवं
प्रथमायाम् । अग्नेस्त्रिणधनमध्यास्यायाम् ।। ३ ।।

104

रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १. १.५) च त्वमिन्द्र यशा असी-(सा० १४११-२) त्यभीवर्तः (ऊ० ७.२. १८) । स्वासु कालेयम् (ऊ० १. १. ७.) ।। ४ ।।
इति पृष्ठानि ।।
असाव्यंशुर्मदाये( सा० १००८-१०) ति गायत्रं च गोषूक्तं (ऊ० ७.२. १९) चाभिद्युम्नं वृहद्यशः (सा० १०११-२) प्राणा शिशुर्महीनाम् (सा० १०१३-५) इति च्यावन(ऊ० ३. १. ११) सुज्ञाने (ऊ० ७.२.२०) । दैवोदासं (ऊ० ७.२ २१) वा । पवस्व वाजसातय (सा० १०१६-८ ) इति गौरीवितं (ऊ० ३. १. १३) च रयिष्ठं च (ऊ० ८. १ . १) असावि सोमो अरुषो वृषा हरिर् ( सा० १३१६-८) इति द्व्यभ्याघातं लौशम् (ऊ० ८ .१.२) अन्त्यम् । ।५ ।।
इति ह्यार्भवः पवमानः ।।
सुज्ञानदैवोदासयोर्विकल्पः ।। ५ ।।
यज्ञायज्ञीयमग्निष्टोमसाम ( ऊ० १. १. १४) ।। ६ ।।
यजिष्ठं त्वा ववृमह ( सा० १४१३-४) इति साध्यं (ऊ० ८. १.३) सांवर्तं (ऊ० ५. १ . १२) मारुतम् (ऊ० ५ १. १३) ।। ७ ।।
इत्युक्थानि ।।
अयुष्टोमस्तोमः ।। ८ ।
त्रिवृद् बहिष्पवमानम् । पञ्चदशान्याज्यानि । सप्तदशं माध्यंदिनं सवनम् इत्यादि ।। ८ ।।
इति आभिप्लविकं पञ्चममहः अयुः ।। ६ ।।
-
अभिप्लवस्य षष्ठमहः --ज्योतिः
ज्योतिःसंज्ञकं षष्ठमाभिप्लविकमहराह-
असृक्षत प्र वाजिनः ( साऽ १०३४-६) एतमु त्यं दश क्षिपः (सा० १०८१-३) पवमानस्य ते कवे (सा० ६५७-९) ।।१ ।।
इति बहिष्पवमानम् ।।

105

गवामयनम् – अभिप्लवः षडहः (अ.1 ख.7)

यमग्ने पृत्सु मर्त्यम् (सा० १४१५-७) इति होतुराज्यम् । स्वान्युत्तराणि ।। २ ।।
।। इत्याज्यानि ।।
प्रति वां सूर उदिते (सा० १०६७-६९) भिन्धि विश्वा अप -द्विषो ( सा० १०७०-७२) यज्ञस्य हि स्थ ऋत्विजा (सा० १०७३-७५)
इत्युत्तराण्याज्यानि ।। २ ।।
इन्द्रायेन्दो मरुत्वते-(सा० १०७६-८) ति गायत्रं चाश्वसूक्तं च ( ऊ० ८.१.४) सकृदिषोवृधीयं (ऊ० ३.१. १९) कुर्यात् मृज्यमानः सुहस्त्ये( सा० १०७९ - ८० त्यैडं चौक्ष्णोरन्ध्रं (ऊ० ३. २. २) त्रिणिधनमायास्यं (ऊ० ८.१ .६) सकृत्समन्तं कुर्यात् (ऊ० ८.१ .५) । साकमुक्ष ( सा० १४१८-२०) इतीहवद्वासिष्ठम् (ऊ० ८. १. ७) अन्त्यम् ।। ३ ।।
इति माध्यंदिनं पवमानम् ।।
सकृदिषोवृधीयं कुर्यादिति । अन्तेऽभिप्लव इषोवृधीयमाश्व- सूक्तस्य स्थाने कुर्यादित्यर्थः । एवं त्रिणिधनस्थाने समन्तम् । तदिदमुक्तम्-इषोवृधीयसमन्ते पृष्ठ्यानन्तर्ये षष्ठ ( ला० श्रौ० ३. ४. १६) इति । ३
बृहच्च ( र० १. १. ५) वामदेव्यं ( ऊ० १. १. ५) च । पिबा सुतस्य रसिन (सा० १४२१ -२) इत्यभीवर्तः (ऊ० ८. १ .८) । स्वासु कालेयम् (ऊ० १. १ .७) ।। ४ ।।
इति पृष्ठानि ।।
परि स्तवानो गिरिष्ठा ( सा० १०९३-५) इति गायत्रं चैध्मवाहं च यदिहवत् (ऊ० ८. १. ९) स सुन्वे यो वसूनां (सा० १०९६-७) तं वः सखायो मदाये-(सा० १०९८- ११००) ति

