प्रमुखा विकल्पसूचिः उद्घाट्यताम्
आर्षेयकल्पः
उपोद्घातः
मशकः
अध्यायः १ →
(श्रीवरदराजकृत - विवृत्याख्य- व्याख्या - समन्वितः)।
सोमप्रवाकः Engagement of Priests



{{{शीर्षकम्}}}

 ॐ
मशकविरचितः आर्षेयकल्पः

श्रीवरदराजकृतविवृत्याख्यव्याख्या-समन्वितः

उपोद्घातः - ज्योतिष्टोमे अग्निष्टोमपर्व

अथार्षेयकल्पो व्याख्यातव्यः । तत्र च सर्वक्रतुप्रकृतिभूतस्य त्रिपर्वणो ज्योतिष्टोमस्य सर्वाहर्गणप्रकृतिभूतस्य च व्यूढस्य द्वादशाहस्य ब्राह्मणेनैव क्लृप्तिरुक्तेति तदुपजीवनेन क्रत्वन्तराण्येव कल्पितानि । अस्माभिस्त्वस्य प्रबन्धस्य कार्त्स्न्यार्थं तयोस्तावत् प्रयोगः सूत्रब्राह्मणा- नुसारेण प्रदर्श्यते । तत्राग्निष्टोमसंस्थस्य ज्योतिष्टोमस्यायं प्रयोगः ।।

सोमप्रवाकविधिः
ऋत्विगार्षेयोऽनूचानः साधुचरणः ( ला० श्रौ० १. १. ७) इत्यादिसूत्रोक्तलक्षणावृत्विग्याज्यौ । यज्ञशर्मा ज्योतिष्टोमेनाग्निष्टोमेन रथन्तरपृष्ठेन द्वादशशतदक्षिणेन सोमेन यक्ष्यते । तत्रौद्गात्रं भवता कर्तव्यमिति सोमप्रवाकेनाभ्यर्थितो यद्यार्त्विज्यमकरिष्यन् स्यात्तदा सोमं नमस्कृत्य नमः सोमाय राज्ञ (द्रा० श्रौ० १.१.९ इत्युक्त्वा तं प्रत्याचक्षीत । यदि करिष्यन् महन्मेऽवोच (द्रा० श्रौ० १ .१ १०) इति प्रतिमन्त्रयेत । आदिग्रहणेन मन्त्रविधिः । पूर्वमन्त्रान्तस्य उत्तर० मन्त्रादिरुपलक्षणम् । यदा सोमप्रवाकः पूर्वमेवौद्गात्रमनेन ज्ञातमस्तीति सोमप्रवचनमकृत्वा स्मरणाय केवलमागत्य तिष्ठति तदा तदागमनादेव सोमः प्रोक्तो भवतीति महन्मेऽवोच ( तां० ब्रा० १. १.१) इति मन्त्रं ब्रूयात् । आर्त्विज्यकरणे व्यवसिते तदवधार्य यस्मिन्नावसथे सोमप्रवाको भवति तं प्रति तस्मै दधिमिश्रमन्नमाहरेत् ।।

उद्गातृवरणार्हणे

अथोद्गातर्यागते यजमानः पर्जन्यो म उद्गातेति तस्य देववरणं यज्ञशर्मा मानुष इति मानुषवरणं च कुर्यात् । स एतान् देवान् ऋत्विजो वृत्वा अथैतान् मानुषान् वृणीत (ष० ब्रा० ३३३) इति श्रुतेः । यजमान- परिचारका उद्गातारमर्हयिष्यन्तो विष्टरद्वयपाद्यार्घ्याचमनीयमधुपर्काना- हरन्ति । उद्गाता त्वर्हणे(मं० ब्रा० २.८.१) ति गां निरीक्ष्य इदमहमिमाम् (मं० ब्रा० २.८.२) इति तिष्ठन् जपेत् । विष्टराविति त्रिरुक्ते तौ प्रतिगृह्य तयोरकस्मिन् या ओषधीर् ( मं० ब्रा० २.८.३) इति पूर्वमन्त्रेणोपविशेत् । पाद्यमिति त्रिरुक्ते यतो देवीर् (मं० ब्रा० २ ८.५) इति पाद्यजलं प्रोक्ष्य सव्यं पादम् (मं० ब्रा० २.८.६) इति सव्ये निनयेत् । दक्षिणं पादम् (मं० ब्रा० २.८.७) इति दक्षिणे च । पूर्वमन्यम् (मं० ब्रा० २.८.८) इति पादद्वये जलं निनीय या ओषधीर् (मं० ब्रा० २.८.४) इत्युत्तरेण मन्त्रेण इतरस्मिन् विष्टरे धौतौ पादौ निदध्यात् । अर्घ्यति त्रिरुक्ते अन्नस्य (म० ब्रा० २.८.९) इति अर्घ्यं प्रतिगृह्णीयात् । आचमनीयमिति त्रिरुक्ते यशोऽसि यशो मयि धेहि ४० ब्रा० २ .८. १०) इति तत् प्रतिगृह्य आचमेत् । मधुपर्क इति त्रिरुक्ते यशसो यशोऽसि (मं० ब्रा० २.८.११) इति प्रतिगृह्य तस्यैकदेशम् इदमन्नमयं रस इमा गावः सह श्रिया । तत् सवितुर्वरेण्यं वाग्बहु बहु मे भूयात् स्वाहा इति पीत्वा हस्तं प्रक्षाल्य पुनस्तस्यैकदेशम् इदमन्नयंरस इमा गावः सह श्रिया भर्गो देवस्य धीमहि प्राणो वै वाचो भूयात् बहुर्मे भूयो भूयात् स्वाहेति पुनस्तथैव । इदमन्नमयंरस इमा गावः सह श्रिया धियो यो नः प्रचोदयान्मनो वाव सर्वं सर्वं मे भूयात् स्वाहेति पीत्वा पुनस्तूष्णीं पीत्वाचम्य शेषं ब्राह्मणाय दद्यात् । गौरिति त्रिरुक्ते मांसभक्षणेच्छुश्चेत् कुरुतेति ब्रूयात् । उत्सृक्ष्यन् ओं कृतो धर्मस्तृणान्यत्तु पिबतूदकम् उत्सृजत ( द्रा० श्रौ० १ .२. १९) डति ब्रूयात् । अस्मिन्नर्हणविधौ सूत्रोक्तव्यतिरिक्तं गृह्यमुपसंहृतमविरुद्धत्वात् । तत्रान्ये ब्रुवते । सूत्रकारेण क्रत्वङ्गतया पृथगेव मधुपर्कप्रयोगस्य विधानात् गृह्यकारेण चैवमयज्ञे कुरुते(द्रा० गृ० ४.४.२५-६)ति वचनात्तदा यज्ञेऽपि स्वोक्तस्य कृत्स्नस्य विधेरभ्युपगमात् सूत्रगृह्योक्तयोर्विकल्प एवाश्रयणीयो न त्वनयोरुपसंग्रह इति ।

[ देवयजनयाचनम्]

मधुपर्कप्रतिग्रहानन्तरं पर्जन्यो म उद्गाता । स मे देवयजनं ददातु इत्युपांशु जपपूर्वमुद्गातर्देवयजनं मे देहि इत्युच्चैर्वचनेन देव- यजनयाचने यजमानेन कृते देवयजनवान् भूयाः इत्युक्त्वा ततो देवयजनगमनकालात् प्राक् तत्तत्कर्मानुष्ठानार्थं प्रस्तोतृसुब्रह्मण्यौ स्था- पयित्वा स्वगृहं गच्छेत् । आपस्तम्बेन तु देवयजनयाचनप्रत्याम्नायत्वेन देवतापस्थानपक्षः उक्तः । सूत्रकारोऽपि तमेव पक्षमाश्रयदित्यवगम्यते । प्रहिणुयात् प्रस्तोतृसुब्रह्मण्यौ (ला० श्रौ० १.१.१३) इति वचनात् । स्वयं व्रजेत् क्रय औपवसथे व (ला० श्रौ० १. १.२०) इत्यादिना देवयजनगमनं विधाय पश्चान्मधुपर्कप्रयागेविधानाच्च । यदा हि देवयजनदानार्थमुद्गाता यजमानगृहं गतः तदा प्रहिणुयादिति वचनं नोपपद्यते । देवयजनगमनं विधाय पश्चादर्हणविधानं च । तस्मात् तन्मते यथाकालमुद्गातरि देवयजनं गते तस्य मधुपर्कदानं वरणं च कार्यम् ।

ऋत्विजां नियमाः

सर्वेषामार्त्विज्योपक्रमवेलायां यज्ञोपवीतमाचमनं च नित्यं कर्मानुष्ठानकाले यज्ञाङ्गानामव्यवायाभिमुख्यं च । प्राङ्मुखैश्च कर्म कर्तव्यमनादेशे ।
दीक्षणीयाप्रवर्ग्योपसत्प्रायणीयासु प्रस्तोतुः सामगानम् प्रस्तोतारं त्वां वृणा इति यजमानेन वृतः प्रस्तोता पूर्वया द्वारा पत्नीशालां प्रविश्य उत्तरेण अग्नीन् गत्वा पश्चाद्गार्ह- पत्यस्योपविष्टस्तिष्ठन् वा दीक्षणीयायां त्यमूषु ( ग्राम गे० ९.११. ३३२.१-२) इति तार्क्ष्यसामनी गायेत् । अङ्गानां प्रधानसंनिधौ कर्तव्यत्वात् । यज्ञाङ्गाव्यवायाभिमुख्यप्राङ्मुखकरणानां च विहितत्वात् । यथोक्त एवैषां गमनदेशः तद्गमनमार्गश्च सिद्धः । अत एव प्रवर्ग्यो- द्वासनसूत्रम्-पूर्वया द्वारा प्रपद्योत्तरेणाग्नीन् गत्वा पश्चात् गार्हपत्यस्य तिष्ठन् महावीरायतनं प्रेक्षमाणो वामदेव्यं गायेत (ला० श्रौ० १. ६.१३) इति । इह तु विशेषाश्रावणत् उपविष्टस्तिष्ठन् वेत्युक्तम् । तथा च जैमिनिः ऐष्टिकानि पाशुकानि च सामानि अधिकृत्य आह- प्रागावृत्तस्तिष्ठन्नुपविष्टो वा मध्यमया वाचा गायेत् (जै० श्रौ० २६.५ इति । तत्र दीक्षणायीयां प्रधानयागकाले त्यमूषु (ग्रा० गे० ९.११. ३३२.१-२) इति तार्क्ष्यसामनी त्रिर्गायेत् । तार्क्ष्यस्त्रिष्टुबिन्द्र इति ऋषिच्छन्दोदेवताः । अङ्गानां प्रधानकालस्य न्याय्यत्वात् प्रधानयागकालः इत्युक्तम् । जैमिनि- राह-यानि पशौ शिष्टानि सामानि वपान्ते तानि गायेत् । प्रदानयागकाले उप सत्सु चेष्टिषु च (२६.३) इति । सर्वत्रानादेशे परिसामानि प्रस्तोता गायेत् स्वाध्यायवत् स्वासु । तृचापत्तीनि तृचेषु त्रिरितराणि (ला० श्रौ० १.५. १२-२) इति । सूत्रे तृचोत्पन्नानां परिसाम्नां तृचे गानमितरेषां तु त्रिर्गानेन तृचीकरणमुक्तमित्यनयोः तार्क्ष्यसाम्नोः प्रत्येकं त्रिर्गानम् । प्रायणीयायां चरुहोमकाले प्रो अयासीद् (सा० ११५२-५४) इति प्रवद्भार्गवं तृचे गायेत् । भृगुर्जगती सोमः ।

उद्गातुर्देवयजनगमनोपस्थाने स्वयमुद्गाता राजक्रयकाले औपवसथ्येऽहनि वा देवो देवमेतु (ता० ५१० १.१.२) इति स्वगृहात् प्रथममुदीचीं गत्वा यथाकालं देवयजनं प्रति गच्छेत् । दूरं व्रजित्वा विहाय दौष्कृत्येति बद्वानाम (ला० श्रौ० १ . १. २२-३) इति देवयजनस्य साधारणं पन्थानमापद्य उत्तरं महावेदिपार्श्वमाक्रम्य तनैव स्थित्वा दक्षिण- वेद्यन्तमीक्षमाणः पितरो भूर् तां०ब्रा० १.१.५) इत्युपतिष्ठेत । तत्र सूत्रम्-अन्तरेण चत्वालोत्करौ संचरः सर्वत्रानादेशे तदाप्नानं तीर्थम्
ला० श्रौ० ८२१० १.५.३.४) इति ।

[ सुब्रह्मण्यवरणं सूब्रह्मण्याह्वानादिविधिश्च]

सुब्रह्मण्यं त्वा वृणे इति यजमानेन वृतः सुब्रह्मण्यः क्रीते राजनि सोमवहनमुत्तरेण गत्वा तस्योत्तरामीषामुत्क्रम्यान्तरेणेषे सपत्रां पलाशशाखां शमीशाखां वा हस्तेन कृत्वाक्षस्य पश्चाद्भूमा- ववतिष्ठेत । शाकटीमन्ववरुह्याह्वयेत् । राज्ञोऽप्रत्यवरोहाय (नि० सू० ३.८.२२) इति निदानवचनात् भूम्यामवस्थानमुक्तम् । सुब्रह्मण्यः सुब्रह्मण्या- माह्वयेदिति । अध्वर्युः संप्रैषं सुब्रह्मण्याह्वाने सर्वत्राकाङ्क्षेत । रज्जुद्वयं धारयन् दक्षिणमनड्वाहं पूर्वं शाखया प्रेष्येत् । पश्चादुत्तरम् । प्राचीवर्तमाने शकटे सुब्रह्मण्योमिति मध्यमया वाचा त्रिर्ब्रूयात् । प्रतीचीवर्तमाने षट्कृत्वः । नात्र निगदः । सासि सुब्रह्मण्य इति यजमानवाचनं केचिदिच्छन्ति । पूर्वेण पत्नीशालायामनुडुहि विमुक्ते शकटस्य छदिषि शाखामवगुह्य तामेवेषामनूत्क्रम्याहवनीयाग्नेः क्रीतस्य च सोमस्य व्यवायमकुर्वन् यथार्थं स्यात् । राजवाहनं चानडुद्भ्यां युक्तं यजमानतः प्रतिगृह्णीयात् । एवमन्यदपि यत्कर्मसंयुक्तं यद् द्रव्यं तत्कर्मा- नन्तरं कृतकार्यं चेत् तत् प्रतिग्राह्यम् । तद्यथा कुशास्तरणवस्त्रं प्रस्तोता पत्न्यावृतं च यथोक्तम् । अथैतत् प्रस्तोता वास आदत्ते येन पत्न्यावृता भवतीति । ठद्गातौदुम्बरीवेष्टनम् । प्रतिहर्ता दशापवित्रम् ।

अथातिथ्यायां प्रधानयागकाले प्रेष्ठं वः ( सा० १२४४-४६) इत्यौशनं तृचे प्रस्तोता गायेत् । उशना गायत्र्यग्निः । तस्यां संस्थितायां प्रतिहर्तारं त्वा वृण इति यजमानेन वृतः प्रतिहर्तेतरे च तानूनप्त्रमाज्य- मवमृश्य हविरसीति सुवितेमा धा ( ला० श्रौ० ५.६.६, वा.सं. ५.५) इत्यन्तं जपेयुः । मदन्तीरप ठपस्पृश्यांशुरंशुष्ट इत्यशीय ( वा.सं. ५.७, ला० श्रौ० ५.६.८) इत्यन्तेन राजानं हिरण्यमन्त- र्धायाभिमृशेयुः । एतदाप्यायनम् । दर्भमये प्रस्तरे दक्षिणं पाणिमुत्तानं कृत्वा तदुपरि सव्य न्यञ्चमेष्टाराय इति पृथिव्या ( ला० श्रौ० ५.६.९) इत्यन्तेन निह्नुवीरन् । निह्नवनं नाम द्यावापृथिव्योर्नमस्कारः । एतत्तानूनप्त्रस्पर्शादिक सूत्रकारेण यद्यपि ब्रह्मत्वप्रकरणे विहितं तथाप्यव- मृशन्तो जपेयुरित्यादिषु बहुवचननिर्देशात् उद्गातृभिरपि कर्तव्यम् । अन्ये त्वाहुः-यद्येतदुद्गातृभिरपि कर्तव्यमभविष्यत् तदा औद्गात्रप्रकरणे एवोक्त्वा ब्रह्मत्वेऽत्यदेक्ष्यत् । यथा सुत्यायां ब्रह्मणः प्राक् सुब्रह्मण्याया औद्गात्रेण समानं कर्मेति न च तथा कृतम् । ब्रह्मत्वप्रकरणे बहुवचननिर्देशे उद्रातृभ्योऽन्यानवार्त्विजोऽभिप्रेत्य दृश्यते । यथा तस्मिन् उपस्पृशेयुर् ( ला० श्रौ० ५.६.७) इति । तस्मान्न कर्तव्यमेव तानूनप्त्रस्पर्शादिकमुद्गातृभिरिति ।
अथ सुब्रह्मण्यः पत्नीशालायां दक्षिणस्य द्वारबाहोः पुरस्तात् सौमिकवेद्यन्तप्रदेशे तिष्ठन् यजमानेन पत्न्या चान्वारब्धो दक्षिणेनोत्क्रम्य ब्रह्मणि तिष्ठति सुब्रह्मण्यामुच्चैराह्वयेत् । आदित्यः संपादिन्द्र इति ऋष्यादयः । सुब्रह्मण्योमित्योंकारं प्लावयन् त्रिरुक्त्वोत्तमेन वचनेन सहइन्द्रागच्छेत्यादि ब्रुवाण( ला० श्रौ० ३.१.२) इत्यन्तं निगदं ब्रूयात् । पूर्वयोः प्रणवान्तयोः विरमेत् । मेने ब्रुवाणेति च । त्र्यहे सुत्यामागच्छ मघवन् देवा ब्रह्माण आगच्छतागच्छत(ला० श्रौ० १.३.३-७)इति निगदशेषं ब्रूयात् । एतावदहे सुत्यामिति यावदहे स्याद् ला०श्रौ० १.३.१) इति वचनात् । इदानीं त्र्यहे सुत्यामितिवचनम् । ठत्तरष्वहस्सु द्व्यहे श्वोऽद्येति द्रष्टव्यम् । उप- वसथ्येऽहनि श्वःसुत्यामितिवचनम् । तस्यान्ते श्वः सुत्या गौतमस्य (ला० श्रौ० १.४. १३) इति लिङ्गात् । धानंजय्यमते मघवन्नित्येतन्नास्ति । गौतममते त्वागच्छेत्येतदपि । पूर्वोक्तं चेति ( एवेति?) स्वमतम् । आगच्छ मघवन्निति एकवचनात् इत्यहे सुत्यामागच्छ मघवन् (ष० ब्रा० १.१ .२६) इति षड्विंशब्राह्मणाच्च तस्यैव तु प्रायेणाचारः । तत्र त्र्यहादयः शब्दा अन्तो दात्ताः । शेषाणां सूत्रपठित एव स्वरः । महाभाष्यकारश्चाह सुब्रह्मण्यायामोंकार उदात्तः । सुब्रह्मण्योम् । वाक्यादौ च द्वे द्वे । आकार आख्याते परादिश्च । इन्द्रागच्छ हरिव आगच्छ मघवन्वर्जम् । आगच्छ मघवन् सुप्यापराणामन्तर्द्व्यहे सुत्यां त्र्यहे सुत्याम् ( म० भा० १.२. ३७.१) इति । सुत्याशब्दस्तु संज्ञायां समज (पा० ३.३.९९) इत्यादिना अन्तोदात्तो व्याख्यातः । देवा ब्रह्माण इत्यनयोः वाक्यादौ द्वे द्वे इत्येतन्न प्रवर्तते । देवब्रह्मणोरनुदात्त (पा० १.२.३८) इति द्वितीयस्यानुदात्तवचनात् । अनुदात्तं पदमेकवर्जम् (पा० ६. १.१५८) इति शिष्टं सर्वमनुदात्तम् । एवं सुब्रह्मण्यां त्रिराहूय सासि सुब्रह्मणे (ष० ब्रा० १.२.९) इत्यादीनि षड्विंशब्राह्मणोक्तानि सप्त पदानि यजमानं वाचयित्वाप उपस्पृशेत् । एतच्च यजमानवाचनं यजुर्वेदे अध्वर्युकर्तृकतया विहितम् । षड्विंशे च सुब्रह्मण्यकर्तृकतयेति द्वयमप्याचर्यते । प्रत्याह्वानं वाचनसुपस्पशर्नं चेति केचित् । सुब्रह्मण्योपह्वयस्वेति यजमानवचनोक्त उपहवः । ततः प्रतिगृह्य उपहूत इत्यनुब्रूयात् । एवं पत्न्याप्युक्ते उपहूतेऽत्यनुज्ञाय यथार्थं स्यात् । उपस्पर्शनोपहवौ शिष्टाचारादुक्तौ । इयं सुब्रह्मण्या अध्वर्युसंप्रैषाभावेऽपि कार्येति केचिदाहुः । तत्र प्रमाणं मृग्यम् ।।

[ प्रवर्ग्यसामगानम्]

प्रवर्ग्यगानम्१-५ Pravargya Chants1-5
प्रवर्ग्यसामानि१०-१६ Pravargya Chants10-16
प्रवर्ग्य रौहिणम् १७ Pravargya17
प्रवर्ग्यसाम १८ Pravargya18

