कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः ०२

← पटलः ०१ द्राह्यायणश्रौतसूत्रम्
पटलः ०२
द्राह्यायणः
पटलः ०३ →

2.1 द्वितीयः पटलः । प्रथमः खण्डः
सर्वत्रानादेशे परिसामानि प्रस्तोता गायेत् स्वाध्यायवत् स्वासु १ तृचापत्तीनि तृचेषु त्रिरितराणि २ शार्ङागारूढवदाङ्गिरसे वा त्रिरभ्यस्येदन्तरा पराचा ३ तथा च होता ४ लिङ्गोपपत्तिश्चैवम् ५ अन्तरेण चात्वालोत्करौ संचरः सर्वत्रानादेशे ६ तदाप्नानं तीर्थम् ७ अग्नौ चीयमाने पश्चिमेन पुच्छं गत्वा दक्षिणेऽपिकक्षे तिष्ठेद्यत्र वोपदध्युः ८ पश्चिमेन पक्षावपिकक्षौ ६ पूर्वेणोपप्लवौ १० पुष्करपलाश उपधीयमाने हिरण्मये पुरुषे स्वयमातृणासु च शर्करासु व्याहृति सामानि गायेद्यजमानं सत्यं पुरुषो भूर्भुवः स्वरित्येतासु पृथक् ११ तेषां स्थाने स्वयं चिन्वान ऋतनिधनमाज्यदोहं पुरुषव्रतमेकानुगानं रथन्तरं वामदेव्यं बृहदिति १२ रथन्तरप्रभृतीनि विकल्पन्ते लोकसामभिरावृत्तैः १३ संचितमग्निं दक्षिणेन गत्वा अग्नआयूंषीति प्रत्यङ्गुखस्तिष्ठञ्छिरसि गायत्रं गायेन्निरुक्तम् १४ प्रत्याव्रज्य रथन्तरं दक्षिणे पक्ष उदङ्मुखः पश्चाद्वा प्राङ्मुखः १५ पश्चिमेन पुच्छं गत्वा बृहदुत्तरे पक्षे दक्षिणामुखः । पश्चाद्वा प्राङ्मुखः १६ प्रत्याव्रज्य यज्ञायज्ञीयं पुच्छे संवत्सरश्चेद्दैक्षः सौत्यो वा १७ ऋतुष्ठायज्ञायज्ञीयमन्यत्र।१८ वामदेव्यं दक्षिणेऽपिकक्षे १९ प्रजापतेहृदयमुत्तरे २० एतानि गौतम उत्तरेणाग्निं गत्वा २१ एतान्येव प्रदक्षिणं प्रत्यन्ताद्धानञ्जय्यः २२ यज्ञायज्ञीयं पुच्छे २३ प्रजापतेर्हृदयस्थाने च वामदेव्यम् २४ दक्षिणेनाग्निं गत्वा गौतमीये व्यत्ययं ये पक्षयोः शाण्डिल्यः २५ शिरसि च गीत्वोत्तरे पक्षे २६ यथागीतमितराणि २७ उत्तरे चोपप्लये स्वंहृदयदेशमालभ्य प्रजापतेर्हृदयम् २८ अध्वर्युपथे श्यैतम् २६
इति द्राह्यायणश्रौतसूत्रे द्वितीये पटले प्रथमः खण्डः