106

दीर्घ-(ऊ० ३.२. ११) सुज्ञाने (ऊ० ८.१. १०) । काशीतं (ऊ० ८.१ .११) वा । सोमाः पवन्त इन्दव (सा० १९०१-३) इति गौरीवितं ( ऊ० ३ .२. १३) च क्रौञ्चं च यत्स्वयोनि (ऊ० ३.२.१६) । त्रिरस्मै सप्त धेनवो दुदुह्रिरे (सा० १४२३-५) इति मरुतां धेनु (ऊ० ८.१.१२) अन्त्यम् ।। ५ ।।
इत्यार्भवः पवमानः ।।
यदिहवदिति । परिसुवा इहेत्यैध्मवाहमित्यर्थः । यत्स्वयोनीति वाङ्निधनव्यावृत्त्यर्थम् ।। ५ ।।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १ . १४) ।। ६ ।।
गूर्दम् (ऊ० ३.२.१८) त्रैककुभं ( ऊ० ६.१ .७) नार्मेधम् (ऊ० १. १. १७) इत्युक्थानि । यद्युक्थ्यः ।।
यद्युत्सृजेयुरुक्थानि उत्सृजेयुरिति पक्षाश्रयणेन यद्युक्थ्यान्तं चिकीर्षितमित्यर्थः । तदुक्तम्-उत्सर्जनानि मासि मासि यथान्ते एवमा- वृत्तानामादिः पूर्वेष्वभिप्लवेषु षष्ठमहरुक्थ्यं कृत्वाग्निष्टोममुत्तमः (द्रा० श्रौ०
सू० ८४८-१०) इति । सिद्धान्तमाह-
अग्निष्टोमस्त्वे ।। ७ ।।
उत्रसर्जनस्यानित्यत्वादिति भावः । तथा यद्युत्सृजेयु(तां० ब्रा० ५.
१ ०.५)रिति ब्राह्मणम् ।।
ज्योतिष्टोमस्तोमः ।। ७ ।।
त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि । पञ्चदशः माध्यंदिनः पवमानः । सप्तदशानि पृष्ठानि । सप्तदश आर्भवः । एकविंशो- ऽग्निष्टोमः । सोक्थ्य इति ।। ७ ।।
इति ज्योतिः ।।
इति अभिप्लवस्य षष्ठमहः ।।
संपूर्णोऽभिप्लवः षडहः ।।

107

गवामयनम् – पृष्ठ्यः षडहः (अ. 1. ख. 8)

पृष्ठ्यः षडहः
एवमन्येऽपि त्रयोऽभिप्लवाः कर्तव्याः । तेषु विशेषः । द्वितीये- ऽहनि हाविष्मतस्य स्थाने यौक्ताश्वमुत्तरम् । मौक्षस्य हाविष्मतम् । द्वितीयेऽभिप्लवे पञ्चमेऽहनि यण्वस्य स्थानेऽपत्यम् । तृतीयेऽभिप्लवे पञ्चमेऽहनि संतनि । मानवात् पूर्वं वाम्रं च मानवं चानूपं चेति । पञ्चमेऽहनि यदहः ग्रामेगेयं संताने स्यात् मानवात् पूर्वं वाम्रं स्यात् (द्रा० श्रौ० ७.४.१६) इति वचनात् । एतच्चाजाम्यर्थम् । तत्र वाम्रं प्रथमायाम् । मानवं तृचे । चतुर्थेऽभिप्लवे पञ्चमेऽहनि यण्वस्य स्थाने शाक्वरवर्णम् । तत्रैव षष्ठेऽहन्याश्वसूक्तस्येषो- वृधीयम् । त्रिणिधनायास्यस्य समन्तम् । भद्रयशसोर्वीङ्कशुद्धाशुद्धीययोश्च व्यवस्थाप्रकार उक्तो न प्रस्मर्तव्यः । अन्यत् सर्वं प्रथमवत् ।।
एवं चतुरोऽभिप्लवानुपेत्य पृष्ठ्यःषडहमुपयन्तीति तस्य
क्लृप्तिमाह
पृष्ठ्यः षडहः समूढो वा व्यूढो वा ।। १ ।।
ब्राह्मणोक्तं पृष्ठ्यस्य यद् व्यूढत्वं तद्यदि दशरात्रप्रयुक्तं तत्र समूढोऽयं भवितुमर्हति । अविच्छिन्नत्वात् । अथ पृष्ठ्यप्रयुक्तं ततो व्यूढ इति संदेहाद्विकल्प इति पूर्वः पक्षः ।। १ ।।
सिद्धान्तमाह
समूढस्त्वेव ।। २ ।।
इति । दशरात्रप्रयुक्तो व्यूह इति भावः । तथा च निदानम्- अथापि विलुप्तो व्यूढः षडह ( नि० सू० ५. ६ .१) इत्यादि । श्रुत्यन्तरं च नर्ते छन्दोमेभ्यः पृष्ठयो व्यूहमानश (नि० सू० ५.६.४) इति।।२ ।।
-