अथ प्रस्तोता प्रेषितः पूर्ववत् पश्चात्गार्हपत्यस्योपविश्य प्रवर्ग्यसामानि गायेत् । जैमिनिश्चाह-पश्चिमेन होतारं परीत्य दक्षिणतो घर्माभिमुखं उपविश्य गायेत ( जै० श्रौ० २३.२ ) इति । तत्र यदा देवस्त्वा सविता मध्वानक्तु (वा० सं० ६.२) इति महावीरमञ्जन्ति तदा हावांज (ग्रा० गे० २६.९.५६४ ३) इति शार्ङ्गं त्रिर्गायेन् । कक्षीवान् ऋषिः । जगती छन्दः । घर्मो देवता । सर्वेषां प्रवर्ग्यसाम्नां घर्मो देवता । रजतोपधानकाले कशुक्रंनियुत्वा (आ० गा० ३.६.१४८) इति शुक्रं गायेत् । प्रजापतिर्गायत्री घर्मः । प्रज्वलनकाले कप्रसोमदेववीतय (आ० गा० २.२.१०४-५) इति । घर्मस्य तन्वौ घर्मः प्रजापतिः बृहती । जात- रूपोपधानकाले चन्द्रमत्राह (आ० गा० ३.६.१४९) इति । चन्द्रः । प्रजा- पतिगार्यत्री । अथ केचिदाहुः-आभिरूप्यात् कर्तव्यानीत्येके(ला० श्रौ० १.६.१६) इति सूत्रकारेण परिसाम्नां ब्राह्मणविधानाभावेऽपि आभिरूप्यात् गानं विहितम् । तच्चाभिरूप्यमन्येषामप्यभिरूपाणां साम्नाम् अविशिष्टमिति चन्द्रादनन्तरमवसरे सत्यन्यान्यपि घर्मलिङ्गानि सामानि गायेत् । तद्यथा ओं कायमान ( आ० गा० ६.१.२ १४) इति महावैश्वानरव्रतम् । वैश्वानरो बृहती । कसहो भ्राज (आ० गा० ६.२.२७४) इति इन्द्रस्य च सधस्थम् । इन्द्रस्त्रिष्टुप् । विष्णोस्त्रीणि स्वरीयांसि पञ्चानुगानं द्व्यनुगानं चतुरनुगानं च (आ० ब्रा० ६.२.७. ३-४) इति । विष्णुस्त्रिष्टुप् । एवमन्यान्यपि घर्मलिङ्गानि द्रष्टव्यानि । वयं तु तेषामन्येषामिव परिसाम्नां सूत्रे प्रतिपादनविध्यभावात् प्रतिहारे अनुपादानाच्च न कर्तव्यं गानमित्यवोचाम । रुचितो - घर्म इत्युक्ते उद्यँल्लोकमरोचय (आ० गा० २७९) इति घर्मरोचनं गायेत् । घर्मोऽ- नुष्टुप् । अथ अपश्यं गोपाम् ( गर्भो देवानाम्?) इत्यनुवाकेन तिष्ठन् घर्ममवेक्षेत । रुचितो घर्म इत्युक्तेऽनुवाकेन तिष्ठन्तोऽवेक्षेरन् । यमध्वर्युर्ब्रूयाद् (ला० श्रौ० ५.७.२ ) इति । ब्रह्मत्वे बहुवचनेन विधानादिति केचित् । तदप्यौद्गात्रप्रकरणे विहितं न भवतीति तानूनप्त्रस्पर्शादिवन्न कर्तव्य- मित्यन्ये । गङ्ग एहीत्युक्त्वा यदा धेनुमवसृजन्ति तदा कोहा स्वादिष्टया (आ० गा० ११८) इति धेनुसाम गायेत् । प्रजापतिगार्यत्री । तस्य सामान्तवद्वान्तं स्तोभमुक्त्वा भुवत् । इडेति देवतापदं स्वादिष्ठयेति ऋक्पादं च ब्रूयात् । एवं द्वितीयं देवतापदं ऋक्पादं च । तथा तृतीयम् । पुनश्च वान्तं स्तोभमुक्त्वा करदिडेत्यादि ब्रूयादित्येकः पक्षः । अन्यत्तु पक्षद्वयं सूत्रोक्तं विस्तरभयान्न लिखितम् । यदा पय आहरन्ति तदा इयोइया अग्ने युङ्क्ष्वा (आ० गा० ११९) इति पयो गायेत् । प्रजापतिगार्यत्री । आसेचनकाले आ त्वा विशन्त्विन्दव (ग्रा० ५.९.१९७.१) इति सिन्धुषाम । सिन्धुगार्यत्री । शफाभ्यां परि- ग्रहणकाले हाउप्राथा ( आ० गा० १४६-१४७) इति वसिष्ठस्य शफौ । बसिष्ठस्त्रिष्टुप् । ह्रीयमाणे घर्मे कहिं इन्द्रन्नर० (आ० गा० ९४-९५) व्रतपक्षौ । प्रजापतिस्त्रिष्टुप् । पूर्वरौहिणपुरोडाशाचरणकाले हिम् इन्द्रन्नर (आ० गा० २०५) इति राजनम् । इन्द्रस्त्रिष्टुप् । हुते घर्मे होइहा इमाउवां (आ० गा० १८१-२) इत्यश्विनोर्व्रते । अश्विनौ बृहती । उत्तर० रौहिणाचरणकाले काइही इन्द्रन्नर (आ० गा० २०६) इति रौहिणम् । इन्द्रस्त्रिष्टुप् । घर्मोपकरणानि सम्राडासन्द्यां समारोपयन्ति । तदा इत एत (ग्रा० ३.१०.९२.१) इति आरूढवदाङ्गिरसं त्रिर्गायेत् । ऊपा- स्थाने सुवा इति निधनम् ।। अङ्गिरसोऽनुष्टुप् । शार्ङ्गारूढवदाङ्गिरसे वा त्रिरभ्यस्येत् । अन्तरा पराचे(द्रा० श्रौ० २.१.३)तिवचनात् । प्रवर्ग्यसाम्ना- माद्यन्तयोस्त्रिर्गानमुक्तम् । इतरेषां सकृत् । एतानि सामानि प्रति- प्रवर्ग्यं गायेत् । सर्वेषूपसदन्तेषु आतिथ्यान्तवत्सोमाप्यायनं निह्नवनं सुब्रह्मण्याह्वानं च कार्यम् । अपराह्णे निह्नवने सव्यं पाणिमुत्तानं दक्षिणं न्यञ्चं कृत्वेति विशेषः । प्रवर्ग्योद्वासनकाले प्रस्तोता सम्राडा- सन्दीमुत्तरेण गत्वा पश्चात्तिष्ठन् अध्वर्युप्रेषितः त्यग्नाइर् (ग्रा० १२.१२. ४६५.४) इति प्रवर्ग्यसाम गायेत् । स्तोभान् प्रतिपदमुक्त्वा निधनायैव- वाइ इति ब्रूयात् । ए विश्वमित्यादि (दीनि ?) त्रीणि निधनानि मन्द्रस्वरान्तं कर्षन्तो घर्मोपयुक्ताः सर्वे पत्नी च ब्रूयुः । बृहस्पतिरत्यष्टिरग्निः । एवं मध्ये आहवनीयस्थाने च गायेत् । तत्रास्य स्थानत्रये सकृत् सकृद्गाने समुदायसिद्धं त्रिर्गानम् । न तु प्रतिस्थानं त्रिर्गानम् । तथा च तस्यां त्रिवृद्यथा प्रथमस्य प्रवर्ग्यसाम्नः इति प्रवर्ग्यसाम्नः प्रयोगे अवभृथसाम्नोऽतिदिष्टे तस्य त्रिर्वचने एकविंशतिः पदानि (ष० विं० ३.४.२०) इति श्रुत्युक्तमेकविंशतिपदत्वं तस्योपपद्यते । नान्यथा । परिषिच्यमाने च आहवनीये परिषेकजलमुपस्पृश्य अचिक्रदद्- (ग्रा० १४.४.४९७.१) वार्षाहरं त्रिर्गायेत् । वृषाहरिर्गायत्री सूर्यः । परिषिक्ते इष्टाहोत्रीयं (ग्रा० ४. ४.१५१.१) त्रिर्गायेत् । अप्सरसो गायत्रीन्द्रः । तस्य सर्वे पूर्ववन्निधनं ब्रूयुः । प्रत्याव्रजन् अभिप्रवः- (ग्रा० गे० ६.१.२३५.३, ऊ० गा० द० ३.३) श्यैतं साम त्रिर्गायेत् । प्रजापतिर्बृहतीन्द्रः । तृचे वैकस्यां बा यजमानो निधनमनूपेयात् । यदैकस्यां तदा आद्यायां ब्रूयात् । अन्त्यायाम् इति केचित् । पूर्वया द्वारा प्रपद्योत्तरेणाग्नीन गत्वा पश्चात् गार्ह- पत्यस्य तिष्ठन् प्रवर्ग्यस्थानं प्रेक्षमाणो वामदेव्यं (ऊ० गा० द० १.५) तृचे गायेत् । वामदेवो गायत्रीन्द्रः । अथाग्निप्रणयने अग्निमनुगच्छन् कभ्राजा अग्निर्मूर्द्धा ( आ० गा० २५१) इति अग्नेर्व्रतं त्रिर्गायेत् । अग्निर्गायत्र्यग्निः ।।

[ औदुम्बर्युच्छ्रयणम्]

अथोद्गाता औदुम्बरीमुच्छ्रयिष्यन् देवयजनं पूर्वेण गत्वा आप्नानेन तीर्थेन प्रविशेद्यदि दक्षिणतः स्ववसतिः स्यात् । अन्यतश्चेदुत्तरेण सदः पूर्वया द्वारा स्थूणार्थयोः श्वभ्रयोः मध्यतः प्रविश्य पूर्वमेव प्रागग्रं निहिताया औदुम्बर्या अग्रेण गत्वा दक्षिणत उदङ्मुखस्तिष्ठन् अध्वर्युणा सह दक्षिणो- त्तरोत्तानाभ्यां पाणिभ्यां द्युतानस्त्वेति पृथिवीम् (तां० ब्रा० ६.४.२) इत्यन्तेन तामुच्छ्रयेत् । आयोरिति हृदय (तां० ब्रा० ६.४.३ ) इत्यन्तेन श्वभ्रे ऽवधाय नमः समुद्रायेत्यन्नं मे धेहि (ला० श्रौ० १.७.५४, तां० ब्रा० ६. ४.७-११) इत्यन्तं जपेत् । यावदध्वर्युरेन्द्रमसि (वा० सं० ५.३०) इति छदिभिरवच्छादयति तावदौदुम्बरीं न विसृजेत् । अध्वर्युणा कृते होमे तस्यैव प्रकारेण विशाखे अन्तरेण निहिते हिरण्ये घृतेन द्यावापृथिवी आप्रीणाथां स्वाहा (ला० श्रौ० १. ७.७) इति पूर्वाम् आहुतिं यथा भूमिमाज्यं प्राप्स्यति तथा जुहुयात् । प्रजापतये स्वाहा ला० श्रौ० १.७.९) इत्युत्तराम् । आज्यं होमचोदनास्वनादेशे इति वचनात् । आज्येन होमः विशाखस्य अधस्ताद्धस्तद्वयेन परि- गृह्य दिवि देवान् दृंह मयि प्रजाम् ( ला० श्रौ० १. ७.११) इति जपेत् । मध्ये गृहीत्वा अन्तरिक्षे वयांसि दृंह मयि पशून् (ला० श्रौ० १ .७. ११) इति । मूले गृहीत्वा पृथिव्यामध्योषधीर्दृंह मयि सजातान् (ला० श्रौ० १.७.१२) इति अवच्छाद्यमानायामौदुम्बर्यां दिव्यं छद्मसीति हिंसीर् (ला० श्रौ० १.७.१५) इत्यन्तेन तां विसृज्य प्रवेशमार्गेण निष्क्रामेत् ।।

[ अग्नीषोमीयप्रणयने सामगानं, यूपोच्छ्रयणं च]

अग्नीषोमीयप्रणयनकाले प्रस्तोता पूर्ववत् अग्नेर्व्रतं गायेत् । ओवा । संतेपयांसि- ( अ० गा० १७५) सोमव्रतं च त्रिर्गायेत् । कहौ वा । त्वमिमा (आ० गा० १७६) इति वा । सोमस्त्रिष्टुप् । सोमप्राथम्य- पक्षे अग्नीषोमव्रतयोर्व्यत्यासः । प्रस्तोत्रादयः अन्तर्वेदि तिष्ठन्तः उच्- छ्रियमाणं यूपं नृम्ण ( तां० ब्रा० १.१.६) इत्यनुमन्त्रयेरन् ।।

कुशाकरणम् अग्नाषोमीयवपासुब्रह्मण्याह्वानं नामादेशश्च

सौत्येऽहनि वाचा ग्लानिर्माभूदित्येवमर्थमुपवसथ्येऽहनि न स्वाध्यायाध्ययनं कुर्युः । प्रस्तोता यज्ञवृक्षसंबन्धिनी प्रादेशमात्रीः त्वग्- भागे कुशपृष्ठसमानपृष्ठाः समीकृतभिन्नप्रदेशा अङ्गुष्ठपर्वपृथुमात्रीः यथामूलस्थूला यथाग्रसूक्ष्माश्च कुशाः कारयित्वा गन्धवतीभिरोषधीभि हरिद्राकुङ्कुमादिभिरनुलिप्य कुशाविधानेन क्षौमादिना परिवेष्य औदुम्बरीमध्यमधिवासयेत् । अग्नीषोमीयवपाहोमान्ते सुब्रह्मण्य उत्करे तिष्ठन् सनामग्रहां सुव्रह्मण्यामाह्वयेत् । पूर्ववत् गौतमब्रुवाणान्तमुक्त्वा सुत्यादेशात् पूर्वं यजमानस्य अभिवादनीयं नाम गृह्णीयात् । यज्ञशर्मा यजत इति । ततस्तस्य पितुर्मातुश्च रुद्रशर्मणः पुत्रो यजते उमादेवी- दाया पुत्रा यजत इति । ततः पितामहस्य पितामह्याश्च प्रजापति- शर्मणः पौत्रो यजते सरस्वतीदेवीदायाः पौत्रो यजत इति । ततः प्रपितामहस्य प्रपितामह्याश्च विष्णुशर्मणो नप्ता यजते श्रीदेवीदाया नप्ता यजते इति । द्विपित्रादिकस्य द्बयानां पित्रादीनां नामग्रहणम् । एवं पूर्वेषां नामानि गृहीत्वा यजमानस्य अपत्यानां स्त्रीपुंसानां जीवतां ज्येष्ठक्रमेण नामानि गृह्णीयात् । देवशर्मणः पिता यजते देवीदायाः पिता यजते इति । एवं पुत्रापत्यानां पौत्रापत्यानां च । देवदत्तस्य पितामहो यजते देवदत्तायाः पितामहो यजत इति । प्रपितामह इति च । ततो जनिष्यमाणानां पिता पितामहः प्रपितामहो यजत इत्युक्त्वा सुत्यादेशादि ब्रूयात् । यजतिशब्देषु प्रत्येकं विरमेत् । यदा पुत्रात् पौत्रो ज्येष्ठः पौत्राद्वा नप्ता तदापि पुत्रवर्गं समाप्य पौत्र- वर्गस्य ग्रहणम् । पौत्रवर्गं समाप्य नस्तृवर्गस्य ग्रहणम् । पतित- प्रव्रजितानां नामग्रहणम् । अत्र अमुष्य पुत्र इति सूत्रे पुंलिङ्गस्य अविवक्षितत्वात् मात्रादीनामपि ग्रहणमुक्तम् । तथा च दीक्षितप्रवचने तासामपि ग्रहणं दृश्यते । अन्ये त्वाहुः- मात्रादीनां नामग्रहणं न कर्तव्यम् । पुंलिंगस्याविवक्षायां प्रमाणाभावात् । अपरेषां यथाज्येष्ठं स्त्रीपुंसानाम् इत्यत्र स्त्रीग्रहणाच्च । निदाने च नामग्रहः किमर्थम् इत्यु- पक्षिप्य तस्य प्रयोजनमुक्तम्-उच्चावचचरणाः स्त्रियो भवन्ति । तदिह देवसाक्ष्ये च मनुष्यसाक्ष्ये च येषां पुत्रो वक्ष्यते तेषां पुत्रो भविष्यामि । यांश्च पुत्रान् वक्ष्ये ते पुत्रा भविष्यन्ति (नि० सू० ३. ८) इति । ततश्च पित्रादिष्वेव संदेहः इति तेषामेव नामग्रहणं न मात्रादीनामिति ।। नामग्रहणे प्रथमान्तानां यज्ञशर्मेत्यादीनां षष्ठ्यन्तानां च रुद्र- शर्मण इत्यादीनाम् अन्त्यमक्षरमुदात्तम् । अर्थनिर्वचनमुच्चान्तमिति वचनात् । अर्थो निरुच्यते प्राधान्येन प्रतिपाद्यतेऽनेनेति अर्थ- निर्वचनं पदम् । पदग्रहणमेव तु न कृतम् । समासे पूर्वपदस्योच्चान्तत्वं मा भूदिति । महाभाष्यकारश्चाह-असावित्यन्त उदात्तः । गार्ग्यो यजते वात्स्यो यजते इति । अमुष्येत्यन्त उदात्तः । दाक्षेः पिता यजते (म० भा० १.२.३.७) इति । दाक्षेः पितामहो यजत इति षष्ठ्येकवचनस्य यथागमादेशौ ताभ्यां पूर्वस्तौ चोदात्ताः । उमादेवीदायाः देवदत्तस्येति । तदुक्तम्-वैभक्ते चास्यादौ वैभक्तश्चैव(द्रा० श्रौ ० १.३.२४)ति । आद्यस्य अन्तस्य उपोत्तमं च । चकारादन्तश्च । गार्ग्यस्य पिता यजते वत्सस्य पिता यजते इति । उदात्तात्परम् अनुदात्तम् । अनुदात्ते परत उदात्तम् । उच्चाच्च नीचे नीचम् (द्रा० श्रौ० १.३ .२५) इति वचनात् । यथा पिता- महस्यादिः प्रपितामहस्य च । अनयोस्त्वर्थनिर्वचनमित्युच्चत्वं स्थितमेव च । उच्चाच्च नीचे नीचमित्यनेन च अर्थनिर्वचनामित्यीदिवचनान्तर० सिद्ध एव उदात्तोऽनूद्यते न तु स्वेनापि विहितः । प्रवृत्तिदशायां तस्यासिद्धत्वात् । ततश्चैतत् सिद्धम्-पितामहे ताशब्दस्य प्रपितामहे पिशब्दस्य च उदात्तत्वं न भवतीति । व्याकरणे च न सुब्रह्मण्यायां स्वरितस्य तूदात्त (पा० सू० १ .२. ३७) इत्यस्य सूत्रस्य प्राप्तिं जानतां विस्पष्टैवेयं स्वरव्यवस्था । जनिष्यमाणानामित्यस्यार्थनिर्वचन- स्यापि ष्यमाशब्दावुदात्तौ । यजत इत्यस्य चादिः । तदुक्तम् - जनिष्यमाणानां मध्ये द्वे यजेश्चादिर् (द्रा० श्रौ० १.३.२६-७) इति । उदात्त- व्यतिरिक्तं सर्वमनुदात्तमिति । स्वरशेषं पूर्ववत् । एवं वसतीवरीषु परिहृतासु सनामग्रहणमाह्वानं कुर्यात् ।

[ अथ प्रातःसवनम-प्रातरनुवाकोपाकरणे सामगानम्]

अथ महारात्रे अध्वर्युणा अग्ने नयेत्याग्नीध्राभिमर्शनकाले अप आचम्य प्रस्तोता अग्नीध्रीयमण्डपे स्थित्वा इमं स्तोमम् (ग्ना० २.७.६६. १) डति यज्ञसारथि त्रिर्गायेत् । कुत्सो जगत्यग्निः । यजमानः शालामुखीयस्य पश्चादुदङ्मुख उपविश्य प्रातरनुवाकोपाकरणात् पूर्वं लोकद्वारम् इति वासवं साम (आ० गा० ५०) त्रिर्गायेत् । पुष्कलो द्विपदा गायत्री वसवः । अस्मिन्नेवाग्नौ नमोऽग्नय इति स्वाहाकारान्तेन स्रुवेणाज्यं प्राङ्मुखो जुहुयात् । स्वाहेति च । अपजहि परिघमित्युक्त्वोत्तिष्ठेत् । रहस्यब्राह्मणे क्व तर्हि यजमानस्य लोक इत्यत्र प्रकृतस्य यजमानस्य स वासवं सामाभिगायतीत्यादिषु तच्छब्देन परामर्शात् लोकं मे यजमानाय विन्देति मन्त्रलिङ्गाच्च लोकद्वारगानस्य यजमानकर्तृकत्वम् । सर्वत्रानादेश (ला० श्रौ० सू० १.५.१) इत्यादौ सूत्रे सर्वत्रग्रहणम् । त्रिरभ्या- सादेर्धमस्य कर्त्रन्तरेऽपि सद्भावार्थमिति त्रिर्गानं च सिद्धम् । अत एव परिसामसु त्रिर्गानप्राप्तौ तन्निवृत्त्यर्थं सर्वाण्युद्गाता सकृत्सकृद् गायेदित्युक्तम् ।।

[ विश्वरूपागानं सुब्रह्मण्याह्वानज्योतिर्गाने च ]

अथ यजमानो विश्वरूपा गायेत्युद्गातारं ब्रूयात् । स च प्रत्याचक्षीत तस्य नवतिशतं स्तोत्रीया तां० ब्रा० १६.१ .८) इत्युक्तचतु- ष्टोमसंपदतिरकात् ग्रहशस्त्राभावाच्च नाहं गायामीति । परिसामत्वात् परिसामान्तरवन्न संपत्कोपः । वसतीवरीप्रातरनुवाकौ ग्रहशस्त्रे तस्माद्- गायेति यजमानेन प्रत्युक्तो न मामनामन्त्र्य प्रातरनुवाकमुपाकुर्या (ला० श्रौ० १.८.७) इत्यध्वर्युमुक्त्वा प्रातरनुवाकायोपविष्टं होतारं पूर्वेण गत्वा दक्षिणस्य हविर्धानस्योत्तरं चक्रमभ्यपश्रयमाण उदङ्मुख उपविशेत् । यजमानश्चोद्गातुः पुरस्तात् प्रत्यङ्मुखः । उद्गाता युञ्जे वाचम् (सा० १८२९) इत्यस्यां पङ्क्तौ गात्रमोङ्कारेण आर्चिकस्वरेण मध्यमया वाचा त्रिर्गायेत् । परिसामत्वात् ओंकारेण उद्गीथादानं नास्ति । यजमानो मनसैव तत्सवितुर्वरेणियोमिति त्रिपदावदार्चिकगानं त्रिः कुर्यात् । तत्रेदमार्चिकं गानं युञ्जे वाचं शतपदीम् गायेत् सहस्रवर्तनि । गायत्रं त्रैष्टुभं जगद्विश्वारूपाणि संभार्ता२ । देवा ओकांसि चा १२१२ । हिम् । आ२ । क्राइरो । आ २३४५ (सा० १८२९-१८३०) इति । पुष्कलः पङ्क्तिर्विश्वरूपाः । वपाहोमान्तवत् प्रातरनुवाकोप क्रमवेलायां सुब्रह्मण्याह्वानम् । अद्य सुत्यामिति विशेषः । प्रातरनु- वाके परिहृतेऽपोनप्त्रीयनामसूक्तात् पूर्वं होतारम् आरमयन् ज्योतींष्यपि उद्गाता गायेत् । प्रवरानन्तरं पवित्रं धारयन् अग्निर्ज्योतिर्ज्योतिरित्येतत् त्रिरभ्यासार्चिकगायत्रगानं मनसा कुर्यात् । तद्यथा-अग्निर्ज्र्योति- र्ज्योतिरग्नीम् । अग्निर्ज्योतिर्ज्योतिरग्ना२इः । अग्निर्ज्योतिर्ज्योताइ । हिम् । आ२ । आग्नोः आ । इति । एवम् इन्द्रो ज्योतिर्ज्योतिरिन्द्रोम् इति । सूर्यो ज्योतिर्ज्योतिस्सूर्योम् इति च । पुष्कलो गायत्री अग्नीन्द्रसूर्याः । अत्र त्रिभिर्गायत्रैः तृचस्य सिद्धत्वात् प्रतिगायत्रं त्रिर्गानं न कार्यम् ।।

[ प्रातरनुवाकान्ते प्रस्तोत्रादीनां वेद्यामुपवेशनम् ]

यदा होता प्रातरनुवाकमनूच्याभूदुषा इति ब्रूयात् तदाप्नानेन तीर्थेन प्रस्तोत्रादयः सुब्रह्मण्यः मृदाशिथिरेति वेदिमाक्रामेयुः । बहुवचनचोदितेषु युगपत्कमर्सु उद्गातुर्दक्षिण बाहुमनु प्रस्तोता सव्यं बाहुमनु प्रतिहर्ता हविर्धानस्य रराट्यां विष्णो शिर (तां०ब्रा० ११८) इत्यालभ्य पूर्वया द्वारा हविर्धानम् इष ऊर्ज (तां० ब्रा० १.१.९) इति वसतीवरीप्रवेशानन्तरं प्रविशेयुः । ईषयोर्मध्ये बाहूनव- हृत्य पार्ष्णिरनुद्यच्छन्तः प्रातःसवनार्थं विभक्तं सोमं युनज्मि इत्यभि- मृशेयुः । अविभागे तु सर्वं प्रस्तोतृपूर्वा प्रत्यङ्मुखा गत्वा दक्षिणस्य हविर्धानस्य पश्चात् सव्यपार्श्वै आवर्तमाना ऋतस्य सदन (तां० ब्रा० १.२.२) इत्युपाविशेयुः ।

[ बहिष्पवमानस्तोत्रजपे स्वरः ]

अथ बहिष्पवमानस्य उप-दवि-पव (सा० ६५१-५९ इति नवर्चो जपेयुः । पुरस्ताच्चोपरिष्टाच्चर्चः सर्वत्र जपेयु यासु करिष्यन्त स्यु । अत्र तु बहिष्पवमानस्य (ला० श्रौं ० सू० १९१८-१९३) इति वचनात् ऋक्समाम्नाये ज्योतिष्टोमप्रकरणे एतासां प्रथमाम्नानात् ब्राह्मणे च उपास्मै गायता नर इति ग्रामकामाय प्रतिपदं कुर्याद् (तां० ब्रा० ६.९.१) इति प्रतिपद्विधाने बहि स्तुवन्ति (तां० ब्रा० ६.८.११) इति वचनेन चैतासामेव सूचितत्वात् सूत्रे च उपास्मै गायता नरोमिति धानंजय्य (ला० श्रौ० ७ .१०. १९) इति प्रकृत्य त्रिरुद्गृह्णातीति ब्राह्मणं भवाति (ला० श्रौ० ७.१.२३) इत्यादिनैतास्वेव धूर्गानविधानात् बहिष्पवमानस्य एता ऋच इति सिद्धम् । सर्वत्र स्तोत्राङ्गभूतानामृचां साम्नां च यथासमाम्नायमेव स्वरः कार्यः । न त्वैकश्रुत्यम् । तद्धि यज्ञकर्मण्यजपन्न्यूङ्खसामसु (पा० १. २ .३४) इति पाणिनीयस्मृत्या जपादिव्यतिरिक्तानां मन्त्राणां विधीयते ।।

[ सोमेऽभिषुते प्रोहणग्रावसंसादनाध्यूहनानि]