2.2 द्वितीयः खण्डः
प्रवर्ग्यवत्युत्तरेण सम्राडासन्दीं गत्वा पश्चात्तिष्ठन्नध्वर्युप्रेषितस्त्यग्नायिरिति गायेत् १ पदाय पदाय स्तोभेत् २ निधनायैव स्तौभीं वाचं विसृजेत् ३ उपग्रहप्रभृतीनि स्वरयन्तमुपेयुर्ये घर्म उपयुक्ताः स्युः ४ पत्नी च ५ एवं मध्ये ६ प्राप्य चाहवनीयायतनम् ७ परिषिच्यमानेऽप उपस्पृश्य वार्षाहरम् ८ इष्टाहोत्रीयं परिषिक्ते ९ तस्य सर्वे निधनमुपेयुः १० द्वीपं चेद्धर्मपात्राणि हरेयुः सन्ततान्येव गायेन्नाकाङ्क्षेत्परिषेचनम् ११ श्यैतं प्रत्यावजन् १२ तृचे वैकस्यां वा यजमानो निधनमनूपेयात् १३ पूर्वया द्वारा प्रपद्योत्तरेणाग्नीन्गत्वा पश्चाद्गार्हपत्यस्य तिष्ठन् महावीरायतनं प्रेक्षमाणो वामदेव्यं गायेदिति धानञ्जय्यः १४ श्यैतान्तानीति शाण्डिल्यः १५ गणः सामान्युत्तराणि १६ आभिरूप्यात् कर्तव्यानीत्येके १७ न वा कुर्यात् १८ स्वे वा यज्ञे कुर्यादित्येके १९ यथाकामी वा २० दीक्षणीयायां तार्क्ष्यसामनी गायेत्त्यमूष्वित्येते २१ प्रायणीयायाँ प्रवद्भार्गवं २२ उदयनीयायामुद्वत् २३ आतिथ्यायाँ गायत्रीसामौशनम् २४ अञ्जन्ति घर्मं तत्र शार्ङ्गम् २५ रजतजातरूपे उपदधति तच्छुक्रचन्द्रे २६ अभीन्धत्ते तद्धर्मस्य तन्वौ २७ रुचितं प्राहुस्तद्धर्मस्य वा रोचनमिन्द्रस्य वेति २८ धेनुमुपसृजन्ति तद्धेनु २९ तस्य देवतासु सोपायं स्तोभमाहरेदनुपायं पादायाभ्यस्येदुत्तमं पादं पञ्चनिधनवदिति गौतमः ३० समस्येत्पददेवते इति शाण्डिल्यः ३१ नोत्तमं पादं पुनरभ्यस्येदिति वार्षगण्यः ३२ शेषं यथा मरुतां भूतौ तथा समापयेत् ३३ पय आहरन्ति तत्पयः ३४ आसिञ्चन्ति तत्सिन्धुषामात्वा विशन्त्विन्दव इति ३५ शफाभ्याँ परिगृह्णन्ति तद्वसिष्ठस्य शफाविति ३६ ह्रियमाणे व्रतपक्षौ ३७ हुतेऽश्विनोर्व्रते अहोरात्रयोर्वा ३८ रौहिणाभ्यां पुरोडाशाभ्यां चरन्ति तद्राजन रौहिणके ३६ परिघर्म्यं सम्राडासन्द्यां समारोपयन्ति तदारूढवदांगिरसमित एत इति स्वर्णिधनं ४० अग्निं प्रणयन्ति तत्राग्नेर्व्रतम् ४१ अग्नीषोमौ तत्रोभयोर्व्रते ४२ सुत्यायां यज्ञसारथि प्राक् प्रातरनुवाकोपाकरणादाग्नीध्रीयेऽहरहः ४३ सत्रे सत्रस्यर्द्धि ४४ उक्षा चेदनुबन्ध्य औक्ष्णोरन्ध्रे ४५ ऋषभ आर्षभम् ४६ उन्नते त्रैककुभम् ४७ वशायां वाशम् ४८ अज आजिगं ४९ मेष और्णायवम् ५० पयस्यायाँ स्वारं पयोनिधनम ५१ उदवसानीयायामुद्वंशीयम् ५२ उपक्रम्य समापयेदाक्रतोरपवर्गात् ५३
इति द्राह्यायणश्रौतसूत्रे द्वितीये पटले द्वितीयः खण्डः २