108

तस्य समूढस्य क्लृप्तिर्वक्ष्यत इत्याह-
तस्य कल्पः ।। ३ ।।
इति ।। ३ ।।
प्रथममहराह
उपास्मै गायता नरः ( सा० ६५१-३) उपोषु जातमप्तुरम् (सा० १ ३३५-७) पवमानस्य ते कवे (सा० ६५७-९) इति प्रथमस्याह्नो बहिष्पवमानम् ।। ४ ।।
अस्य प्रत्ना-(सा० ७५५-९३) नवर्चस्य नवाहयोगाभावान्निवृत्तिः । प्रत्नवतीभिश्चोपवतीभिश्चेत्यारभ्य नव भवन्ति । नवाहस्य युक्त्या (तां० ब्रा० ११. १ .६) इति श्रुतेः ।।
प्र सोम देववीतय ( सा० ७६७-८) इत्यभीवर्त एकस्याम् (ऊ० ८. १. १३) । पज्रमेकस्याम् (ऊ० ६.२.१३) । यौधाजयमेकस्याम् (ऊ० १. २.१३) । समानमितरत् ।। ५ ।।
दशरात्रिकेण प्रथमेनाह्ना समानमितरदित्यर्थः ।।
अग्न (सा० ६६०-२) आ नो मित्रा (सा० ६६३-५) आ याहि- (सा० ६६६-८) इत्याज्यानि । प्र सोमासो विपश्चितः (सा० ७६४-६) इति गायत्रमाश्वं (ऊ० ६.२.१२) सोमसाम (ऊ० १४.१. १३) इति तृचः । प्र सोम देववीतये (सा० ७६७-८) इत्यभीवर्त-(ऊ० ८.१. १३) पज्र-(ऊ० ६.२.१३) यौधाजयैः (ऊ० १. २.१३) सामतृचः । प्र तु द्रव (सा० ६७७-९) इत्यौशन(ऊ० १. १. ४) मन्त्यम् । रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १. १. ५) च नौधसं (ऊ० १. १. ६) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि । अस्मिन्नपि पृष्ठे रथघोषादयः पृष्ठधर्माः कार्याः । सह धर्मैः सर्वत्र पृष्ठं स्यात् ( ला० श्रौ० ३.६.१६) इति वचनात् ।। प्र सोमासो मदच्युत ( सा० ७६९-७१) इति गायत्रमेकस्याम् । तस्यामेव

109

गवामयनम् – पृष्ठ्यः षडहः (अ.1. ख.9)

संहितम् (ऊ० १.२. १४) । अया पवस्व देवयुः(सा० ७७२-४) पवते हर्यतो हरिर् (सा० ७७३-४) इत्येकर्चयोः सफाक्षारे (ऊ० १. २.१५-१६) । प्र सुन्वानायान्धस इति प्रथमायां गौरीवितगौतमे (ऊ० १. २.१७-१८) । काव(ऊ० १.१.१ ३)मन्त्यम् । यज्ञा- यज्ञीय( ऊ० १. १.१ ४)मग्निष्टोमसाम । सर्वं त्रिवृत् । अत्रेदमनु- संधेयम् । यत्सामावसृजेयुरवस्वर्गाल्लोकात् पद्येरन् (तां० ब्रा० ४.३.६) इत्यभीवर्तप्रकरणे श्रवणात् पूर्वस्मिन् पक्षसि सर्वत्र कर्तव्योऽभीवर्त इति स्थिते पृष्ठस्य नानाब्रह्मसामत्वात् न तत्राभिप्लववत् ब्रह्म- सामत्वेन संकल्पयितुं शक्यत इति पावमानीकीषु वृहतीषु निवेश्यते । नित्यानुग्रहेणैव च स्तोमोपपत्त्यर्थमागन्तुभिर्नित्यैः सहैकर्चं क्रियते । तत्र द्वितीयादिष्वहस्सु कालेयमागन्तु कल्पयिष्यते । तं खलु वृहतीषु कालेयमनुकल्पयामः । सतोऽनुरूपमस्मिन् भवतीति । अस्मिंस्त्वहनि कालेयस्याच्छावाकसामत्वात् संचारदोषो मा भूदिति
पज्रमागन्तु कल्पितमिति ।। ५ ।।-।। ८ ।।
द्वितीयस्याह्नः
पुनानः सोम धारय ( सा० ६७५ - ६) इत्यैडमायास्यमेकस्याम् (ऊ० १.२.२०) अभीवर्त एकस्याम् (ऊ० ८.१.१४) कालेय- मेकस्याम् (ऊ० ८.१.१५) वृषा शोण (सा० ८०६-८) इति

