कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः १७

← पटलः १६ द्राह्यायणश्रौतसूत्रम्
पटलः १७
द्राह्यायणः
पटलः १८ →

17.1 सप्तदशः पटलः । प्रथमः खण्डः
वर्द्धमानेषु स्तोमेषु १ प्रथमस्य पर्यायस्य प्रथमा तृचभागा । तस्यास्त्रिर्वचनम् २ मध्यमावापस्थानम् ३ उत्तमा परिचरा ४ परिचरा तृचभागावापस्थानमिति मध्यमे ५ आवापस्थानं परिचरा तृचभागेत्युत्तमे ६ एते विष्टावाः ७ तदभावे तृचभागास्थानेषु पर्यायाणां पर्यायाः स्युः ८ यथा वैकः पर्यायः ६ नैकिनि पर्याया विद्यन्ते । तथा त्रिके विष्टावाः १० त्रिवृतश्चोद्यत्याम् ११ समेषु समः प्रयोगः स्तोत्रीयाणाम् १२ एकैकाधिशयेष्वधिका द्वे द्व्यधिशयेषु १३ ते विषमाः १४ युग्मायुक्ता द्व्युत्तरीभावेण १५ अयुज एकिप्रभृतयः १६ द्विकप्रभृतयो युजः १७ त्र्युत्तरीभावेनोभयेषां समवैषम्यम् १८ एकिप्रभृतय एकाधिशयाः १९ द्विकप्रभृतयो द्व्यधिशयाः २० समास्त्रिकप्रभृतयः २१ विषमाः समपर्यायैर्वर्तन्ते २२ यावभितोऽनन्तरौ समौ तयोः पर्यायान् संहरेत् २३ पूर्वस्यैकमेकाधिशयेषु २४ द्वौ द्व्यधिशयेषु २५ उभयान् यथाजाति २६ युग्मायुग्भ्यो वा २७ तत्र युजामेकाधिशयानामयुजः पूर्वौ पर्यायौ २८ उत्तरौ द्व्यधिशयानाम् २९ विपर्ययो युग्मायुजामयुक्षु ३०
इति द्राह्यायणश्रौतसूत्रे सप्तदशे पटले प्रथमः खण्डः १

17.2 द्वितीयः खण्डः
त्रिणवाद्यावत्समाः १ एकया द्वाभ्यां वा परौ ज्यायांसौ २ अन्त्यो वा ३ अन्यत्र त्वेव ४ संहरन्त्येके ५ यथास्थानं पर्यायान् कुर्यात् ६ सोऽविदोषः ७ यदवसानः पूर्वः पर्यायस्तत्प्रभृतिरुत्तरस्तत्सामात्साम्यम् ८ तदुभयं कुर्यात् ६ ब्रह्मायतनीयां च १० तथा पर्यायरोहम् ११ असंभवत्सु सर्वेषु समात्समामेव चिकीर्षेत् १२ पर्यायप्रत्यवरोहं तु वर्जयेत् १३ विडायतनीयां च १४ प्रथमायाः प्रयोगे भूयिष्ठे ब्रह्मायतनीया १५ मध्यमायाः क्षत्त्रायतनीया १६ उत्तमाया विडायतनीया १६ दाशरात्रिकेभ्यः पर्यायकृतौ पथ्यापर्यायानेव संहरेत् १८ परिवर्तिन्यास्तु त्रिवृतोऽनादेशे १६ एष न्यायोऽनादिष्टानाम् २० एकिन्यावर्तिस्थानगते त्रिः पुरस्ताद्धिंकारं शाण्डिल्यः २१ त्रिके च प्रथमया स्तोमपूरणम् २२ तृचेन धानंजय्यः २३ सकृञ्चैकिनि हिंकारम् २४ जातिसंहारः पच्चिनि २५ पञ्चदशपर्यायैः पृथगनुपूर्वं रात्रिपर्यायान्निदध्यात् २६
इति द्राह्यायणश्रौतसूत्रे सप्तदशे पटले द्वितीयः खण्डः