सोमेऽभिषुते ऋतपात्रमसि (तां० ब्रा० १.२.३) इत्युभाभ्यां हस्ताभ्यां द्रोणकलशमालभ्य वानस्पत्य (तां० ब्रा० १.२.४) इत्यक्षस्या- धस्तात् प्राञ्चं प्रोहेयुः । यद्यक्षं स्पृशेयुः द्रोणकलशं निरुह्य पुनरपि प्रोहेयुः । उद्गाता दक्षिणे पाणौ दशापवित्रं कृत्वा अक्षविष्कम्भयो र्मध्ये नाक्षं स्पृशन् द्रोणकलशे प्रास्येत् । दशायुक्तं वस्त्रं दशापवित्रम् । तस्मात् शुक्लं पवित्रम् (तां० ब्रा० ६.६.९) हात श्रुतेः । यस्मिन् देशे युनज्मीति अभिमर्शनं तस्मिन् पुनरागम्याभिषवचर्मणि दक्षिणपूर्वम् आरभ्य दक्षिणमवान्तरदिक्षु ग्राव्णां पृथुभागान् मध्ये चाभिमुखान् कुर्वन्तश्चतुरो ग्राव्णः संसादयेयुः । तानभिमृश्य मरुत (तां० ब्रा० १ .२ .५) इति जपित्वा तदुपरि पश्चाद्दक्षिणतो वेदमहमिमम् (तां० ब्रा० १. २. ६) डति द्रोणकलशमध्यूहेयुः । अध्वर्युणा कृतयोः संसादनाध्यूहनयोः मन्त्रौ जपेयुः । प्रत्यावृज्य ग्राव्णो युञ्ज्याद् (ला० श्रौ० १. १०. १) इति सूत्रे एकवचनमविवक्षितम् । ग्राव्णः संसाद्य द्रोणकलशमध्यूहन्ति ( तां० ब्रा० ६.६.१) इति श्रुतेः । बहुवचन- विहितेन अध्युहनेन संसादनस्य समानकर्तृकत्वश्रवणात् द्रोणकलशम् अध्यूहेयुर् (ला०श्रौ० १.१०.६) इति अध्यूहने बहुवचनस्य सूत्रकारेणैवानु- मतत्वाच्च । अथोद्गाता दशापवित्रेण वसवस्त्वा (तां० ब्रा० १ .२ .७) इति द्रोणकलशस्य बुध्नं संमृज्यात् । रुद्रास्त्वेति मध्यम् । आदित्यास्त्वेति
बिलम् ।

[ संमार्जनम् ]

केचित्तु तैर्द्रोणकलशं पावयन्ति ( तां० ब्रा० ६.६.६) इति श्रुतेः सूत्रे संमृज्यात ( ला० श्रौ० १ .१०. १७) इत्येकवचनमविवक्षितम् मन्वानाः सर्वैरपि संमार्जनं कर्तव्यमित्याहुः । तदयुक्तम् । सूत्रकारो हि एकश्रुतिविधानात् मन्त्रान् कर्माणि चोद्गातैव कुर्याद् (ला० श्रौ० १. १.४) इत्येकवचनविहितानां कर्मणाम् उद्गातृकर्तृत्वं परिभाष्य कथम् अविवक्षितमेकवचनं कुर्यात् । पूर्वं त्वध्यूहने बहुवचनस्यानेनैव अनुज्ञाय- मानत्वान् । तत्समानकर्तृकग्रावयोजने एकवचनस्याविवक्षितत्वान् । तस्मात् पावयन्तीति वहुवचनं सामान्याभिप्रायम् डति उद्गात्रैव संमार्जनं कार्यम् ।।

[ दशापवित्रानुमन्त्रणम् ]

दशापवित्रमवधूय पवित्रं त (सा० ८७५-७) इति तृचेन उदग्- दशमवाङ्नाभिः वितनुयुः । उद्गाता संततां धारां प्रशुक्र (तां० ब्रा० १. १. ९) इत्यनुमन्त्रयेत । अमुष्य शब्दस्य स्थाने सोमस्य राज्ञ इत्येवं ब्रूयात् ।।

[ ऋत्विजां वरणसंसर्पणे प्रवृत्तहोमश्च ]

यदाध्वर्युराग्रयणं गृह्णन् हिंकरोति तदा प्रवृणीरन्नग्नि प्रस्तोताहं मानुष इति प्रस्तोता ब्रूयात् । बृहस्पतिरुद्गाताहं मानुष इत्युद्गाता ब्रूयान् । वायुः प्रतिहर्ताहं मानुष इति प्रतिहर्ता । अत ऊर्ध्वमाबहिष्पवमानस्तोत्रसमापनात् वाचं यच्छेयुः । उद्गातॄणां पश्चिमस्थाने ध्रुवस्थालीमध्वर्यवो हृत्वा तेनैव प्रतिहरेयुः । न पुनरग्रेणैषाम् । अथ कृतपवित्राभिपीडनं हविर्धानान्निःसर्पन्तम् अध्वर्युं प्रस्तोता दक्षिणेन हस्तेन अन्वारभते । तमुद्गातोद्गातारं प्रतिहर्ता, तं ब्रह्मा, ब्रह्माणं यजमान इत्येवं संसर्पन्त एव गच्छेयुः । तदुक्तम्-पञ्चर्त्विजः संरब्धाः सर्पन्तीत्येतानाह । दोषवचनात् व्यवच्छेदाज्जुगुप्सेरन्न् (द्रा० श्रौ० ३.३. १३-१४) इति अध्वर्युणा हुते गत्यानुपूर्व्येणोदकमालभ्य सव्येन पाणिना वेकुरा नामासि सूर्यो मा (तां० ब्रा० १.३ .१-२) इति च प्रवृतहोमौ कुर्युः । ऋचँसाम ( सा० ३६९) इति स्वाहान्तेन तृतीयं होममधिकमुद्गाता कुर्यात् । असंजातविरोध्यवस्थायां दक्षिणेन हस्तेनान्वारम्भात् तद्विच्छेदस्य चायुक्तत्वात् अर्थप्राप्तोऽत्र सव्येन होमः । आपस्तम्बेन तु होमानन्तर० मन्वारम्भ उक्तः । तस्मिन् पक्षे दक्षिणेनैव पाणिना होमं कृत्वा जपेयुः । ब्रह्माहं गायत्रमिति पर्यूह (ला० श्रौ० १.११.१५) इत्यन्तम् ।।

[प्रस्तोत्रादीनां सर्वस्तोत्रार्थमासनोपवेशननियम उपगाननियमश्च]

ततोऽध्वर्युमनुसर्पन्तः सव्येन पाणिना दक्षिणा पृथक् तृणानि निरस्येयुर्योऽद्य सौम्य (तां० ब्रा० १.३.३) इति । तेनैव पाणिना अप उपस्पृश्य चात्वालदेशं प्राप्य अध्वर्यावुपविष्टे तस्मात् प्रत्यग्यो म आत्मा (तां० ब्रा० १. ३.३-४) इति उपविशेयुः । प्रस्तोता प्रत्यङ्मुखः, उद्गाता उदङ्मुखः तस्य पश्चिमेन गत्वा दक्षिणदेश- मवान्तरदिशं पश्यन् प्रतिहर्ता सव्याधरानुपस्थान् कृत्वा द्यावापृथिव्योः संधिमीक्षमाणाः समानि मुखानि धारयन्तः एवं सर्वस्तोत्रेष्वा- सीरन् । अध्वर्युवर्गव्यतिरिक्ताः चतुरवरार्ध्या उपगातारः प्रस्तोतृ- प्रतिहर्त्रन्तरयोरुपविश्य प्रस्तावादि भक्त्यन्तरालानि मन्द्रस्वरेण हो इत्येतेनाक्षरेण छादयन्त उपगायेयुः । ओमिति यजमानः । निधनात् पूर्वं नोपगानम् । विच्छेदाभावात् । एवं सर्वस्तोत्रेषु ।।

[बहिष्पवमानस्तोत्रगानविधौ प्रस्तावादिभक्तय स्वरनियमाश्च ]

अध्वर्युणा दीयमानं प्रस्तरं प्रस्तोता प्रतिगृह्य ब्रह्मन् स्तोष्यामः प्रशास्तरित्युक्त्वा ठद्गात्रे प्रयच्छेत् । स प्रस्तरेण दक्षिणां जङ्घाम् उप- हत्याग्नेस्तेजसा(तां० ब्रा० १३५) इति स्तोमं युञ्ज्यात् । अन्नं करि- ष्यामि(तां० ब्रा० १ .२.१)इति जपेत् । चत्वालोदपात्रे तूष्णीमवेक्षेरन् । सामासि प्रतिमा भाहीत्यादित्यं तूष्णीं वा । बहिष्पवमानस्य पुष्कलो गायत्री सोम इत्यृष्यादयः इम वै लोका गायत्रम् (तां० ब्रा० ७.१. १) इति गायत्रविधिब्राह्मणम् । स तु वै यज्ञेन यजेत(तां० ब्रा० ६.८.१) इति बहिष्पवमानस्य ब्राह्मणम् । मनो हिंकार (जै० उ० ब्रा० १.११.१.३) इति भक्त्युपासनविधिब्राह्मणम् । धूर्गानस्य प्रजापतिरकामयत (ष० वि० ब्रा० २.१. १) ता वा एता ( ष० वि० ब्रा० २.२.१) इति षड्विंशब्राह्मणम् । रेतस्या गायत्री त्रिष्टुब्जगत्यनुष्टुप् पङ्क्तिर्द्वे गायत्र्यौ रथन्तरवर्णेति धुराश्छन्दांसि । प्रजापतिरग्निरिन्द्रः सूर्यः प्रजापतिः सोम इति देवताः । अन्नमनसी प्राणापानौ चक्षुषी श्रोत्रे वाक् समानोदानाविति सर्वं पृथिव्यन्तरिक्षं द्यौः सर्वं दिश इति ध्यानानि । प्रस्तावस्य प्राणो देवता । आदित्य उद्गीथस्य । अन्नं प्रतिहारस्येत्युषस्तिब्राह्मणे दर्शितम् । तत् सर्वं स्तुतिष्वनुसंधेयम् । विनर्द्दिसाम्नो वृणेऽपशव्यम् (जै० उ० ब्रा० १.१६.३.८) इत्यग्नेरित्यनु- वाकोक्तं च । तत्र स्वधापितृभ्यः इत्यादिष्वपि वाक्येषु आगायानि इति पदमनुषज्जनीयम् । अथ सकृद्धिंकृत्य बहिष्पवमानेन स्तुवीरन् । सर्वत्र हिंकारकाले शुनां समुपवेशनं कुर्युः । उपास्मै गायता नर (सा० ६५१-९) इत्याद्यासु नवसु ऋक्षु प्रत्यृचं गायत्रं गेयम् । बहिष्पवमानं प्रकृत्येमे वैं लोका गायत्रम् ( तां० ब्रा० ७ .१. १) इत्यादिना गायत्रस्वरूपवर्णनात् । गीतिविकारो गायत्रस्य धुरः स्तोत्रीयानुरूपयोर् ( ला० श्रौ० सू० ७. १२.१-२) इति बहिष्पवमानस्यर्चोऽधिकृत्य वचनाच्च । तस्य सर्वत्राद्यः पाद ओंकारान्तः प्रस्तावः । आद्यपात् प्रस्ताव ओंकारान्त ( आ० ब्रा० १.१.१६) इति श्रुते । गायत्रस्य पदेन प्रस्तावः सर्वत्र । अष्टाक्षरेणेति धानंजय्य ( ला० श्रौ० सू० ७ .१०. १५-६) इति वचनाच्च । सर्वेषां स्तोत्रसाम्नामोमित्युक्त्वोद्गातोद्गीथमाददीतेति पूर्वमेव प्रतिपादितम् । परमेष्ठी देवी गायत्री परमात्मेत्योंकारस्य ऋष्यादयः । क्रुष्टादिस्वराणां क्रुष्टः प्राजापत्य इत्युक्ता देवता। रेतस्यां पवमाना- येन्दवा इत्येवं त्रिरुद्गृह्णीयादिति धूर्गानाख्यो विशेष उक्तः । अभि- देवाँ इयेत्यादि धियो यो नः प्रचोदयादित्यादिवदूगेयं गायत्रेषु प्रस्तावादूर्ध्व- मार्चिकं गानं मनसा कुर्वन्नोंकारेणार्चिकस्वरेण वाचा गायेदुद्गाता । तथा च ब्राह्मणम् -अनिरुक्तं गेयमेतद्वै गायत्रस्य क्रूरं यन्निरुक्तम् (तां० ब्रा० ७ .१. ८) इति । सूत्रं च-शेषमुद्गाता मनसा तु स्वभक्तिमोंकारं तथा स्वरं वाचा (ला० श्रौ० सू० ७. १०.२०) इति । हिम् आ इति हिंकारमुद्गाता रेतस्यायां न ब्रूयात् । अहिंकृता प्रथमा रेतस्ये- (ला० श्रौ० १. १२.८) ति वचनात् । सादिति निधनं त्रयो ब्रूयुः । ठद्गातैव वा । तथा निदानप्रकरणे सूत्रम्-गायत्रे तु विकल्पः । सर्वे चोद्गाता वेति । गायत्रप्रकरणे च सर्वे वा निधनं न्यायादिति रेतस्याया ऊर्ध्वं हिंकारमप्युद्गाता वाचा ब्रूयात् । ऊर्ध्वं रेतस्याया द्व्यक्षरं शिष्ट्वा हिकारं ब्रूयाद्(ला० श्रौ० सू० ७.११. ३) इति वच- नात् । मनसा तु प्रतिहर्ता । हिंकारो वै गायत्रस्य प्रतिहारः । स मनसा ध्येय (तां० ब्रा० ७. १. ४-५) इति श्रुतेः । द्वितीयायामशिश्रादेयु- र्वन्दे वायेत्यक्षरव्यत्यय । आर्चिकगाने विशेषः । तत्सवितुर्गायत्रवद् गेयम् । सामिति निधनम् । तृतीयायां शांजानायेत्यादिरार्चि- कगाने विशेषः । तथा स्वरमोंकारं ब्रुवाणः षाध इत्येतन्निरुक्तं गायेत् । सुवरिति निधनम् । चतुर्थ्यामृच एवाक्षराणीत्यष्टाक्षरः । प्रस्तावार्थं तत्सवितुर्वरेणियोमितिवद्दविद्युततियारुचोमिति विकर्षेण प्रस्तावः । पारिष्टोभान्तायेत्यादिरार्चिकगाने विशेषः । सोमा शुक्रा इत्येतदार्चिकं वाचा गायेत् । इडेति निधनम् । पञ्चम्यामावाजं वाज्यक्रमीदित्यादिरार्चिकगाने विशेषः । तस्या द्वितीयं पादं नुषा इति च निरुक्तं ब्रूयात् । वाक् इति निधनम् । षष्ठ्यामृधक्सोमसुवस्तयोमिति विकर्षेण प्रस्तावः । संजग्मानो इत्यादिरार्चिके विशेषः । आकार एव निधनम् । अतः परासु धूर्गानाभावात् तत्सवितुर्गायत्रा- भावान्न विशेषः । उत्तमा रथन्तरवर्णा । तस्यामास्तां गावो इति चतुर्भिरक्षरैश्चतुःकषर्णं कृत्वा न धेनावा इति पुनः कर्षणं कुर्यात् इत्यार्चिकगाने विशेषः । तत्तु मानसम् । वाचिके तु भाशब्देन चतुष्कर्षणं कृत्वा शेषं तथा स्वरेण ओंकारेण गायेत् । हिम्मित्याविसृष्टं हिंकारं ब्रूयात् । रथन्तरवर्णोत्तमा आविसृष्टहिंकरा (ला०श्रौ० १.१२.१०) इति वचनात् । एवं त्रिवृता बहिष्पवमानेन स्तुत्वा अन्नमकरम्(तां० ब्रा० १ .३.७) इत्युद्गाता जपेत् । प्रस्तरे न्यस्तहस्तं यजमानं श्येनोऽसि (तां० १.३. ८) इति वाचयेत् । उद्गातार ठपह्वयध्वम् इत्युक्तवन्तं यजमानमुपहूत इत्युपह्वयेरन् । ईक्षकान् सहकारिणश्च प्रेक्षमाण उद्गाता संवर्चसा (तां० १.३. ९) इति जपेत् । आदित्यं पश्यन् नमो गन्धर्वायेति धेही-(तां० १. ३.१ ०)त्यन्तं जपेत् । प्रस्तरात् तृणमादायो- भयतः परिच्छिद्य मध्यभागं चात्वले यदि स्तुतमिति प्रास्येत् तत्रैव समुद्रं व (ला० श्रौ० २ .१. ७) इत्युदपात्रं निनयेत् । बहिर्वेद्युदङ्मुख- स्त्रीणि पदानि पञ्च सप्त नव वोत्क्रम्य दक्षिणपार्श्वेनावृत्य अग्नी- ध्रीयस्य पश्चादुपविश्य बहिष्पवमानस्यर्चामुपरिष्टाज्जपं कुर्युः । मन्द्रं प्रातःसवने स्तुवीरन् । उत्तरोत्तरमुत्तरयोः सवनयोः एतस्यां वेलायां भुञ्जीरन् । राजानं भक्षयित्वा तदहर्ग्राम्यमन्नं नाश्नीयादिति श्रुत्यन्तरवचनात् ।।

[ धिष्ण्याद्युपस्थानम् ]

अथ सवनीयवपायां हुतायां धिष्ण्योपस्थानं कुर्युः । सम्राडसी- (तां० ब्रा० १ ४. २)त्याहवनीयमुपस्थायोदङ्मुखा गत्वा तुथोऽसी- त्यास्तावमुपतिष्ठेरन् । नभोऽसीति चात्वालम् । असंमृष्टोऽसि (तां० ब्रा० १. ४ .३)इति शामित्रम् । विभुरसि(तां० ब्रा० १ .४.४ )इत्याग्नी- ध्रीयम् । तमुत्तरेण सर्वदा गच्छेयुः । उत्तरयोः सवनयोः पृष्ठ- होमार्थं गमनं हविर्धानगमनं चाग्नीध्रीयस्य दक्षिणत । सदसः पूर्वस्मिन् द्वारे प्रत्यङ्मुखाः स्थित्वा वह्निरसि (तां० ब्रा० १.४.५) इति होतुर्धिष्ण्यमुपतिष्ठेरन् । श्वात्रोऽसि(तां० ब्रा० १ ४ ६) इति मैत्रा- वरुणस्य उदङ्मुखा भूत्वा तुथोऽसीति ब्राह्मणाच्छंसिनः । उशिगसीति पोतुः । अन्धारिरसीति नेष्टुः । अवस्युरसि(तां० ब्रा० १. ४.७) इति अच्छावाकस्य । द्वार्येव स्थित्वा शुंध्युरसि(तां० ब्रा० १.४. ८) इति मार्जालीयम् । ऋतधाम (तां० ब्रा० १ .४ .९) इत्यौदुम्बरीम् । समुद्र (तां० ब्रा० १. ४.१०) इति ब्रह्मसदनम् । उत्तरेण सदो गत्वा अन्तर्वेदिप्रत्यङ्मुखास्तिष्ठन्तोऽहिर् (तां० ब्रा० १ .४ .११ )इति पुराणगार्ह- पत्यम् । अज (तां० ब्रा० १. ४. १२) इति पुराणाहवनीयम् । सगरा (तां० ब्रा० १.४.१३) इति दक्षिणाग्नेरायतनम् । कव्य (तां० ब्रा० १.४.१४) इति दक्षिणवेद्यन्तम् । तत्रैव तिष्ठन्तः सर्वानाहवनीयादीन् वीक्षमाणाः पातमा (तां० ब्रा० १ .४.१५) इति समस्तोपस्थानं कुर्युः ।।
 
[ सद उपवेशनोपह्वानभक्षणानि ]

सदसोऽपरयाद्वारा द्वारबाहुद्वयम् ऋतस्य द्वारौ स्थ इति पाणिभ्यां युगपत् संमृज्य मा मा संताप्तम्(तां० ब्रा० १. ५. १)इति सदः प्रविश्य
औदुम्बरीं दक्षिणेन गत्वा तस्या उत्तरतो गत्वा नमः सखिभ्य (तां० ब्रा० १.५.२) इत्युपविशेयुः । प्रस्तोतारं पूर्वेण प्रतिहर्ता गच्छेत् । उद्गातारः परस्परमुपह्वयेरन् । प्रस्तोतरुपह्वयस्व प्रतिहर्तरुपह्वयस्वेति चोद्गाता ब्रूयात् । उपहूत इतीतरौ ब्रूयाताम् । एवं प्रस्तोता प्रतिहर्ता चेतरा- वनुज्ञानं कुर्याताम् । यजमानेनोद्गातार उपह्वयध्वमित्युक्ताः उपहूत इत्युपह्वयेरन् । उद्गातौदुम्बरीमुच्चाग्रैः कुशैः परिवेष्ट्य प्रदक्षिणम् ऊर्ध्वदशेन क्षौमादिना परिवेष्टयेत् । चमस आहृते प्रस्तोता तमुभाभ्यां हस्ताभ्यां प्रतिगृह्य दक्षिण ऊरौ निधाय दक्षिणेन पाणिना पिधायासीत । इडोपहवे प्राप्ते तत्समाप्तेरिडापात्रसदृशमुभाभ्यां हस्ताभ्यां - स्वमुखसमीपे सोममस्पृशन्धारयेत् । वषट्कारनिमित्त- भक्षणार्थं समाख्याभक्षणकाले सर्वत्रोद्गातॄणां भक्षणम् । यजमानः सवनमुखीयभक्षणकाले अग्निर्मे होता स मोपह्वयतामित्युपांशु जपित्वा होतरुपह्वयस्वेत्युच्चैर्ब्रूयात् । एवमुत्तरैरपि मन्त्रैर्यथालिङ्गमुपहवमिच्छेत् । उपहूत इति सर्वैरुपहवे दत्ते स्वं चमसमुद्गातारः परस्परमुपहूय भक्षयेयुः । तत्र प्रथममुद्गाता दक्षिणमनु बाहुं दण्डं कृत्वा श्येन (तां० ब्रा० १. ५.३) इत्यवेक्ष्य इन्दविन्द्रपीतस्येन्द्रियावतो गायत्रच्छन्दस (तां० ब्रा० १.५.४) इत्यादिना द्विरल्पं भक्षयेत् । ऊर्ध्वः सप्त ऋषीन् (तां० ब्रा० १ . ५.५) इति चक्षुषी नासिके श्रोत्रे चाभिमृशेत् । सोम रारन्धि(तां० ब्रा० १.५.६) इति हृदयम् । सोम गीर्भिर् (तां० ब्रा० १.
५. ७) इति नाभिम् । एवं प्रस्तोता । ततः प्रतिहर्ता । स च तं चमसम् अभिमृश्य आप्यायस्व (तां० ब्रा० १.५.८) इत्याप्याययेत् । सर्वे वा भक्षयितारः । प्रतिहर्तृभक्षणादूर्ध्वमाप्याययेयुः । ठद्गातृ- चमसं प्रस्तोतृप्रतिहर्तृव्यतिरिक्ता न भक्षयेयुः । उद्गाता प्रथम(ला० श्रौ० २.५.४) इत्यस्मिन् सूत्रे उद्गातेति पाठादेव प्राथम्ये सिद्धे प्रथम इति गुरुन्यासकरणात् वषट्कर्तु प्रथमभक्ष इत्यादिशास्त्रप्राप्तेः प्रति- षेधात् उद्गातृचमस नान्यो भक्षयेदिति शाखान्तरवचनाच्च । नात्रा- चमनादि कार्यम् । न सोमेनोच्छिष्टा भवन्ति (भा० श्रौ० सू० ५.६.३) इति श्रुतेः । सवनेषु च द्वितीयाश्चमसा नाराशंसाः । पूर्वयोः सवनयो- स्तृतीयौ च तेषां पूर्ववत् प्रतिग्रहभक्षणादि । श्येन इत्यवेक्षणं निवर्तते । अवमैस्ते पितृभिर्भक्षितस्य (तां० ब्रा० १.५.९) इत्यादिना प्रातः- सवने नाराशंसं भक्षयेयुः । नाराशंसे चक्षुराद्यभिमर्शनत्रयकार्यं वा न वा ।।