110

पार्थम् ( ऊ० ७१६) अन्त्यम् । इति माध्यंदिनस्य । समान- मितरत् ।। १ ।।
इति । माध्यंदिनशब्देन कल्पे सर्वत्र माध्यंदिनः पवमान उच्यते । इहवद्वासिष्ठस्य षष्ठेऽहनि माध्यंदिनान्त्यत्वेन कल्पयिष्यमाणत्वात् असंचाराय पार्थमत्र कल्पितम् । एतत्स्तोमं क्षत्रसाम बृहती- पृष्ठेऽभिरूपम् (नि० सू० ) इति निदानम् । तत्रेयं क्लृप्तिः । पवस्व वचो (सा० ७७५-७) पवस्वेन्दो (सा० ७७८-८०) वृषा सोम ( सा० ७१८-३) वृषा ह्यसि (सा० ७८४-६) पवमानस्य ते वयम् ( सा० ७८७-९) इति बहिष्पवमानम् । अग्निं दूतं (सा० ७९०-२) मित्रं वयम् (७९३-५) इन्द्रमिद्गा (सा० ७९६-९) चतुर्ऋचम् । इन्द्रे अग्ना (सा० ८००-२) इत्याज्यानि । चतुर्ऋचेऽन्त्याया उद्धारः । वृषा पवस्व धारय ( सा० ८०३-५) इति गायत्रं च यौक्ताश्वं (ऊ० १.२.१ ९) च । पुनानः सोम धारय (सा० ६७५ ६) इत्यैडमायास्यम् ( ऊ० १ .२.२ ०) अभीवर्तः ( उ० ८.२.१३) कालेय- (ऊ० १०. १.१ ३)मिति सामतृचः । त्रिणिधनमायास्यं(ऊ० २.१.१) । तृचे । वृषा शोण (सा० ८०६-८) इति पार्थ ( ऊ० ७.१. ६)मन्त्यम् । वृहच्च ( र० १. १.५) वामदेव्यं ( ऊ० १. १.५) च श्यैतं ( ऊ० २.१. ३) च माधुच्छन्दसं (ऊ० २.१.४) चेति पृष्ठानि । वृहत्स्तोत्रे दुन्दुभिमाहन्युः । यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं च हाविष्मतं ( ऊ० २.१ .५) च । पवस्वेन्द्रमच्छे(सा० ६९२-३; ६९४-६)ति शङ्कुसुज्ञाने (ऊ० २.१. ६-७) एकर्चे । अयं पूषा रयिर्भग ( सा० ८१८-२०) इति गौरीवित( ऊ० २.१. ८) मेकस्याम् । क्रौञ्चं ( ऊ. २.१.९) तृचे । वृषा मतीनां पवत ( सा० ८२१-३) इति याम(ऊ० २.१.१० )मन्त्यम् । यज्ञायज्ञीय- ( ऊ० १.१.१ ४)मग्निष्टोमसाम । साकमश्वम् (ऊ० १ .१. १५) ।

111

गवामयनम् – पृष्ठ्यः षडहः (अ.1. ख.10)

