प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १ आर्षेयकल्पः
अध्यायः २
मशकः
अध्यायः ३ →
(श्रीवरदराजकृत - विवृत्याख्य- व्याख्या - समन्वितः)।

पवस्व वाचो अग्रियः पुनानो अक्रमीदभि पवमानस्य ते कवे अग्निं दूतं वृणीमह आ नो मित्रावरुणाभि त्वा वृषभा सुत इन्द्राग्नी आ गतँ सुतमुच्चा ते जातमन्धस इति गायत्रममहीयवँ सत्रासाहीयं पुनानः सोम धारयेत्यभीवर्तो रौरवयौधाजये अभि वायुं वीत्यर्षा गृणान इति पार्थमन्त्यं बृहच्च वामदेव्यं च श्यैतं च कालेयं च स्वादिष्ठया मदिष्ठयेति गायत्रसँहिते पवस्वेन्द्रमच्छेति सफसुज्ञाने पुरोजिती वो अन्धस इति गौरीवितं तिसृषु गौरीवितमेकस्यां मधुश्चुन्निधनमेकस्याँ श्यावाश्वमेकस्यामिति वान्धीगवं तिसृषु यज्ञायज्ञीयं च बृहच्चाग्नेयं कावमन्त्यं यज्ञायज्ञीयस्यर्क्षु रथंतरमग्निष्टोमसाम सर्वस्तोमस्य सतस्त्र्यावृत स्तोमा-श्चतुःप्रणयाः २-१

उपास्मै गायता नर उपो षु जातमप्तुरं तं त्वा नृम्णानि बिभ्रतं पवमानस्य ते वयं पवमानस्य ते कवे अग्न आ याहि वीतय इत्याज्यानि प्र सोमासो विपश्चित इति गायत्रं चाश्वं चाभि सोमास आयव इति पौरुहन्मनं च द्वैगतं च गौङ्गवं च यौधाजयं चौशनमन्त्यं यज्जायथा अपूर्व्येति रथंतरंतरँ स्वासु वामदेव्यं तं वो दस्ममृतीषहमित्यभीवर्तः स्वासु कालेयँ स्वादिष्ठया मदिष्ठयेति गायत्रं च क्षुल्लकवैष्टम्भं चाया पवस्व देवयुः पवते हर्यतो हरिरिति सफसुज्ञाने काशीतं वा प्र सुन्वानायान्धस इति गौरीवितं तिसृषु गौरीवितमेकस्यां गौतममेकस्यामौदलमेकस्यामिति वा स्वरं तिसृषु यत्पयोनिधनमेवमभि प्रियाणीत्यैडं कावमन्त्यँ स्वारं यदि विकल्पयेद्यज्ञायज्ञीयमग्निष्टोमसामौ-शनमौपगवं वसिष्ठस्य प्रियं तैरश्च्यं वेत्युक्थानि यद्युक्थ्योऽग्निष्टोमस्त्वेव २-२

पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो वृषा सोम द्युमाँ अस्युत्ते शुष्मास ईरते पवमानस्य ते कवे अग्निं दूतं वृणीमह इत्याज्यानि वृषा पवस्व धारयेति गायत्रं च यौक्ताश्वं च यत्पृष्ठ्ये परीतो षिञ्चता सुतमिति समन्तं च दैर्घश्रवसं चायास्ये वृषा शोन इति पार्थमन्त्यं मत्स्यपायि ते मह इति बृहत् स्वासु वामदेव्यम् अभि प्र वः सुराधसमित्यभीवर्तः स्वासु कालेयं यस्ते मदो वरेण्य इति गायत्रं च हाविष्मतं च पवस्वेन्द्रमच्छेति शङ्कुसुज्ञाने अयं पूषा रयिर्भग इति गौरीवितं तिसृषु गौरीवितमेकस्यां क्रौञ्चमेकस्याम् आसितमेकस्यामिति वा स्वरं तिसृषु यद्बृहन्निधनयोः पूर्वमुत्तरमावृत्तेषु वृषा मतीनां पवत इति ऐडं याममन्त्यँ स्वारं यदि विकल्पयेद्यज्ञायज्ञीयमग्निस्तोमसाम साकमश्वँ सौभर०माष्टादँष्ट्रमित्युक्थानि यद्युक्थ्योऽग्निष्टोमस्त्वेव २-३

दविद्युतत्यारुचैते असृग्रमिन्दवो राजा मेधाभिरीयते पवस्व वृष्टिमा सु नः पवमानस्य ते कवे अग्निनाग्निः समिध्यत इत्याज्यान्युच्चा ते जातमन्धस इति गायत्रं चामहीयवं चाभि सोमास आयव इति पौरुमद्गं च गौतमं चान्तरिक्षं चाग्नेश्च त्रिणिधनं तिस्रो वाच इत्यङ्गिरसाँ संक्रोशोऽन्त्यः प्रत्यस्मै पिपीषत इति रथंतरँ स्वासु वामदेव्यं वयं घ त्वा सुतावन्त इत्यभीवर्तः स्वासु कालेयं तिस्रो वाच उदीरत इति गायत्रसँहिते आ सोता परिषिञ्चत सखाय आ निषीदतेति वाचश्च साम सुज्ञानं च दैवोदासं वा सुतासो मधुमत्तमा इति गौरीवितं तिसृषु गौरीवितमेकस्यामान्धीगवमेकस्यां त्वाष्ट्रीसामैकस्यमिति वा स्वरं तिसृषु यत्प्रथमं पवित्रं त इत्यरिष्टमन्त्यँ स्वारँ सामराजं यदि विकल्पयेद्यज्ञा-यज्ञीयमग्निष्टोमसाम प्रमँहिष्ठीयँ हारिवर्णमुद्वँशीयमित्युक्थानि यद्युक्थ्योऽग्नि-ष्टोमस्त्वेव सर्वे सप्तदशाः २-४

उपास्मै गायता नरो । बभ्रवे नु स्वतवसे प्र स्वानासो रथा इव पवमानस्य ते कवे अग्निर्वृत्राणि जङ्घनद्यद् अद्य सूर उदित उद्घेदभि श्रुतामघमियं वामस्य मन्मनो अस्य प्रत्नामनु द्युतमिति गायत्रं भ्राजँ सत्रासाहीयं तवाहँ सोम रारणेत्युत्सेधस्तिसृष्वाभीशवमेकस्यामभीवर्त एकस्यां पृश्न्येकस्याँ रथंतरं तिसृषु शिशुं जज्ञानँ हर्यतं मृजन्तीति पार्थमन्त्यं महादिवाकीर्त्यं च वामदेव्यं चेइन्द्र क्रतुं न आ भरेति विकर्णँ स्वासु कालेयं परि स्वानो गिरिष्ठा इति गायत्रं चाभ्राजं चाभि द्युम्नं बृहद्यशः प्राणा शिशुर्महीनामिति सफश्रुध्ये एकर्चयोः पर्यू ष्विति श्यावाश्वमेकस्यां पुरोजिती वो अन्धस इति बृहत्तिसृषु गौरीवित-मेकस्यामान्धीगवमेकस्यां निषेधमेकस्यां यज्ञायज्ञीयं तिसृषु धर्ता दिव इति कावमन्त्यं मूर्धानं दिवो अरतिं पृथिव्या इति भासं दशस्तोभम-ग्निष्टोमसामैकविँश स्तोम २-५-१

इन्द्र क्रतुं न आ भरेति महावैष्टम्भं श्यैतनौधसे एतानि ब्रह्मसामान्यावृत्तानाँ स्वरसाम्नामभीवर्तलोके पौष्कलँ राथंतरयोः श्रुध्यं बार्हतस्य सुज्ञानलोके २-५-२

उप त्वा जामयो गिरो जनीयन्तो न्वग्रव उत नः प्रिया प्रियासु तत्सवितुर्वरेण्यँ सोमानाँ स्वरणमग्न आ याहि पवसे पवमानस्य ते कवे सुषमिद्धो न आ वह ता नः शक्तं पार्थिवस्य युञ्जन्ति ब्रध्नमरुषं तमीडिष्व यो अर्चिषास्य प्रत्नामनु द्युतमिति गायत्रं चामहीयवं च परीतो षिञ्चता सुतमिति कालेयमेकस्याँ रथंतरं तिसृषु दैर्घश्रवसं तिसृषु यौधाजयमेकस्यामयं सोम इति पार्थमन्त्यं वैराजं च महानाम्न्यश्च वैरूपं च रेवत्यश्च परि स्वानो गिरिष्ठा इति गायत्रसँहिते पवस्वेन्द्रमच्छेति सत्रासाहीयश्रुध्ये पर्यू ष्विति वामदेव्यं पुरोजिती वो अन्धस इत्यान्धीगवमेकस्यां गौरीवितमेकस्यां यद्वाहिष्ठीयमेकस्यां यज्ञायज्ञीयं तिसृषु परि प्र धन्वेति द्विपदासु वारवन्तीयँ सूर्यवतीषु कावमन्त्यं त्वमग्ने यज्ञानाँ होतेति बृहदग्निष्टोमसाम सर्वस्तोमस्य सतश्चतुरावृत स्तोमास्त्रिःप्रणयाः २-६

पौरुमीढं मानवं जनित्रं भारद्वाजं वासिष्ठं गौङ्गवँ शुद्धाशुद्धीयं वैत एकर्चा आवृत्तस्य पृष्ठ्यस्याभीवर्तलोक इन्द्र क्रतुं न आ भरेति पौरुमीढं मानवं जनित्रं भारद्वाजँ श्यैतनौधसे एतानि ब्रह्मसामान्यावृत्तस्याभिप्लवस्याभीवर्तलोके पौष्कलँ राथंतराणाँ श्रुध्यं बार्हतानाँ सुज्ञानलोके २-७

ज्योतिष्टोममाज्यबहिष्पवमानं गायत्री चाभि सोमास आयव इति द्विहिंकारं च वार्कजम्भं च यद्बृहन्निधनं मैधातिथं च रौरवं वा यौधाजयमौशनमन्त्यँ रथंतरं च वामदेव्यं चेन्द्र क्रतुं न आ भरेति नौधसँ स्वासु कालेयँ स्वादिष्ठया मदिष्ठयेति गायत्रसँहिते पवस्वेन्द्रमच्छेति सफपौष्कले पुरोजिती वो अन्धस इति गौरीवितान्धीगवे कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम प्रमँहिष्ठीयँ हारिवर्णमुद्वँशीयमिति उक्थान्यायुष्टोम स्तोमः २-८

पवस्व वाचो अग्रियो दविद्युतत्या रुचा पवस्वेन्दो वृषा सुतो वृषा सोम द्युमाँ असि पवमानस्य ते कवे अग्निं दूतं वृणीमह इत्याज्यान्यस्य प्रत्नामनु द्युतमिति गायत्रं चाआमहीयवं च परीतो षिञ्चता सुतमिति समन्तं च वार्कजम्भं च यदीनिधनं दैर्घश्रवसं च बार्हदुक्थं वा यौधाजयमयँ सोम इति पार्थमन्त्यं बृहच्च वामदेव्यं चेन्द्र क्रतुं न आ भरेति श्यैतँ स्वासु कालेयं यस्ते मदो वरेण्य इति गायत्रमौक्षे पवस्वेन्द्रमच्छेति सफश्रुध्ये पुरोजिती वो अन्धस इति गौरीवितान्धीगवे सूर्यवतीषु कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम साकमश्वँ सौभरमुद्वंशीयमित्युक्थानि गोष्टोम स्तोमः २-९