[आज्यस्तोभेषु स्तोम-कुशापर्याय-विष्टावाः ]
अथाज्यनामानि चत्वारि स्तोत्राणि । त आजिमायन् । यदा- जिमायंस्तदाज्यानामाज्यत्वम् (तां० ब्रा० ७.२.१) इति श्रुतेः । चत्वारि सन्ति षडदेवत्यानि (तां० ब्रा० ७.२.३) इति च । तानि च क्रमाद् अग्न आ नो मित्रावरुणायाहीन्द्राग्नी (सा० ६६०-७१) इत्येतेषु चतुर्षु तृचेषु कर्तव्यानि उत्तरापाठक्रमात् । ब्राह्मणे च सोऽग्निरग्र उदजयत् । अथ मित्रावरुणौ । अथेन्द्रः । अथ सैषेद्राग्नी (तां० ब्रा० ७.२.२) इति देवतानुक्रमात् । एतेषां च तत्तद्देवतालिङ्गात् । एषु च गायत्रमेव साम बहिष्पवमानं प्रकृत्य गायत्रविधानात् । आज्येषु सामान्तरानुपदेशात् । सर्वाणि स्वाराण्याज्यानि (तां० ब्रा० ७ .२.५) इति लिङ्गात् । सूत्रकारेण च जगतीगायत्र्यौ त्रिष्टुबनुष्टुभाविति पृथगाज्यप्रथमासु गायत्रीगीतिविकारभूतस्य धूर्गानातिदेशात् । आज्यानां पुष्कलो गायत्रीत्यृषिच्छन्दसी । अग्निर्मित्रावरुणाविन्द्र इन्द्राग्नीति क्रमेण देवताः । प्रजापतिर्देवेभ्य आत्मानम् (तां० ब्रा० ७.२.१) इति विधायक- ब्राह्मणम् । यस्य वा एता बहिष्पवमाने विगीयान्तराज्येषु संगायन्ति (ष० विं० ब्रा० २.३. १२) इति धूर्विधायकब्राह्मणम् । मनो हिंकार इति भक्त्युपासनम् । पञ्चदशस्तोमान्याज्यानि । तथा च त्रिसंस्थस्य ज्योतिष्टोमस्य स्तोमविधिब्राह्मणम्- त्रिवृद् बहिष्पवमानम् । पञ्चदशान्याज्यानि । पञ्चदशो माध्यंदिनः पवमानः । सप्तदशानि पृष्ठानि । सप्तदश आर्भवः । एकविंशोऽग्निष्टोमः सोक्थ्यः । पञ्चदशी रात्रि । त्रिवृत्संधि (तां० ब्रा० २० .१. १) इति । पञ्चदशस्तोमा- वृत्त्या संपाद्य तृचस्य पञ्चदशत्वविधानात् । यदाज्यै पुनरभ्यावर्तं- स्तुवन्ति(तां० ब्रा० ७.२. ६) इति श्रूतेः । आवृत्तिश्च पञ्चभ्यो हिंक- रोति(तां० ब्रा० २. ४. १)इत्याद्यया पञ्चपञ्चिन्या विष्टुत्या कुशा- विधानेन विधेया । आद्याभिः विष्टुतिभिः स्तोमविधानमनादेशे ताः पथ्या सर्वाभिप्रायाश्च (ला० श्रौ० सू० ६.२. २) इति वचनात् । तत्र प्रथमस्याज्यस्य ऋग्जपे कृते प्रस्तोताध्वर्युदत्ते तृणे प्रतिगृह्य ब्रह्मन्निति प्रस्तरवदुद्गात्रे दद्यात् । अत्र अभिरूपा करोतीत्यादिषु तृणदानाभावेऽपि न मन्त्रं जह्यात् । उद्गाता प्रस्तरवत्तृणाभ्यां जङ्घामुपहत्य दीक्षायै वर्णेने- त्याद्यपानाये(तां० ब्रा० १ .५. १० )त्यन्तेन स्तोमं युञ्ज्यात् । औदुम्बर्याश्रयः सर्वाणि स्तोत्राणि उद्गाता गायेत् । पर्यायादिषु हिंकुर्युः । पर्यायादिषु हिंकारं स्तुवीरन् (ला०श्रौ० सू० २.६.१ )इति आवृत्तिस्तोत्राण्यधिकृत्य वचनात् । स्तोष्यमाणानां मध्ये कुशास्तरणार्थं वस्त्रमुदक्समासमुपरिदशमास्तीर्य प्रस्तोताप्रस्तावान्तेषु कुशा विदध्यात् । सर्वस्तोमानां त्रयः पर्यायाः । प्रति- पर्यायं त्रयो विष्टावाः । तदुक्तम् - प्रथमस्य पर्यायस्य प्रथमा तृचभागा । तस्यास्त्रिर्वचनम् । मध्यमावापस्थानम् । उत्तमा परिचरा । परिचरा तृच- भागः वापस्थानम् इति मध्यम आवापस्थानम् । परिचरा तृचभागे- त्युत्तम एते विष्टावा (ला. श्रौ. ६.५. १-६) इति । तत्र प्रथमस्य पर्यायस्य प्रथमं विष्टावं प्रथमया स्तोत्रीययोदगग्राभिः प्राक्संस्थाभिः कुशाभि- विदध्यात् । तस्य पश्चान्मध्यदेशे प्रागग्राभिः कुशाभिरुदक् संस्थाभि मध्यमया स्तोत्रीयया द्वितीयं विष्टावम् । तस्य पञ्चाहुः ग्राभिः प्रत्यकसंस्थाभिरुत्तमया स्तोत्रीयया तृतीयं विष्टावम् इत्येकः पर्यायः । एवमुत्तरौ पर्यायौ । पर्यायान् विष्टावांश्च परस्पर० संसृष्टान् कुर्यात् । तत्र प्रथमायां स्तोत्रीयायां दविद्युततियारुचोमिति- वद्धूर्गानम् । निहोतासा इति निरुक्तं गायेन् । इतरासु चतुर्दशसु
तत्सवितुरिति गायत्र्यां न विशेषः । उत्तमां प्रस्तुत्य शंसिष्यन्तं प्रत्येषेति ब्रूयात् ।।

[ यजमानवाचनादि सवनमुखीयवद्भक्षणान्तम्]

स्तुतस्य स्तुतमसी(तां० ब्रा० १ .६.३) इति प्रस्तरवत्तृणे आलब्ध- वन्तं यजमानमुद्गाता वाचयेत् । बहिष्पवमानान्तवदुपहवः । ऋग्- जपं कृत्वा यथोक्तं नाराशंसभक्षणं कुर्युः । प्रथमद्वितीयौ पूर्वयो सवनयोराप्याययेत् । प्रथमं तृतीयसवन (ला० श्रौ० २.५. १७) इति वचनात् । इतःप्रभृतीनां प्रातःसवनीयानां चमसगणानां नाप्यायनम् । द्वितीयेऽप्याज्य ऋग्जपः । आ ना मित्रावरुणेति । अभिते मधुनापयोमितिवत्प्रथमाभ्यासः । शेषं सर्वं प्रथमाज्यवत् । सवनमुखीयवद्भक्षणम् । तृतीये स नः पवस्व शंगवोमिति- वत्प्रथमाभ्यासः । सादा इति निरुक्तं गायेत् । शेषं समानम् । सवनमुखीयवद्भक्षणम् । चतुर्थे हिन्वानाहेतृभिर्हिनोमितिवत्प्रथमाभ्यासः । गाइभिर्नभोवरेणियां धिया इति च निरुक्तम् । न त्वाज्येषु निधन- विकारः । न तूर्ध्वं बहिष्पवमानात्स्युरि(ला०श्रौ. ७. १३. ८)ति वचनान् । इतरत्सर्वं समानम् । सवनमुखीयवद्भ्रक्षणम् ।।

[ माध्यन्दिनाय प्रसर्पणमृत्विजाम् ]

सवनसंस्थासु सर्पतेति प्रशास्त्रोक्तेऽपरया द्वारा यथैतन्नि- ष्क्रम्याग्नीध्रीयस्य पश्चाद् बहिर्वेदि मूत्रादि कुर्युः । मूत्रं कृत्वा यावदाचमनं वाग्यमनम् । एतन्मृगतीर्थम् । तेन शम्यापरासात् परं न गच्छेयुः । ततः परं जिगमिषुराप्नानेन गच्छेत् संतिष्ठते प्रातःसवनम् ।।
इति प्रातःसवनम् ।।

माध्यंदिनं सवनम् [ लोकद्वारसामगानादि माध्यन्दिनपवमानसर्पणान्तम्]

अथ माध्यंदिने सवने राज्ञोपावहरणात् पूर्वं यजमानः पश्चादग्नीध्रीयस्योदङ्मुख उपविश्य लोकद्वारमिति रौद्रं साम त्रिर्गायेत्। पुष्कलो द्विपदा गायत्री रुद्रः । नमो वायव इति स्वाहेति तत्रैव हुत्वा अप जहि परिघमित्युक्त्वोत्तिष्ठेत् । पूर्ववद्धिष्ण्योपस्थानं कृत्वोत्तरत औदुम्बर्याः पूर्ववदुपविष्टेषूद्गातृषु यजमानोपहवान्ते कृते प्रस्तोता होतृमैत्रावरुणधिष्ण्यावन्तरेण पूर्वया द्वारा निष्क्रम्य हविर्धानं गच्छेत् । अयमेव पृष्ठहोमगमने मार्गः । विसंस्थिते सवने पूर्वया द्वारान्त- रेण होतुर्धिष्ण्यं मैत्रावरुणस्य तु संचरतस्तद्यथेति वचनात् । पूर्व- वद्धविर्धानप्रवेशनादि प्राक्सर्पणात् प्रवणवर्जं यथासंभवं कुर्यात् । तथोद्गातृप्रतिहर्त्रोः सर्पणार्थं प्रस्तोतृमार्गेण गमनम् । सर्वे बहिष्पवमानवत् सर्पन्तोऽध्वर्युमार्गेण गत्वा सदसि तद्वदेवोपविशेयुः । अत्र कश्चिदाह- माध्यंदिने यस्यैव हविर्धानगमनं तस्य प्रस्तोतुरेवान्वारम्भाद्युपवेशनान्तम् । नेतरयो । एवं तृतीयसवने प्रतिहर्तुरेवेति । तदयुक्तम् । एतत्सर्वं कुर्यादुत्तरयोः सवनयोरि ( ला० श्रौ० १. १२. १८ ति सर्व- ग्रहणात् । तद्धि यस्यैव हविर्धानगमनं तस्यैव सर्पणं माविज्ञायेति । उपग्रन्थकारश्च उभयोर्वा सर्पणयोः प्रतिहर्ता विच्छिद्येत । विभवेत्स्वित्तत्र सकृत्कृतं प्रायश्चित्तमिति माध्यंदिनेऽपि सवने प्रतिहर्तुः सर्पणमनुवदति । न हि प्रातःसवनतृतीयसवनस्थयोर्विच्छेदयोः सह प्रायश्चित्तविकारो युक्तः । पूर्वस्य माध्यंदिने एव सवने प्रायश्चित्तकरणात् । आप- स्तम्बश्च विशेषेणाह- बहिष्पवमानवन्माध्यदिन पवमानं सर्पन्ति(आप०श्रौ० १३.२.७) इति ।।

[ माध्यन्दिनपवमानस्तोत्रम्

सदस्युपविष्टा माध्यंदिनस्य पवमानस्यर्चो पश्येयुः । उच्चा- पुना-प्रगाथं प्रतुद्रेति । प्राणो गायत्री । व्यानो बृहती । अपानस्त्रिष्टुप् । इति श्रुतेः । तासां दिविसद्भूम्यादद इति प्राणानादत्तेति लिङ्ग- दर्शनात् ऋक्समाम्नायाच्चैते माध्यंदिनपवमानस्य तृचा इत्यवसीयते ।
बहिष्पवमानवत् प्रस्तरग्रहणादानस्तोमयोगजपाः । अग्निर्युनक्त्वित्यस्य स्थाने वायुर्युनक्तु मनसेति ब्रूयात् । एवता वाव एतद्वै यज्ञस्य प्रजापतिरकामयतेति विधायकब्राह्मणम् । त्रयीविद्या हिंकार ( जै० उ० ब्रा० ५. ५. १ २) इति भक्त्युपासनविधिब्राह्मणम् । द्वे गायत्र्यां सामनी ( ष. विं. ब्रा १ .३ .१२) इति । यद् गायत्र्यां गायत्रेण स्तुवन्ती (तां० ब्रा० ७.३ ७)ति च श्रुतेः । उच्चातृचे प्रथमं साम गायत्रम् । गायत्रेण स्तुत्वा निधनवता स्तुवन्ती(तां० ब्रा० ७.३.११) ति । स एतदामहीयवमपश्यदिति च । तत्स्थाने द्वितीयमामहीयवम् । तस्याग्नी रौरवं प्राबृहत । (तां०ब्रा० ७.५.७) अथेन्द्रो यौधाजयम्(तां०ब्रा० ७.५.१२) इति द्वे बृहत्यां सामनी (ष० विं० ब्रा० १.३.४) इति च श्रुतेः । पुनः प्रगाथे रौरवयौधाजये । अथ वायुरौशनं प्राबृहते (तां० ब्रा. ७.५. १ ६)ति एक त्रिष्टुभि सामे(ष० वि० ब्रा० १ .३.५) -ति श्रुतेः । प्रतुद्रवतृचमौ- शनम् । तेषां पुष्कलामहीयुरग्निरिन्द्र उशनेत्यृषयः । सोमो देवता । पञ्चानां साम्नां क्रमेण स्वारणिधनवदैडपदनिधनपदानुस्वारत्वात् । प्रजापतिरिन्द्रेऽग्निरग्निः सोम इति क्रमेण निधनदेवताः । अथातः सामान्तानामि(नि. सू. १. १२.१ )ति निदानोक्तं निधनार्षेयमप्यनु- संधेयम् । साम्ने साम्ने हिंकुर्युः । आमहीयवस्य पर्व प्रस्तावः । उपग्रन्थोक्तं प्रतिहारभागं प्रतिहर्ता सर्वत्र ब्रूयात् । प्रस्तावप्रति- हारव्यतिरिक्तम् उद्गाता । सर्वे निधनं ब्रूयुः । स्तौष इत्यस्य निधनम् । एवमुत्तरयोर्गानम् । रौरवेऽप्येवमिडेति निधनम् । यौधाजये पादः प्रस्तावः । षासीत्यादि हिषीस्वरं द्व्यक्षरनिधनम् । आमहीयवत् शेषम । औशनेऽपि सर्वमामहीयवत् । अन्त्योऽनुस्वारो निधनम ।।

[ सवनमुखीयभक्षणादि दक्षिणाप्रतिग्रहनाराशंसभक्षणान्तम्

एवं पञ्चदशेन माध्यंदिनपवमानेन स्तुत्वा अन्नमकरमिति नमो गन्धर्वायेति जपान्तं पूर्ववत् कर्तव्यम् । वृषकोऽसि त्रिष्टु- छन्दा इति वाचने विशेषः । ऋग्जपं कुर्युः । यजमानः सवनमुखीये वाडःऽमे होतेत्यादिभिर्यथालिङ्गमुपहवमिच्छेत् । उद्गातारः प्रातःसवनवत् सवनमुखीयं भक्षयेयुः । गायत्रच्छन्दस इत्यस्य स्थाने त्रिष्टुप् छन्दसेति विशेषः । सं ते पयांसीति त्रिष्टुभाप्यायने कृते दक्षिणां प्रतिगृह्णीयुः ससुब्रह्मण्याः । भक्षणादिष्वेव सुब्रह्मण्यस्य निवृत्तिः । न प्रतिग्रहे । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि । वरुणो वो नयतु देव्यो दक्षिणा रुद्राय गास्ताभिरमृतत्वमशीय । वयो दात्रे भूयात् । मयो मह्यं प्रति- ग्रहीत्रे । क इमाः कस्मा अदात् कामः कामायादात् । कामो दाता कामः प्रतिग्रहीता । कामः समुद्रमाविशत् । कामेन वः प्रतिगृह्णामि । कामैतास्ता इति गवां प्रतिग्रहे मन्त्रप्रयोगं कुर्यः । तदभावे- हिरण्यपक्षेऽपि गोमन्त्रेणैव प्रतिग्रहः । तत्कार्यापन्नत्वात् । ओर्वैस्ते पितृभिरित्यादिना भक्षयामीत्यन्तेन नाराशंसस्य भक्षणम् । पूर्ववदाप्यायनम् ।।

[ पृष्ठहोमः]

प्रस्तोता होतृमैत्रावरुणधिष्ण्यावन्तरेण पूर्वया द्वारा निष्क्रम्याग्नीध्रीयस्य दक्षिणतो गत्वा आहवनीये स्रुवेण पृष्ठहोमं कुर्यात् । रथन्तरं पिबतु सोम्यमिति स्वाहान्तेन स्वाहेति चाहुतिद्वयम् । ततो यथैतं प्रत्यावृज्य स्वस्थाने उपविशेत् ।।

[ पृष्ठस्तोत्राणि]

अनन्तरं पृष्ठनामानि चत्वारि स्तोत्राणि । अथ यदेव तत ऊर्ध्वं तानि पृष्ठानि । बार्हतान्येकगायत्रीकाणि ( ष० विं० ब्रा० १. ३.७-८) इति श्रुतेः । अत्र यद्यपि ब्राह्मणे वृहद्रथंतरयोर्द्वयोरपि प्रथमपृष्ठत्वेन विधानं तथापि सामर्थ्यात् तयोर्विकल्पः । तत्र रथन्तराश्रयः प्रयोगः प्रथममुच्यते । कस्माद्रथन्तरं पूर्वं योगमानश (तां. ब्रा. ७. ६.९) इति श्रुतेः । ब्राह्मणस्य प्रथमप्रयोगे रथन्त- रस्यैव वक्तव्यत्वात् ऋक्समाम्नाये रथन्तरस्तोत्रीयस्यैव प्रथमाम्नानाच्च वृहदाश्रयः परस्ताद्वक्ष्यते । रथन्तरस्तवनार्थमभित्वाशूरप्रगाथस्य पुरस्ताज्जपं कुर्युः । प्रथमा बृहती । ककुभावुत्तरे । वसिष्ठ इन्द्रः प्रजापतिरकामयत । स तूष्णीम् (तां. ब्रा. ७.६.१) इति ब्राह्मणम् । अभिमन्धति स हिंकारः इत्युद्गीथोपासनं ब्राह्मणम् । प्राक्स्तोम- योगाद् ऐरं वै बृहदित्यादि अयं रथंतरमि(तां. ब्रा. ७.६. १७)त्यन्त- मुद्गाता मनसा ध्यायेत् । यस्ते गोष्विति द्रविणवन्न एधीत्यन्तं चतुर्णां पृष्ठानां तृणप्रतिग्रहादि कुशाविधानान्तमाज्यवत् सप्तदशत्वात् दशसप्ता विष्टुतिः । रथन्तर प्रथमाया अष्टाक्षरः प्रस्तावः । उत्तरयोर्द्व्यक्षरः । प्रस्तूयमान उद्गाता चक्षुषी निमील्य प्रस्तावानन्तरं पृथिवीं हस्ताभ्यामालभ्योद्गीथम् ओं वागित्यादिकं क्षिप्रं ब्रूयात् । तत्र प्रतिहारात् प्राक् चतुरक्षरं शिष्ट्वा ततः पूर्वेष्वक्षरेषु व्यञ्जनानि लोपयित्वा भकारादीन् स्वरान् कुर्यात् । आर्चिकं मनसा युगपत् गायेत् । प्रतिहारात् पूर्वभाविनि चतुरक्षरे चक्षुषी उन्मीलयेत् । ऊत्तमपादादौ पञ्चाक्षरः प्रतिहारः । उत्तमां प्रस्तुत्येत्याद्यृक्जपान्तमाज्य- वत् । उद्गाता यजमानं गोदानं चोदयेच्च । नाराशंसस्य पूर्व- वत् भक्षणम् । इतःप्रभृति माध्यंदिनीयानां चमसानां नाप्यायनम् । तस्मात् पृष्ठानां स्तोत्रं वामदेव्येनानुष्टुवन्तीति ।।
द्वितीयं पृष्ठं वामदेव्यम् । तस्य कया न इति तृचं जपेयुः । मित्रावरुणौ गायत्रीन्द्रः । आपो वा ऋत्वियमित्यादि ब्राह्मणमुपमन्त्रयते स हिंकार इति भक्त्युपासनम् । प्राक्स्तोम- योगात् गावो अश्वा अजावयो व्रीहयो यवा(ला०श्रौ० २.१०.१) इत्युद्गाता मनसा ध्यायेत् । आद्यपादेन प्रस्तावः । हाइति निधनम् । स्तोमयोगः कुशाविधानम् उत्तमां प्रस्तुत्येत्यादि च गोदानवर्जं पूर्ववत् । रथन्तराय नौधसं प्रतिप्रयुञ्जन्ति इति ।।
तृतीयं पृष्ठं तस्य तं वो दस्मम् इति प्रगाथं जपेयुः । नोधाः काक्षीवन्तो बृहतीन्द्रः । इमौ वै लौकौ सहास्ताम् (तां. ब्रा. ७ .१०.१) इति ब्राह्मणम् । त्रयीविद्या हिंकार इति भक्त्युपासनम् । यजमानस्य क्रतुफलं सिध्यत्वित्युद्गायन्नुपासीत । यजमानश्च ब्रह्मसाम्नि यः कामो
यजमानस्य स्यात् स सिध्यत्विति ध्यायन् उपासीत । तथेतर उद्गायन्नि(ला० श्रौ० २.१०. २-३)ति वचनात् । ब्राह्मणाच्छंसिनानु- शंसनीयत्वादिदं ब्रह्मसामेत्युच्यते । नौधसं सामोपधावामि । तं वोदस्मर्चमुपधावामि । नौधसमृषिमुपधावामि । इन्द्रदेवतामुपधावामि । बृहतीच्छन्द उपधावामि । सप्तदशं स्तोममुपधावामि । उदीची दिशमुपधावामि । आत्मानमुपधावामि । एवमुपसरणान्युद्गाता ध्यायन् स्तुवीत । तथा च रहस्यब्राह्मणम् - अथ खल्वाशीः समृद्धिरुपसरणानी त्युपासीत । इत्यादि । तत्र यद्यपि उपसरणानां काममात्रस्य च स्तोत्रमात्रसाधारण्येन ध्यानं श्रुतं तथापि सूत्रनिदानाभ्यां पृष्ठाना- मेव ब्रह्मसाम्नि क्रतुफलस्यैव ध्यानमिति निर्णयः । आद्यपादेन प्रस्तावः । अन्त्यं पर्व निधनम् । तृणप्रतिग्रहादि पूर्ववत् । तरोभिर्व इति ।।
कालेयं चतुर्थं पृष्ठम् । कलिर्बृहतीन्द्रः । देवाश्च वा असु- राश्चे(ष. विं. ब्रा. २ ३. १)ति ब्राह्मणम् । पर्व प्रस्तावः । इडेति डेति वा निधनम् । तृणप्रतिग्रहादि वामदेव्यवत् । सर्पतेति प्रशस्त्रोक्ते प्रातःसवनवन्निष्क्रमणम् ।।
।। इति माध्यंदिनं सवनम् ।।

सायं सवनम्

रथन्तरपृष्ठोऽग्निष्टोमः

[ लोकद्वारादिसामगानप्रभृति शुक्रधारानुमन्त्रणान्तम्]

अथ तृतीयसवनस्योपकरणात् पूर्वं यजमान उत्तरवेद्यग्नेः पश्चादुदङ्मुख उपविश्य लोकद्वारमित्यादित्यं वैश्वदेवं च साम त्रिर्गायेत् । पुष्कलो हि द्विपदा गायत्री । प्रथमस्यादित्यः । द्वितीयस्य विश्वेदेवाः । नम आदित्येभ्यश्चेति तत्रैव जुहुयात् । स्वाहेति च । अपहत परिघमित्युक्त्वोत्तिष्ठेत् । पूर्ववद्धिष्ण्यानुपस्थाय औदुम्बर्या उत्तरत उद्गातृषूपविष्टेषु यजमानोपहवान्ते कृते हुत आदित्यग्रहे प्रतिहर्ता हवि- र्धानं प्रस्तोतृवद् गच्छेत् । विष्णोः शिर इति रराट्यामालभ्येष ऊर्ज इति प्रविश्य तत्रावस्थितयोः कुम्भयोः पूर्वस्मिन् वसवस्त्वेत्या- दिभिर्द्रोणकलशवत्संमार्जनं कृत्वा तस्योपरि पवित्रन्त इति दशापवित्रं वितनुयात् । प्रशुक्रे(ला०श्रौ० १.१०.२१) ति धारामनुमन्त्रयेत् ।।