एवाह्यसि वी-( सा० ८२४-३) त्यामहीयवम् (ऊ० २. १. ११) । आष्टादंष्ट्र( ऊ० २.१ .१२ )मित्युक्थानि । सर्वं पञ्चदशम् ।।६।।-।।९। -
तृतीयस्याह्नः
अभि सोमास आयवः (सा० ८५६८) इति पौरुमद्गं प्रथमायाम् । ( ऊ० १. १. १४) तस्यामेवाभीवर्तः ( ऊ० ८.१. १६) । कालेयं द्वितीयायाम् ( ऊ० ८. १. १७) । गौतमं तृतीयायाम् (ऊ० १.१. १५) । समानमितरत् ।। १ ।।
इति । चतुर्णां प्रथमायां द्वावितरौ नानोत्तरयोर् ( द्रा० श्रौ० १६.३.१३) इति न्यायादेवमेकर्चकरणम् । अथ क्लृप्तिः । दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिदवो (सा० ८३०-२) राजा मेधाभिरीयते (सा० ८३३-५) तं त्वा नृम्णानि बिभ्रतम् (सा० ८३६-४०) इषे पवस्व धारय (सा० ८४ १-३) इति बहिष्पवमानम् । अग्निना ( सा० ८४४-६) मित्रं हुव ( सा० ८४७-९) इन्द्रेण (सा० ८५०-२) ता हुव (सा० ८५३-५) इत्याज्यानि । उच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रं च क्षुल्लकवैष्टम्भं (ऊ० २. १.१३) च । अभिसोमास आयवः ( सा० ८५६-७) इति पौरुमद्गं (ऊ० २. १. १४) प्रथमायाम् । अभीवर्त-(ऊ० ६.१.१६) कालेय ( ऊ० १. १. ७) गौतमैः ( ऊ० १.२.१८) सामतृचः अन्तरिक्षं (र० १. १.५) तिसृषु । प्र हिवान (सा० ५३६) इत्यस्याध्यास्यायाम् आष्कारणिधनम् (ऊ० २.१. १६) । तिस्रो वाच (सा० ८५९-६१) इत्यङ्गिरसां संक्रोशो (ऊ० २.१.१७)ऽन्त्यः । वैरूपं च वामदेव्यं च । वयं घ त्वे (सा० ८६४-६) महावैष्टम्भम् (ऊ० २. १. १८) । तरणिरित्सिषासति (सा० ८६७-८) इति

112

रौरवं (ऊ० २. १. १९) चेति पृष्ठानि । उपवाजयमाना वैरूपेण स्तुवीरन्नि( ला० श्रौ० २. ५.३) त्यादि । तिस्रो वाच उदीरत (सा० ८६९-७१) इति गायत्रं च पाष्ठौहं (ऊ० २. १. २०) च । आ सोता परिषिञ्चत ( सा० १३९४-५) सखाय आ निषीदत (सा ११५७-९) इति वाचःसाम शौक्तं (ऊ० २.२. १-२) चैक- र्चयोः । सुतासो मधुमत्तमा (सा० ८७२-४) इति गौरीवितं (ऊ० २.२.३) च त्रिणिधनं च त्वाष्ट्रीसाम ( ऊ० २.२.४) । पवित्रं त ( सा० ८७५-७ इत्यरिष्ट( र० १. १. ८ )मन्त्यम् । यज्ञायज्ञीय- (ऊ० १. १. १४) मग्निष्टोमसाम । प्रमंहिष्ठीयं (ऊ० २. २.५) हारिवर्णं ( ऊ० २.२.६) तैरश्च्य- (ऊ० २.२.७ )मि- त्युक्थानि ।। सर्वं सप्तदशम् ।। १ ।।-।। १० ।।
चतुर्थस्याह्नः
पवमानो अजीजनत् (सा० ८८९-९१) पुनानो अक्रमीदभि ( सा० ९२४-६) इति स्तोत्रीयानुरूपौ । अग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) होतुराज्यम् । तवाहं सोम रारण (सा०९२२-३) इत्याष्टादंष्ट्रोत्तरमेकस्याम् (ऊ०२.२.९) । अभीवर्त एकस्याम् (ऊ० ८. १ . १८) । कालेयमेकस्याम् (ऊ० ८.१.१९) । सोमः पवते जनिता मतीनाम् ( सा० ८४३-५) इति जनित्रमन्त्यम् (ऊ० ८.२. १) । माध्यदिनस्य प्र त आश्विनीः पवमान धेनवः (सा० ८८६-८) इति लौशमन्त्यम् (ऊ० ८.२.२) आर्भवस्य । समानमितरत् ।। १ ।।

113

गवामयनम् – पृष्ठ्यः षडहः (अ.1. ख. 11)