उपास्मै गायता नर उपो षु जातमप्तुरं पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो दविद्युतत्या रुचैते असृग्रमिन्दवो यवंयवं नो अन्धसा पवमानस्य ते कवे होता देवो अमार्त्यस्ता नः शक्तं पार्थिवस्य सुरूपकृत्नुमूतय आ सुते सिञ्चत श्रियमस्य प्रत्नामनु द्युतमिति गायत्रं चामहीयवं च जराबोधीयं च सत्रासाहीयं च परीतो षिञ्चता सुतमिति समन्तं च दैर्घश्रवसं च रौरवयौधजये अयँ सोम इति पार्थमन्त्यं व्रतं पृष्ठं त्रयोदश परिमादो ब्राह्मणकॢप्ता इन्द्रमिद्गाथिनो बृहद् इन्द्रो दधीचो अस्थभिरुद्घेदभि श्रुतामघमिति त्रिवृच्छिरो गायत्रम् पञ्चदशँ रथंतरं दक्षिणः पक्षः सप्तदशं बृहदुत्तर एकविँशं भद्रं पुच्छं तदिदास भुवनेषु ज्येष्ठमिति पञ्चविँश आत्मा राजनं पञ्चविँशमितरँ सर्वं वामदेव्यं मैत्रावरुणसाम त्रिकद्रुकेषु महिषो यवाशिरमिति पञ्चनिधनं वामदेव्यं ब्रह्मसाम स्वासु कालेयं परि स्वानो गिरिष्ठा इति गायत्रं च स्वाशिरां चार्कः पवस्वेन्द्रमच्छेति सफश्रुध्ये पुरोजिती वो अन्धस इति गौरीवितं च मधुश्चुन्निधनं च श्यावाश्वान्धीगवे सूर्यवतीषु कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम २-१०-१

कॢप्त उदयनीयोऽतिरात्रो यथा प्रायणीयो यथा प्रायणीयः अथ ये ब्राह्मणेऽध्यायैश्चतुर्भिः षोडशादिभिरेकाह विहितास्तेषां कॢप्तिस्त्रिभिरिहोच्यते आरंभकालदीक्षोपसद्दिवसदक्षिणादिकं सूत्रे उदगयनपूर्वपक्षेत्याद्यैः पटलैश्चतुर्भिरुक्तम् २-१०-२

विवृति

119

द्वितीयोऽध्याय

अभिजित्

अभिजितमाह-
पवस्व वाचो अग्रियः ( सा० ७७५-७) पुनानो अक्रमीदभि (सा० ९२४-६) पवमानस्य ते कवे (सा० ६५७-९) ।।
इति बहिष्पवमानम् ।। १ ।।
अग्निं दूतं वृणीमहे (सा० ७९०-२) आ नो मित्रावरुणा (सा० ६६३-५) अभि त्वा वृषभा सुतम् (सा० ७३१ -३) इन्द्राग्नी आगतं सुतम् (सा ० ६६९ -७१) ।।
इत्याज्यानि ।। २ ।।
उच्चा ते जातमन्धस ( सा० ६७२ -४) इति गायत्रम् आमहीयवं( ऊ० १. १. १) सत्रासाहीयम् (ऊ० ८. २. १२) । पुनानः सोम धारये- (सा० ६७५-६ )ति अभीवर्तो (ऊ० ८. २. १३) रौरव-(ऊ० १. १ .२) यौधाजये (ऊ० १. १. ३) । अभि वायुं वी- (सा० १४२६-८) ति पार्थम् (ऊ० ८. २. १४) अन्त्यम् ।।
इति माध्यंदिनः पवमानः
बृहच्च (ऊ० १. १. ५) वामदेव्यं ( ऊ० १. १. ५) च श्यैतं (उः० २. १. ३) च कालेयं (ऊ० १. १. ७) च ।।
इति पृष्ठानि ।। ४ ।।
स्वादिष्ठया मदिष्ठया (सा० ६८९-९१) इति गायत्र-संहिते (ऊ० १. १. ८) पवस्वेन्द्रमच्छे- (सा० ६१२-६) ति सफ-(ऊ० १. १. ९) सुज्ञाने (ऊ० ६.२. ८) पुरोजिती वो अन्धस

120

(सा० ६९७-९) इति गौरीवितं तिसृषु (ऊ० ४.१.१३) । गौरीवितमेकस्यां ( ऊ० ४. १. १३) मधुश्चुन्निधनमेकस्यां (ऊ० ८.२. १५) श्यावाश्वमेकस्याम् (ऊ० १. १.११) इति वा । आन्धीगवं तिसृषु ( ऊ० १. १. १२) यज्ञायज्ञीयं च (ऊ० ८.२.१६) बृहच्चाग्नेयं (ऊ० ८.२.१७) । कावम् (ऊ० १.१.१३) अन्त्यम् ।। ५ ।।
 इति आर्भवः पवमानः
गौरीवितस्य स्थाने गौरीवितादिभिः सामतृचो वैकल्पिकः । अथा- न्यदग्निष्टोमसाम भवति । तद्यज्ञायज्ञीयमनुष्टुभि भवतीति न्यायेन यज्ञायज्ञीयस्यानुष्टुप्सु कल्पनम् (ला० श्रौ० ८. ११. १२) ।। ५ ।।
यज्ञायज्ञीयस्यर्क्षु रथन्तरमग्निष्टोमसाम ( र० १.२. १५), ६ ।। नात्र रथन्तरधर्माः कार्याः । तस्यापृष्ठस्य सतो निवर्तेरन् धर्माः (ला० श्रौ० २.९.२१) इति वचनात् । यज्ञायज्ञीयधर्मास्तु कार्याः । तत्र प्रतिहारवलोयां पत्न्यवेक्षणम् । अहिंकारे प्रतिहार० वेलायां पत्नीमुद्गाते(ला० श्रौ० २.१०.२३) ति वचनात् ।। ६ ।।
स्तोमक्लृप्तिमाह
सर्वस्तोमस्य सतस्त्र्यावृतस्तोमश्चतुःप्रणयाः ।। ७ ।।
इति सर्वपृष्ठस्य स्तोमाः । त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिंशा यस्मिन् स सर्वस्तोमः । तस्य तथाविधस्य सतोऽभिजितस्ते त्रिवृदादयः स्तोमास्त्रिरावृत्ताः चतुरुपक्रमाश्च भवन्ति । त्रींस्त्रीन्

121

गवामयनम्-स्वरसामा अ. २. ख. २

स्तोमान् चतुर्वारं प्रणयन्तीत्यर्थः । तथा च श्रुतिः- त्रींस्त्रिवृद-भिजितः प्रणयन्ति त्रीन् पञ्चदश त्रीनेकविंश ( तां० ब्रा० १६.
४.१२) इति । तत्र त्रिवृद्बहिष्पवमानं पञ्चदशं होतुराज्यं सप्तदशं मैत्रावरुणस्येत्येकः प्रणयः । पञ्चदशं ब्राह्मणाच्छंसिनः
सप्तदशमच्छावाकस्यैकविंशो माध्यंदिनः पवमान इति द्वितीयः । सप्तदशं होतुः पृष्ठमेकविंशं मैत्रावरुणस्य त्रिणवं ब्राह्मणाच्छंसिन इति तृतीयः । एकविंशमच्छावाकस्य त्रिणव आर्भवः त्रयस्त्रिंशो-ऽग्निष्टोम इति चतुर्थः प्रणयः । एवं त्र्यावृतः स्तोमा चतुःप्रणयाः ।।७।।-।। १ ।।
इति अभिजित् ।। १ ।।
स्वरसाम्नां प्रथमः
स्वरसामान प्रथम एते भवन्ती (तां० ब्रा० ४ ५ ) ति विहितानां स्वरसाम्नां प्रथमस्य क्लप्तिमाह- उपास्मै गायता नर (सा० ६५१ -३) उपोषु जातमप्तुरम् (सा० १३३५-७) तं त्वा नृम्णानि बिभ्रतं (सा० ८३६-४०) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।

इति बहिष्पवमानम् ।। अग्न आयाहि वीतये (सा० ६६०-७१) ।।२ ।। इत्याज्यानि ।।
प्र सोमासो विपश्चितः (सा ० ७६४-६) इति गायत्रं चाश्वं (ऊ० १. २. ११) चाभिसोमास आयव (सा० ८५६-८) इति पौरुहन्मनं (ऊ० ४.२.९) च द्वैगतं (ऊ० ४.२ .१०) च गौङ्गवं च ( ऊ० ८. २. १८) यौधाजयं ( ऊ० ८.२. १९) चौशनम् (ऊ० १०. १. ४) अन्त्यम् ।। ३ ।।
[ इति माध्यंदिनः पवमानम् ।।]

122

पौरुहन्मनमाद्यायां यौधाजयमध्यास्यायाम् ।। ३ ।। यज्जायथा अपूर्व्ये (सा० १४२९-३१) इति रथन्तरम् (र० १.२. १६) । स्वासु वामदेव्यम् (ऊ० १. १. ५) । तं वो दस्म ऋतीषहम् (सा० ६८५-६) इत्यभीवर्तः (ऊ० ६.२. १४) । स्वासु कालेयम् (ऊ० १. १. ७) ।। ४ ।।
इति पृष्ठानि ।।

यज्जायथा इत्यनुष्टुप् ।। ४ ।।
स्वादिष्ठया मदिष्ठया (सा० ६८९-९१) इति गायत्रं ( ) च क्षुल्लकवैष्टम्भं ( ऊ० ८.२. २ ०) चाया पवस्व देवयुः (सा० ७७२) पवते हर्यतो हरिर् (सा० ७७३) इति सफ- (ऊ० १. २. १५) सुज्ञाने (ऊ० ६.२. १५) । काशीतं वा (ऊ० ६.२. १६) । प्र सुन्वानायान्धसः ( सा० ७७४) इति गौरीवितं तिसृषु (ऊ० ६.२. १७) । गौरीवितमेकस्याम् (ऊ० १. २.१७) गौतममेकस्याम् ( ऊ० ९. १. १) औदलमेकस्याम् (ऊ० ६.२. १९) इति वा । स्वरं तिसृषु यत् पयोनिधनम् (र० २. १. ४) । अभिप्रियाणी- (सा० ७००-२) त्यैडं कावम् (ऊ० ९. १. २) अन्त्यम् । स्वारं (ऊ० १. १. १३) यदि विकल्पयेत् ।। ५ ।।
[ इत्यार्भवः पवमानः ।।]

सफसुज्ञाने एकर्चयोः । काशीतं वा सुज्ञानस्थाने । यत्पयोनिधनमिति प्रासुप्रासु इत्येतदित्यर्थः । स्वारं यदि विकल्पयेदिति । गौरीवितं गौतममौदलमिति सामतृचेन गौरीवितस्थानं यदि विकल्पयेद्विविधैः

123

गवामयनम्-स्वरसामा [अ. २. ख. २

सामभिः कल्पयेत्तदा स्वारम् । कावमार्भवान्त्यम् । न त्वैडमित्यर्थः । तृचे हि गौरीविते क्रियमाणे मा मैवं निरिडः आर्भवो भूदिति वक्ष्यामाणन्यायेनेडानुग्रहार्थं कावं कल्पितम् । सामतृचे तु गौतमेनै-वेडानुग्रहः सिद्ध इति भावः ।। ५ ।।
यज्ञायज्ञीयमग्निष्टोमसाम ( ऊ० १ १. १४) ।। ६ ।।
औशनम् (ऊ० १. १ ४) औपगवम् ( ऊ० ४.१.१८) वसिष्ठस्य प्रियं ( ऊ० ३ १. १) तैरश्च्यम् ( ऊ० २.२.७) इत्युक्थानि । यद्युक्थ्यः अग्निष्टोमस्त्वेव ।। ७ ।। एकविंशत्यहकारिणां पक्षे स्वरसामान उक्थ्या भवन्ति । तथा च निदानम-अथैते स्वरसामानस्तानग्निष्टोमान् नवाहकारिणः कुर्युः । उक्थ्यानेकविंशत्यहकारिण ( नि० सू० ५.७.१-३) इति । सूत्रं च-एकविंशत्यहकारिण उपरिष्टादभिजित पृष्ठ्यमुपयन्ति । प्राक् च विश्वजितः स्वरसामानश्चोक्थ्यान् (द्रा० श्रौ० ८.२.१२) इति । अग्निष्टोमस्त्वेवेति नवाहकारित्वादस्माकमिति भावः । सप्तदश भवन्ति (तां० ब्रा० ४ .५ .५) इति श्रुतेः त्रयाणां स्वरसाम्नां सप्तदश स्तोमाः कर्तव्याः ।। ७ ।।
इति प्रथमः स्वरसामा ।।२।।