2.3 तृतीयः खण्डः
औदुम्बरीमुच्छ्रयिष्यन् पूर्वेण देवयजनं गच्छेद्दक्षिणतश्चेदस्यावसथः स्यात् १ उत्तरेण यद्यन्यतः २ पूर्वौ सदसो द्वार्यौ श्वभ्रावन्तरेण प्रपद्याग्रेणौदुम्बरीं गत्वोदङ्मुखस्तिष्ठन्नध्वर्युणा सहोच्छ्रयेद्दक्षिणोत्तरोत्तानाभ्यां पाणिभ्यां द्युतानस्त्वेति ३ आयोरिति श्वभ्रेऽवदध्यात् ४ अवधाय जपेन्नमः समुद्राय नमः समुद्रस्य चक्षसे मामायुनर्वाहसी दूर्गस्यूर्जेदा ऊर्जं मे देह्यूर्जं मे धेह्यन्नं मे देह्यन्नं मे धेहीति ५ तान्न विसृजेदावच्छादनात् ६ अध्वर्युणाभिहुतायां जुहुयात् तस्यैवावृतान्तरेण विशाखे ७ घृतेन द्यावापृथिवी अप्रीणाथाᳪ स्वाहेति पूर्वां प्रजापतये स्वाहेत्युत्तराम् ८ अन्यतरां वा स्वाहाकारद्वितीयाम् ९ यथा भूमिमाज्यं प्राप्स्यतीति १० आज्यं होम चोदनास्वनादेशे ११ अधस्ताद्विशाखस्य परिगृह्य जपेद्दिवि देवान्दृᳪह मयि प्रजामिति १२ अन्तरीक्षे वयासि दृंह मयि पशूनिति मध्ये १३ पृथिव्यामध्यौषधीर्दृᳪह मयि सजातानिति मूले १४ ऊर्द्ध्वᳪहोमाद्याजमानं धानंजय्यः १५ स्वयमिति गौतमशाण्डिल्यौ यां वा कांचिद् ऋत्विगाशिषमाशास्ते यजमानस्यैव सेति १६ अवच्छाद्यमानायां दिव्यं छद्यासि संतनिनाम विश्वजनस्य छाया नमस्तेऽस्तु मा मा हिंᳪसीरिति १७ दक्षिणेन श्वभ्रान् गत्वापरौ द्वार्यावन्तरेण प्रपद्यैतत् कुर्यादिति शाण्डिल्यः १८ उत्तरेणेति धानंजय्यः १६ गौतमीयमितरत् २० यथैतं निष्क्रामेत् २१
इति द्राह्यायणश्रौतसूत्रे द्वितीये पटले तृतीयः खण्डः ३

2.4 चतुर्थः खण्डः
यूपमुच्छ्रीयमाणमनुमन्त्रयेरन्नृमण ऊर्ध्वभरसं त्वेति १ एतान्येवोहस्थानानि यावन्तः स्युः २ यत्र तिष्ठन्त उच्छीयमाणं पश्येयुरिति शाण्डिल्यः ३ अन्तर्वेद्येवेति धानंजय्यः ४ न बहिर्वेदि यजुरवकल्पत इति ५ विश्वरूपाणां गानं ज्योतिष्टोमे यजमानेनोक्तः प्रत्याचक्षीत । चतुष्टोमस्तोमसंपदतिरेकाद्ग्रहशस्त्राभावाच्च ६ वसतीवरीयो ग्रहः प्रातरनुवाकः शस्त्रमासां न च संपत्कोपो यथान्यैः परिसामभिर्गायैवेति चेद्ब्रूयात् ७ न मामनामन्त्र्य प्रातरनुवाकमुपाकुर्यादित्यध्वर्युं ब्रूयात् ८ होतारं प्रातरनुवाकायोपविष्टं पूर्वेण गत्वा यजमानश्च पूर्वया द्वारा प्रपद्यान्तरेण हविर्धानं पूर्वेण चक्रे उदङ्मुख उपविशेत् तूष्णीम् ९ पुरस्ताद्यजमानः प्रत्यङ्मुखः १० युजे वाचᳪ शतपदीं गायेत्सहस्रवर्तनि गायत्रं त्रैष्टुभं जगद्विश्वारूपाणि संभृता देवा ओकाᳪसि चक्रिर इत्येतस्यां पङ्क्तौ त्रिर्गायत्रं गायेदिति धानंजय्यः स्वाध्यायस्वरेण ११ मनसैव यजमान उपस्वरेत् १२ त्रिषु त्रिषु पादेषु गायेदिति गौतमः १३ पूर्वं पूर्वमतिसृजन् गायत्रीकारम् १४ प्रगाथकारं वा १५ गीत्वा यथार्थं स्यात् १६ विश्वरूपाश्चेद्गायेज्यो ्तींष्यपि गायेत् १७ परिहिते प्रातरनुवाकेऽपोनप्त्रीयं नाम सूक्तं पुरा तस्माद्धोतारमारमेत्युक्त्वा १८ आग्रयणस्य वानुहिंकारं पवित्रं धारयन् १९ आस्तावं वा प्राप्य स्तोमयोगात् २० अग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रः सूर्योज्योतिर्ज्योतिः सूर्य इत्येतेषु पादेषु त्रिस्त्रिरेकैकमभ्यासं मनसा गायत्रं गायेत् २१ तानि नान्यत्र विश्वरूपाभ्यः २२ नान्यत्र विश्वरूपा ज्योतिष्टोमात् २३ सहचराणि ह्येतानि विश्वरूपाश्च ज्योतींषि च ज्योतींषि २४
इति द्राह्यायणश्रौतसूत्रे द्वितीये पटले चतुर्थः खण्डः ४
इति द्वितीयः पटलः समाप्तः २