इति । स्तोत्रीयो बहिष्पवमानस्याद्यस्तृचः । द्वितीयोऽनुरूपः । अत्र गायत्रीत्रिष्टुब्जगतीनाम् अन्योन्यलोकपरिहरणेन प्रकृतिवदवस्थानं समूह इत्यस्मिंस्त्र्यहे वैयूहिकेऽहरेव जगतीत्रिष्टुभोरार्भवान्ते माध्यं- दिनान्ते च कृतयोर्बहिष्पवमाने प्रकृतिवदवस्थाने वैयूहिको यूपः तत्स्थाने च माध्यदिनान्त्यो गायत्रस्तृचो यथाप्रत्यासक्तिरिष्यते । होतुराज्यानि च । वैयूहिकान्युद्धृत्य गायत्राणि तद्विभक्तीनि प्रति- निधीयन्त इत्यनुसंधेयम् ।।
अथास्य क्लृप्तिः । पवमानो अजीजनत्( सा० ८८९-९१) पुनानो अक्रमीदभि (सा० ९२४-६) प्र यद्गावो न भूर्णय (सा० ८९२-६) आशुरर्षबृहन्मते (सा० ८९८-९०३) हिन्वन्ति सूरमुस्रय (सा० ९०४-६) इति बहिष्पवमानम् । अग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) अयं वां मित्रावरुणा (सा० ९१०-२) इन्द्रो दधीचो अस्थभिः (सा० ९१३-५) इयं वामस्य मन्मन ( सा० ९१६-८) इत्याज्यानि । पवस्व दक्ष साधन (सा० ९१९-२१) इति गायत्रं चाथर्वणं (र० १. १.९) च निधनकामं (ऊ० २.२.८) च । तवाहं सोम रारण (सा० ९२२-३) इत्याष्टादंष्ट्र( ऊ० २.२.९)मभीवर्तः (ऊ०६.१.१६) कालेय(ऊ० १. १. ७)मिति सामतृचः । आभीशवं (ऊ० २.२.१०) तिसृषु ।

114

स्वःपृष्ठं (ऊ० २.२. ११) तिसुषु । सोमः पवते जनिता मतीनाम् ( सा० ९४३-५) इति जनित्र(ऊ० ८.२. १ )मन्त्यम् । वैराजं (र० १. १. १०) च वामदेव्यं ( ऊ० १. १. ५) च त्रैशोकं (ऊ० २.२. १३) च पृश्नि (ऊ० २.२.१४) चेति पृष्ठानि । वैराजस्य स्तोत्रमुपाकृत (ला० श्रौ० सू० ३.५.५) इत्यादि । परि- प्रिया दिवः कविर् (सा० ९३५-७) इति गायत्रं चौर्णायवं (ऊ० २. २. १५) च । त्वं ह्यङ्ग दैव्यम् सोम । पुनान ऊर्मिणा (सा० ९३८-९) इति बृहत्कातीषादीये (ऊ० २.२. १६-१७) । पुरोजिती वो अन्धस सा० ६९७-९) इति नानदा-(ऊ० २.२.१८ )न्धीगवे(ऊ० १ . १. १२) । प्र त आश्विनीर् (सा० ८८६) इति लौशम् ( ऊ० ८.२.२) अन्त्यम् । यज्ञायज्ञीय(ऊ० १. १. १४ )मग्निष्टोमसाम । सैन्धुक्षितं ( ऊ० २.२.२०) सौभरं (ऊ० १. १. १६) वसिष्ठस्य प्रिय- (ऊ० ३.१. १ )मित्युक्थानि । इन्द्र जुषस्व (सा० ९५२-४) इति गौरी- वितं (ऊ० ३. १. २) षोडशिसाम । सर्वमेकविंशम् ।। १ ।।-।। ११ ।।
पञ्चमस्याह्नः
पवमानस्य विश्ववित् (सा० ९५८- १०) यत् सोम चित्रमुक्थ्यम् ( सा० ९९९-१००१) इति स्तोत्रीयानुरूपौ । अग्ने स्तोमं मनामहे (सा० १४०५-७) इति होतुराज्यम् । सोम उष्वाणः सोतृभिः (सा० ९९७-८) इति मानवानूपे (ऊ० ३. १. ५-६) तृचयोः । वाम्रमेकस्याम् (ऊ० ३. १. ७) अभीवर्त एकस्याम् (ऊ० ८.२.३) । कालेयमेकस्याम् ( ऊ० ८.२.४) । इन्दुर्वाजी पवते गोन्योघा (सा० १०१९-२१) इति संपान्त्या (ऊ० ८.२. ५) माध्यदिनस्य । पार्थस्य लोके त्वाष्ट्रीसाम यद् द्व्यनुतोदम् (ऊ० ८.२.६) । गोवित् पवस्व (सा० ९५५-७) इति द्व्यभ्याघातं लौशम् (ऊ० ८.२. ७) अन्त्यम् आर्भवस्य । समानमितरत् ।। ११ ।।

115

गवामयनम् – पृष्ठ्यः षडहः (अ. 1. ख.12)