124

स्वरसाम्नां द्वितीयः

द्वितीयं स्वरसामानमाह-
पवस्व वाचो अग्रियो (सा० ७७५-७) पवस्वेन्दो वृषा सुतो (सा० ७७८-८०) वृषा सोम द्युमाँ असि ( सा० ७८१-३) उत्ते शुष्मास ईरते ( सा० १२०५-९) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।
इति बहिष्पवमानम् ।।
अग्निं दूतं वृणीमहे ( सा० ७९०-७; ७९९-८०२) इत्याज्यानि ।। २ ।।
इन्द्रमिद्गा चतुर्ऋचे तृतीयामृचमुद्धरेत् । तृतीयां सर्वस्वारस्वरसाम्नोरिति वचनात् ।। २ ।।
वृषा पवस्व धारये- ( सा० ८०३-५) इति गायत्रं च यौक्ताश्वं च यत् पृष्ठ्ये (ऊ० १. १ .३९) । परीतोषिञ्चता सुतम् (सा० १३१३-५) इति समन्तं च ( ऊ० ९.१. ३) दैर्घश्रवसं ( ऊ० ५.२.४) चायास्ये (ऊ० १. २. २०) । वृषा शोण ( सा० ८०६-८) इति पार्थम् ( ऊ० ७.१ .६) अन्त्यम् ।। ३ ।।
[ इति माध्यंदिनः पवमानः
यत् पृष्ठ्ये इति । यद् यौक्ताश्वं पृष्ठ्यः षडहे उक्तम् औहोहोइ वृषेति तदित्यर्थः । यत् पूर्वमिति वक्तव्ये यत् पृष्ठ्य इति वचनं स्वरसाम्नां पृष्ठ्यप्रकृतित्वज्ञापनार्थम् । समन्तं प्रथमायाम् । त्रिणिधनमध्यास्यायाम् ।। ३ ।।
मत्स्यपायि ते महः (सा० १४३२-४) बृहत् ( र० २ १. १) । स्वासु वामदेव्यम् ( ऊ० १. १ ५) । अभि प्र वः सुराधसम्

125

गवामयनम्-स्वरसामा (अ. २, ख. ३ )

( सा० ८११-२) इत्यभीवर्तः (ऊ० ७. १. ७) । स्वासु कालेयम् ( ऊ० १. १ .७) ।। ४ ।।
इति पृष्ठानि ।।
मत्स्यपायीति उत्तरा बृहती प्रथमा । अनुष्टुभावुत्तरे ।। ४ ।।
यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं च हाविष्मतं (ऊ० २ . १ .५) च । पवस्वेन्द्रमच्छे (सा० ६९२ ६)ति शङ्कु-(ऊ० २ .१ .६) सुज्ञाने (ऊ० २. १. ७) । अयं पूषा रयिर्भग (सा० ८१८-२०) इति गौरीवितं तिसृषु (ऊ. ७.१.९) । गौरीवितमेकस्याम् (ऊ ० २.१ .८) क्रौञ्चमेकस्याम् (ऊ०२.१ .९) आसितमेकस्याम् (ऊ ० ९.१.४) इति वा । स्वारं तिसृषु यद् बृहन्निधनयोः पूर्वम् (र० २ .१.६) । उत्तरमावृत्तेषु (र० २. १. ७) । वृषा मतीनां पवत ( सा० ८२१ -३) इति ऐडं यामम् (ऊ० ९. १. ५) अन्त्यम् । स्वारं ( ऊ ० २ .१ .१०) यदि विकल्पयेत् ।। ५ ।।
[ इत्यार्भवः पवमानः ।।]
शङ्कुसुज्ञाने एकर्चयोः । यत् बृहन्निधनयोः पूर्वम् इति । हस् पया इति, हस् इडा पया इति च निधनाभ्यामुपलक्षिते द्वे बृहन्निधने । तयोः पूर्वम् । एहा वयं पूषेत्येतदित्यर्थः । उत्तरमा-वृत्तेष्विति । आवृत्तेषु स्वरसामसु बृहन्निधनयोरुत्तरम् । एहाउ औहो अयं पूषेत्येतदित्यर्थः । सामतृचपक्षे स्वारं याममार्भवान्त्यम् ।। ५ ।। यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।। ६ ।।
साकमश्वं (ऊ० १ .१ .१५) सौभरम् (ऊ० १ १. १६) आष्टादंष्ट्रम् ( ऊ० २ १. १२) इत्युक्थानि । यद्युक्थ्यो-ऽग्निष्टोमस्त्वेव ।। ७ ।।

126

यद्युक्थ्यः । अत्राष्टादंष्ट्रपूर्वम् । अग्निष्टोमस्त्वेव । व्याख्यातमिदम् । सर्वाणि स्तोत्राणि सप्तदशानि ।। ७ ।।
इति द्वितीयः स्वरसामा ।। ३ ।।
स्वरसाम्नां तृतीयः
तृतीयं स्वरसामानमाह- दविद्युतत्या रुचा ( सा० ६५४-६) एते असृग्रमिन्दवो (सा० ८ ३०-२) राजा मेधाभिरीयते (सा० ८३३-५) पवस्व वृष्टिमा-सु न (सा० १४ ३५-९) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।। इति बहिष्पवमानम् ।।
पवस्ववृ-पञ्चचम् ।। १ ।। अग्निनाग्निः समिध्यत (सा० ८४४-५५) ।। इत्याज्यानि ।। २ ।।
ऊच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १. १) चाभिसोमास आयव (८५६ - ८) इति पौरुमद्ग (ऊ० २. १. १४) च गौतमं (ऊ० २. १. १५) चान्तरिक्षं (र० १. १.६) चाग्ने३च त्रिणिधनम् (ऊ० ७.१. १४) । तिस्रो वाच ( सा० ८५९ - ६१) इत्यङ्गिरसां संक्रोशोऽन्त्यः ( २. १. १७) ।। ३ ।।
[ इति माध्यंदिनः पवमानः ।।
पौरुमद्गं प्रथमायाम् । अग्नेस्त्रिणिधनमध्यास्यायाम् ।। ३ ।।
प्रत्यस्मै पिपीषत (सा० १४४०-३ इति रथन्तरं (र० २. १ .२) स्वासु वामदेव्यम् ( ऊ० १ .१. ५) । वयं घ त्वा सुतावन्त (सा० ८६४ -६) इत्यभीवर्तः (ऊ० ९ १. ६) । स्वासु कालेयम् (ऊ० १. १ ७) ।। ४ ।।
इति पृष्ठानि ।।
रथन्तरस्य प्रथमे अनुष्टुभौ । बृहत्युत्तमा ।। ४ ।।


127

गवामयनम्-स्वरसामा (आ २. ख. ४)

तिस्रो वाच उदीरत (सा० ८६९-७१) इति गायत्रं च संहितं ( ऊ० ९. १ . ७) च क्षुल्लकवैष्टम्भम् (ऊ० सं० ३६) । आ सोता परिषिञ्चत ( सा० १ ३९४-५) सखाय आ निषीदत (सा० ११ ५७-९) इति वाचश्च साम (ऊ० ७ १. १७) । सुज्ञानं (ऊ० ७ १. १८) च । दैवोदासं (ऊ० ७.१. १९) वा । सुतासो मधुमत्तमा (सा० ८७२-४) इति गौरीवितं तिसृषु (ऊ० २.२. ३) । गौरीवितमेकस्याम् (ऊ० २ २ ३) । आन्धीगवमेकस्याम् (ऊ० ७. १. २०) । त्वाष्ट्रीसामैकस्याम् (ऊ० ९ .१. ८) इति वा । स्वरं तिसृषु यत् प्रथमम (र० २. १. १०) । पवित्रं त (सा. ८७५-७) इत्यरिष्टम् ( २० १ १. ८) अन्त्यम् ।। स्वारं सामराजं (ऊ० ७.२. १) यदि विकल्पयेत् ।। ५ ।।
[ इति आर्भवः पवमानः ।।
यत्प्रथममिति । सुतासो मधुमत्तमा इत्येतत् । स्वारसामराजं विकल्पये-दिति । पूर्ववदिदं व्याख्येयम् ।। ५ ।।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १ १४) ।। ६ ।।
प्रमँहिष्ठीय ( ऊ० २ २.५) हारिवर्णम् (ऊ० २ .२.६) उद्वंशीयम्(ऊ० ६.१.८) इत्युक्थानि । यद्युक्थ्योऽग्निष्टोमस्त्वेव ।।७।। संस्थयोर्व्यवस्था पूर्ववत् ।। ७ ।।
सर्वे सप्तदशाः ।। ८ ।।

128

स्वरसामानः सर्वे सप्तदशाः । सर्वशब्दः कृत्स्नवाचकः । सर्वाणि स्तोत्राणि सप्तदशान्येषामित्यर्थः । अथवा अन्यत्र कल्पकारेणापि नियुक्तः स्वाराण्यूहेऽधीयन्ते । यथा यज्जायया इति पयोनिधनम् । मत्स्य पायि ते मह इति बृहन्निधने । प्रत्यस्मा इति प्रथमं च तेषां स्वरपृष्ठेषु स्वरसामसु विनियोगः । यथोक्तम्-स्वरपृष्ठाश्चेत् स्वरसामिकेषु पृष्ठस्तोत्रीयेषु यथासुतमित्यादि ।। ८ ।।
इति स्वरसामानः समाप्ताः ।। ४ ।।


विषुवान्
विषुवतो दिवैके प्रातरनुवाकमुपकुर्वन्ति । बहिरस्यैके बहिष्पवमानेन स्तुवत (ला० श्रौ० ४. ६. १८-९) इति विषुवत्सज्ञकं दिवाकीर्त्यमहराह-
उपास्मै गायता नरो (सा० ६५१-३) बभ्रवे नु सुतवसे (सा० १ ४४४-९) प्र स्वानसो रथा इव (सा० १११९-२७) पव-मानस्य ते कवे (सा० ६५७-९) ।। १ ।।

इति बहिष्पवमानम् ।।
अग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) यदद्य सूर उदिते (सा० १३५१-३) उद् घेदभि श्रुतामघम् (सा० १४५०-२) इयं वामस्य मन्मनः (सा० ९१६-८) ।। २ ।।
इत्याज्यानि ।।

129

गवामयनम्-विषुवान् म. २. ख. ५)

अस्य प्रत्नामनु द्युतम् ( सा० ७५५ - ७) गायत्रं च भ्राजं (र० २. १. ११) सत्रासाह्रीयम (ऊ० ९.१.९) । तवाहं सोम रारणे( सा० ९२२-३ )त्युत्सेधं तिसृषु ( ऊ० ९.१. १०) । आभीशवमेकस्याम् (ऊ० २.२. १०) अभीवर्त एकस्याम् ( ऊ० ८. १. १८) पृश्न्यैकस्याम् (ऊ० ९ .१. ११) रथन्तरं तिसृषु (ऊ० २.२.४) । शिशुं जज्ञानम् (सा० १ १७५-७) इति पार्थम् (ऊ० ९.१. १२) अन्त्यम् ।। ३ ।।
[ इति माध्यंदिनः पवमानः ।।]
आभीशवादिभिः सामतृचम् । भ्राजादिषु शुक्रियेषु त्रिरुक्ताँ-स्तोभांश्चतुर्ब्रूयुः । निधनात् पूर्वस्य नाभ्यासः ।। ३ ।।
महादिवाकीर्त्यं च ( र. २. १. १२) वामदेव्यं च (ऊ० १. १. ५) । इन्द्रक्रतुं न आ भरे(सा० १४५६- ७)ति विकर्णंम् (र० २ १.१७) । स्वासु कालेयम् (ऊ० १. १ ७) ।। ४ ।।
इति पृष्ठानि ।।
महादिवाकीर्त्य पिबत्विति पृष्ठहोमे विशेषः । महादिवाकीर्त्यस्यस्य ऋषिरिन्द्रः । सूर्यो वा । जगती छन्दः । सूर्यो देवता । तस्य स्तुतिप्रकारः प्रतिहारव्याख्याने एवोक्तः । प्रथम प्रस्तावे कुशा-विधानम् । ओंकारेणोद्गीथादान च । न द्वितीये । तेन स्तुत्वा पूर्वं चमसेभ्यः त्रिष्टुप्छन्दसातिग्राह्याणां भक्षणम् । एतस्यान्य-तरस्मिंस्त्र्यहेऽतिग्राह्याणां भक्षयेयुः स्तुत्वा पृष्ठेन।विषुवद्वतयोश्च ।

