कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः १०

← पटलः ०९ द्राह्यायणश्रौतसूत्रम्
पटलः १०
द्राह्यायणः
पटलः ११ →

चतुर्थः प्रपाठकः ।
10.1 दशमः पटलः । प्रथमः खण्डः
महाव्रतस्य पृष्ठ उपाकृते युक्त्वा स्तोमं परिमादो गायेदिति भाण्डितायनः १ प्रतिगृह्य तृणेऽयुक्त्वेति गौतमशाण्डिल्यौ धानंजय्यश्च २ प्रागेव स्तोत्रोपाकरणादित्येके ३ दक्षिणेनाग्नीध्रीयं गत्वोत्तरेणाग्निं प्राणप्रभृतिभिरुपतिष्ठेरᳪ स्तदुक्तं ब्राह्मणेन ४ सर्वाण्युद्गाता सकृत्सकृद्गायेन्निधनमितरावनूपेयाताम् ५ अपि मध्ये निधनेषु ६ आद्यन्तस्तुब्धेषु पदाय पदाय स्तोभेत् ७ तेनैव प्रत्याव्रज्य पुच्छम् ८ व्रतपक्षयोः पूर्वेण दक्षिणं पक्षम् ६ उत्तरमपि कक्षमुपतिष्ठेरन् १० विश्वे देवा इति वसिष्ठस्य निहवमूहेत् ११ चात्वालमुपस्थायोत्तरेणाग्नीध्रीयं गत्वा पश्चात्तिष्ठन्तः १२ तत एव प्रत्यङ्मुखा इति धानंजय्यः १३ तस्योत्तमं निधनमा तमितोरुपेयुः १४ पूर्वेण हविर्धाने पुरस्तात् प्रत्यङ्मुखाः पश्चादितरेण १५ तत एवेक्षमाणा मार्जालीयं नाके सुपर्णमिति यद्द्वन्द्वेषु १६ यथा हविर्धाने तथा सदः १७ अन्तर्वेदि प्रत्यङ्मुखा गार्हपत्यमिति धानंजय्यः १८ तस्यैव पथात्तिष्ठन्त इति शाण्डिल्यः १६ इन्द्रप्रभृति प्रत्यक्षं निधनमुपेयुः २०
इति द्राह्यायणश्रौतसूत्रे दशमे पटले प्रथमः खण्डः १

10.2 द्वितीयः खण्डः
अथ राजानं संनाहयेत् १ तस्य द्य्टरार्ध्यौ रथावनुयायिनौ स्याताम् २ पूर्वेण देवयजनᳪसंनह्येरन्नन्ये तस्मात् ३ दक्षिणेन परियायुः ४ पूर्वेण पत्नीशालामुद्गाता गत्वा दक्षिणे वेद्यन्ते प्राचो दर्भान् सᳪस्तीर्य तेष्वेनं प्राङ्मुखमुपवेशयेत् ५ अथास्मै वर्माभिहरेत् ६ अन्यं वाभिहरन्तमनुमन्त्रयेतोत्तिष्ठ राजन् परिवर्मास्यश्वयुक्तो रथो विततो दैव आखणो विशाᳪ राजा ब्राह्मण एधि गोप्तेति ७ पश्चिमेन परियाहीत्युक्त्वा तेनैव प्रत्याव्रज्योत्तर एनं वेद्यन्तेऽवस्थाप्य ब्रूयाद्धस्तत्रं बध्नीष्वोज्य्वमायुधं कुरुष्व त्रीनिषूनुपकल्पयस्वायस्मयानन्यमेव कं चतुर्थमिति ८ प्रतिधत्स्वेति ब्रूयात् ६ तं प्रतिदधानमनुमन्त्रयेत वैणावताय प्रतिधत्स्व शंकुं मापप्रोष्ठ मोतेति पप्तद्ब्रह्मणो गुप्त्यै विधृत्यै धारयात्रेति १० संभृत्यातिष्ठेति ब्रूयात् ११ उत्तरेणाग्नीध्रीयं पूर्वापरे चर्मणी विबध्नीयुर्दक्षिणेन रथपथं शिष्ट्वा १२ तं ब्रूयात् प्रदक्षिणं देवयजनं परीया पूर्वं चर्मागमनेषु विध्येरेकैकेनोत्तरोत्तर्यनतिपातयन्नपरस्मा इतरे यथाभिप्रेतमस्येयुस्तृतीयेन विध्वोदङ् प्रयायास्तदा चतुर्थमिषुं यां दिशं मन्येथास्तामस्येरवब्रह्मद्विषो जहीति गा दृष्ट्वावतिष्ठेथास्तत्र त्वा विस्रंभयेयुः १३ ब्राह्मणमुक्त्वेमं हिङ्कारवेलायां कारयेयुः १४
इति द्राह्यायणश्रौतसूत्रे दशमे पटले द्वितीयः खण्डः २