इति । पार्थस्य लोके त्वाष्ट्रीसामेति (अ)संचारार्थमुक्तम् । पवमानस्य विश्ववित् ( सा० ९५८-१ ०) । यत्सोम चित्रमुक्थ्यम् (सा० ९९९-१००१) । प्र सोमासो अधन्विषुः (सा० ९६१-७) प्र कविर्देववीतये (सा० ९६८-७४) यवं यवन्नो अन्धसा (सा० ९७५-८) यास्ते धारा मधुश्चुतः (सा० ९७९-८१) इति बहिष्पवमानम् । अग्ने स्तोमं मनामहे (सा० १४०५-७) पुरूरुणा चिद्ध्यस्ति (सा० ९८५- ७) उत्तिष्ठन्नोजसा सह ( सा० ९८८-९०) इन्द्राग्नी युवाम् (सा० ९९१-३) इत्याज्यानि । अर्षा सोम द्युमत्तम (सा. ९९४-६) इति गायत्रं च यण्व( र० १. २. १ )शाकलवार्शानि( ऊ० ३ १.३-४) । सोम उष्वाणः सोतृभिर् ((सा० ९९७-८) इति मानवानूपे (ऊ० ३. १. ५-६) तृचयोः । वाम्रा-( ऊ० ३. १. ७)भीवर्त- (ऊ० ६.१.१६) कालेयैः (ऊ० १. १.७) सामतृचः । अग्नेस्त्रिणि- धनं (ऊ० ३. १.८) तिसृषु । इन्दुर्वाजी पवते (सा० १०१९-२१) इति संपान्त्या-( ऊ० ८.२.५ )न्त्यम् । महानाम्न्यश्च वामदेव्यं (ऊ० १. १. ५) च बार्हद्गिरं (र० १.२.२) च रायोवाजीयं ( र० १.२.४) चेति पृष्ठानि । अपः सावका उपनिधाय महा- नाम्नीभिः स्तुवीरन्नि( ला० श्रौ० सू० ३.५. १३) त्यादि । असाव्यं- शुर्मदाये(सा० १००८-१) -ति गायत्रं च संतनि (ऊ० ३. १. १०) च । अभिद्युम्नं बृहद्यशः - प्राणाशिशुर्महीनाम् (सा० १०१३-५) इति च्यावनक्रोशे (ऊ० ३.१. ११ -१२) । पवस्व वाजसातये (सा० १०१६-८) इति गौरीवितं (ऊ० ३. १.१३) च ऋषभश्च- शाक्वरं (र० १.२.५) त्वाष्ट्रीसाम ( ऊ० १६.२. १) च द्व्यनुतोदमष्टेडश्च पदस्तोभः ( र० १.२.६) । गोवित्पवस्वे(सा०

116

९५५-७ )ति द्व्यभ्याघातं लौश-( ऊ० ७.२. ११) मन्त्यम् । यज्ञायज्ञीय(ऊ० १ . १. १४ )मग्निष्टोमसाम । संजयं च सौमित्रं महावैश्वामित्रं ( ऊ० ३. १. १६-८) चोकस्थानि । सर्वं त्रिणवम् ।। १२ ।।
-
षष्ठस्याह्नः
असृक्षत प्र वाजिन (सा० १०३४-६) एतमु त्यं दश क्षिपः (सा० १०८१-३) इति स्तोत्रीयानुरूपौ । यमग्ने पृत्सु मर्त्यम् (सा० १४१५-७) इति होतुराज्यम् । मृज्यमानः सुहस्त्ये-( सा० १०७९-८०) ति स्वारमौक्ष्णोरन्ध्रं तिसृषु ( ऊ० ३ २. १) ऐडमौक्ष्णोरन्ध्रमेकस्याम् (ऊ० ३.२.२) अभीवर्त एकस्याम् (ऊ० ८ २.८) कालेयमेकस्याम् (ऊ० ८.२. ९) अया पवा पवस्वैना वसूनी-( सा० ११०४-६) ति इहवद्वासिष्ठमन्त्यं ( ऊ० ८. २. १०) माध्यंदिनस्य । ज्योतिर्यज्ञस्य पवते मधु प्रियम् (सा० १०३१ -३) इति मरुतां धेन्वन्त्यम् (ऊ० ८.२. ११) आर्भवस्य । समानमितरम् । समानमितरम् ।। १ ।।
इति आर्षेयकल्पसूत्रे प्रथमोऽध्यायः ।। १ ।।
असृक्षत प्र वाजिनः (सा० १०३४-६) एतमुत्यं दश क्षिपः सा० १०८१-३) पवस्व देववीरति (सा० १०२७-४६) स ना च सोम जेषि च ( सा० १०४७-५६) तरत्समन्दी धावति (सा० १०५७-६०) एते सोमा असृक्षते( सा० १०६१-६३)ति बहिष्पवमानम् । यमग्ने पृत्सु मर्त्यं (सा० १४१५-७) प्रति वां सूर उदिते (सा० १०६७-९) भिन्धि विश्वा अप द्विषो (सा० १०७०-२) यज्ञस्य हि स्थ ऋत्विजे(सा० १०७३-५)त्याज्यानि । इन्द्रायेन्दो मरुत्वते (सा० १०७६-८) इति गायत्रं चेषोवृधीयं (ऊ० ३. १.१९) गायत्री- क्रौञ्चं ( ऊ० ३. १. २०) च वाजदावर्यश्च (ऊ० ३.२. १)