130

त्रिष्टुप् छन्दसा । पूर्वं चमसेभ्यः (ला० श्रौ० सू० २. ६ .११ .१४) इति वचनात् । नाराशंसस्य पूर्ववद्भक्षणम् ।। ४ ।।
परि स्वानो गिरिष्ठा ( सा० १०९३-५) इति गायत्रं चाभ्राजं (र० २ १. २०) च । अभि द्युम्नं वृहद्यशः (सा० १०११-२) प्राणा शिशुर्महीनाम् ( सा० १०१३-५) इति शफ(ऊ० ९. १. १३) श्रुध्ये (ऊ० ९. १. १४) एकर्चयोः । पर्यूषु (सा० १३६४-६) इति श्यावाश्वमेकस्याम् (ऊ० ६. १.१८) । पुरोजिती वो अन्धस (सा० ६९७-९) इति बृहत्ति-सृषु (र० २.२.५) । गौरीवितमेकस्याम् (ऊ० ६. १. १३) । आन्धीगवमेकस्याम (ऊ० १ .१. १२) । निषेधमेकस्याम् (ऊ०९. १. १५ ( ) । यज्ञायज्ञीयं तिसृषु (ऊ० ८ .२. १६) । धर्ता दिव (सा० १२२८-३०) इति कार्यम् (ऊ० ९ .१. १६) अन्त्यम् ।। ५ ।।
[ इति आर्भवः पवमानः ।।]
पर्यूष्विति पिपीलिकामध्यानुष्टुप् । ५ ।।
मूर्धानं दिवो अरतिं पृथिव्या (सा० ११४ ०-२) इति भासं दशस्तोभमग्निष्टोमसाम १० २. २.२) ।। ६ ।।
एकविंशस्तोमः ।। ७ ।।

तस्य त्रिष्टुप् छन्दः । अस्याह्नः स्तोमक्लृप्तिमाह-एकविंशस्तोम इति । बण्महाँ असि सूर्यम् (सा० १७८ ८-९) इन्द्रमिद्देवतातये (सा० १५८७-८) श्रायन्त इव सूर्यम् (सा० १३१९-२०) इति स्तोत्रीया विकल्पन्ते (ला० श्रौ० सू० ४.६.२३) । यज्ञायज्ञीयभासे व्यतिहरन्त्येके (ला० श्रौ०सू० ४.६.२२) । तवाहम्( सा० ९२२-३) इति महादिवाकीर्त्यस्य ( र० २.२ .१०) पुरोजिती( सा०

131

गवामयनम्-आवृत्ताः स्वरसामानः म्र. २. ख. ६

६९७-९)ति विकर्णस्य ( र० २ .३.५) च बृहत्पृष्ठे विनियोगः । यथोक्तम्-बृहत्पृष्ठश्चेदग्रियवती प्रतिपदि(ला० श्रौ० सू० ४.७ .१) त्यादि । श्रायन्त इति विकर्णस्य उच्चा ते इत्यग्नेर्व्रतस्य चास्मिन् प्रदेशे यदध्ययनं तस्य प्रयोजनमन्वेष्यम् ।। ७ ।।
इति विषुवान् ।। ५ ।।
आवृत्ताः स्वरसामानः
अथोत्तरस्मिन् पक्षसि त्रयः स्वरसामान आवृत्ताः । एत- एवावृत्ता ऊर्ध्वं विषुवतोऽभिप्लवाः । तेषां प्रतिलोममहान्युपेयु पृष्ठस्वरसाम्नां चे- ( ला० श्रौ० सू० ३. ४. १८-२० ति वचनात् । तेषां विशेषमाह
इन्द्र क्रतुं न आभर ( सा० १४५६-७) इति महावैष्टम्भं ( ऊ० ९ .१ .१७) श्यैत-( ऊ० ९.१. १९) नौधसे ( ऊ० ९.२ .१) । एतानि ब्रह्मसामान्यावृत्तानां स्वरसाम्नामभीवर्तलोके । पौष्कलं राथन्तरयोः (ऊ० ९ .१. १८) । श्रुध्य (ऊ० ९. १ .२०) बार्हतस्य सुज्ञानलोके ।। १ ।
यत् पुरस्तात् समान प्रगाथो भवति । अन्यदन्यत् सामे( तां० ब्रा० ४. ३ .८ ति श्रुते. । अभीवर्तस्थाने इन्द्रक्रतौ नानाब्रह्मसामानि विहितानि । सुज्ञानमपि पौर्वपक्षिकमेवेति तत्स्थाने राथन्तरयोः स्वरसाम्नोः पौष्कलम् । बार्हतस्य च स्वरसाम्नः श्रुध्यं विहितम् । तत्रावृत्तानां स्वरसाम्नां प्रथमो दविद्युतत्या रुचेत्यादिकः । तस्येन्द्र-

132

क्रतौ महावैष्टम्भं ( ऊ० ९. १.१७) ब्रह्मसाम । सुज्ञानलोके पौष्कलम् ( ऊ० ९.१.१८) । द्वितीयस्तु स्वरसामा पवस्व वाचो अग्रिय इत्यादिक एव । तस्येन्द्रक्रतौ श्यैतं ( ऊ० ९.२.१९) ब्रह्मसाम । इन्द्रमच्छेति सुज्ञानस्थाने श्रुध्यम् (ऊ० ९.१. २०) । बृहन्निधनयोः स्वरयोः पूर्वस्य स्थाने उत्तरम् । तृतीयस्तूपास्मै गायता नर इत्यादिकः । तस्येन्द्रक्रतुमिति नौधसं (ऊ० ९.२.१) ब्रह्मसाम । पवते हर्यतो हरिरितिसुज्ञानस्थाने पौष्कलम् (ऊ० ९.२.२) । शेषं पूर्ववत् ।। १ ।।
इति आवृत्ताः स्वरसामानः ।। ६ ।।
विश्वजित्
अथ विश्वजितमाह-
उप त्वा जामयो गिरो ( सा० १५७०) जनीयन्तो न्वग्रव ( सा० १४६०.२) उत नः प्रिया प्रियासु ( सा. १४६१.) तत्सवितुर्वरेण्यं ( सा० १४६२.) सोमानं स्वरणम् ( सा० १४६३.) अग्न आ याहि ( आयूंषि?) पवसे ( सा० १४६४.) पवमानस्य ते कवे ( सा० ६५७-९) ।। १ ।।

इति बहिष्पवमानम् ।।
आद्याः षडेकर्चाः । उत्तमस्तचः । उत्तमस्तृचो भवती( तां० ब्रा० ११.६.८ )ति श्रुतेः । संभवति स्तोमेऽन्त्यं सर्वत्र तृच (इति), वचनाच्च । नानादैवतं बहिष्पवमानम् । अग्निः सरस्वती सरस्वान् सविता ब्रह्मणस्पतिरग्निः पवमानः इति षण्णामृचां क्रमेण देवताः । पावमान उत्तरस्तृचः ।। १ ।।

133

गवामयनम्-विश्वजित् अ. २. ख. ७ ।

सुषमिद्धो न आ वह (सा० १३४७-५०) ता नः शक्तं पार्थिवस्य (सा० १४ ६५-७) युञ्जन्ति ब्रध्नमरुषं (सा० १४ ६८- ७०) तमीडिष्व यो अर्चिषा (सा० ११४९-५१) ।। २ ।। इत्याज्यानि
सुषमिच्चतुर्ऋचे यथागोत्रं उद्धारप्रकारः उक्तः ।। २ ।।
अस्य प्रत्नामनु द्युतम् (सा० ७५५-७) इति गायत्रं चामहीयवं ( ऊ० ९.२. ३) च । परीतोषिञ्चता सुतम् (सा० १३१३ .५) इति कालेयमेकस्याम् (ऊ० ९.२.४) । रथन्तरं तिसृषु ( र० २.२.६) दैर्घश्रवसं तिसृषु (ऊ० ५.२.४) यौधाजयमेकस्याम् ( ऊ० ७ .२.५) । अयं सोम (सा० १४७१-३) इति पार्थम् (ऊ० ९.२.५) अन्त्यम् ।।३ ।। [ इति माध्यंदिनः पवमानः ।।]
शशकर्णक्लृप्ता बृहती । रथन्तरस्तवनकाले रथघोषः कर्तव्यः । विश्वजिति वैराजे धर्मान् कुर्यात् । इतरेष्वपि पृष्ठेष्वित्याचार्यमति?- ला० श्रौ० ३ .६.२०-२१ )इति वचनात् ।। ३ ।।
वैराजं (र० १. १ .१०) च महानाम्न्यश्च (र०प०शि०) वैरूपं च (र० १. १. ७) रेवत्यश्च (र० २.२. ७) ।। ४ । इति पृष्ठानि ।।
वैरजं पिबतु सोम्यं मधु इति पृष्ठहोमः । एषां पृष्ठानां धर्माः पृष्ठ्ये दर्शिताः ।। ४ ।।
परि स्वानो गिरिष्ठाः ( सा० १०९३ ५) इति गायत्र-संहिते (ऊ० ९ .२.६) । पवस्वेन्द्रमच्छे-( सा० ६९२-६ )ति सत्रासाहीय- ( ऊ ० ९.२. ७) श्रुध्ये (ऊ० ९. १. २०) । पर्यूषु (सा० १३६४-६) इति वामदेव्यम् (ऊ० ९.२.८) । पुरोजिती वो अन्धस (सा० ६९७ ९) इति आन्धीगवमेकस्याम्

134

(ऊ० १.१. १२) गौरीवितमेकस्याम् ( ऊ० ४ १ १३) । यद्वाहिष्ठीयमेकस्याम् ( ऊ० ९. २.९) । यज्ञायज्ञीयं तिसृषु (ऊ० ८ .२ .१६) । परि प्र धन्वे(सा० १३६७-९) ति द्विपदासु वारवन्तीयम् ( ऊ० ९.२.१०) सूर्यवतीषु कावम् (ऊ० ९ .२ .११) अन्त्यम् ।। ५ ।।
[ इति आर्भवः पवमानः ।।]
पर्यूष्विति पिपीलिकामध्यानुष्टुप् । परिप्रधन्वेत्यक्षरपङ्क्ति ।। ५ ।।
त्वमग्ने यज्ञानां होते-( सा० १४७४-६ )ति बृहदग्निष्टोमसाम (र० २ .२.८) ।। ६ ।।
तस्य गायत्री छन्दः । स्तुतिकाले दुन्दुभिघोषः कार्यः ।। ६ ।।
सर्वस्तोमस्य सतः चतुरावृत्ताः स्तोमास्त्रिःप्रणया । ७ ।।
इति । अभिजित् स्तोमकल्पानुसारेण व्याख्येयः । अत्र श्रुतिः- चतुरस्त्रिवृद्विश्वजितः प्रणयन्ति । चतुरः पञ्चदशश्चतुर सप्तदश (तां० ब्रा० १६.४. १३) इति । एवं त्रिवृद्बहिष्पवमानम् । पञ्चदशं होतुराज्यम् । सप्तदशं मैत्रावरुणस्य । एकविंशं ब्राह्मणाच्छंसिनः इति प्रथमः प्रणयः । पञ्चदशमच्छावाकस्य । सप्तदशो माध्यंदिनः पवमानः । एकविंशं होतुः पृष्ठम् । त्रिणवं मैत्रावरुणस्येति द्वितीयः । सप्तदशं ब्राह्मणाच्छंसिनः । एकविंशमच्छावाकस्य । त्रिणव आर्भवः । त्रयस्त्रिंशोऽग्निष्टोमः इति तृतीयः । एवं चतुरावृत्ता स्तोमा त्रिष्प्रणयाः ।। ७ ।।
इति विश्वजित् ।। ७ ।।
पृष्ठ्याभिप्लवावावृत्तौ
अथ त्रयस्त्रिंशारम्भणः पृष्ठ्यः षडहः तस्य षण्णामह्नां
विशेषमाह-