[ आर्भवपवमानस्तोत्रम्
अथ सर्वे माध्यंदिनवदन्वारम्भादि कृत्वा सदस्युपविश्यार्भवस्य पवमानस्यर्चो जपेयुः । स्वादिष्ठयेति तृचं पवस्वेन्द्रमच्छति एकर्चौ पुरोजितीति अभिप्रियाणीति तृचद्वयं चेति । तत्र स्वादिष्ठया तृचे प्रथमं गायत्रम् । आत्मा वै यज्ञस्य पवमानो मुखं गायत्री प्राणो गायत्रम् । यद्गायत्र्यां गायत्रेण स्तुवन्ति(तां०ब्रा० ७.३.७)इत्यस्य ब्राह्मणस्य गायत्रं पुरस्ताद् भवति । स्वारमन्तत इत्यस्य चोत्तरपवमानद्वयसाधारणत्वात् षड्विंशे चार्भवपवमानमधिकृत्य द्वे गायत्र्यां सामनी(ष०विं०ब्रा० १ .३. १२) इति वचनात् । सावित्री गेयं यत्रागीतम् (दे०अ०ब्रा० ३ २३) इति श्रुतेश्च । अत एवापवति ज्योतिष्टोमे कल्पः अन्तरेण गायत्रसंहिते गायत्रीसामान्यावपेत् इति । द्वितीयं संहितम् । तासु संहिताम्(तां०ब्रा० ८.४.८) इति श्रुतेः । गायत्रेण स्तुत्वा निधनवता स्तुवन्ती(तां. ब्रा. ७ .३. ११)ति च । पवस्वेन्द्रमच्छेत्येकर्चयोः सफपौष्कले । पुरोजीतीति तृचे श्यावाश्वान्धीगवे । अभिप्रितृचे कावमन्त्यमित्येवं सप्तदश आर्भवः । साध्या वै नाम देवा आसन्नि(तां०ब्रा० ८. ४)त्यनु- वाकयोः सफादीनां चर्चा प्रमाणं स्पष्टम् । तत्र यद्यपि सफपौष्कले तृचयोरधीयेते तथाप्यार्भवस्य सप्तदशस्तोमत्वात् अतिरिक्तानां स्तोत्रीयाणां ह्रासे कार्ये द्विप्रभृतीन्ककुप्प्रभृत्यानन्तर्येणे(ला.श्रौ ६.३.२६)ति सूत्रवचनात् ककुबुष्णिहोरेकर्चत्वम् । तृचाध्ययनं तु चतुर्विंशादिषूप- योक्ष्यते । गायत्रादीनां पुष्कलः प्रजापतिर्वसिष्ठः पुष्कलः श्यावाश्वोऽन्धीगुः कविरित्यृषयः । गायत्रीककुबुष्णिगनुष्टुब्जगत्य इति छन्दांसि । पवमानस्य सोमो देवता । माध्यदिनवच्छेषम् । सूर्यो युनक्तु वाचे(तां. ब्रा. १.५. १४)ति स्तोमयोगे विशेषः । कावे पर्व प्रस्तावः । इतरेषु पादः । सफश्यावाश्वयोः हाहकारो निधनम् । आन्धीगवे त्नवे अपश्वानं श्नथिष्टनेत्यन्तर्निधनम् । उत्तरयोरेवमन्तर्णिधन- मूहनीयम् । कावेऽन्त्यस्वरो निधनम् ।।

[ भक्षणम्]

स्वरोऽसि गयोऽसी(ला०श्रौ० २.१ ५)ति यजमानवाचनम् । यजमानः पूर्ववत् सवनमुखीये प्राणो मे होतेत्यादिरुपहवमिच्छेत् । सवनमुखीयभक्षणे जगच्छन्दस इति विशेषः । आप्यायस्वेति गायत्री जगती संपत्तये द्विरुक्त्वाप्याययेयुः । सन्नेषु नाराशंसेषु हविर्धानमपरया द्वारा प्रपद्य पुरोडाशादेकैकं पिण्डमादाय स्वस्य चमसस्याधस्तादत्र पितर(ला०श्रौ० २.१०.४) इति आवृषायध्वमित्यन्तेन दद्युः । भक्षणार्थमाह्रियमाणं नाराशंसम् अमी मदन्ते (ला०श्रौ० २.१०.५)ति षतेत्यन्तेन प्रतिमन्त्रयेरन् । काव्यैस्ते पितृभिर्भक्षितस्येत्यादिना तस्य भक्षणम् । सौम्यं चरुमाहृतमुद्गातावेक्षेत । आयुर्मे प्राण(तां० ब्रा० १. ५. १७) इति दध्मसीत्यन्तेन तस्मिन्नङ्गुलीमवधाय येनाह्याजिमि(तां०ब्रा० १ .५. १ ९)ति दधात्वित्यन्तेनाक्षिणी विमृजीत । एवमितरौ । प्रतिहर्ता पश्चात्तमुत्तरेण हृतं चरुं द्रव्येप्सु रोगवान्वाहतेन वाससा प्रच्छाद्य दक्षिणार्धं सदसो गत्वा भुञ्जीत ।।

[ अग्निष्टोमादि कुशासंलोभनान्तम्]
अथाग्निष्टोमस्तोत्रस्य यज्ञायज्ञीयस्य यज्ञायज्ञा वो अग्नय इति प्रगाथं जपेयुः । अग्निर्वैश्वानरः ककुबुत्तरा बृहत्यग्निः । देवा वै ब्रह्म व्यभजन्त(तां. ब्रा. ७.१०.१०) इति ब्राह्मणम् । लोमहिंकार इति भक्त्युपासनम् । एकविंशस्तोमः । सप्तसप्तिन्या विष्टुत्या कुशाविधानम् । उद्गातारः प्रावृतशिरस्काः स्तुवीरन् । पादः प्रस्तावः । उत्तरयोर्द्व्यक्षरः । वा इति निधनम् । तस्य वरुणो देवता । प्रथमायां स्तोत्रीयायां तिसृष्वभ्यासेषु हिंमा इति हिंकारकाले पत्नीमुद्गातावेक्षेत । सा च प्रथमद्वितीययोः स्तोत्रीययोः निधनकाले पन्नेजिनीभिरद्भिर्दक्षिण- म्रूरुमभिषिञ्चेत । तृतीयेऽभ्यासे प्रस्तुते सर्वं तदुदकमूरौ निनयेत् । तृणप्रतिग्रहादि सर्वमाज्यवत् । यज्ञायज्ञीयमाशंसन् होतापोहिष्ठ इति यदा ब्रूयात् तदा प्रावरणमपनयन्तो होतार० मन्वालभेरन् । सवनमुखीयवद्भक्षणम् । नाप्यायनम् । ऋतस्य त्वे(तां.ब्रा. १.६. ५)ति प्रतिष्ठामित्यन्तेन स्तोमं विमुञ्चेयुः । दक्षिणैः पाणिभिः कुशाः संलोभयेयुः ।।

[ यजमानवाचनादि दधिभक्षणान्तम्]

अथ यजमानमुद्गाता वाचयेत् । तन्तवे मा ज्योतिषा यज्ञशर्मन्ननु मा तनुहि ज्योतिषे (ला०श्रौ० २.११.३ )ति यथाज्येष्ठं पुत्रान् । तन्तवे मा ज्योतिषा पुत्रा अनु मा तनुत ज्योतिषेति अजातेषु पुत्रेषु । हारि- योजने हुते सोमे ही(तां०ब्रा० १ .६.६) त्यपरया द्वारा निष्क्रम्य सुभूरसी (तां०ब्रा० १.६.७)त्यादित्यमुपतिष्ठेरन् । अस्तमितश्चेत् गार्हपत्यम् (ला०श्रौ० २.११.८) । अग्नीध्रीयेऽपां पुष्पमि(ला० श्रौ० २.११. ९)ति स्वाहेति च द्वे आहुती जुहुयुः उद्गातृपूर्वाः । अथोद्गाता द्रोणकलशस्थानां धनानामेकदेशमादाय समुपहूता भक्षयाम इति ब्रूयाद् (ला०श्रौ० २. ११.१०) । एवं प्रस्तोतृप्रतिहर्तारौ तत उन्नेतरुपह्वयस्वेति उपहवमिष्ट्वा हारियोजनस्य त(ला०श्रौ० २. ११. १२ )इति द्विरुपाघ्राय आहवनीयस्य पश्चादन्तःपरिधि निर्वपेयुः । अनुप्रहृतेषु परिधिषु भस्मान्ते अप उपस्पृश्य अष्टावष्टौ शकलान्याहवनीयेऽनुप्रहरेयुः देवकृतस्येत्यादिभिरि- कारान्तैः । अत्रेकरान्तैरिति वचनं मन्त्रान्तज्ञापनार्थम् । न तु स्वाहान्तामन्त्रान्तहोमेषु इत्यस्यापवादार्थम् । चात्वालदेशेऽद्भिः पूर्णेषु चमसेषु प्रास्तृतहरिततृणेषु स्वं चमसं पर्युपविश्य अप्सु धौतस्येत्यव- मृश्य जपेयुः । मधुमन्तमि(ला.श्रौ. २ .११. १ ८)-ति पाणीनुपजिघ्रेरन् । शमद्भ्य(ला० श्रौ० २. ११.१९) इति उदञ्चं चमसं निनयेयु । कामेत्यध्यात्ममावर्तयेरन् । ऊर्गि(तां. ब्रा. १. ६. १५)त्युरस्सु पाणीन् निदधीरन् । प्राण सोमे(तां. ब्रा. १..६) ति मुख्यान् प्राणान् अभि- मृशेरन् । आग्नीध्रीयं गत्वा दधिक्राव्ण(तां. ब्रा. १ .६. १७) इति ऋचोपहववर्जं दधि भक्षयेयुः ।।

[ अवभृथः]

अवभृथकाले अध्वर्युः प्रेषितः प्रस्तोता सम्राडासन्दीमुत्तरेण गत्वा पश्चात्तिष्ठन् अहावोहावाः अग्निष्टपती(ग्रा. गे. १२.१२.४६५.३)
इत्यवभृथसाम गायेत् । पदाय पदाय स्तोभेत् । एविश्वमित्यादि निधनम् । मन्द्रस्वरान्तं कर्षन्तः सर्वे ऋत्विजस्त्रिर्ब्रूयुः । एवं मध्ये । प्राप्य चावभृथदेशं समाप्तायामिष्टौ अवभृथनिचुम्पुणे(ला०श्रौ० २ .१ २. ९)ति पाहीत्यन्तेन स्नात्वा शिरसि त्रिरभ्युक्षेयुः आदित्यम् उद्वयं तमस(ला०श्रौ० २ १२. १०) इत्यृचोपतिष्ठेरन् । अस्तमितश्चेदाहवनीयम् । तस्मिन् समिध आदध्युः । एधोस्येधिषीमहीति स्वाहान्तेन प्रथमाम् । समिदसि समेधिषीमहीति द्वितीयाम् । यदेन इति मृज्मह (ला०श्रौ० २.१२.१२) इत्यन्तेन तृतीयाम् । अपो अद्ये(ला०श्रौ० २ .१२. १ ३)ति वर्चसेत्यन्तेनाहवनीयमुपतिष्ठेरन् ।

[ उदयनीयोदवसानीययोः उद्भागवोद्वशीये सामनी

उदयनीयायां प्रधानयागकाले प्रस्तोता चोदस इत्युद्भार्गवं त्रिर्गायेत् । भृगुर्जगती सोमः । अनुबन्ध्यास्थानिकायामामिक्षायां याज्जायाज्जेति स्वारं पयोनिधनम् आग्नीध्रीयेऽवस्थाय तृचे गायेत् । वायुरनुष्टुबिन्द्रः । ठदवसानीयायां प्रधानयागकाले पूर्णाहुतौ वा गायन्ति त्वेति उद्वशीयं तृचे गायेत् । विश्वेदेवा अनुष्टुबिन्द्रः ।।

इति रथन्तरपृष्ठोऽग्निष्टोमः ।।

बृहत्पृष्ठोऽग्निष्टोमः

[ रथन्तरपृष्ठस्य भेदकानि बृहत्पृष्ठस्य प्रतिपदाज्यब्रह्मसामानि

अथ बृहत्पृष्ठोऽग्निष्टोमः । तत्र प्रतिपदाज्यानि ब्रह्मसामौष्णि- हमित्येतानि रथन्तरपृष्ठाद् भिद्यन्ते । तथा च निदानम्-अथैतानि बृहद्रथन्तरयोर्विभक्तानि स्थानान्यपि इतरेतरस्य तत्र गच्छतोः प्रतिपदा- ज्यानि ब्रह्मसामौष्णिहमि(नि. सू. ६.४ .१ १)ति बार्हतानि च प्रति- पदादिद्रव्याणि लोककामज्योतिष्टोमादिबृहत्पृष्ठेषु कल्पकारेण दर्शितानि । अथ यदि बृहत्पृष्ठोऽग्रियवती प्रतिपत् बार्हतान्याज्यानि बृहत्पृष्ठं श्यैतं ब्रह्मसाम श्रुध्यमुष्णिहीति ।।

[ प्रतिपत्]

तत्र पवस्व वाचोऽग्रिय इत्यस्याः प्रतिपदो बार्हतत्वं निदाने प्रतिपादितम् । ज्योतिष्टोमोऽग्निष्टोम उपवती प्रतिपदित्येषा रथन्तरपृष्ठेऽग्रिय- वती बृहत्पृष्ठेऽग्रियवद्बार्हतं रूपमुपवती रथन्तरेऽग्रियवती बृहती च भाल्लविनामि(नि ० सू० ३.३.१२)ति ।।

[ आज्यानि

उपास्मै तृचे विहितानि धूर्गानानि पवस्व वाचो अग्रिय इत्यत्र कार्याणि । तृतीयायां षाधास्थाने ता इधा इति निरुक्तम् । अग्निं दूतं मित्रं वयमिन्द्रमिद्गा चतुर्ऋचमिन्द्रे अग्नेत्याज्यानि । बार्हतमेव तद्रूपं निर्द्योतयतीति श्रुतेः । इन्द्रमिद्गा चतुर्ऋचेऽन्त्याया उद्धारः । चतुर्ऋचानामावर्तिष्वन्त्यामुद्धरेदि(ला० श्रौ० ६.४.१०)ति वचनात् । तेषु रथन्तराज्यवत् धूर्गानानि । अनिरुक्तगाने प्रथम आज्ये निहोता- सास्थाने अस्य यज्ञस्येति निरुक्तम् । द्वितीये तु नास्ति विशेषः । तृतीये तु सादास्थाने अनु चतुर्थे गाइभिर्नभोवरेणियास्थाने सुवृत्ति- मैरयामहा इति धियास्थाने अवा । बृहत्पिबतु सोम्यम् इति पृष्ठहोमे विशेषः । यत् पृष्ठं स्यात्तदादिश्येति वचनात् । त्वा- मिद्धीति बृहत्पृष्ठं स्वासु त्वावर्तिनीति वचनात् । स्वयोनीनि सर्वत्राभिरूपतराण्यस्वयोनिभ्य इति च। तस्य भरद्वाज ऋषिः । उद्यन् हिंकार इत्यभिध्यानम् । यस्तेगोष्विति जपश्च । संमीलनाद्युद्गीथ- धर्मस्य गोदानस्य च निवृत्तिः । त्वांकाष्ठा इति स्तोभान्तः प्रति- हारः । एवमुत्तरयोः । षोडशस्तोत्रीयासु नाजाइग्यूषा इति पाठः । उत्तमायां नाजिग्यूषा इति । बृहतः स्तोत्रोत्तमायां ब्राह्मणो- क्तानां रोहाणामुत्तमं न कुर्यादित्याचार्याः (नि० सू० २. १०. १७) इत्यादिनिदानवचनात् ।।

[ ब्रह्मसाम]

अभिप्रव इति श्यैतं ब्रह्मसाम । यद् बृहते श्यैतं प्रति- प्रयुञ्जन्ती(तां० ब्रा० ७.१०. ८)ति श्रुतेः । प्रजापतिर्बृहतीन्द्रः । श्यैतं सामोपधावामि । अभिप्रवर्चमुपधावामि । प्रजापतिमृषिमुपधावामि । इत्युपसरणे विशेषः । पौष्कलस्य स्थाने तस्यामेवर्चि श्रुध्यम् । तस्योदात्तगीतित्वेन बार्हतत्वादौष्णिहत्वाच्च । स्वयोनिश्रुध्यमाग्नेय- मिति पवमाने न क्रियते । तस्य ऋषिः प्रजापतिरिति बृहत्पृष्ठे विशेषः । रथन्तरपृष्ठवत् सर्वम् । ब्राह्मणस्य प्रथमे ज्योतिष्टोम- प्रयोगे रथन्तरमेव पृष्ठम् । द्वितीये बृहत् । तृतीये रथन्तर० मित्येवमजामित्वाय बृहद्रथन्तरयोर्व्यत्यास इत्याहुः । आर्षेयकल्पे न तु त्रयो वर्णकल्पा इत्यादिना ब्राह्मणस्य सर्वदा रथन्तरमेव पृष्ठम् ।
क्षत्रियस्य तु बृहदेवेत्युक्तम् ।।
इति बृहत्पृष्ठोऽग्निष्टोमः ।।

साग्निचित्यस्य विशेषः

[ चितिसामानि]

अथ साग्निचित्यस्य विशेषः । प्रथमोपसदानन्तरसुब्रह्मण्यान्ते महाग्निं चिन्वन्ति । तस्मिंश्चीयमाने प्रस्तोता पुच्छस्य पश्चिमेन गत्वा दक्षिणस्य पक्षस्य पश्चात् प्राङ्मुखस्तिष्ठेत् । यत्रोपधानं कुर्वन्ति ततः पश्चात् वा । पुष्करपलाश उपधीयमाने अध्वर्युप्रेषितो यजमानं सत्यमिति व्याहृतिसाम त्रिर्गायेत् । हिरण्मये पुरुष उपधीयमाने पुरुषा इति प्रथमायां चितौ स्वयमातृण्णायां भूरिति मध्यमायां भुवरिति उत्तमायां सुवरिति व्याहृतिसामानि । प्रजापतिस्तेषामृषिः । ऋगभावाच्छन्दो नास्ति । सत्यं पुरुषा अग्निवायुसूर्या इति क्रमेण देवताः । इष्टकाभिरग्निं चिनोतीत्यध्वर्युर्यजमानो वे(आ०श्रौ० १६.२ १.७)ति आपस्तम्बवचनात । यदा यजमानः स्वयं चिनुते तदा पुष्कर० पलाशे कर्तव्ये च्योह मूर्द्धेत्याज्यदोहं त्रिर्यजमानं गापयेत् । हिरण्यये पुरुषे कास्मिन् कयान (आ० गा० २२४) इति पुरुष- व्रतम् । प्रथमायां स्वयमातृण्णायां रथन्तरं तृचे । द्वितीयायां वाम- देव्यम् । तृतीयायां बृहत् । नाजाइग्यूषा इत्येवात्र पाठः । बृहतः स्तोत्रोत्तमायामित्यादिना निदाने स्तोत्रशब्देन प्रत्यवरोहस्य विधानात् । रथन्तरादीनि त्रीणि । प्रतिष्ठासि मन्ये वाक्कयानोहुवाइमन्य इति लोकसामानि विकल्प्यन्ते । तेषां त्रिरभ्यासः । मण्डूकविकर्षणान्ते कृतेऽग्नेर्दक्षिणतो गत्वा शिरसि प्रत्यङ्मुखस्तिष्ठन् अग्न आयूंषीति तृचे गायत्रं निरुक्तं गायेत् । अग्न आयूंषि पवसोम् । आसुवोर्जमिषं चानाश्आरेबाधस्वदु १२१२ हुं आ३ । छुनो । अग्निर्ऋषिः । पवमानोम् । पाञ्चजन्यः पुरोहाइता३ः तमीमहे महा १ २ १२ हुं आ३गायो । आ । अन्तेपवस्व स्वपोम् अस्मेवर्चस्सूवीरायां । दधद्रयिं मया १२१२ यि हुं आपोषो आ ३४५ । इति पुष्कलो गायत्र्यग्निः । प्रत्यागम्य दक्षिणे पक्षे उदङ्मुखस्तिष्ठन् रथन्तरं तृचे गायेत् । ततः पश्चात् प्रत्यङ्मुखो वा । पुच्छस्य पश्चिमेन गत्वा उत्तरे पक्षे दक्षिणामुखः पश्चात् प्राङ्मुखो वा बृहत्तृचे गायेत् । प्रत्यावृज्य पुच्छे यज्ञायज्ञीयं तृचे गायेत् यदि संवत्सरो दैक्षः सौत्यो वा । यथा तापश्चितगवामयनादिषु । अन्यत्र वासन्त इत्यृतुष्ठायज्ञायज्ञीयं त्रिः । प्रजापतिर्बृहत्यृतवः । दक्षिणस्य पक्षस्य पश्चाद्वामदेव्यं तृचे । प्रजापतर्हृदयमुत्तरस्य । ऋषिदेवते प्रजापतिः । आक्रमणेष्टकासमीपे श्यैतं तृचे गायेत् । रथचक्रचिदादिषु पक्षपुच्छाद्यभावे तत्प्रदेशे गानमिति विशेषः । समानमग्निष्टोमेन ।।

सोऽयं रथन्तरपृष्ठो बृहत्पृष्ठश्चाग्निष्टोमः सर्वक्रतूनां प्रकृति- र्ज्योतिष्टोमो वाच्यः । तथा च सूत्रे तथाविधस्याग्निष्टोमस्य तन्त्र- मनुक्रम्योक्तम् -एतं परिक्रमं सर्वक्रतुषु विद्यादेष ज्योति(ला०श्रौ० २. १२. १८ )रिति । ब्राह्मणे च किं ज्योतिष्टोमस्य ज्योतिष्टोमत्व- मित्याहुरित्युपक्षिप्य विराजं सस्तुतः सपद्यत(तां० ब्रा०. ६.३.६) इत्यादिना तस्यैवं ज्योतिष्टोमत्वं दर्शितम् । उक्थ्यातिरात्रयोस्तु ज्योतिष्टोमत्वं तयोर्ज्योतिः शब्दवाच्यस्य अग्निष्टोमस्यान्तर्भावात् गौणम् । ततश्च यत् कार्यं ज्योतिष्टोमशब्दोपादानेन विधीयते यथा ज्योतिषां विश्वरूपाणां च गानम् । तानि नान्यत्र विश्वरूपाभ्यो चान्यत्र विश्वरूपा ज्योतिष्टोमादि (ला० श्रौ० १.८.१५.१६)ति। यथा व धूर्गानं गीतिविकारो गायत्रस्य धुरं स्तोत्रीयानुरूपयो
ज्योतिष्टोमस्यैवाज्येषु च नान्यत्रेति । तद्यथोक्ते सर्वक्रतुप्रकृतिभूते ज्योतिष्टोम एव भवति । नोक्थ्यादिषु विकृतिष्विति सिद्धम् ।।

[ उक्थ्यसंस्थो ज्योतिष्टोम)
अथोक्थ्यः । देवा वा अग्निष्टोममभिजित्योक्थानि नाशक्नुवन्न भिजेतुमि(तां०ब्रा० ८.८.१) इत्यादिना विहितः । तस्य सर्वमग्निष्टोम- वत् । धूर्ज्योतिर्विश्वरूपाणां निवृत्तिः । अहिंकारविसृष्टहिंकाराः सर्वत्र प्रवर्तन्त एव । अहिंकृता प्रथमा रेतस्या हिंकृताः पराः । रथोत्तम- वर्णोत्तमा विसृष्टहिंकारेति रेतस्या रथन्तरवर्णयोर्विहितयोरेतं परि- क्रममित्यतिदेशात् । तथा च द्वादशाक्षराण्यभिष्टोभेदनुष्टुभमित्य- भिषेचनीये रथन्तरवर्णाया गुणविकारमुपपद्यते । अग्निष्टोमचमस- भक्षणानन्तर एह्यूष्विति साकमश्वं वयमु त्वेति सौभरमधाहीन्द्रेति नार्मेधमित्येतान्युक्थस्तोत्राणि कुर्युः । एकविंशस्तोमः । ऋग्जपादि सर्वमाज्यवत् । कुशाविधानं चमसभक्षणं च यज्ञायज्ञीयवत् । प्रथमं साकमश्वस्य परस्ताज्जपादि चमसभक्षणान्तम् । साकमश्वो गायत्र्यग्निः । ततः सौभरस्य सौभरिः ककुबिन्द्रः । ततो नार्मे- धस्य नृमेधाङ्गिरस ऋषिः । ककुप् प्रथमा । उष्णिक् द्वितीया । ठपरिष्टाज्ज्योतिरनुष्टुप् तृतीया । इन्द्रो देवता । सर्वेषां पादेन प्रस्तावः । नार्मेधचमसभक्षणान्ते स्तोमविमोचनादि । उक्थविषयाणि तु विकल्पान्तराणि क्षुद्रकल्पे वक्ष्यन्ते ।।
इत्युक्थसंस्थो ज्योतिष्टोमः ।।

अतिरात्रसंस्थो ज्योतिष्टोमः

[ सषोडशिकः पक्षः चमसभक्षणादि षोडशिग्रहग्रहणान्तम्]