10.3 तृतीयः खण्डः
भूमिदुन्दुभिमाव्रजेत् १ पश्चादाग्नीध्रीयस्यार्धमन्तर्वेदि श्वभ्रस्य खातं स्यादर्धं बहिर्वेदि २ आर्षभेणोत्तरलोम्ना चर्मणा पिहितः स्यात् ३ त्वं वागसि ४ ये नः सत्रे अनिन्दिषुर्दीक्षायां श्रान्त आसिते । अराद्धिं तेभ्यो दुन्दुभे राद्धिमस्मभ्यमावद । इति । परावद द्विषन्तं घोरां वाचं परावदाथास्मभ्यं ᳪ सुमित्र्यां वाचं दुन्दुभे कल्याणीं कीर्तिमावदेति। परावद द्विषतो वाद्यं दुर्हार्दो यो विषूकुहोऽथास्मभ्यं पुष्टि ᳪ राद्धिं श्रियमावद दुन्दुभे इत्येनमेतैर्मन्त्रैः पृथगाहत्य बालधानेन ४ अन्यं वा घ्नन्तमनुमन्त्रयेत ५ अप उपस्पृश्य यथैतं प्रत्याव्रज्य पश्चात्तिष्ठन्तोऽग्निमुपतिष्ठेरन्नमस्ते गायत्राय यत्ते पुरो यत्ते शिरो नमस्ते रथन्तराय यत्ते दक्षिणतो यत्ते दक्षिणः पक्षो नमस्ते बृहते यत्ते उत्तरतो यत्त उत्तरः पक्षो नमस्ते यज्ञायज्ञीयाय यत्ते पश्चाद्यत्ते पुच्छं नमस्ते वामदेव्याय यस्त आत्मा यत्ते मध्यमित्येतैः पृथगङ्गान्यन्वर्थम् ६ अथ सर्वं समस्तेन तस्मैते सुभोः सुभुवो भूयास्म । नामासि नाम भूयासम् । आविरस्याविर्मा कुरु । सवितः प्रमा सुव । यां मनुष्याणां भूतौ संपश्यसि तेष्वभिभूयासम् । श्रियं मयि घेहीति ७ उपस्थाय सदः प्रविशेयुः ८
इति द्राह्यायणश्रौतसूत्रे दशमे पटले तृतीयः खण्डः ३

10.4 चतुर्थः खण्डः
अपरया द्वारौदुम्बरीमासन्दीं मौञ्जविवानामतिहरेयुः १ यज्ञियस्य वृक्षस्यौदुम्बराभावे २ मुञ्जाभावे दार्भम् ३ तस्य प्रादेशमात्राः पादाः ४ अरत्निमात्रासीतराण्यङ्गानि ५ दक्षिणेनौदुम्बरीᳪ हुत्वा तस्या उत्तरतो निदध्युः ६ तामुत्तरेणोद्गाता गत्वा पश्चादुपविश्य भूमिस्पृशोऽस्याः पादान्कृत्वा कूर्चानधस्तादुपोह्याभिमृशेद्बृहद्रथन्तरे ते पूर्वो पादौ श्यैतनौधसे अपरौ वैरूपवैराजे अनूची शाक्वर रैवते तिरश्ची इत्येतैः पृथगङ्गानि ७ विवयनमालभ्यर्चः प्राञ्च आताना यजूᳪषि तिर्यञ्चः सामान्यास्तारणᳪ श्रीरुपबर्हणं वाकोवाक्यमतिलोका वारवन्तीयᳪसंधयो राजनमात्मा प्रतिष्ठा यज्ञायज्ञीयमिति ८ तां मुखेनोरसा बाहुभ्यामिति स्पृष्ट्वारोहेद् वसवस्त्वा गायत्रेण छन्दसारोहन्तु । तानन्वधिरोहामि । राज्याय रुद्रास्त्वा त्रैष्टुभेन छन्दसारोहन्तु । तानन्वधिरोहामि । वैराज्यायादित्यास्त्वा जागतेन छन्दसारोहन्तु । तानन्वधिरोहामि । स्वाराज्याय विश्वे त्वा देवा आनुष्टभेन छन्दसारोहन्तु । तानन्वधिरोहामि साम्राज्यायेति ९ अथेतैरेव देवता उदस्य राज्यशब्दं चामुना त्वा छन्दसारोहामीति वैराजपञ्चमैरिति गौतमः १० चतुर्भिरिति धानंजय्यः ११ त्रिभिरिति शाण्डिल्यः १२ आरुह्य जपेत्स्योनामासदᳪ सुखदामासदं नमस्तेऽस्तु मा मा हिᳪसीरिति १३ तस्मिन्नारोहति कूर्चानारोहेयुः प्रष्ठी ब्रह्मा गृहपतिः १४ आसन्द्या व्याख्यातं द्रव्यं वाणस्य द्रव्यं वाणस्य १५
इति द्राह्यायणश्रौतसूत्रे दशमे पटले चतुर्थः खण्डः ४
इति द्राह्यायणश्रौतसूत्रे तृतीयः प्रपाठकः समाप्तः ३