135

गवामयनम्-पृष्ठ्याभिप्लवौ [अ. २. ख. ८

पौरुमीढं ( ऊ. ९ .२. १२) मानवं ( ऊ० ९.२.१३) जनित्रं ( ऊ० ९.२. १४) भारद्वाजं ( ऊ० ९.२ .१५) वासिष्ठं ( ऊ० ९.२.१६) गौङ्गवं ( ऊ० ९.२. १७) शुद्धाशुद्धीयं ( ऊ० ९.२ .१८) वैत एकर्चाः । आवृत्तस्य पृष्ठस्याभीवर्त्तलोकः ।। १ ।।
तत्र प्रथमं त्रयस्त्रिंशमहरसृक्षत प्रवाजिन इत्यादिकम् । तस्य पवमानाभ्यर्षसीत्यभीवर्तस्थाने पौरुमीढम् । षष्ठेऽहनि संस्थिते इत्यादि-निदानोक्ताः षडहसंस्थाधर्मा अस्मिन्नहनि कर्तव्याः । कथमावृत्ते पृष्ठे संस्थाधर्मा इत्युपक्रम्य त्रयस्त्रिंशेस्य त्वेव संस्थायामित्याचार्या (नि. सु. ४ .५) इत्यादिनिदानवचनात् । पवमानस्य विश्वविदि-त्यादि त्रिणवमहर्द्वितीयम् । तस्य मन्द्रया याति धारयेत्यभीवर्तस्थाने पूर्वं मानवम् । पवमानो अजीजनत्-पुनानो अक्रमीदभि इत्याद्येकविंशमह-स्तृतीयम् । तस्य परिधिँ रति ताम् अभीवर्तलोके जनित्रम् । दविद्युतत्यादि सप्तदशमहश्चतुर्थम् । तस्याभिसोमास आयव इति प्रथमायामभीवर्तलोके भरद्वाजम् । पवस्व वाचो अग्रिय इत्यादिकं पञ्चदशमहः पञ्चमम् । तस्मिन्नुत्सो देवो हिरण्यय इत्यभीवर्तस्थाने वासिष्ठम् । उपास्मै गायता नर इत्यादिकं त्रिवृदहः षष्ठम् । तस्य प्र सोम देववीतय इति प्रथमायामभीवर्तस्थाने गौङ्गवं शुद्धाशुद्धीयं वा । अन्यत् सर्वं पूर्ववत् ।। १ ।।

136

अथावृत्तस्याभिप्लवस्य षण्णामह्नां क्रमाद्विशेषमाह- इन्द्र क्रतुं न आ भरे ( सा० १४५६-७ )ति पौरुमीढं (ऊ० ९.२.१९) मानवं (ऊ० ९.३.१) जनित्रं (ऊ० ९.३.३) भारद्वाजं (ऊ० ९.३.५) श्यैत( ऊ० ९ १. १९) नौधसे (ऊ० ९.२.१) । एतानि ब्रह्मसामान्यावृत्तस्याभिप्लवस्याभीवर्तलोके । पौष्कलं (ऊ० ९.३ .२) राथन्तराणां श्रुध्यं ( ऊ० ९.२. २०) - बार्हतानां सुज्ञानलोके ।। २ ।।
इति । तत्र प्रथमस्याह्नः कल्पः-असृक्षत प्र वाजिनः(सा० १० ३४-६.) एतमु त्यं दश क्षिप (सा० १०८१ - ३) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानमित्यादि । इन्द्र क्रतुं न आभरेति पौरुमीढं ब्रह्मसामाभीवर्तस्थाने । तं वः सखाय (सा० १०९८ - ११००) इति सुज्ञानस्य श्रुध्यम् (ऊ० ९.२.२.) ।।
द्वितीयस्याह्नः--पवमानस्य विश्वविद् (सा० ९५८-६०) इत्यादि । इन्द्रक्रतुमिति मानवाद्यं ( ऊ० ९.३. १) ब्रह्मसाम । प्राणा शिशुर्(सा० १०१३ - ५ इति सुज्ञानलोके पौष्कलम् (ऊ० ९.३.२) ।।
तृतीयस्याह्नः-पवमानो अजीजनत् ( सा० ८८९-९१) इत्यादि । इन्द्र क्रतौ जनित्रं ( ऊ० ९.३. ३) ब्रह्मसाम । सोमः पुनान इति सुज्ञानलोके श्रुध्यम् (ऊ ० ९. ३. ४) ।।
चतुर्थस्याह्नः- दविद्युतत्या रुचे ( सा० ६५४-६) त्यादि । इन्द्र-क्रतुमिति भारद्वाजं (ऊ ० ९.३.५) ब्रह्मसाम । सखाय आ निषीदते-(सा० ११५७-९ )ति सुज्ञानलोके पौष्कलम् (ऊ० ९.१. १८) ।।
पञ्चमस्याह्नः- पवस्व वाचो अग्रिय (सा० ७७५-७) इत्यादि । इन्द्रक्रतौ श्यैतं (ऊ ० ९.१. १९) ब्रह्मसाम । इन्द्रमच्छे-( साम ६९४ - ६) ति सुज्ञानस्थाने श्रुध्यम् (ऊ० ९.१ .२ ०) ।।


137

गवामयनम्-आयुः अ, २ ख. ९

षष्ठस्याह्नः-उपास्मै गायता नर (सा० ६५१ -३) इत्यादि । इन्द्रकतुमिति नौधसं ( ऊ० ९. २. १) ब्रह्मसाम । पवते हर्यत ( सा० ७७३-) इति सुज्ञानलोके पौष्कलम् (ऊ० ९. २ . २) ।। अन्यत्सर्वमुक्तम् ।। अत्र च त्रिष्वभिप्लवेषु कर्तव्येषु आवृत्तानां चतुर्णामभिप्लवानां यः प्रथमः शाक्वरवर्णवाँस्तस्य लोपः । उत्तरे अभिप्लवे दशरात्र-समीपे त्रिषु चतुर्णामावृत्तानां प्रथमो लुप्येतेति धनंजय उत्तम इषो-वृधीय समन्ते स्यातामिति । विपरीतमेतच्छाण्डिल्यायनस्य । विषुवत्समीपे च । त्रिष्वभाव ( ला० श्रौ० ३ .४. २१-२३) एवमुत्तरस्मिन् पक्षसि प्रथमस्य मासस्य अष्ष्टाविंशतिरहानि । द्वात्रिंशदुत्तमे । द्वे त्वहनी पुरस्तात् भविष्यतः । पुनरावृत्तं पृष्ठ्यमावृत्तांश्चाभिप्लवान् कुर्युः । स मासः । तथैव अपरे त्रयो मासाः । अथ षष्ठे मासि त्रयोऽभिप्लवाः पूर्ववत् ।।
इति पृष्ठ्याभिप्लवावावृत्तौ ।। ८ ।।
आयुः
आयुष्टोममाह-
ज्योतिष्टोममाज्यबहिष्पवमानम् । गायत्री च । १ ।।

138

गायत्रीशब्देनात्र माध्यंदिनाद्यो गायत्रस्तृचः ससामा कथ्यते । उप-दवि-पवे(सा. ६५१ -९)ति बहिष्पवमानम् । अग्न-आनो मित्रा- आयाहि - इन्द्राग्नी-(सा० ६६०-७१) इत्याज्यानि । उच्चा ते-(सा० ६७२-४) इति गायत्रं चामहीयवं च ।। १ ।
अभि सोमास आयव (सा० ८५६-८) इति द्विहिंकारं च (ऊ ० ४.२.७) वार्कजम्भं च यद् बृहन्निधनं (र० २.२.९) मैधातिथं (ऊ ० ९. ३. ३) च रौरवं (ऊ० ७. १. १३) वा यौधाजयम् । (ऊ ० ८.२ .१९) औशनम् ( ऊ० १ .१. ४) अन्त्यम् ।। २ ।।
 इति माध्यंदिनः पवमानः ।।
द्विहिंकारं प्रथमायाम् । यौधाजयमध्यास्यायाम् । । २ ।।
रथन्तरं च ( र० १.१. १) वामदेव्यं (ऊ० १. १ .५) च । इन्द्र क्रतुं न आ भरे-(सा० १ ४५६-७)ति नोधसं (ऊ ० ९.२. १) स्वासु कालेयम् (ऊ० १ . १. ७) । ३ ।।

इति पृष्ठानि ।।
स्वादिष्ठये (सा० ६८९ - ९१) इति गायत्र-संहिते (ऊ० १ .१. १८) । पवस्वेन्द्रमच्छे(सा० ६९२ - ६)ति सफ-( ऊ० १. १. ९) पौष्कले (ऊ० १. १. १०) । पुरोजिती वो ( सा० ६९७-९) इति गौरीविता(ऊ० ४ .१. १ ३)न्धीगवे (ऊ० १ . १. १२) । कावम् (ऊ० १. १. १३) अन्त्यम् । ४ ।
इत्यार्भवः पवमानः ।।
यज्ञायज्ञीयमग्निष्टोमसाम ( ऊ० १. १. १४) ।। ५ ।।
प्रमँहिष्ठीयं (ऊ० २. २. ५) हारिवर्णम् ( ऊ ० २. २. ६) उद्वंशीयम् (ऊ० १. ८) इत्युक्थानि ।। ६ ।।

139

गवामयनम्-गौः अ. २. ख. १०

आयुष्टोमस्तोमः ।। ७ ।।
त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि । सप्तदशं माध्यंदिनं सवनम् । एकविंशं तृतीयसवनम् । सोक्थमिति स्तोमः । । ७ ।। इति आयुः ।। ९ । ।
गौः
गोष्टोममाह- पवस्व वाचो अग्रियो ( सा० ७७५-७) दविद्युतत्या रुचा (सा० ६५४- ६) पवस्वेन्दो वृषा सुतो ( सा० ७७८-८०) वृषा सोम द्युमाँ असि (सा० ७८१ -३) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।
इति बहिष्पवमानम् ।।
अग्निं दूतं वृणीमहे (सा० ७९०-८; ७९९ - ८०२) ।। २ ।।
इत्याज्यानि ।।
अस्य प्रत्नामनु द्युतम् ( सा० ७५५-७) इति गायत्रं चामहीयवं च (ऊ० ९.२. ३) । परीतो षिञ्चता सुतम् ( सा० १०१३-५) इति समन्तं (ऊ० ९ .१ .३) च वार्क-जम्भं च यदीनिधनम् (र० २. २. १०) दैर्घश्रवसं ( ऊ० ५, २ .४) च बार्हदुक्थं (ऊ० ९.३. ७) वा । यौधाजयम् ऊ०. ७.२. ५) । अयं सोम ( सा० १४७१-३) इति पार्थम् (ऊ० ९ .२. ५) अन्त्यम् ।। ३ ।।
[ इति माध्यंदिनः पवमानः ।।
समन्तं प्रथमायाम् । यौधाजयमध्यास्यायाम् । ३ ।।
बृहच्च (र० १. १. ५) वामदेव्यं ( ऊ० १. १.५) च । इन्द्र क्रतुं न आ भरे (सा० १ ४५६- ७)ति श्यैतं ( ऊ० ९.१ .१९) स्वासु कालेयम् (ऊ० १. १. ७) ।। ४ ।।
इति पृष्ठानि ।।

140

यस्ते मदो वरेण्य ( सा० ८१५-७ इति गायत्रमौक्षै (ऊ० ४. १ .१०) । पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-(ऊ ० १. १. ९) श्रुध्ये (ऊ० ९. १ .२०) । पुरोजिती वो अन्धस (सा० ६९७-९) इति गौरीवितस्(ऊ० ४. १ .१३) न्धीगवे (ऊ० १. १ .१२) । सूर्यवतीषु कावम् (ऊ०९.२.११) अन्त्यम् ।। ५ ।।
[ इत्यार्भवः पवमानः ।।
यज्ञायज्ञोयमग्निष्टोमसाम (ऊ० १. १ .१४) ।। ६ ।।
साकमश्वं (ऊ० १. १. १५) सौभरम् (ऊ ० १. १. १६) उद्वंशीयम् (ऊ० ६. १. ८) इत्युक्थानि ।। ७ ।।
गोष्टोमस्तोमः ।। ८ ।।
पञ्चदशं बहिष्पवमानम् । त्रिवृन्त्याज्यानि । सप्तदशं माध्यंदिनं सवनम् - । एकविंशं तृतीयसवनम् । सोक्थमिति स्तोमः ।। ८ ।।
इति गौ. ।। १० ।।
अथ द्वादशाहस्य दशाहानि त्रिवृदहरारभ्याविवाक्यपर्यन्तानि सत्रभूतव्यूढद्वादशाहवत् कर्तव्यानि ।।
महाव्रतम्
उपास्मै गायता नरः ( सा० ६५१३) उपोषु जातमप्तुरं (सा० १३३५-०७) पवस्व वाच अग्रियः ( सा० ७७५-७) पवस्वेन्दो वृषा सुतो (सा० ७७८-८०) दविद्युतत्या रुचै-(सा० ६५४-६) ते असृग्रमिदवो (सा० ८३०-२) यवंयवं नो अन्धसा (सा० ९७५-८) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।
इति बहिष्पवमानम् ।।