अथातिरात्रसंस्थो ज्योतिष्टोमो देवा वा उक्थान्यभिजित्ये(तां० ब्रा० ९.१. १)त्यनुवाकद्वयेन विहितः । स चाषोडशिकः सषोडशिको वेति पक्षद्वयम् । तथा च कल्पःक्लृप्तो ज्योतिष्ष्टोमोऽतिरात्रोऽषोडशिको यदि वा षोडशिमान् ।। (आ०क० ७.१. १) इति । तत्र षोडशिकपक्षे यथोक्तं नार्मेधचमसभक्षणान्तं कृत्वा स्तोमविमोचनाद्यकृत्वा प्रशास्त्रोक्ताः पूर्ववन्निष्क्रम्य पातमग्नय इति समस्तोपस्थानं कुर्यु । एवमेव निष्क्रम्य पृथक् स्तोत्रेभ्यः समस्तेनोपतिष्ठेरन् यान्यूर्ध्वमुक्थेभ्य इति वचनात् । तत ऋतस्य द्वारौ स्थ इति यजमानोपवहवान्तं कुर्युः । द्वारबाहुसंमार्जनप्रभृत्येतत् सर्वं कुर्युः । यदा धिष्ण्यानुपतिष्ठेरन् (ला० श्रौ० २.३ .१६) इति वचनात् । अथोद्गाता सदसः पूर्वया द्वारा होतृमैत्रावरुणधिष्ण्यावन्तरेण निष्क्रम्याग्निध्रीयं दक्षिणेन गत्वा पूर्वया द्वारा प्रविश्य यस्मादन्य इति षोडशीत्यन्तेन षोडशिग्रहमवे- क्ष्य यथोक्तं प्रत्यावृज्य स्वासन उपविशेत् । विसंस्थिते सवन इत्येतद्धि सवनसंस्थाव्यतिरिक्तकालोपलक्षणम् । तमुत्तरेण संचारः । सर्वत्र दक्षिणेनोत्तरयोः सवनयोः यदा हविर्धानमाहवनीयं च पृष्ठहोमायेत्यत्र चाग्नीध्रीयस्य दक्षिणोत्तरगमने यावद्व्यवस्थोक्ता तत्र पृष्ठ्याया उत्तरेषां धिष्ण्यानां प्राक् प्रत्यक् च गच्छद्भिर्व्यवायो न कार्य इत्यत्र न तत् कार्यम् । ततोऽत्रापि हविर्धानगमने यथोक्त एव मार्गो न्याय्यः । प्रातःसवनेऽप्येवमेव यजमानोपहवान्ते षोडशिग्रहमवेक्षेत । उत्तरयोरपि सवनयोर्यदि षोडशिनं गृह्णीयुस्तदाप्येव मेव । प्रातःसवने वा प्रतिसवनं वा धाराग्रहाणामन्ते षोडशिनं गृह्णीयादित्यध्वर्युणोक्तम् ।


[ षोडशिसाम

षोडशिस्तवनकाले अश्वः कृष्णः पूर्वस्यां सदसो द्वारि प्रत्यङ्मुखस्तिष्ठेत् । इन्द्र जुषस्व (द०रा० ५.२ ) इति गौरीवितं षोडशिसामैकविंशम् । एकविंशे हि दाशरात्रे चतुर्थेऽहनि उत्पन्नं षोडशिसाम । यथाह षोडशिनं प्रकृत्य निदानकारः- चतुर्थोत्पादं वयं तत्र चास्य ब्राह्मणमधीमहे(नि० सू० २१३३) इति । ततश्च ज्योतिष्टोमप्रकरणे वैकल्पिकतया अनाम्नातमपि चतुर्थे नित्यतयाम्नाय- मानं षोडशिसाम सस्तोत्रीयं इहागमयितव्यमिति सिद्धम् । तस्य ऋग्जपानन्तरमुपाकृतेन हिरण्येन स्तोमयोगः । गौरीवितः शाक्त्य ऋषिः । स्वराडनुष्टुप् छन्दः । चतुस्त्रिंशदक्षरत्वात्। यथाह भगवान् पिङ्गलनागः- द्वाभ्यां विराट्स्वराजौ (?) इति न्यूनाधिका- भ्याम् इत्यधिकृतम् । निदानकारश्च- द्वाविंशत्यक्षरप्रभृतयश्चतुरुत्तरास्त्रयः सप्तवर्गा द्विशताक्षरासां परार्ध्या । तासां नामधेयानि-राट्-सम्राट् विराट् स्वराट् स्ववशिनी परमेष्ठान्तस्थेति प्रथमस्य (नि०सू० १.५) ।। इन्द्रो देवता । इन्द्रश्च बृहच्चेति ब्राह्मणम् । अधो गच्छत्या- दित्ये मन्द्रस्वरेण प्रथमं पर्यायं गायेयुः । अर्धास्तमिते लोहितवर्णे मध्यमेन स्वरेण द्वितीयम् । अस्तमिते तृतीयमुच्चैः । दैवात् मानुषाद्वा हेतोः कालान्तरापत्तौ सर्वमेवेदं स्तोत्रमहनि च्छन्नं गेयम् । रात्रावुच्चैः । पादेन प्रस्तावः । चकानश्चा इति प्रतिहारः । एवमुत्तरयोः स्वां स्वां भक्तिं ब्रुवन्तः स्वर्णं धारयेयुः । निधनसमये उद्गाता धारयेत् । उत्तमां प्रस्तुत्य त्यजेत् । अश्वहिरण्ये उद्गाता प्रति- गृह्णीयात् । ऐन्द्र सह इति भक्षयामीत्यन्तेन चमसभक्षणम् । ततः पूर्ववन्निष्क्रम्य समस्तोपस्थानादि यजमानोपहवान्तं कृत्वा रात्रिपर्यायैः स्तुवीरन् ।।

[ अषोडशिकःपक्षः-प्रथमःपर्यायः

अषोडशिकत्वपक्षे नार्मेधचमसभक्षणानन्तरं निष्क्रमणादि यजमानोपहवान्तं कृत्वा रात्रिपर्यायैः स्तवनम् । तत्र पान्तमिति वैतहव्यम् । प्रव इन्द्राय मादनम् इति शाक्त्यम् । वयमुत्वेति काण्वम् । इन्द्राय मद्वन इति श्रौतकक्षम् । इति प्रथमः पर्यायः ।।

[ मध्यमः पर्यायः]
अयं त इन्द्रेति दैवोदासम् और्ध्वसद्मनं वा । आ तू न इन्द्र क्षुमन्तमित्याकूपारम् । अभि त्वा वृषभा सुत इत्यार्षभम् । इदं वसो सुतमन्ध इति गारम् । इति मध्यमः ।।

[ उत्तमः पर्यायः

इदं ह्यन्वोजस इति माधुच्छन्दसम् । आ त्वेता निषीदतेति दैवातिथम् । योगे योगे इति सौमेधम् । इन्द्र सुतेष्विति कौत्सम् । इत्युत्तमः ।।

[ पर्यायसाम्नामृषिच्छन्दोदैवतानि]

तेषां वीतहव्यः शाक्त्यः कण्वः श्रुतकक्षः दिवोदासः ऊर्ध्वसद्मा आकूपाराङ्गिरस ऋषभः गरः मधुच्छन्दा दैवातिथिः सुमेधाः कुत्स इति क्रमादृषयः । प्रथमस्य साम्नः प्रथमानुष्टुबुत्तरे गायत्र्यौ संपत्त्यागानकालेऽनुष्टुभौ । अन्येषां तु सर्वा गायत्र्यः संपत्त्यानुष्टुभः । सर्वेषामिन्द्रो देवता ।।

[ पञ्चदशस्तोमादि हारियोजनभक्षणान्तम्]

पञ्चदशस्तोमः । पञ्चपञ्चिनी विष्टुतिः । प्रतिस्तोत्रमृग्जपादिचमसभक्ष- णान्तम् । नाप्यायनम् । इन्दविन्द्रपीतस्येत्यनुष्टुप्छंदस इति भक्षयामीत्यन्तेन भक्षणम् । श्रौतकक्षार्षभयोर्वान्तः प्रस्तावः । दैवोदासस्य षोडशाक्षरः । इतरेषां पादः । प्रथमेन पर्यायेण स्तुत्वा निष्क्रमणादि यजमानो- पहवान्तं कुर्युः । एवं मध्यमेनोत्तमेन च । पृथक् स्तोत्रेभ्यः समत्तेनोपतिष्ठेरन् । यान्यूर्ध्वमुक्थेभ्यः पर्यायेभ्यस्तु रात्रेरि(ला० श्रौ० २. ७. ४-५)ति वचनात् । ततः एनाप्रत्यू इमा उवामिति प्रतितृचं हिंकृत्य त्रिवृता रथंतरेण संधिस्तोत्रं कुर्युः । रथंतरस्य ऋषिच्छन्दसी उक्ते
अग्निरुषाश्विनाविति प्रतितृचानां क्रमेण देवताः । संधेरनावृत्तिस्तोत्राङ्गत्वेऽप्यावृत्तिः स्तोत्राङ्गत्वात् । कुशाविधानम् । तथा च निदानम्- शिरसि कुशानवधीयेरन्नित्येके पराक्त्वादावृत्त्यङ्गभावात्तु विधीयेरन्नेतेन संधिरुक्त ( नि० सू० १. १० .२१-२३) इति । तिसृभ्यो हिंकरोति । स पराचीभिरिति परिवर्तिनी विष्टुतिः । द्वितीयां त्रिवृतः पथ्यामेके विष्टावा ह्याद्या संहारशिरःसंधिसंतनिषु चानुपपन्नेति वचनात् । तत्रैकां कुशामुदग्रां निधाय ततः पश्चात् प्रागग्रां ततः पश्चात् उदगग्रां निदध्यादित्येकः पर्यायः । तथोत्तरौ । ततः स्तुतस्य स्तुतमसीत्यादि ऋग्जपान्तम् । आश्विनशस्त्रान्ते
भक्षः । आहृते श्येन इत्यवेक्ष्य इष्टयजुष इति भक्षयाम्यन्तेन भक्षयेयुः । स्तोमविमोचनादि पूर्ववत् । शस्तोक्थस्य तिरोअहन्यस्य योऽश्वसनिरिति हारियोजनभक्षणे विशेष इति ।।

[ ज्योतिष्टोमस्य संस्थाविकल्पाः

एवं ज्योतिष्टोमस्य तिस्रः संस्था उक्ताः । तत्र सूत्रम् ः स्वतन्त्रस्य ज्योतिष्टोमस्य संस्थाविकल्पा । आग्निष्टोम्यमुक्थ्यताति- रात्रमि(ला० श्रौ० ८ १. १७)ति । स्वतन्त्रस्येति क्रत्वन्तराङ्गभूतस्य नित्यतया काम्यतया वा प्रयोज्यस्येत्यर्थः । तिसॄणामपि संस्थानां मन्त्रभेदेन प्रथमत्वं सर्वाभिप्रायं च उपपादितं निदाने-
अथ का प्रथमा संस्था (नि० सू० ३.१.१) इत्यादिखण्डद्वयेन । अन्ये तु ज्योतिष्टोमस्य सप्त संस्था अनुक्रामन्ति । अग्निष्टोमोऽत्यग्नि- ष्टोमः उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति । तत्र अग्निष्टोमचमसभक्षणानन्तरं यदा विधाय षोडशिस्तोत्रं ज्योतिष्टोमः समाप्यते सोऽत्यग्निष्टोम इत्युक्तः । तदा क्षत्राधिकारः । नित्यं चास्य बृहत्पृष्ठं तत् क्षत्रियो यतः श्रूयते हि षोडशिनं प्रकृत्य तैत्तिरीयकम्-अत्यप्निष्टोमो राजन्यस्य गृह्णीयाद् इति । षड्विंश- ब्राह्मणं च- ब्रह्म वै रथन्तरम् । क्षत्रं बृहत् (ष० विं० ब्रा० ४.२.३) इति । बृहत्पृष्ठे च विशेषः पूर्वमेव दर्शितः ।।

अग्निष्टोमात् परं यत्तु षोडशिग्रहवीक्षणम् ।

तन्निष्क्रमाद्यकृत्वैव कार्यमन्यत्र पूर्ववत् ।।

यश्चोक्तः कालनियमः सूर्याधोगमनादिकः ।

सोऽपेक्षणीयो नैवास्य न संधिस्तोत्रता यतः ।।

उक्तं निदाने संधित्वमुक्थ्यानन्तरजस्य हि ।

उदयसंधिरसावस्तमयसंधिरयं त्विति ।।

अहस्तोत्रतया छन्नं तदनेन भवेत्स्तुतिः ।

उच्चैस्तु रात्रिमापन्ना यदि दैवादिहेतुना ।।

धूर्ज्योतिर्विश्वरूपा न शेषं प्रकृतिवन्मतम् ।

उक्थानन्तरसंभूतषोडशिस्तोत्रसंस्थितिः ।।

ज्योतिष्टोमो निदानोक्तो ज्ञेयः षोडशिसंज्ञया । उक्तं हि निदाने ज्योतिष्टोमं षोडशिनं चाधिकृत्य संस्थामप्यस्यैतां विद्यमानां मन्य इति गौतमः । एवं च रहस्यब्राह्मणे दर्शयत्यप्यनेन षोडशिसंस्थेन यजेते(नि० सू० २ .१२. ९-१ ०)ति ।।

अथ वाजपेयः अप्तोर्यामश्चेति ज्योतिषः संस्थे उपरि- क्रत्वन्तरयोस्तयोः प्रसङ्गे प्रदर्शयिष्यामः ।।

[ ज्योतिष्टोमसंस्थानां नित्यत्वम्]
सर्वे ज्योतिष्टोमसंस्था नित्या इति ब्रुवते । चत्वारिंशत् संस्कारमध्यपाठेन गौतमीयेन तत्राग्निष्टोमेन विकारात् ब्राह्मणस्य सप्तैता ज्योतिःसंस्था नित्या इत्युक्तिर्नोपपन्ना । यच्चात्र सोमसंस्था इति वचने सोमशब्दोऽयं सुत्यासंयुक्तस्य क्रतुमात्रस्याभिधायको युक्तः । अत एव सूत्रकारः सर्वासां सोमयागसंस्थानां ब्रह्मत्व- मुपदिदिक्षुर्वदति यथा गौतमेनोक्तम् । तस्मादेताः संस्थायाः काश्चन सप्तसौमिक्यो नित्यतया कार्या इति निश्चिनुमो गौतमीय- वचनार्थम् । एवं च वाजपेयं क्रत्वन्तरभूतमधिकृत्य आपस्तम्बेनोक्तम्- नित्यवदेके समामनन्ति (आप० श्रौ० १८. १. २) इति । एकस्य तूभयत्वे संयोग पृथक्त्वम् इति च । जैमिनिनोक्तं- नित्यत्वं काम्यत्वं चाविरुद्धमेतासामिति ।।

इत्थं वरदराजेन वामनार्यस्य सूनुना ।
ज्योतिष्टोमस्य यत्तन्त्रमौद्गात्रं तत्प्रदर्शितम् ।।

सत्रात्मा व्यूढो द्वादशाहः

अथ व्यूढः समूढश्च द्वादशाहो द्विधा मतः ।

सत्राहीनत्वभेदेन प्रत्येकं द्विविधः स च ।।

विहितः षड्भिरध्यायैर्ब्राह्मणे दशमादिभिः ।

व्यूढः सत्रात्मकस्तावद् द्वादशाहोऽत्र कथ्यते ।।

तस्याभितोऽतिरात्रौ षोडशिमन्तौ तु कल्पकारोक्त्या । दशरात्रेऽग्निष्टोमावभितोऽष्टौ मध्य उक्थ्याश्च ।। तत्र मानसं च । षोडशिमच्चतुर्थमहः । दशममविवाक्यम् । पूर्वः षडहः पृष्ठ्यश्छन्दोमः । उत्तरश्चतुरहः ।

[ द्वादशाषहिकस्य नवरात्रस्य छन्दसां व्यूहः]

तत्र व्यूढशब्दस्य प्रवृत्तिनिमित्तं ब्राह्मणे दर्शितम् । छन्दांसि वा अन्योन्यस्य लोकमभ्यध्यायन् । गायत्री त्रिष्टुभा । त्रिष्टुप् जगत्याः । जगती गायत्र्याः । तानि व्यौहन् यथालोकम् (ता० ब्रा० १०.५.१३) इति । अस्यार्थः । छन्दांसि गायत्र्यादीनि परस्परस्य स्थलमकामयन्त ।
किं छन्दः कस्य स्थानम् अकामयतेत्यपेक्षायामुक्तम्-गायत्री त्रिष्टुभः । त्रिष्टुप् जगत्या । जगती गायात्र्याः । इति । अत्र अन्योन्यस्येत्युपक्रमात् सामर्थ्यात् त्रिष्टुप् गायत्र्याः स्थानमकामयत । जगती त्रिष्टुभो गायत्री जगत्या इत्यपि कथितं भवति । तान्य- भिध्यातपरस्परलोकानि छन्दांसि यथालोकं व्यौहन् । यथाभिध्याते स्थाने विभागेनातिष्ठन्निति । एवं स्थितिर्दशाहस्य संभवतीति । प्रथमे त्र्यहे स्वस्थान एव गायत्र्यादीनां स्थितिः । द्वितीये त्र्यहे गायत्री त्रिष्टुभः । त्रिष्टुप् जगत्या । जगती गायत्र्या इति व्यूहः । तृतीये त्र्यहे त्रिष्टुप् गायत्र्याः । जगती त्रिष्टुभः । गायत्री जगत्या इति व्यूहः ।. तत्र यद्यपि गायत्र्याः सर्वमेव प्रातःसवन स्थानं तथाप्याज्यबहिष्पवमानप्रतिपत्स्वेव छन्दोऽन्तरनिवेश इत्यृक्समाम्नायात् ब्राह्मणसमाम्नायाच्चावसीयते । त्रिष्टुभ स्थानं माध्यदिनसवनान्त्यतृच इति । तत्र छन्दोऽन्तरनिवेशः । एवं जगतीस्थानमप्यार्भवान्त्यतृचम् । सोऽयं नवरात्रस्य व्यूहः । दशमे त्वहनि छन्दोमव्यूहो नास्ति । तस्य पूर्वयोस्त्र्यहयोः समाप्तत्वात् । सामव्यूहस्तु तत्र क्रियते । तथा च निदानम्- समाप्ते छन्दोव्यूहे सामव्यूहं कुरुत इति गौतमोऽकृतकारार्थ ( निः सू० ४.९.२०) इति । स च सामव्यूहस्तत्रैव दर्शयिष्यते ।।

[ प्रायणीयोऽतिरात्रो ज्योतिष्टोमः]

तथा चास्य द्वादशाहस्य प्रयोगः । सप्तदशावराश्चतुर्विंशतिपरमाः । सति संभवे सर्व इष्टप्रथमयज्ञाः । पृथक् स्तोत्रो- पाकरणानीष्ट्वा समारोप्याग्नीन् सत्रमासीरन् । असंभवे गृहपतिरेवेष्ट- प्रथमयज्ञः । इतरे त्वनिष्टप्रथमयज्ञाः । आहिताग्नयोऽनाहिताग्नयो वा सत्राय दीक्षिष्यमाणा (ला० श्रौ० ३.३.९) इत्यादिना निर्मथ्येनाहिताग्नि(ला० श्रौ० ३.४. ६)मित्यन्तेन सत्रिणां धर्मा उक्ताः । तस्य द्वादश दीक्षा द्वादशोपसदः । दीक्षाक्रयप्रसवोत्थानानि सर्वसत्रेषु पूर्वपक्ष उपपादयेयुः (ला० श्रौ० १०. १. १) इत्यारभ्य तेषां द्वादश दीक्षास्तथोपसदोऽनादेशे (ला०श्रौ० १०. १.५) इत्युक्तत्वात् । द्वादश दीक्षा द्वादशोपसदो द्वादशः प्रसुत तां० ब्रा० १०.३.९) इति श्रुतेश्च । सुब्रह्मण्यायां प्रथमोपसद्दिवसे द्वादशाहे सुत्यामा- गच्छेति सुत्यादेशः । द्वितीयादिष्वेकादशाहे दशाहे नवाहेऽष्टाहे सप्ताहे षडहे पञ्चाहे चतुरहे त्र्यहे द्व्यहे श्वः सुत्यामिति । द्वादशादयः शब्दा अन्तोदात्ता । दीक्षानुपूर्व्येण दीक्षितानां सत्रेषु नामग्राहः कर्तव्यः । सुत्यासु यज्ञसारथिस्थाने सत्रस्यर्द्धि गेयम् । प्राक् प्रातरनुवाकोपाकरणादाग्नीध्रीयेऽहरहः सत्रे सत्रस्यर्द्धि इति वचनात् लोकद्वारगानं सहोमं सर्वैरपि यजमानैः कार्यम् । प्रातरनु- वाकोपक्रमणवेलायाम् अद्य सुत्याप्रवचनीं सुब्रह्मण्यामाह्वयेत् । विश्व- रूपा ज्योतिर्गाने न स्युः । द्रोणकलशाध्यूहनमन्त्रे इदमहमिमान् यजमानान् पशुष्वध्यूहामि इत्यूहः कार्यः । यजमानशब्दं सर्वत्र यथार्थं कुर्युरि(ला० श्रौ० १.१०. ६)ति वचनात् । प्रशुक्र इति धारानु-मन्त्रणमन्त्रे यजमानानामृध्या इत्यूहः । अतिरात्रादिषु सर्वेष्वहस्सु बहिष्पवमाने रेतस्यारथन्तरवर्णे कर्तव्ये । न धूर्गानादि । धिष्ण्योप- स्थानात् पूर्वं वपामार्जनकाले इदमाप इत्यादि द्विष्म इत्यन्तेन मार्जनम् । सदः प्रसृप्योपहवकाले सर्वेषां यजमानानां परस्परमुपहवः । चमसभक्षणकाले यजमानचमसमपि भक्षयेयुरुद्गातारः । तेषामपि यजमानत्वात्। उद्गातॄणाम् अग्निर्होतेति याजमानम् । अनुसवनं सवनमुखी- यान् भक्षयित्वा सन्नेषु नाराशंसेषु भोजनम् । माध्यदिनार्भवयोर्हविर्धान- गमनं सर्वेषामुद्गात्रादीनाम् । उभयत्र सर्वे सर्वेष्विति वचनात् । माध्यंदिनेन स्तुत्वा सत्रेषु दधि घर्मस्य भक्षयेयुः । समुपहूय दधिक्राव्ण इति । सत्रेषु ऋत्विजामपि यजमानत्वाद्दक्षिणा न सन्ति । तदुक्तम्- स्वामिनो हि सर्वे सत्रेषु । तेषां प्रतिग्रहं न विद्यते (ला० श्रौ० १०.१७.१७) इति । अत्रेयं प्रसर्पकादीनामस्त्येव । स्तोमविमोचनान्तरे यजमानवाचने पुत्रा अनु मा तनुत ज्योतिषेति विशषः । जातेष्वजातेषु च पुत्रा इत्येव सत्रेष्वि(ला० श्रौ० २.११. ५)ति वचनात् । अप्सुषोमान्तानि सर्वाण्यहानि । अप्सुषोमान्तमहः सत्रेषु (ला० श्रौ० २.१२.१४) इति वचनात् । अहर्गणेष्वहराद्यन्तयोराह्वये- दि(ला० श्रौ० १.४. ८)ति वचनात् । अहरन्तेऽपि सुब्रह्मण्या कार्या । श्वःसुत्यामिति सुत्यादेशः । तस्या ठत्तरार्धत्वात् । इन्द्राग्निभ्यामिति प्रैषकाले श्वःसुत्याप्रवचनीं सुब्रह्मण्यां केचिदिच्छन्ति । तत् सूत्रकारस्य । नेष्टम् । अहर्गणेष्वहराद्यन्तयोराह्वयेदि(ला० श्रौ० १ . ४. ८)ति सुब्रह्मण्याद्वयस्यैव विधानात् । ऊर्ध्वमतिरात्रादाग्नेय्येका द्वितीये पञ्चदशरात्रे द्वे वे(ला० श्रौ० १. ४.२०-२१ ति लिङ्गाच्च । तत्र धानंजय्यमतेनाहरन्तिक्या अतिरात्रे नाह्वानमाश्रित्यैके इत्युक्तम् । मतान्तरेण त्वाह्वानमाश्रित्य द्वे इति । यदि चातिप्रैषकालेऽपि सुब्रह्मण्या अभिमता स्यात् (तदा) द्वे तिस्रो वेति वाच्यं स्यात् । वसतीवरीपरिहरणकाले तु कर्तव्या । तत्र प्रायणीयोऽतिरात्रो ज्योतिष्टोमः षोडशीमान् पूर्वोक्तः । तस्य पथ्या एव विष्टुतयः । उत्तरस्मिन्नहनि वक्ष्यमाणक्रमेण सर्वा वा । अदशरात्रेषु सत्रेषु पथ्या एवेति गौतमः । सर्ग एवेति धानंजय्य ला० श्रौ० ६.२.३०-३१) इति वचनात् । संधिषामान्ते स्तोमविमोचनादि अप्सुषोमान्तं कार्यम् । तस्यान्ते श्वःसुत्या गौतमस्य । नार्मेधान्ते एके । अद्यसुत्या शांडिल्यस्य । ( ला० श्रौ० १. ४. १३- १५) नात्र नामग्रहणम् । ऊर्ध्वमतिरात्रादग्रहणमि(ला० श्रौ० १ .४. १२) ति वचनात् । आहरन्तिक्या अनाह्वानं धानंजय्यः ।।