117

गवामयनम् – पृष्ठ्यः षडहः (अ.1. ख. 13)

रेवत्यश्च (र० १.२.७) । मृज्यमान (सा० १०७९-८०) इति स्वारमौक्ष्णोरन्ध्रं (ऊ० ३.२.२) तिसृष्वैडमौक्ष्णोरन्ध्र-(ऊ० ३. २. ३)मभीवर्तः (६. १.१६) कालेय-(ऊ० १. १.७) मिति सामतृचे । वाजजिद्वरुणसाम (ऊ० ३.२. ४-५) । अङ्गिरसां गोष्ठश्च (ऊ० ३. २.६) तिसृषु । अया पवस्वैना वसूनी-( सा० ११०४-६ )तीहवद्वा- सिष्ठ-(ऊ० ८.२. १०) मन्त्यम् । रेवतीषु वारवन्तीयम् (ऊ० ३. २.८) । स्वासु वामदेव्यम् (ऊ० १. १.५) । सुरूपकृत्नुमूतये (सा० १०८७-९) इत्यृषभोरैवतम् (र० १.२.८) । उभे यदिन्द्रेति श्येनश्च (र० १.२.९) पृष्ठानि । वारवन्तीयस्य स्तोत्रे धेनु- रित्यादि पृष्ठधर्म उक्तः । परिस्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्रं च त्रीणि च वैदन्वतानि (ऊ० ३.२.९-११) । ससुन्वेयो वसूनाम् (सा० १०९६-७) तं वः सखायो मदाये( सा० १०९८- ११००) ति दीर्घकार्णश्रवसे (ऊ० ३.२.१२-१३) च । सोमा पवन्त (सा० ११०१-३) इति गौरीवितं च मधुश्चिन्निधनं च क्रौञ्चे च वाङ्निधनैडे ( ऊ० ३. १. १४-७) । ज्योतिर्यज्ञस्ये-(सा० १०३१-३) ति मरुतां धेन्व( ऊ० ८.२.११) न्त्यम् । यज्ञायज्ञीय(ऊ० १. १.१४ )मग्निष्टोमसाम । अग्ने त्वं नो अन्तम (सा० ११०७-९) इति गूर्दः (ऊ० ३.२.१९) । इमा नु कम् (सा० १११०-२) इति भद्रम् (र० १.२. १०) । प्र व इन्द्राये(सा० १११३-५ )त्युद्वंशपुत्र (ऊ० ३.२.२०) इत्युक्थानि । सर्वं त्रयस्त्रिंशम् ।।
षष्ठेऽहनि संस्थिते इत्यादि पूर्ववत् । अत्र सूत्रम्-आभीवर्त- स्तोत्रीयानाभिप्लाविकान् पृष्ठ्ये संशयेत् । ब्राह्मणाच्छंसिना कालेयर्चो- ऽच्छावाकेन सर्वत्र यदा पवमाने स्याता-( ला० श्रौ० ३.६. १८) विति । तत्र प्रथमद्वितीययोरह्नोराभिप्लाविकस्याभीवर्तस्य

118

पार्ष्टिकयोर्नौधसश्यैतयोश्च समानस्तोत्रीयाविति न तयोः पृथगनु- शासनम् । प्रथमेऽहनि कालेयस्य च । एवं चतुर्भिरभिप्लवैः पृष्ठ्येन चैको मासः । स द्वितीयः । स तृतीयः । स चतुर्थः । स पञ्चमः । षष्ठेऽपि मासे त्रयोऽभिप्लवाः प्रयोक्तव्याः । चतुर्थस्य लोपः । पूर्वस्मिन् पक्षसि त्रिषु चतुर्थोऽभिप्लवो लुप्येते( ला० श्रौ० ३.४. १७ )ति वचनात् । तृतीयेऽभिप्लवे षष्ठेऽहनि इषोवृधीयसमन्ते स्याताम् । पृष्ठ्यानन्तर्ये षष्ठ ( ला० श्रौ० ३.४.१३) इति वचनात् ।।
पूर्ववत् पृष्ठ्यः षडहः प्रयोक्तव्यः ।। १ ।।-। १३ ।।
इति श्रीवामनार्यसुतवरदराजविरचितायाम् आर्षेयकल्पसूत्र- व्याख्यायां प्रथमोऽध्यायः ।। १ ।।