141

गवामयनम्-महाव्रतम् अ. २. ख. ११

होता देवो अमर्त्य. ( सा० १४७७-९) ता नः शक्तं पार्थिवस्य (सा० १४६५-७) सुरूपकृत्नुमूतये (सा० १ ०८७-९) आ सुते षिञ्चत प्रियम् ( सा० १४८०-२) ।। २ ।।
इत्याज्यानि ।।
अस्मिन्नहनि सर्वेषां स्तोत्राणां पञ्चविंशस्तोमः । तस्यैवं विष्टुतिः । अष्टाभ्यो हिंकरोति । स तिसृभिः । स चतसृभिः ।
स एकया । अष्टाभ्यो हिंकरोति । स एकया । स तिसृभिः । स चतसृभि । नवभ्यो हिंकरोति । स चतसृभिः । स द्वाभ्याम् ।
स तिसृभिः । स पञ्चभिः । स एकया । स तिसृभिरिति वा । तदुक्तं पञ्चविंशे-चतुर्विशस्योत्तमे पर्याये परिचरायामावपेत् इति गौतमः । आवापस्थान इति धानंजय्यः ( ला० श्रौ० ४.४. १-२) इति ।। २ ।।
अस्य प्रत्नाम् अनु द्युतम् (सा० ७५५-७) इति गायत्रं चामहीयवं ( ऊ० ९.२.३) च जराबोधीयं (ऊ० ९. ३.१०) च सत्रासाहीयं च ( ऊ० ९.१.९) । परीतो षिञ्चता सुतम् ( सा० १३१३-५) इति समन्तं (ऊ० ९.१ .३) च दैर्घश्रवसं (ऊ० ५.२.४) च रौरव-(ऊ० ९.
३. ११) यौधाजये (ऊ० ७.२. ५) । अयं सोम (सा० १४७१-३) इति पार्थम् ( ऊ० ९.२.५) अन्त्यम् ।। ३ ।।
[ इति माध्यंदिनः पवमानः ।। यौधाजयमध्यास्यायाम् । एकोऽध्यास्यायामेवान्ततः इति वचनात् ।। ३ ।। व्रतं पृष्ठम् ।। ४ ।। वक्ष्यमाणं व्रतसंज्ञं होतुः पृष्ठमित्यर्थः ।। ४ ।।
त्रयोदश परिमादो ब्रह्मणक्लृप्ताः ।। ५ ।।

142

प्राणेन पुरस्तादित्यादि ब्राह्मणेन (तां०ब्रा० ५.४. १ १३) त्रयोदश परिमात्संज्ञकानि पृष्ठाङ्गत्वेन क्लृप्तानीत्यर्थः । एतेषां पृष्ठाङ्गत्वं पृष्ठस्य पञ्चविंशसंपत्सिद्ध्यर्थमुक्तम् । तथा चोपग्रन्थः शिरःपक्ष-पुच्छानां परिमाद्भिस्त्रय पञ्चविंशा ( उ०ग्र०सू० १.२) इति । तदर्थमेवैषां परिसामत्वेऽपि सकृद्गान सूत्रे विहितम् ।। ५ ।।
इन्द्रमिद्गाथिनो बृहत् ( सा० ७९६-८ ) इन्द्रो दधीचो अस्थभिः ( सा० ९१३-५) उद्घेदभि श्रुतामघम् (सा० ८००-२) इति त्रिवृच्छिरो गायत्रम् । पञ्चदशं रथन्तरं (सा० ६८०-१; र० १. १. १) दक्षिणः पक्षः । सप्तदशं बृहद् (सा० ८०९- १०; र० १. १. ५) उत्तरः । एकविंशं भद्रं (सा० १११०-२; र० १ . १. २ ०) पुच्छम् । तदिदास भुवनेषु ज्येष्ठम् (सा० १४८३-५) इति पञ्चविंश आत्मा राजनम् (र० २.२.११) ।।६।। इति । व्रतसंज्ञकं पृष्ठमुक्तम् । पृष्ठहोमे महाव्रतं पिबतु सोम्यम् इति विशेषः । महाव्रतामिति व्रत इति वचनात् । गायत्ररथन्तर०बृहद्राजनानि पिबतु सोम्यं मध्वायुर्दधन्ति यज्ञपताविति वा । यावन्ति पृष्ठस्थानि स्युः सर्वाण्येव प्रसंचक्षीत । पिबतु दधदिति च यथार्थमूहेदिति वचनात् । पूर्वं तु गौतमीयं मतम् । इन्द्रमिद्गाथिन इति तृचत्रयम्, रथन्तरबृहद्भद्राणां तृचत्रयम्, तदिदासेति तृचं सदस्येव जपेयुः । अथवा तानि तत्तत्स्तोत्रदेश एव जपेयुः ।

143

गवामयनम्-महाव्रतम् [अ. २. ख. ११

अङ्गानां मुख्यदेशत्वात् । वृहद्रथन्तरयोस्तु ऋक्जपानन्तरं यथायोगं दशव्याहृतिजपो यस्ते गोष्विति जपश्च कार्यः । व्यपैति वै खलु गायत्रं वृहद्रथन्तरयोर्जपान्व्रते ( उ०प्र०सू० ३.५) इत्युपग्रन्थवचनात् । अथोपाकृते पृष्ठे युक्त्वा स्तोमं परिमादो गायेदिति भाडितायनो मन्यते । ऋग्जपं कृत्वा प्रतिगृह्य तृणे अयुक्त्वेति गौतमशाण्डिल्यौ धानंजय्यश्च । ऋग्जपं कृत्वा प्रागेव स्तोत्रोपकरणादित्येके । पूर्वया द्वारा निष्क्रम्य दक्षिणेनाग्नीध्रीयं महाग्निचयनमुत्तरेण गत्वा प्राणप्रभृतिभिरुपतिष्ठेरन् । सर्वाणि सामान्युद्गाता सकृत् सकृत् गायेत् । निधनं प्रस्तोतृप्रतिहर्तारावनूपेयाताम् । मध्येनिधनेष्वपि सामसु मध्येनिधनान्यनूपेयाताम् । आद्यन्तस्तुब्धेषु पारमात्सु पदाय पदाय स्तोभेत् । अग्निचयनस्य पुरस्तात् प्रत्यङ्मुखास्तिष्ठन्तः प्राणेन साम्नाहवनीयमुपतिष्ठेरन् । तस्य वसिष्ठस्त्रिष्टुबिन्द्र इति ऋषयः । हाउहाउहाउ श्वासं कृत्वा आयुः सत्यमित्यादिस्तोभान् पदाय पदाय ब्रूयात् । तेनैव पथा प्रत्यावृज्य पुच्छस्य पश्चात् तिष्ठन्तोऽपानेन साम्ना पुच्छमुपतिष्ठेरन् । वसिष्ठस्त्रिष्टुबिन्द्रः । हाउहाउहाउ निरुच्छवासं कृत्वा आ नो आयाहीत्येत्यादि पदाय पदाय स्तोभेत् । हाउ ३ । हिं हिं हिं । इहा । हिं इति व्रतपक्षयोः पूर्वेण

144

साम्ना दक्षिणं पक्षमुपतिष्ठेरन् । उत्तरेण साम्नोत्तरम् । प्रजापति-स्त्रिष्टुबिन्द्रः । पदाय पदाय स्तोभेत् । प्राङ्मुखा एव प्रजापतेहृदयेनापि कक्षमुपतिष्ठेरन् । पश्चिमेन पक्षावपि कक्षावित्युक्तम् । तस्य ऋषिः प्रजापतिः । देवता च । छन्दो नास्ति । एहृदयामिति त्रिरुक्तमन्त-र्निधनम् । प्रजारूपमित्यादि निधनम् । विश्वे देवा इति वसिष्ठस्य निहवेन चात्वालमुपतिष्ठेरन् । वसिष्ठो जगती विश्वेदेवाः आइही-त्यादि पदाय पदाय स्तोभेत् । चात्वालमुपस्थायोत्तरेणाग्नीध्रीयं गत्वा तस्य पश्चात् प्राङ्मुखस्तिष्ठन्तोऽपि चात्वालस्थानस्था एव प्रत्यङ्मुखाः सत्रस्यर्ध्याग्नीध्रीयमुपतिष्ठेरन् । तस्य ऋषयो देवताश्च विश्वेदेवाः । अगन्म ज्येतिरित्यादिभ्यो देवतापदेभ्यः प्रत्येकम् औहोवेति स्तोभेत् । तेषां पदवत्प्रवृत्तेः । अगन्म ज्योतिः । अमृता अभूम । अन्तरिक्षं पृथव्या अध्यारुहाम । दिवमन्तरिक्षादध्यारुहाम । अविदाम देवान् । समु देवैरगन्महि । सुवर्ज्योतिरिति निधनानि । तस्योत्तमं निधनं यावदुच्छ्वासं ब्रूयुः । हाउ स्वरता ब्रह्माण इन्द्रमिति श्लोकेन साम्ना हविर्धाने उपतिष्ठेरन् । पुरस्तात् प्रत्यङ्मुखा । हाउ अभिस्वरतेति अनुश्लोकेन च पश्चात् प्राङ्मुखाः । तयोः प्रजापतिः ऋषिः । द्विपदादित्रिष्टुप् छन्दः । इन्द्रो देवता । तत एवेक्षमाणा औहोइनाके सुपर्णमिति यामेन द्वन्द्वेष्वधीयमानेन मार्जालीयमुपतिष्ठेरन् । यम ऋषिः । त्रिष्टुप् छन्दः । सुपर्णवरुणयमा देवताः । आयुर्नवस्तोभयोः पूर्वेण साम्ना ठपतिष्ठेरन् । पुरस्तात् प्रत्यङ्मुखाः । ठत्तरेण पश्चात्

145

गवामयनम्-महाव्रतम् [अ. २. ख. ११

प्राङ्मुखाः उपतिष्ठेरन् । हाउहाउहाउवा । विश्वतो दावन्नित्यायुर्नवस्तोभे । प्रजापतिर्द्विपदा विष्टारपङ्क्तिरिन्द्र । तयोरन्तर्निधनान्युक्तानि । अन्तर्वेदि प्रत्यङ्मुखास्तिष्ठन्तः ऋश्यस्य साम्ना गार्हपत्यमुपतिष्ठेरन् । तस्यैव पश्चात् प्राङ्मुखा वा । गार्हपत्यः शालामुखीयः । हरी त इन्द्रे इति ऋश्यस्य साम्नः कश्यपोऽनुष्टुबिन्द्रः । ऋष्यास इन्द्रेत्यादि निधनम् । अत्र सूत्रम्--इन्द्रप्रभृति प्रत्यक्षं निधनमुपेयुः (ला० श्रौ० ३.९ .२२) इति इन्द्र तसरपूतेति संबुद्ध्य तं ब्रूयुरित्यर्थ । निदानं तु ह्रस्वं प्रत्यक्षं द्राघितं परोक्षम् ( नि० सू० ६. ७) इत्यादि । एवं परिमाद्भिश्चरित्वा राजानं संनाहयेयुः । वर्मप्रतिमोकव्यतिरिक्तं खङ्गधनुरादिबन्धनं कारयेदुद्गाता । तस्य राज्ञो द्वयवरार्ध्यौ द्वौ रथावनुयायिनौ स्याताम् । राज्ञोऽन्ये पूर्वेण देवयजनं संनह्येरन् । राजा च सचिवाश्च दक्षिणेन देवयजनं परीयुः । पूर्वेण पत्नीशालामुद्गाता गत्वा दक्षिणे वेद्यन्ते प्राचो दर्भान् संस्तीर्य तेष्वेनं प्राङ्मुऽखमुपवेशयेत् । अथास्मै कवचं प्रतिमुञ्चेत् । उत्तिष्ठ राजन्निति गोप्तेत्यन्तेनान्यस्मिन् वा प्रतिमुञ्चति । राजान-मनुमन्त्रयेतानेन मन्त्रेण । अथोद्गाता पश्चिमेन पर्याहीत्युक्तो राजा सचिवैः सह देवयजनस्य पश्चिमेन प्रदक्षिणं परिगच्छेत् । उद्गाता पूर्वेण पत्नीशालां प्रत्यावृज्योत्तरस्मिन् वेद्यन्ते पूर्वेणाग्नीध्रीयं राजानमवस्थाप्य ब्रूयात् । हस्तत्रमित्यादि चतुर्थमित्यन्तम् । तस्यार्थः । हस्तत्राणं चर्म हस्ते बधान । उद्गतज्यं धनुः कुरु ।