[ द्वादशाहिकस्य दशरात्रस्य प्रथमस्याह्नः

अथ दशरात्रस्य प्रथममहः । तत्र सत्रस्यर्द्ध्यादि पूर्ववत् । सुब्रह्मण्यायां नामग्रहणम् । अस्य प्रत्ना नवर्चं बहिष्पवमानम् । तत्रोपास्मै गायता नर उपोषुजातमप्तुरमिति ऋग्द्वयं प्रतीकेनोपात्तम् । सर्वेषामह्नां ज्योतिष्टोमवत् छन्दोदेवताः । विशेषस्तु तत्र तत्र वक्ष्यते । प्रायणीयोदयनीयातिरात्रव्यतिरिक्तानामह्नां सदसि बहिष्पवमानैः स्तवनम् । अहीनबहिष्पवमानैः सदसि स्तुवीरन् । प्रथमादह्नोऽन्यत्राद्यन्त- योस्तु सत्रेष्वि(ला० श्रौ० २. २ . १-२) ति वचनात् । आद्यन्तयोरिति पञ्चम्याः स्थाने षष्ठी । सत्रेष्वाद्यन्ताभ्यामहोभ्यामन्यत्र बहिष्पव- मानैः सदसि स्तुवीरन्नित्यर्थः । प्राक् धिष्ण्यविहरणान्निष्क्रम्य तृणप्रासनप्रभृत्युपरिष्टाज्जपान्तं कुर्युः ।।
अग्न आ नो मित्रायाहीन्द्राग्नी इत्याज्यानि । प्रसोमासो विपश्चित इति गायत्रमेकस्याम् । अभिद्रोणानि बभ्रव इत्याश्वमेकस्याम् । सुता इन्द्राय वायव इति सोमसामैकस्याम् । प्रसोमदेववीतय इति यौधाजयं तिसृषु । प्र तु द्रवेत्यौशनं तिसुषु । इति माध्यंदिनः पवमानः ।।
माध्यंदिनेन स्तुत्वा दधिघर्मभक्षणम् । रथंतरादीनि पृष्ठानि ।।
रथंतरं च वामदेव्यं च नौधसं च कालेयं चेति पृष्ठानि ।
रथन्तरस्य स्तोत्रे बहिर्वेदि पश्चात् प्राञ्चं दक्षिणतो वोदञ्च रथमिति वहेयुः ।।

प्रसोमासो मदच्युत इति गायत्रं प्रथमायाम् । तस्यामेव सहितम् । अया पवस्व देवयुः । पवते हर्यतो हरिरिति जनुषैकर्चयोः सप्ताक्षरे । प्रसुन्वानायान्धस इति प्रथमायां गौरीवितगौतमे । अभिप्रियाणीति तृचे कावमित्यार्भवः ।।

संभवति स्तोमेऽन्त्यं सर्वत्र तृच इति वचनादेवं तृचैकर्चकरणम् ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

अस्याह्नः सर्वाणि स्तोत्राणि त्रिवृन्ति । सत्रेषु दशरात्रे सर्वा विष्टुतीः प्रयुञ्जीत । अभिचरणीयां भस्त्रां चोद्धृत्येति शाण्डिल्यः । कुलायिनीं भस्त्रां चेति शाण्डिल्यायनः । भस्त्रा- मेवेति धानंजय्यः । पथ्याभिर्होतृषामाणि विदध्यात् । अपथ्या- भिरितराणि । समाप्ता सुता एवादितः पुनः प्रयुञ्जीत । तमेतं पुनः प्रयोगं कुर्वन् प्रथमस्याह्नः प्रागाथिकानि सामानि रथन्तर० नौधसकालेययज्ञायज्ञीयानि परिवर्तिन्या विष्टुत्या विदध्यादिति शाण्डिल्यः । सकृत्सर्वाः समाप्य पथ्ययैव तत ऊर्ध्वं विदध्या- दिति धानंजय्यः । असमाप्तासु त्वपि होतृषाम पथ्ययैव । तमिमं सकृत्प्रयोगकल्पं कुर्वन् कुलायिनीं चेत् प्रयुञ्जीत प्रथमस्याह्नो द्वितीयं पृष्ठं तया विदध्यात् । अत्र त्रिवृत्स्तोमस्य पञ्च विष्टुतयः । उद्यती कुलायिनी परिवर्तिनीति तिस्रः । अभिचरणीये द्वे इषु- संज्ञे षद्विंशब्राह्मणेऽधीते । उद्यतीपरिवर्तिन्योः पथ्यात्वे विकल्पः । त्रिवृतः पथ्यायां विवदन्त (नि०सू० १. १० १०) इत्यादिनिदान- वचनात् । उद्यत्या विष्टावाभावात् । तृचभागस्थाने कुशाविधानम् । एकपर्यायवद्वा । तदुक्तम्-तदभावे तृचभागस्थानेषु पर्यायाणां पर्यायाः स्युः । यथैकैकः पर्यायः ला० श्रौ० ६.५.७-८) इति । एवं च धानंजय्यमते परिवर्तिन्युद्यतीभ्यामिषुद्वयेन चाज्यानि विधाय कुलायिन्या वामदेव्यं परिवर्तिन्यैवेतराणि च विदध्यात् । एव- मितरयोरपि मतयोर्द्रष्टव्यम् । अस्याह्नोऽग्निष्टोमसामान्ते स्तोम- विमोचनाद्यप्सुषोमान्तम् वसतीवरीपरिहरणकाले श्वःसुत्याप्रवचनी सुब्रह्मण्यानामवर्जम् ।।

अथ द्वितीयस्याह्नः

सत्रस्यर्ध्यादि सुब्रह्मण्यान्तम् ।।

पवस्ववाचो _ पवस्वेन्दो-वृषासोम-वृषाह्यसि-पवमानस्य ते वयम्
इति बहिष्पवमानम ।।

अग्निं दूतम्-मित्रं वयम् इन्द्रमिद्गा चतुर्ऋचम् । इन्द्रे अग्ना इत्याज्यानि ।।

चतुर्ऋचेऽन्त्याया उद्धारः ।।

वृषा पवस्व धारयेति गायत्रयौक्ताश्वे ।

पुनानः सोमधारयेत्यैडमायास्यं त्रिणिधनं च ।

वृषा शोण इतीहवद्वासिष्ठमिति माध्यंदिनः पवमानः ।।

वृहच्च वामदेव्यं च माधुच्छन्दसमिति पृष्ठानि ।।

बृहतः स्तोत्रे दुन्दुभिमाहन्युः ।।

यस्ते मदो वरेण्य इति गायत्रहाविष्मते पवस्वेन्द्रमच्छेति शङ्कु- सुज्ञाने । अयं पूषा रयिर्भग इति गौरीवितक्रौञ्चे । वृषामतीनाम् इत्यार्भवः ।।
शङ्कुसुज्ञानगौरिवीतान्येकर्चानि । आर्भवे चेदेकोऽनुष्टुभि द्विप्रभृतीन् ककुप्प्रभृत्यानन्तर्येणे(ला० श्रौ० ६. ३. २५ २६)ति वचनात् ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

एह्यूष्विति साकमश्वम् । एवाह्यसि वीरयुरिति आमहीयवम् । इन्द्रंविश्वा इत्याष्टादंष्ट्रं पूर्वम् इत्युक्थानि ।।

विकृतिषु सर्वत्रोत्तममुक्थ्यं सर्वानुष्टुभम् । ननु प्रकृतिवद्विच्छन्दस्कमित्युक्तम् । प्रागस्याह्नः सर्वाणि स्तोत्राणि पञ्चदशस्तो- मानि । पञ्चभ्यो हिंकरोतीत्यारभ्य पञ्चदशस्तोमस्य तिस्रो विष्टुतयोऽधीताः । षड्विंशे चैकाभिचरणीया । उक्थान्ते स्तोम- विमोचनादि सुब्रह्मण्यान्तं पूर्ववत् ।।
इति द्वितीस्याह्नः ।।

तृतीयस्याह्नः

सत्रस्यर्द्ध्यादि ।।

दविद्युतत्या रुचा-एते असृग्रमिन्दवो राजामेधाभिरीयतेतं त्वा नृम्णानि पञ्चर्चम् ।

इषे पवस्व धारयेति बहिष्पवमानम् ।।

अग्निना मित्रं हुव इन्द्रेण-ता हुव इत्याज्यानि ।।

उच्चा ते जातमन्धस इति गायत्रं क्षुल्लकवैष्टम्भं च ।

अभिसोमास आयव इति पौरुमद्गं प्रथमायाम् ।

गौतमं तिसृष्वन्तरिक्षं तिसृष्वाक्षारनिधनमध्यास्यायां तिस्रो वाच इत्यङ्गिरसांसंक्रोश इति माध्यदिनः पवमानः ।।

बृहत्यां शशकर्णक्लृप्त्या तृचैकर्चकरणम् । यथाह निदानकारः- तृचप्रथमायामेकर्चं कृत्वा तस्मिन्नेव तृचे द्वे तृचस्थे अध्यास्यायामन्ततः एर्कचम् । तां शशकर्णक्लृप्त्येत्याचक्षते नि० सू० ६.३. १२) इति । वैरूपं होतुः पृष्ठम् । तस्य सर्वा बृहत्यः । अभ्राणि संप्लवन्त इति भक्त्युपासनम् । उपवाजयमाना वैरूपेण स्तुवीरन् । उपवाज्यमाना वा यजमानवाचनादनन्तरं वात आवात्विति तृचेन वातमनुमन्त्रयेत । वामदेव्यं मैत्रावरुणसाम । वयं घ त्वा सुतावन्त इति महावैष्टम्भं ब्रह्मसाम । तस्य सतोबृहती छन्दः । वैष्टम्भसामोपधावामि । वयं घत्वर्चमुपधावामि । विष्टम्भमृषिमुपधावामि । सतोबृहतीछन्द उपधावामि । इत्युपसरणे विशेषः ।।

तरणिरित्सिषासतीति रौरवमच्छावकसाम । तिस्रोवाच उदीरतेति गायत्रं पाष्ठौहं च । आसोता परिषिञ्चत सखाय आनि- षीदतेति वाचःसाम शौक्तं च । सुतासोमधुमत्तम इति गौरीवितं च त्रिणिधनत्वष्ट्रीसाम ।

पवित्रं त इत्यरिष्टमित्यार्भवः ।।

वाचः साम शौक्तं चैकर्चम् । यज्ञायज्ञीयमग्निष्टोमसाम । प्रमंहिष्ठीयं हारिवर्णं तैरश्चमित्युक्थानि ।।

प्रमंहिष्ठीयस्य ककुप् । हारिवर्णस्योष्णिक् । सर्वाणि स्तोत्राणि सप्तदशानि । भस्त्रया विनाभिचरणीयया - सह सप्तदशस्य सप्त विष्टुतयः । एष एव व्यूहः सप्तैकमध्या इति ब्रह्मायतनीया । तद्यथा-पञ्चभ्यो हिंकरोति । स तिसृभिः स एकया । पञ्चभ्यो हिंकरोति । स एकया । स तिसृभिः । स एकया । सप्तभ्यो हिंकरोति । स तिसृभिः । स एकया स तिसृभिः स तिसृभिः तां- ब्रा० २.७. १) इति ।। एष एव व्यूढः उभयः सप्तैकमध्या इति निर्मध्या । तद्यथा-सप्तभ्यो हिंकरोति । स तिसृभिः । स तिसृभिः । स एकया । तिसृभ्यो हिंकरोति । स पराचीभिः । सप्तभ्यो हिकरोति । स तिसृभिः । स एकया । स तिसृभिरि(तां० ब्रा० २. ९.१ )ति ।। एतयैवाभिचरंस्तुवीतेत्यभिचरणीया । तिसृभ्यो हिंकरोति । स पराचीभिः । पञ्चभ्यो हिंकरोति । स एकया । स तिसृभिः । स तिसृभिः । स तिसृभिरि(तां० ब्रा० २. १२. १) ति ।। ब्राह्मणेनैवेतरा विज्ञाताः । ठकथान्ते स्तोमविमोचनादि अप्सुषो- मान्तम् । सुब्रह्मण्या च ।।

इति तृतीयस्याह्नः । ।

अथ चतुर्थस्याह्नः

सत्रस्यर्द्ध्यादि ।।

प्रत आश्विनीः - पवमानो अजीजनत् - प्रयद्गा - षडृचम् ।

आशुः - षडृचम् । हिन्वन्तीति बहिष्पवमानम् ।।

प्रत आश्विनीरिति तृचस्य जगती छन्दः । तत्र गायत्रस्यार्चिकगाने विशेष उक्तः । ज्यायसि छन्दसि प्रथमायामावृत्त्यावपेदुत्तमं पदं शिष्ट्वे- (ला० श्रौ० ७.१. १) ति । तद्यथा-प्रत आश्विनी पवमान धेनवोम् । दाइव्या जसृग्रन्पयसाधरीमणि । प्रात ररिक्षात्स्थाविरीस्ते असृक्षता । ये त्वामृजन्त्यृषिषाणवा । हुंवा । धासो । आ । इति ।

एवमन्यत्राप्यूहनीयम् ।

जनस्या - अयंवाम् - इन्द्रोदधी - इयंवामस्येत्याज्यानि ।।

प्रथमस्याज्यस्य जगती छन्दः ।

पवस्व दक्षसाधन इति गायत्रं चाथर्वणं च निधनकामम् ।

तवाहं सोमरारणेत्याष्टादंष्ट्रं चाभीशवं च स्वःपृष्ठं च ।

पुनानो अक्रमीदभीति सत्रासाहीयमिति माध्यंदिनः पवमानः ।।

सत्रासाहीयस्य गायत्री छन्दः । महावैराजं पृष्ठम् । तस्य विराट् छन्दः । वसन्तो हिंकार इति भक्त्युपासनम् । वैराजस्य स्तोत्र उपाकृत इत्यादिना पृष्ठधर्म उक्तः । ततः पुनरूर्जेत्यनुमन्त्रणान्ते कृते अग्निमाहवनीये प्रहरन्ति । तत उद्गाता आज्येनाभिजुहुयात् । प्रेद्धो अग्न इति विराजा स्वाहान्तया स्वाहाकारेणोत्तरामाहुतिं जुहुयात् । पृष्ठेन स्तुत्वा चमसेभ्यः पूर्वं त्रिष्टुप्छन्दसातिग्राह्यान् भक्षयेयुः । पृष्ठषडहादन्यत्र चैतस्मिन् कालेऽतिग्राह्यान् भक्षयेयुः । यानाहरेयुः । वामदेव्यं मैत्रावरुणसाम । विश्वा पृतना इति त्रैशोकं ब्रह्मसाम । तस्य प्रथमातिजगती । बृहत्यावुत्तरे । त्रैशोकं सामोप- धावामि । विश्वा पृतना ऋचमुपधावामि । त्रिशोकमृषिमुपधावामि । बृहत्युत्तरामतिजगतीं छन्द उपधावामि । एकविंशस्तोममुपधावामि । इत्युपसरणविशेषः । एवमन्यत्रापि ब्रह्मसाम्न्युपसरणप्रकार ऊह्यः ।।

यो राजेति पृश्न्यच्छावाकसाम । परि प्रिया दिवः कविरिति गायत्रं चौर्णायवं च । त्वंह्यङ्ग दैव्यः सोमः पुनान
ऊर्मिणेति बृहत्कातीषादीये । पुरोजिती वो अन्धस इति नानदान्धीगवे । सोमः पवते जनितामतीनामिति वात्सप्रमित्यार्भवः ।।
वात्सप्रस्य त्रिष्टुप् छन्दः ।।

यज्ञयज्ञीयमग्निष्टोमसाम । अग्निं वोधन्तामिति सैन्धुक्षितम् । वयमुत्वामपूर्व्येति सौभरम् । इममिन्द्र सुतं पिबेति वसिष्ठस्यप्रियम् । इत्युक्थानि ।।

इन्द्रजुषस्वेति गौरीवितं षोडशिसाम । ऐन्द्रं सह इति ग्रहस्यानुष्टुप् छन्दसा चमसस्य सर्वाणि स्तोत्राणि एकविंशतिः । एकविंशस्याभिचरणीयया सह पञ्च विष्टुतमः । षोडश्यन्ते स्तोमविमोचनादि ।।

इति चतुर्थस्याह्नः ।।

पञ्चमस्याह्नः
गोवित्पवस्व - पवमानस्यविश्ववित् - प्रसोमासो अधन्विषुरिति सप्तर्चम् । प्रकविः सप्तर्चम् । यवंयवं चतुर्ऋचम् । यास्त इति बहिष्पवमानम् । ।
आद्यस्य तृचस्य जगती छन्दः ।।

तवश्रि-पुरूरुणा-उत्तिष्ठन्-इन्द्राग्नी युवाम्-इत्याज्यानि ।।

प्रथमस्याज्यस्य जगती छन्दः ।।

अर्षा सोम द्युमत्तम इति गायत्रं च यण्वं च शाकलं वार्शं च । सोम उष्वाणः सोतृभिरिति मानवं चानूपं च वाम्रं चाग्नेस्त्रि- णिधनं च । यत्सोम चित्रमुक्थ्यमिति गायत्रीषु शैशवमन्त्यमिति माध्यंदिनः पवमानः ।।

महानाम्न्यः पृष्ठम् ।।

महानाम्न्यः पिबतु सोम्यं मध्वायुर्दधत्यो यज्ञपतावविहृतमिति पृष्ठहोम मन्त्रे विशेषः । तासां शक्वरी छन्दः । पृथिवी हिंकार इति भक्त्युपासनम् । अपः सावका ठपनिधायेत्यादिना अभि- चरन्नित्यन्तेन पृष्ठधर्म उक्तः । प्रतिस्तोत्रीयम् आद्य एव प्रस्तावे कुशाविधानम् । आद्येऽनेकप्रस्तावेष्वि( ला ० श्रौ० २ . ६. ५)ति वचनात् । ओंकारेणादानं च । तत्रैव न प्रतिप्रस्तावम् । ते खल्विमे बहवः प्रस्तावाः । कथमोंकार इत्युपक्रम्य प्रथम एव प्रस्ताव इत्यपरिमि- त्यादिना (नि ० सू ० ४. १) निदानेन तथा सिद्धान्तोपपादनात् । शक्वरीभिः स्तुत्वान्ते सकृत्पुरीषपदैः स्तवनम् । अतिग्राह्यभक्षणं पूर्ववत् ।। वामदेव्यं मैत्रावरुणसाम । इन्द्रो मदायेति स्वादोरित्थेति च पङ्क्तिषु बार्हद्गिररायोवाजीये ब्रह्मसामाच्छावकसामनी । राजन्यस्य तु इन्द्रो मदायेति पार्थुरश्मं ब्रह्मसाम । वैश्यस्य तु स्वादोरित्थेति रायोवाजीयं ब्रह्मसाम । इन्द्रो मदायेति बार्हद्गिरमच्छावकसामेति विशेषः । तथा च निदानम्-अथ खल्वाह पार्थुरश्म राजन्याय ब्रह्मसाम कुर्या(नि० सू० ४. ३)दित्यदि ।।

असाव्यंशुर्मदायेति गायत्रं च संतनि चाभिद्युम्नं बृहद्यशः प्राणा शिशुर्महीनामिति च्यावनक्रोशे । पवस्व वाजसातय इति गौरीवितं च ऋषभश्च शाक्वरः पार्थं चाष्टेडः पदस्तोभः । इन्दुर्वाजीति त्रिष्टुप्सु दाशस्पत्यम् इत्यार्भवः पवमानः ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

आ ते अग्न इधीमहीति संजयम् । इन्द्राय सामगायतेति सौमित्रम् । असावि सोम इन्द्र त इति महावैश्वामित्रम् ।

इत्युक्थानि ।।

संजयस्य पङ्क्तिश्छन्दः । सौमित्रस्य उष्णिक् । महावैश्वामित्रस्यानुष्टुप् । सर्वाणि स्तोत्राणि त्रिणवानि । त्रिणवस्याभिचरणीयया सह तिस्रो विष्टुतयः । उक्थान्ते स्तोमविमोचनादि ।।

इति पञ्चमस्याह्नः ।।

अथ षष्ठस्याह्नः
ज्योतिर्यज्ञस्य असृक्षत पवस्वदेववीरति दशर्चम् । सना-दशर्चम् । तरत्समन्दी चतुर्ऋचम् । एते सोमा इति बहिष्पवमानम् ।।

ज्योतिर्यज्ञस्येति जगती ।।

इमं स्तोम प्रतिवां भिन्धि विश्वा यज्ञस्य हिस्थेत्याज्यानि ।।

इमं स्तोममिति जगती ।।

इन्द्रायेन्दो मरुत्वत इति गायत्रं चेषोवृधीयं च क्रौञ्चं च वाजिदावर्यश्च रेवत्यश्च । मृज्यमानः सुहस्त्येत्यौक्ष्णोरन्ध्रे स्वारैडं वाजिजिच्च वरुणसाम चाङ्गिरसां गोष्ठं च । एतमुत्यं दशक्षिप इति गायत्रीष्विहवद्वामदेव्यम् इति माध्यंदिनः पवमानः ।।

रेवतीर्न इति वारवन्तीयं पृष्ठम् ।।

रेवतीषु वारवन्तीयं पिबत्विति पृष्ठहोमे विशेषः ।।

रेवत्यश्च वारवन्तीयं च पिबतु सोम्यं मध्वायुर्दधद्यज्ञपताविति वा ।।

तस्य गायत्री छन्दः । अजा हिंकार इति भक्त्युपासनम् । वारवन्तीयस्य स्तोत्रे धेनूः संवाशयेयुरित्यादिना पृष्ठधर्म उक्तः । पूर्ववदतिग्राह्यभक्षणम् । वामदेव्यं मैत्रावरुणसाम । सुरूपकृत्नुमूतय इति ऋषभो रैवतो ब्रह्मसाम । तस्य गायत्री छन्दः । आरम्भेण जगती ।।

उभे यदिन्द्रेति जगतीष्वरण्येगेयश्येनोऽच्छावकसाम । परिस्वानो गिरिष्ठा इति गायत्रं चं वैदन्वतानि च । ससुन्वे यो वसूनां तंवःसखायो मदायेति दीर्घकार्णश्रवसे च । सोमाः पवन्त इन्दव इति गौरीवितं च मधुश्चुन्निधनं च क्रौञ्चे वाड्निधनैडे । अया पवस्वेति त्रिष्टुप्सु श्नौष्टमित्यार्भवः पवमानः ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

अग्ने त्वं न इति गूर्दः । इमानुकमिति गौतमस्य भद्रम् । प्र व इन्द्रायेति उद्वंशपुत्र इत्युक्थानि ।।

तेषां द्विपदा छन्दः । अस्याह्नः सर्वाणि स्तोत्राणि त्रयस्त्रिंशानि । त्रिरेकान्त इत्यादयस्त्रयस्त्रिंशस्य पञ्च विष्टुतयः । अत्र पुनः प्रयोगपक्षे पथ्यया होतृषामाण्यपथ्याभिश्चतसृभिरभ्यस्ताभिरितराणि च विदध्यात् । उत्तमं तूक्थमुत्तमया विष्टुत्या । न तु क्रमप्राप्तयापि द्वितीयया । षष्ठस्याह्नः उक्थमुत्तममुत्तमया विष्टुत्या विदध्यादिति वचनात् । पक्षान्तरेऽप्युत्तममुक्थमुत्तमयैव न तु पथ्यया । उक्थ्यान्ते स्तोमविमोचनादि पूर्ववत् । षष्ठेऽहनि संस्थिते यावदुत्तरस्याह्नः उपाकरणं तावद्बहुभाषणं स्वाध्यायाध्ययनं च न कुर्युः । अस्मिन्न- हनि तृतीयसवने सर्पिषा भुञ्जीरन् । सर्पिषैव तृतीयसवने सत्रेष्विति वचनात् ।।

इति पृष्ठ्यः षडहः समाप्तः ।।

अथ सप्तमस्याह्नः

सत्रस्यर्द्ध्यादि ।।

प्रका-प्रस्वा-नवर्चम् । असृग्रं नवर्चम् । आतेदक्ष इति बहिष्पवमानम् ।।

आद्यस्य तृचस्य त्रिष्टुप् छन्दः ।।

मूर्द्धानम् प्रवोमित्राय इन्द्रा याहि चित्रभानो-तमीडित्याज्यानि ।।

प्रथममाज्यं त्रैष्टुभम् ।।

वृषा पवस्व धारयेति गायत्रं च संतनि च सौपर्णं च रोहितकूलीयं च । पुनानः सोमधारयेति कण्वरथन्तरं च गौङ्गवं च द्विनिधनं चायास्यं च । प्रो अयासीदिति जगतीषु प्रवद्भार्गवम् । इति माध्यंदिनः पवमानः ।।

बृहत्पृष्ठं बार्हतं षष्ठमबार्हतं सप्तम(तां० ब्रा० १४.३. १ ७)मिति श्रुतेः । सूक्तानुरूपान् छन्दोमान् करोती(नि०सू० ४.६ )त्यारभ्य बृहद्रथन्तरे पृष्ठे( नि० सू० ४.६) इत्यादिनिदानवचने छन्दोमानां बृहद्रथन्तरपृष्ठत्वप्रतिपादनात् छन्दोमेषु वृहद्रथन्तरयो रथघोषादि न कार्यम् । पृष्ठ्ये रथमतिवहेयुरित्यादिना नानापृष्ठ्यषडहे रथघोषादि- विधानात् । अथापि बृहद्रथन्तरयोः संप्रयुक्तयोरेवेतरैः पृष्ठैः रथव्यतिवर्तनं च दुन्दुभ्या हननं च भवति । नासंप्रयुक्तयोरित्युपग्रन्थवचनाच्च ।।