146

त्रीनिषूनयोमयानुपकल्पयस्व । चतुर्थमिषुं यमेव कंचनानियमेन कल्पयस्वेति प्रतिधत्स्व काण्डधनुषीति ब्रूयात् । प्रतिदधानं राजानमनुमन्त्रयेत वैणावतायेति धारयात्रेत्यन्तेन । सहसा तिष्ठेति च ब्रूयात् । राजा च धनुषः काण्डमनुपनीयानुयायिनामन्यतमं रथमातिष्ठेत् । यजमानपरिचारका उत्तरेणाग्नीध्रीयं पूर्वापरे चर्मणी विबध्नीयुः । दक्षिणेन रथपथं शिष्ट्वा । अथोद्गाता राजानं ब्रूयात् । प्रदक्षिणं देवयजनं परीयादित्यादि विस्रम्भयेयुरित्यन्तम् । तस्यार्थः । देवयजनं प्रदक्षिणं परिगच्छन्नेव चर्मणोः पूर्वं चर्मागमनेषु विध्येत् । कथमेकैकेनायोमयेनेषुणोत्तरोत्तरम् प्रथमस्योपरि द्वितीयम् तस्योपरि तृतीयम् अनतिपातयन् अतिशयपतनमकुर्वन् अपरस्मै चर्मणे सचिवाय यथासौकर्यमस्येयुः । तृतीयेनेषुणा विध्योदङ् प्रयायाः सचिवैः सह । तथा चतुर्थमिषुं यां दिशं मन्येथास्तां प्रत्यस्येरव ब्रह्मद्विषो जहीति । गां दृष्ट्वा अवतिष्ठेथाः । तत्र क्वापि गतः संनाहं कुर्युरिति । ततोऽन्यं ब्राह्मणं प्रतिप्रदक्षिणं देवयजनं परीयादित्यादि प्रैषार्थः । हिंकारवेलायामिमं राजानं कारयेत्युक्त्वा उद्गाता भूमिदुन्दुभिमाव्रजेत् । पश्चादाग्नीध्रीयस्य श्वभ्रं

147

गवामयनम्-महाव्रतम् [अ. २. ख. ११

दुन्दुभ्याकृतिकमर्धमन्तर्वेदि अर्धं बहिर्वेदि खातं भवति । स भूमिदुन्दुभिः आर्षभेणोत्तरलोम्ना चर्मणा आच्छादितः स्यात् । तं च त्वं वागसीत्यादिस्त्रिभिः मन्त्रैः प्रतिमन्त्रमुद्गातारो वलधानेनाहन्युः । अन्यं वा घ्नन्तमेतैर्मन्त्रैरनुमन्त्रयेरन् । ऐकाहिकव्रते आहीनिकव्रते च त्वं वागसीत्यादिमन्त्रे सत्रशब्दस्थाने यज्ञशब्दः प्रयोक्तव्यः । यज्ञे अनन्दिषुरिति अनुमन्त्र्याप उपस्पृश्य यथैतं प्रत्यावृज्य पश्चात्तिष्ठन्तश्चित्यमग्निमुपतिष्ठेरन । नमस्ते गायत्र्यादिना शिरः; नमस्ते रथन्तरायेति दक्षिणं पक्षम्, नमस्ते यज्ञायज्ञीयायेत्यादिना पुच्छम्, नमस्त वामदेव्यायेत्यादिना मध्यम् उपतिष्ठेरन् । ब्राह्मणे पक्षान्तरत्वेन यज्ञायज्ञीयं पुच्छं वामदेव्यं चात्मा विहितमिति तल्लिङ्गाभ्यां मन्त्राभ्यां पुच्छमध्ययोरुपस्थानम् । सूत्रकारेणोक्तम्- यदा तु भद्रराजने पुच्छात्मने तदा नमस्ते भद्रायेति पुच्छं नमस्ते राजनायेति मध्यं चोपतिष्ठेरन् । अथ सर्वमग्निं नमस्ते गायत्रायेत्यादि मध्यमित्यन्तम । तेन समस्तेन मन्त्रेण तस्मै त इति धेहीत्यन्तेनोपस्थाय सदः प्रविशेयुः । तत्र सर्वे सहर्त्विजो महाव्रतेन स्तुवीरन् इति ब्राह्मणेनोक्ते विहृत्य स्तवनपक्षे अग्न्युप-स्थानानन्तरमव सदःप्रवेश । तस्मिन् हि पक्षे सदस्येव शिरः- प्रभृतिभिः सर्वैः स्तवनम् । उद्गातैव सर्वेणोद्गायेदित्यस्मिंस्तु पक्षे हविर्धाने शिरसा स्तुत्वेत्यादिक्रमेण सदः प्रविशेयु । तत्रायं प्रयोगः । शिरःपक्षपुच्छानां भेदेन कुशाविधानम् । कुशाविधान-वसनानि च भिन्नानि भिन्नानि । अग्न्युपस्थानं कृत्वा हविर्धानस्य पूर्वया द्वारा प्रपद्य हविर्धानमध्ये सोमपात्राणामुत्तरतः इन्द्रमिद्गाथिनो बृहद् इन्द्रो दधीचो अस्थभिर् उद्घेदभि श्रुतामघम्-इति

148

गायत्रेणानिरुक्तेन त्रिवृत्स्तोमेन स्तुवीरन् । इन्द्रमिद्गा चतुर्ऋचे अन्त्याया उद्धारः । संधिषामवत्परिवर्तिन्या विष्टुत्या कुशाविधानम् । गायत्रादीनां शिरःप्रभृतिसंज्ञया पक्षिरूपं वर्णयति श्रुतिः । शिरः-संज्ञकस्य गायत्रस्य पुष्कलो गायत्रीन्द्र इत्यृष्यादयः । यजमान- वाचनम् । अच्छिद्रजपाश्च राजनेन स्तुते सर्वेषां तन्त्रेण कर्तव्यम् । न तु तत्तत्स्त्युत्यनन्तरम् । एवं हविर्धाने शिरसा स्तुत्वा संरब्धाः प्रत्यञ्च एयुरपरया द्वारा । ते दक्षिणेन मार्जालीयधिष्ण्यं परीत्य पश्चान्मैत्रावरुणधिष्ण्यस्योपविश्य रथन्तरेण पञ्चदशेन स्तुवीरन् । स्तुत्वा वरचोदना । तथा चोपग्रन्थः- अकेवलस्तोत्रे वै खलु बृहद्रथन्तरे व्रते धर्माल्लभेते(उ० ग्र० सू० ३. ५)तेति उदञ्चः सर्पेयुर्जघनेन होतुर्धिष्ण्यम् पश्चाद्ब्राह्मणाच्छंसिनो धिष्ण्यस्योपविश्य बृहता सप्तदशेन स्तुवीरन् । ते येनैव प्रसर्पेयुस्तेन पुनः निःसृप्य हविर्धानस्य पूर्वया द्वारा निष्क्रम्योत्तरेणा-ग्नीध्रीयं परीत्य पश्चाद्गार्हपत्यस्योपविश्य पुच्छेनैकविंशेन स्तुवीरन् । एकविंशं भद्रं पुच्छमिति । भद्रेण स्तवनम् । ते येनैव निसर्पेयुः तेन पुनः प्रसृप्योत्तरेणाग्नीध्रीयं परीत्य हविर्धानस्य पूर्वया द्वारा प्रपद्य संरब्धाः प्रत्यञ्च एयुः । ते दक्षिणेन धिष्ण्यान् परीत्य

149

गवामयनम् महावृतम् [अ. २. ख. ११]

पश्चान्मैत्रावरुणस्य धिष्ण्यं गत्वा यथायातमुपविशेयुः । अथापरया द्वारौदुम्बरीमासन्दीं मौञ्जेन पूर्वं कृतबन्धनां सदसि प्रविशेयुः
यजमानपरिचारका. । उदुम्बराभावे यज्ञियस्य वृक्षस्य पलाशव्यति-रिक्तस्यासन्दी कर्तव्या । मुञ्जाभावे दर्भरशनया वा बन्धनं कर्तव्यम् । आसन्द्याः प्रादेशमात्राः पादाः कार्याः । अरत्निमात्राणीत-राण्यङ्गानि । एवंभूतामासन्दीं दक्षिणेनौदुम्बरीं हृत्वा तस्या उत्तरतो निदध्युः । तामुत्तरेणोद्गाता गत्वा पश्चादुपविश्य भूमिस्पृशो-ऽस्याः पादान् कृत्वा कूर्चावधस्तादुपोह्याभिमृशेत् । बृहद्रथन्तरे ते पूर्वौ पादाविति पूर्वपादद्वयम् । श्यैतनौधसे अपरौ । वैरूपवैराजे अनूची इति प्राचीनफलकद्वयम् । शाक्वररैवते तिरश्ची इत्युदीचीन-फलकद्वयम् । एवं पृथगङ्गान्यभिमृश्य विवयनं मौञ्जरज्जुभिर्बन्धनम् । आलभ्य जपेदृचः । प्राञ्च आ ता ना इति यज्ञायज्ञीयमित्यन्तम् । तत्र विवयनानां यथालिङ्गमालम्भः कार्यः । तामासन्दीमुखेनोरसा बाहुभ्यां च स्पृष्ट्वारोहेत् । वसवस्त्वेत्यादिभिश्चतुर्भिर्मन्त्रैः साम्राज्यायेत्यन्तैरारोहणम् । आरुह्य जपेत् । स्योनामासदं सुखदामासदं नमस्तेऽस्तु मा मा हिंसारिति । एवमारोहत्युद्गातरि प्रस्तोतृप्रतिहर्तारौ ब्रह्मा च गृहपतिश्चाहीनपक्षे सत्रे सर्वे कूर्चानारोहेयुः । आसन्द्या व्याख्यातं द्रव्यं वाणस्य । वाणशब्देन वीणाविशेष उच्यते । स उदुम्बरस्य यज्ञियवृक्षस्य वा कर्तव्यः । तस्य

150

दण्डस्याधस्ताद्भागे परिमण्डलाकारं दण्डपरिमाणात् स्थविष्ठं वक्ररूपं बिलं भवति । तस्मिन् प्रदेशे लोहितेनानडुहेनोत्तरलोम्ना चर्मणा प्रच्छादितो भवति । तस्योपरि भागे दश छिद्राणि भवन्ति । तेषूपर्युपरि दश तन्त्र्यो बद्धाः स्युः मौञ्ज्यो दार्भ्यो वा । यद्वा । दशानामपि छिद्राणां मध्ये शततन्त्र्यो बद्धाः स्युः । कथम् । चतुस्त्रिंशन्मध्यमे । त्रयस्त्रिंशावभितः । तदग्रे त्वेकैकशो बन्धनं कर्तव्यम् । तास्त्रैधं विभज्य भूर्भुवःस्वरित्येकैकया व्याहृत्योत्तरोत्तरयोदूहेत् । भूरिति त्रयस्त्रिंशतमुदूहेत् । भुवरिति चतुस्त्रिंशतमुदूहेत् । स्वरिति त्रयस्त्रिंशतमुदूहेत् । एतच्चोदूहनं पक्षद्वयेऽपि कार्यम् । तं वाणमभिमृशेत् । वदोवदेति वाणेत्यन्तेन । शिथिलांस्तन्तूनायच्छेत् । एभिर्नो वाणेत्यशीमहीत्यन्तेन । वाक् सर्वं मनो ज्योतिर्मनो भद्र इति जपित्वा वाणमिन्द्रणतये-षिकया वेतसशाखया च सपलाशया मूलदेशे वादयेत् । या स्वयं वक्रा सेन्द्रणता । प्राणाय त्वेत्यूर्ध्वमुल्लिखेत् । अपानाय त्वे-त्यवाञ्चमवलिखेत् । व्यानाय त्वा व्यानाय त्वेति त्रिःसंलिख्योदञ्चं वाणं प्रोहेत् । इमं वाणमुल्लिखन्नास्वेति ब्राह्मणमुक्त्वा आहत-दुन्दुभीन् प्रवदन्तु । वीणा इति ब्रूयात् । अलाबुवीणां वक्राकपि-शीर्ण्यौ च पूर्वस्यां द्वारि बहिस्सदसं वीणावादिनो वादयेयुः ।