स्वासु वामदेव्यम् । वयं घत्वेत्यभिनिधनं काण्वम् । नकिष्टमितीतराणि पृष्ठानि ।।

वैखानसस्य वृहती छन्दः । अभ्यासेन जगती ।।

अथार्भवः । यस्ते मदो वरेण्य इति गायत्रं तिसृषु ।

अग्नेरर्कः प्रथमायाम् । अध्यर्धेडं सोमसाम द्वितीयायाम् । मौक्षं तृतीयायाम् ।।

अथवा यस्ते मद इति गायत्रं प्रथमायाम् । मौक्षं द्वितीयायाम् । सोमसाम तृतीयायाम् । अग्नेरर्कस्तिसृषु । सप्तमेऽहनि अग्नेरर्कोऽध्यर्धेडं
च सोमसाम मौक्षस्य पूर्वयोः । मौक्षसोमसामनी गयत्रस्योत्तरयोः ।
अर्कस्तिसृषु इति वेति वचनात् ।।

एष स्य धारयासुतः-सखाय आनिषीदत-इति शार्करप्लवौ । पुरोजितीति गौरीवितं च कार्तयशसं च । प्रवाज्यक्षा इत्यक्षरपड्क्तिषु साहविषम् । ये सोमास इति गायत्रीषु जराबोधीयमन्त्यम् ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

आ ते वत्स इति वात्सम् । त्यं न इन्द्राभरेति सौश्रवसम् । यदिन्द्रचित्रमइहनेति वीङ्कम् । इत्युक्थानि ।।

सर्वाणि स्तोत्राणि चतुर्विंशानि । अष्टाभ्यो हिंकरोतीत्येकैव विष्टुतिः । चतुर्विशस्य स्तोमविमोचनादि पूर्ववत् ।।

इति सप्तमस्याह्नः ।।

अथ अष्टमस्याह्नः

शिशुम्-एते सोमा अभि-नवर्चम् । सोमः पुनानो-नवर्चम् । सोमा असृग्रं नवर्चम् । उत्तेशुष्मा-पञ्चर्चम् । अयावीती- अपघ्नन्न- अयापवस्वधेति बहिष्पवमानम् ।।

आद्यस्य तृचस्य त्रिष्टुप् छन्दः ।।

अग्निं वो देवमग्निभिः सजोषा मित्रं वयं हवामहे- तमिन्द्रं वाजयामसि इन्द्रे अग्नानमोबृहत् इत्याज्यानि ।।

होतुराज्यं त्रैष्टुभम् ।।

अध्वर्यो अद्रिभिः सुतमिति गायत्रं च वैरूपं च आशु- भार्गवं मार्गीयवं च सौमित्रं चैटतं च साकमश्वं च विलम्बसौपर्णं च । अभिसोमास आयव इति द्विहिंकार० वामदेव्यं च गायत्रपार्श्वं च पौरुहन्मनं च हारायणं च अच्छिद्रं च बार्हदुक्थं च । धर्तादिव इति जगतीषूद्वद्भार्गवम् । इति माध्यंदिनः पवमानः ।।

द्विहिंकारं वामदेव्यमाद्यायाम् । बार्हदुक्थमध्यास्यायाम् ।।

रथन्तरं च वामदेव्यं च यदिन्द्रप्रागपागुदगिति नैपातिथम् । उभयं शृणवच्चन इति वैयश्वम् । इति पृष्ठानि ।। पवस्व देव आयुषगिति गायत्रं च स्वाशिरामर्कश्च सुरूपं च भासं च काक्षीवतं चासितं च । अभिद्युम्नं बृहद्यशः- प्राणाशिशुर्महीनामिति ऐषिरत्रैते । अभीनोवाजसातममिति गौरीवितं च कौत्सं च शुद्धाशुद्धीयं च क्रौञ्चं च रयिष्ठं चौदलं च । पवस्व सोम महान्त्समुद्र इत्याक्षार० पङ्क्तिषु धर्मः । हिन्वन्ति सूरमुस्रय इति गायत्रीषु विशोविशीयमित्यार्भवः पवमानः ।।

ऐषिरत्रैते एकर्चयोः । सुरूपक्रौञ्चे वा ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

प्रेष्ठं वो अतिथिमित्यौशनम् । एन्द्र नो गधि प्रियेत्युष्णिक्षु सांवर्तम् । पुरांभिन्दुर्युवाकविरिति मारुतम् इत्युक्थानि ।।

सर्वाणि स्तोत्राणि चतुश्चत्वारिंशानि । चतुश्चत्वारिंशस्य तिस्रो विष्टुतयः । पञ्चदशभ्यो हिंकरोतीति प्रथमा । चतुर्दशभ्यो हिंकरोतीति द्वितीया । पञ्चदशभ्यो हिंकरोतीति तृतीया । तासां प्रयोगे पक्षद्वयं ब्राह्मणेनोक्तम् । आज्यानां प्रथमा विष्टुतिः ।
पृष्ठानां द्वितीया । यज्ञायज्ञीयस्योक्थानां च तृतीयेत्येकः पक्षः । सोऽयं प्रयोगः सवनसमीषन्तीत्युच्यते । अथापरः पक्षः । अस्मिन्नहनि द्वादशावर्तिस्तोत्रक्रमेण चतुरभ्यस्ताभिरेताभिस्ति- सृभिर्विष्टुतिभिर्विदध्यादिति । तदिदं दर्शितम्-याज्यानां सा होतुरि(तां० ब्रा० ३ ११. ३) त्यादिना । सोऽयं स्तोत्रसमीषन्तिसंज्ञः । अनयोश्च प्रयोगयोर्ब्राह्मणगतेनोक्थशब्देन यज्ञायज्ञीयस्यापि ग्रहणम् । योक्थानां सा होतुरिति लिङ्गात् । न हि यज्ञायज्ञीयादन्यद्धोतु- रुक्थमस्ति । उक्थानां तृतीयेति प्रयोगस्य सवनसमीषन्तीति संज्ञा- करणात् । सम्यग्व्याप्नुवन्तीति समीषन्तीत्युच्यते । उक्थान्ते स्तोमविमोचनादि ।।

इति अष्टमस्याह्नः ।।

अथ नवमस्याह्नः

अक्रान् एषदेवो दशर्चम् । एषधियेत्यष्टर्चम् । एष उस्य षडृचम् । एष वाजी षडृचम् । एष कविः षडृचम् । स सुतः षडृचम् । पवमानस्य ते कव इति बहिष्पवमानम् ।।

पवमानस्य ते कव इत्यस्य स्थाने आ ते दक्षमिति वा । तदुक्तम्-नवमस्य ज्योतिष्टोमः पर्यायः । साप्तमिक इत्येके(तां०ब्रा०
३.६. २६-२७) इति । अक्रानिति त्रिष्टुप् । अक्रान्त्समुद्रः प्रथमे विधर्मन्निति पाठविकल्पः ।।

अगन्म महा नमसा यविष्ठम्-मित्रं हुवे पूतदक्षम्- महाँ इन्द्र य ओजसा ता हुवे ययोरिदम् । इत्याज्यानि ।।

होतुराज्यं त्रैष्टुभम् ।।

पवमानस्य जिघ्नत इति गायत्रं चादारसृच्च सुरूपं च हरिश्रीनिधनं सैन्धुक्षितं च बाभ्रवं चेडानां संक्षारः ऋषभश्च पवमानः । परीतोषिञ्चता सुतमिति पृष्ठं तिसृषु । कौल्मलबर्हिषं प्रथमायाम् । अर्कपुष्पं द्वितीयायाम् । दैर्घश्रवसं तृतीयायाम् । देवस्थानं तिसृषु । संकृति तिसृषु । वैयश्वं प्रथमायाम् । भर्गस्तिसृषु । आभीशवं प्रथमायाम् । यशस्तिसृषु । वासिष्ठमध्यास्यायाम् । असावि सोमो अरुषो वृषाहरिरिति जगतीषु दीर्घतमसोऽर्कः ।। इति माध्यंदिनः पवमानः ।।

तस्य बृहत्यामरण्येगेयानि । तृचेषु पृष्ठं च वासिष्ठमध्यास्यायाम् । वैयश्वं प्राक् भर्गाद् आभीशवं यशस (ला० श्रौ० ३. ६. ३०) इति वचनात् । इत्थं तृचैकर्चकरणक्रमश्च । त्रीनेकतृचे नानास्तोत्रीयास्विति वचनात् । कौल्मलबर्हिषादिभिः सामतृचः । अपि वा बार्हतेषु सामसु सप्तैवाजामिक्रमेण तृचेषु कुर्यादितरेषामध्यास्यायाश्च लोपः । तदुक्त- सप्तैव तृचेषु यैरजामीत्यपरमि(ला० श्रौ० २ .६. ३० ३१) ति दीर्घतमसोऽर्कस्य स्थाने सामराजं वा स्यात् । अस्मिन् पक्षे पृष्ठस्थाने परीतोषीति पृष्ठमेकस्याम् । सुषाव सोममिति दीर्घतमसोऽर्क एकस्याम् । अदब्ध इत्यैडं माण्डवमेकस्याम् इति सामतृचः । शेषं पूर्ववत् । तदुक्तम्--दीर्घतमसोऽर्कोऽन्त्यम् । सामराजं वा । पृप्ठस्योत्तरयोर्दीर्घतमसोऽर्को माण्डवं चैडं सामराजेऽन्त्ये(ला०श्रौ० २.६.
३२-३३) इति ।।

बृहच्च वामदेव्यं च श्रायन्तीयं च यत इन्द्रेति समन्तं च ।

इति पृष्ठानि ।।

त्वं सोमासि धारयुरिति गायत्रं चाश्वसूक्तं च शामदं च दावसुनिधनं च प्रतीचीनेडं काशीतं हाविष्कृतं च । त्वं ह्यङ्गदैव्य पवस्व देववीतय इति सौपर्णं च वैश्वमनसं च । परि त्यं हर्यतं हरिमिति गौरीवितं च निहवश्च यद्वाहिष्ठीयमासितं च साभ्रं चाकूपारं च । पवस्व सोम महे दक्षायेत्यक्षरपड्क्तिषु विधर्मोऽपोषु जात- मप्तुरमिति गायत्रीषु श्रुध्यम् । इत्यार्भवः पवमानः ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

आ घा ये अग्निमिन्धते इत्यैध्मवाहम् । य एक इदिति त्रैककुभम् । गायन्ति त्वेति उद्वंशीयम् । इत्युक्थानि ।।

अस्मिन्नहनि सर्वाणि स्तोत्राणि अष्टाचत्वारिंशानि। अष्टा- चत्वारिंशस्य द्वे विष्टुती । तयोरुत्तरया मैत्रावरुणस्यैवाज्यं विदध्यात् । सत्रे वेत्यादिविकल्पाः । स्तोमविमोचनादि सुब्रह्मण्या- ह्वानान्तं पूर्ववत् ।।

इति नवमस्याह्नः ।।

अथ दशमस्याह्नः

असृक्षत प्रवाजिन-पवमानस्य विश्ववित् पवमानो अजीजनत्- एते असृग्रमिन्दवः पवस्वेदो वृषासुतो अस्यप्रत्ना नवर्चम् । इति बहिष्पवमानम् ।।
दशमस्य बहिष्पवमानं द्वितीयप्रभृतीनां पञ्चानामह्नामनुरूपाः । प्रथमाच्च बहिष्पवमानान्तं नवर्चम् इति वचनात् । अनुरूपेषु तृचाः प्रतिलोमाः । यथाधीतं नवर्चमिति शाण्डिल्यायनमते नेयं क्लृप्ति- रुक्ता । मतान्तराणि तु सूत्र एव द्रष्टव्यानि ।।

सुषमिद्धो न आवह-यदद्य सूर उदित त्वा मन्दस्तु सोमा इन्द्राग्नी आगतं सुतम् । इत्याज्यानि ।

सुषुमिद्ध-चतुर्ऋचे मधुमन्तं तनूनपान्नाराशंसमिहप्रियमिति ऋचोरन्यतरस्या यथागोत्रमुद्धारः । तत्रोक्तम्- सुषमिद्ध इत्यत्रिवसिष्ठ-
शुनककण्वसंकृतिवाध्य्रश्वानां तानूनपातीं नाराशंसीमन्येषामि(ला० श्रौ० ६.४. १३-१४) ति । उभयेषु समवायवत्सु भूम्नोऽवसंतये(! )गृहपतेरित्येके ।।
उच्चातेजातमन्धस इति गायत्रं चामहीयवं चाजिकं चाभीकं च पुनानः सोमधारयेत्युत्सेधश्च यज्ञायज्ञीयं च निषेधश्च जागृविरिति गौरीवितम् । इति माध्यंदिनः पवमानः ।।

यज्ञायज्ञीयस्य ककुबुत्तरा बृहती छन्दः ।।

कया न इति रथंतरम् । स्वासु मैधातिथम् । उदुत्ये मधुमत्तम इत्यभीवर्तम् । स्वासु कालेयम् । इति पृष्ठानि ।।

रथंतरस्य गायत्री छन्दः । मैधातिथस्य बृहती । अथ रथन्तरे भकारैः स्तोभो नास्ति । सर्वत्रास्वस्तोत्रीयं न स्तोभेदि(ला० श्रौ० २.९.२०) ति वचनात् । अत्र सामव्यूहो निदाने दर्शितः - यज्ञायज्ञीयगौरीवितरथन्तरवामदेव्यान्येव युक्तानि सामव्यूह इत्याचक्षत (नि० सू० ४.९. १३) इति ।।

अथार्भवः । स्वादिष्ठयेति गायत्रसंहिते । पवस्वेन्द्रमच्छेति सफरोहितकूलीये । पर्यूष्विति श्यावाश्वान्धीगवे । परिप्रधन्वेति वाङ्निधनसौहविषम् । सूर्यवतीषु वाजिजिदन्त्यम् ।।

पर्यूष्विति पिपीलिकामध्यानुष्टुप् । परिप्रधन्वेत्यक्षरपङ्क्तिः । सौम्या- वेक्षणमन्त्रे पुनरस्मासु दध्मसीति पादमभ्यस्येयुः । आर्भवान्तानि सर्वाणि स्तोत्राणि चतुर्विंशानि । अग्निं नर इति वामदेव्यमग्निष्टोम- साम त्रयस्त्रिंशम् । तस्य वामदेवो विराडग्निरित्यृष्यादयः । प्राक्- स्तोमयोगाद्गावो अश्वा इत्यादि ध्यानम् । प्रावृतशिरस्कत्वपत्न्यवेक्षणादयो धर्माः अस्मिन् स्तोत्रे कार्याः । न तु पवमानगते यज्ञायज्ञीये अन्यस्थानगतस्य सतो निवर्तेरन् धर्माः । यदन्य- दनिष्टोमसाम स्यात् तस्य स्युरि(ला० श्रौ० २ .१०. २ १ २२)ति वचनात् ।।

अहन्यस्मिन्नृतं कर्म व्याचक्षीरन्ननुष्टुभा ।

मन्त्रो यदा विस्मृतः स्यादनुष्टुप् छन्दसोऽधिकः ।।

तदानीं स्मारयेयुस्तमनुष्टुप्मात्रभाषणात् ।

अभ्यासानुष्टुभं कृत्वा ब्रूयुर्न्यूनस्त्वसौ यदि ।।

अथवा विस्मृतं वस्तु यथासंभवं वाचैव ब्रूयुः । नेङ्गितादिना । वागनुष्टुप् तां० ब्रा० १३.२८.४) इति हि ब्राह्मणं भवति । अग्निष्टोमसाम्रा स्तुत्वा स्तोमविमोचनाद्यप्सुषोमान्ते कृते प्राक् पत्नीसंयाजेभ्यो यदेभिः सौत्येष्वहःसु परार्ध्यं व्रजितं स्यात् तद् गत्वा प्रत्याव्रजेयुः । अशक्तौ मनसैव गमनागमनं च कुर्युः । हुतेषु पत्नीसंयाजेषूद्गाता शालामुखीये जुहुयात् । उपसृज धरुणमिति दीधरत् स्वाहेत्यन्तेन पूर्वामाहुतिम् । स्वाहेत्युत्तराम् । अथोत्तरवेदि- कमग्निं गत्वा तस्य पश्चात् प्राङ्मुखः स्थित्वा अयं सहोहा इति त्रिर्गायेत् । प्रजापतिरतिजगतीन्द्रः । गौरिति निधनम् । प्रस्तोतृप्रतिहर्तारावनूपेयाताम् । अभिदक्षिणमावृत्य पूर्वया द्वारा सदः प्रविश्यासीरन् । अध्वर्युणोपाकृते मानसस्तोत्रे आयं गौरिति तृचे
गायत्रं निरुक्तम् । त्रिकः स्तोमः पृथक् स्तोत्रीयाभ्यो हिङ्कृत्य मनसा स्तुवीरन् । स्तोमयोगयजमानवाचनकुशाविधानानि स्युः प्रतिहारवेलायां प्रतिहर्ता पान्यात् उत्तमां प्रस्तुत्यैषेति स्मरन् होतारमीक्षेत । अस्मिन् स्तोत्रे समीक्षणेन परस्परं ज्ञापयन्तः सर्वं मनसा कुर्युः । यदाध्वर्युर्भक्षणं प्रयच्छन् मन्येत ततो मनसोपहूय कस्त्वा कं भक्षयामीति तं भक्षयेयुः । अवेक्षणाद्याप्यायनवर्जम् । अथ तत्सवितुर्वरेण्यमित्याप्यायस्वेति वा गायत्रीं ब्रूयु । इन्द्रं ब्रह्मोद्यवदनम् ।।

अथ प्रजापतिं परिवदन्ति । अकुशलो वायं प्रजापतिर्यो दंशमशकान् संसृज्येद्यः स्तेनानिति । प्रजापतिपरिवादः (आप० श्रौ० २१. १२.१) आपस्तम्बेनोक्तः एताभ्यां वेलायामभीष्टान् वरान् मनसा वृणीरन् । उत्तरत उद्गातौदुम्बरी गृह्णीयात् । पश्चात् प्रति- हर्ता । दक्षिणतो ब्रह्मा । पुरस्तादितरे सर्वे गृह्णीयुः । अथ जपेयुः । इह धृतिरिह रमध्वमित्यन्तम् । वाग्यताः सदसः पूर्वापरे द्वारे अपिधायासीरन् । आनक्षत्रप्रवचनात् उदितानि नक्षत्राणीति प्रोक्ते पूर्वया द्वारोपनिष्क्रम्य सुब्रह्मण्याप्रणवैर्वाचं विसृजेरन् । इदमहर० त्यग्निष्टोमम् । मानसस्तोत्रेणाग्निष्टोममतीत्य वर्तमानत्वात् । अग्निष्टोमावभित इति वाङ्मात्रम् । यथा गवामयनेऽतिरात्रस्योक्थत्ववादः यदुक्थ्यो यज्ञक्रतोरनन्तरायेति ।।
अथोदयनीयातिरात्रः । तस्य सत्रस्यर्द्ध्यादि पूर्ववत् । स च प्रायणीयातिरत्रवत् कार्यः । तत्राहरन्तिकीं सुब्रह्मण्यां न कुर्यात् । तस्या ठत्तरार्थत्वात् । स्तोमविमोचानाद्युदवसनीयान्ते कृते पृथगग्नीन् समारोप्य पृथगन्यान् ऋत्विजो वृत्वा पृथक्पृष्ठशमनीयैर्यजेरन् । ज्योतिष्टोमोऽग्निष्टोमः सहस्रदक्षिणः । पृष्ठशमनीयः । धूर्ज्योतिर्विश्वरूपा न सन्ति । शेषं प्रकृतिवत् ।

इति सत्रात्मा व्यूढो द्वादशाहः समाप्तः ।।

अहीनात्मा द्वादशाहः

अहीनात्मा सोऽस्तीत्युक्तम् ।। तथा च सूत्रम्-द्वादशाहः- प्रभृतीनि सत्राणि । तेन यजेताप्यहीनभूतेन (ला० श्रौ० १० १. ११-१२) इति । निदानं च- अथ द्वादशाहोऽहीनो भवतीति । सत्र- (नि- सू० ९. ९.१ )मित्युपक्रम्य उभयं भवतीति लामकायनः (नि० सू० ९. ९. २६) इत्यादि । तत्र ब्रह्मणोक्तमेव द्वादशाहमधि- कृत्य प्रकारद्वयकथनात् अहीनद्वादशाहेऽपि स्तोत्रस्तोमक्लृप्तौ न कश्चिद्विकार इति गम्यते । ततश्च तस्यापि गौरीवितमेव स्वरो रात्रिश्च नाहीनिकीत्याचार्याः । अस्माभिस्तु तस्याहीनत्वप्रयुक्तं नाना- स्वरत्वं युक्तमित्यासीतप्रसङ्गे प्रतिहारव्याख्याने प्रतिपादितम् । तत्र रात्रिरप्याहीनिकी स्यात् । स तु विकृतोऽहीनद्वादशाह उपरिष्टात् वक्ष्यते । इदानीं त्वविकृतः । तेनैकः षट् त्रयो द्वादश त्रयोदश चतुर्दश वा यजेरन् । यजमानव्यतिरिक्ता एवर्त्विजः । अस्यापि दीक्षोपसत्सुत्यादिवसाः पूर्ववत् । द्वादश दीक्षा द्वादशोपसदो द्वादश प्रसुत (तां० ब्रा० १०.३.९) इति अविशेषेण श्रवणात् । सुब्रह्मण्यायां द्वादशाहे सुत्यामित्यादि पूर्ववत् । अग्नीषोमीय- प्रभृत्यहीनेषु सर्वाः सुब्रह्मण्याः सनामग्रहाः । सुत्यास्वग्नीध्रीयेऽहर० हर्यज्ञसारथिविश्वरूपाज्योतींषि च निवर्तन्ते । प्रातरनुक्रमणवेलायामद्य- सुत्याप्रवचनीं सुब्रह्मण्यामाह्वयेत् । अहरन्ते श्वःसुत्याप्रवचनीम् । प्रायणीयातिरात्रान्ते विकल्पेनाह्वानम् । सुब्रह्मण्यायाः उदयनीयाति- रात्रान्ते त्वनाह्वानमेव । सर्वेषामह्नां पथ्या एव विष्टुतयः । अन्यत्र सदसि बहिष्पवमानैः स्तवनम् । अहीनबहिष्पवमानैः सदसि स्तुवीरन् प्रथमादह्नोऽन्यत्रे(ला० श्रौ० २.२. १)ति वचनात् । प्राक् धिष्ण्य- विहरणान्निष्क्रम्य तृणप्रासनप्रभृति समापयेयुः । रेतस्यारथन्तरवर्णे सर्वत्र कार्ये । न धुरो गेया । दधिभक्षणान्तानि सर्वाण्यहानि । दधिभक्षणान्तमहीनेष्वि(ला० श्रौ० २. २२. १५)ति वचनात् । षष्ठेऽह्नि संस्थिते सप्तमस्याह्न उपाकरणात्पूर्वं न बहुवादिनः स्युः न चाधीयीरन् । सर्पिर्मधुभ्याम् ऋत्विजो भोजयेत् । अन्यतरेण वा । (ला० श्रौ० ३. ६.७ ९) सर्वस्तोत्रधर्मा दशमेऽहनि अस्मिन् विस्मृतं कर्मेत्यादिना धर्मा उक्ताः । मानसं च पूर्ववदेव । तत्र वरवरण- वाग्यमने यजमान एव कुर्यात्, इतरे प्रजापतिवादान्तं कृत्वा यथार्थं स्युरिति विशेषः । उदयनीयेऽतिरात्रे संस्थितेऽवभृथाद्युदवसनीयान्तम् ।
अङ्गदक्षिणानां प्रधानदक्षिणानां च यथायथं प्रवृत्तिः । अन्यत् सर्वं ज्योतिष्टोमवत् । अस्यानेकयजमानत्वपक्षे सुब्रह्मण्यायां दीक्षितानां नामग्रहः याजमानानि च यजमानशब्दस्य यथार्थमूहाश्च पूर्ववदेवेति सिद्धम् ।।

इत्थं वरदराजेन वामनार्यस्य सूनुना ।

सत्राहीनात्मको व्यूढो द्वादशाहः प्रदर्शितः ।। १ ।।

समूढोऽपि द्विधा सोऽयं सत्राहीनत्वभेदतः ।

आर्षेयकल्पविवृतौ स्वस्थाने दर्शयिष्यते ।। २ ।।

अहीनात्मा द्वादशाहः समाप्तः ।।