151

गवामयनम्-महाव्रतम् [अ. २. ख. ११

अलाबुवीणा प्रसिद्धा । वक्रा समतन्त्रीका वेत्रवीणेत्युच्यते । कपिशीर्ष्णी मर्कटशीर्ष्णी । वक्राकपिशीर्ष्ण्यौ दुन्दुभींश्च प्रतिमन्त्रयेत यो वक्रायामित्यादि वदेत्थन्तेन । महावीणापिशीलवीणे च अपरस्यां द्वार्यन्तर्बहिर्वा वादयेयुः । चतुर्दशतन्त्रिका अलाबुवीणा महावीणा । शूर्पा वीणा पिशीलवीणा । कृष्णतन्त्रिका कनकतन्त्रिका वा । ते च प्रतिमन्त्रयेत । अलाबवी पिशीली चेत्यादि महयिष्यत इत्यन्तेन । पश्चिमेनोद्गातॄन् पत्न्यः एकैका द्वे द्वे वीणे काण्डवीणां पिच्छोरवीणां च व्यत्यासं वाद्येयुः । काण्डवीणा शरमयी ।

152

पिच्छोरा वैणवी । मयूरपुच्छमयी वा । काण्डमयीवादनेन पिच्छोरा-मुपमुखं वादयेत् । अनयोरपघाटिलेति संज्ञा । ताश्च प्रतिमन्त्रयेत । यां पत्न्यपघाटिलामिति त्वगित्यन्तेन सर्वमनुवीक्षमाणो जपेत् । आक्रन्दा उलूलय इति गीयत इत्यन्तेन । अथ जपेदुद्गाता सुपर्णो-ऽसीति यजमानानित्यन्तम् । एकयजमानके स्वर्गमयिष्यन्निमं यजमानमित्यूहः कार्यः । ब्राह्मणः पूर्वस्यां सदसो द्वारि प्रत्यङ्मुख उपविशेत् । सोऽभिगर इत्युच्यते । वृषलोऽपरस्यां द्वारि प्राङ्मुख उपविशेत् । सोऽपगरः । स शूद्रो ब्रूयान्नारात्सुरिमे सत्रिण इति । अरात्सुरित्यभिगरो ब्रूयात्। एकाहेऽहीने च नारात्सीदयं यजमान इत्यपगरः । अरात्सीदित्यभिगरः । दक्षिणेन मार्जालीयं वैश्योऽन्तर्वेदि दक्षिणामुखस्तिष्ठेत् । बहिर्वेदि शूद्र उदङ्मुखस्तिष्ठेत् वैश्याभावे यः कश्चार्यो वर्णः । तौ श्वेतं परिमण्डलं चर्म प्रतिव्यायच्छेताम् । शूद्रः पूर्वो व्यायच्छेत् । आर्यः ( अर्यः?) पश्चात् । पूर्वेणाग्निध्रीयं ब्रह्मचार्यन्तर्वेद्युदङ्मुखस्तिष्ठेत् । बहिर्वेदि पुंश्चली व्यभिचारिणी स्त्री दक्षिणामुखी तिष्ठेत् । सा ब्रह्मचारिणं ब्रूयात् । दुश्चरितिन्नवकीर्णिनिति । ब्रह्मचारी च तां प्रतिब्रूयात् । धिक्त्वा जाल्मीति शिश्नप्राणे जनीत्यन्तम् । पुनः पुंश्चली पूर्ववत् । ब्रह्मचारी च । पुनः पुंश्चली पूर्ववत् ।

153

गवामयनम्-महाव्रतम् [अ. २. ख. ११]

ब्रह्मचारी च । सर्वेषामभिगरापगरादीनां कर्मणि निष्ठिते अभिगरो-ऽरात्सुरिमे सत्रिण इति ब्रूयात् । एकयजमाने त्वरात्सीदयं यजमान इति चर्ममण्डलं मुक्त्वा शूद्रः प्रद्रवेत् । तं तेनैव चर्मणा वैश्यस्ताडयेत् । यथाकामं पुंश्चलीं ब्रह्मचारी परुषं वदेत् । पश्चिमेनाग्निध्रीयं बहिर्वेदि परिश्रिते मिथुनौ संभवेताम् । यौ वर्णौ लभेरन् । संभवो मैथुनम् । गृहपतेर्दास्योऽभीष्टा वा स्त्रियः पञ्चावरार्ध्याः पञ्चशतं परार्ध्याः पञ्चविंशतिर्वा नवान् कुम्भानुदकैः पूरयित्वा प्रदक्षिणं मार्जालीयं परीयुः हैमहा इदं मध्विदं मध्विति वदन्त्यः । ताभ्योऽपि वीणा वादयेयुः । सदसो व्यतिरिक्तासु सर्वासु स्रक्तिषु दुन्दुभीनाबध्नीयुः । वेदवेदाङ्गेतिहासपुराणादिवाचो लौकिकानि वाद्यादिघोषांश्च यथालाभमुत्तरोत्तरि व्याहरेयुः । राजनस्य हिंकारं प्रति अभिगरप्रभृतयः स्वं स्वं कर्म कृत्वा गच्छेयुः । ब्राह्मणमुक्त्वेमं हिंकारवेलायां कारयेदित्युक्तम् देवयजन-प्रदक्षिणादिगोदर्शनान्तं हिंकारवेलायां कुर्यात् । आ स्तोत्रान्तात् कुम्भिन्यः सर्वे च घोषा वीणादयो वर्तन्ते । अथ राजनव्रतम् । पञ्चविंशस्तोमः । पञ्चविंश आत्मा राजनमिति वचनात् । राजनं

154

पञ्चविंशं विदुः । इन्द्रस्त्रिष्टुबिन्द्रः । भक्तय उक्ताः । उत्तमायां स्तोत्रीयायां प्रस्तुतायां पादौ प्रसारयेत् । निधनवेलायां भूमौ प्रतिष्ठापयेत् । यजमानवचनात् ऋग्जपान्तं कृत्वा आह्रियमाणे भक्षे प्रतिलोमैरारोहणीयैर्मन्त्रैरवरोहयेत् । विश्वे त्वा देवा आनुष्टुभेन छन्दसावरोहन्तु । तानन्ववरोहामि साम्राज्यायेति प्रथमो मन्त्रः । आदित्यास्त्वा जागतेन छन्दसावरोहन्तु तानन्ववरोहामि स्वारा-ज्यायेति द्वितीयः । रुद्रास्त्वा त्रैष्टुभेन वैराज्यायेति तृतीयः । वसवस्त्वा गायत्रेण राज्यायेति चतुर्थः । एतैश्चतुर्भिरवरुह्य जपेत् । मही द्यौरिति। भरीमभिरित्यन्तम् । अतिग्राह्याणां भक्षणम् त्रिष्टुप् छन्दसा पूर्वं चमसेभ्यः । अथ नाराशंसभक्षणम् ।। ६ ।।
व्रतसंज्ञकात् पृष्ठादन्येषां स्तोमक्लृप्तिमाह-पञ्चविंशमितरत् सर्वम् ।। ७ ।।
इति ।। ७ ।।
वामदेव्यं ( ऊ० १. १.५) मैत्रावरुणसाम त्रिकद्रुकेषु महिषो यवाशिरम् ( साम १४८६-८) इति पञ्चनिधनं वामदेव्यं (र० २.२. १२) ब्रह्मसाम (र० २.२. १२) स्वासु कालेयम् ( ऊ० १. १. ७) ।। ८ ।।

इति पृष्ठानि ।।
अध आसीना वामदेव्यादिभिः स्तुवीरन् । वामदेवो-ऽतिच्छन्दा इन्द्रः ।। ८ ।।

155

गवामयनम्-महाव्रतम् [ अ. ख.११]

अथार्भवः-
परिस्वानो गिरिष्ठा ( सा० १००३-५) इति गायत्रं च स्वाशिरामर्कश्( ( र० २.२.१३) च । पवस्वेन्द्रमच्छे (सा० ६९२-६ )ति सफ( ऊ० १.१.९) श्रुध्ये (ऊ० ९.१.२०) । पुरोजिती वो अन्धस (सा० ६९७-९) इति गौरीवितं (ऊ० ४.१. १३) च मधुश्चुन्निधनं च ( ऊ० ८.२.१५) श्यावाश्वा( ऊ० १. १. ११ )न्धीगवे ( ऊ० १.१.१२) । सूर्यवतीषु कावम् (ऊ० ९.२.११) अन्त्यम् ।। ९ ।।
[ इत्यार्भवः पवमानः
गौरीवितमेकस्याम् । आर्भवे चेदेकोऽनुष्टुभी(ला० श्रौ० ६. ३. २५)ति वचनात् । एकमेकर्चं कुर्वन् प्रथमायामादितः कुर्यादि- (ला० श्रौ० ६.३.१२ )ति च ।। ९ ।।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।। १० ।।
इलान्दं वा । इलान्दमग्निष्टोमसाम कार्य (तां० ब्रा० ५.३.१ )मिति श्रुतेः । सतवश्यावीयानि सामानि व्रत (नि० सू० ५.१) इति निदानवचनाच्च । अग्निः सिद्धा विष्टारपङ्क्तिः अग्निरित्यृष्यादयः । भक्तयस्तु पूर्वमेवोक्ताः । आद्येनानुगानेन कुशास्तरणम् । इलान्दपक्षे अनुष्टुभि श्यावाश्वस्थाने यज्ञायज्ञीयं कार्यम् । अथ यत्रान्यदग्निष्टोमसाम भवति तद्यज्ञायज्ञीयमनुष्टुभि भवति (नि० सू० ६.३) इति निदानम् । अग्निष्टोमान्ते स्तोमविमोचनाद्यप्सुषोमान्तम् । अत्र विश्वजिपृष्ठ्य-दशरात्रमहाव्रतेषु अस्तूयमानमपीन्द्रक्रतुं न आभरेति ब्राह्मणाच्छंसिनानु-

156

शंसयेत् । सर्वत्रेन्द्रक्रतु ब्राह्मणाच्छंसिनोर्ध्वं विषुवत प्रागतिरात्रादि- (ला० श्रौ० ३.६. १९) ति वचनात् ।। १० ।।
इति महाव्रतम् ।।
उदयनीयः
अथोदयनीयातिरात्रस्य तस्य सर्वत्र सत्रस्यर्द्ध्यादि । तस्य क्लृप्तिमाह-
क्लृप्त उदयनीयोऽतिरात्रो यथा प्रायणीयो यथा प्रायणीयः ।। १ । इति । तस्य स्तोमविमोकादि दधिभक्षणान्ते कृतेऽवभृथमभ्यवेयुः । तदुक्तम्-उदयनीयेऽतिरात्रे संस्थितेऽवभृतमभ्यवेयु( ला० श्रौ० ४.४.१०) -रिति । उदवसनीयान्तेऽन्यानृत्विजो वृत्वा पृथक् पृष्ठ-शमनीयैर्यजेरन । उक्तः पृष्ठशमनीयः ।। १ ।।
इति उदयनीयः ।। १२ ।।
इतिवामनाचार्यसूनुः कुशिकान्वयसंभवो वरदराजः ।
संवत्सरकल्पव्याख्यां चक्रे सह प्रयोगेण ।।
गवामयनभेदा ये स्तोत्रोक्तास्तेषु केचन ।
विनियोगज्ञापनार्थमूहसाम्नामिहोदिताः ।।
ये त्वन्ये विस्तरभयादत्रास्माभिर्न दर्शिताः ।
ते सूत्र एव द्रष्टव्याः प्रीयतां पुरुषोत्तमः ।।
इति आर्षेयकल्पसूत्रव्याख्यायां श्रीवामनार्यसुतवरदराजकृतायां द्वितीयोऽध्यायः ।। २ ।।