17.3 तृतीयः खण्डः
संलङ्घितायामिति भाडितायनः १ तत्र विष्टावाः पर्यायस्थानेषु स्युः २ पृथक् च स्तोत्रीयासु पर्यायाः ३ दाशरात्रिकेभ्य एकया ज्यायस्सु तस्मात् पूर्वस्योत्तमे पर्याय आवपेत् ४ ब्रह्मायतनीया तु तेषु ५ क्षत्रायतनीया वा ६ आस्कन्दं तु गौतमश्चत्वारिंशे ७ धानंजय्य इतरेषु ८ दशिनि चतुष्को मध्ये परिवर्त्तिनी पर्यायावभितः ६ उद्यत्या वा १० उद्यतीपर्याययोर्ब्रह्मायतनीयां कुर्वन् प्रथमायां चतुष्कं कुर्यात् ११ द्वादशे तृचभागास्थानेषु द्विका विष्टावा आवापस्थानेषु वा १२ त्रयोदशत्रयोविंशयोः पञ्चविंशे च मध्यमः पर्यायो ज्यायानेकज्यायःसु कनीयानेककनीयःसु १३ तथैकान्नत्रिंशेकत्रिंशयोः १४ रूढपर्याया वा १५ तेषां प्रथमे युग्मायुक्संहारं शाण्डिल्यायनः १६ द्वितीये शाण्डिल्यः १७ उभयोर्जातिसंहारं धानंजय्यः १८ शाण्डिल्यस्तु पञ्चविंशे १६ अष्टादशः सप्तदश एवावपेदिति गौतमः २० न्यायविहितः स्यादिति धानंजय्यः २१ एकान्नविंशे च परिवर्तिनीपर्यायावभितस्त्रयोदशी मध्ये २२ तस्मिन् प्रथमायास्त्रिर्वचनं तथोत्तमायाः २३ पञ्चदशपर्यायावभितो नवी मध्ये त्रिकविष्टाव इति शाण्डिल्यः २४ शाण्डिल्यायनस्तु जातिसंहारम् २५ द्वात्रिंशे तिस्रो विष्टुतीः कुर्यादिति धानंजय्यः २६ तासां पर्यायकृतिप्रयोगौ चतुश्चत्वारिंशेन व्याख्यातौ २७ अप्यहर्भाजि प्रथमयैवेति शाण्डिल्यः २८
इति द्राह्यायणश्रौतसूत्रे सप्तदशे पटले तृतीयः खण्डः ३

17.4 चतुर्थः खण्डः
चतुष्टोमयोश्चतुष्पर्यायाः १ तत्र चतुष्के द्वौ प्रथमायां पर्यायौ स्यातां यदि ब्रह्मायतनीयां कुर्यात् २ मध्यमायां क्षत्रायतनीयां चेत् ३ तथाष्टिनि ४ द्विकास्तु तस्य पर्यायाः ५ पूर्वयोः पूर्व उत्तरयोरुत्तर एवं विहितावपराविति शाण्डिल्यः ६ पूर्वयोर्द्वितीयः पृथक्स्तोत्रीयास्वितर इति धानंजय्यः ७ द्वादशे व्याख्यातौ प्रथमोत्तमौ ८ मध्यमौ द्विकौ ९ पूर्वयोः पूर्व उत्तरयोरुत्तरः १० षोडशे चत्वारो द्वादशपर्यायाः ११ तेषां मध्यमौ सदृशौ १२ चतुर्विंशे चत्वारः षट्काः पर्याया द्विका विष्टावाः १३ पृथक्तृचेषु तु चतुस्तृचे १४ द्वयोर्द्वयोर्वा द्वैधम् १५ यज्ञायज्ञीयस्यर्क्षु वा प्रथमः प्रथमास् च १६ यज्ञायज्ञीयप्रथमायां द्वितीयः साकमश्चर्क्षु परमध्यमयोश्च १७ पूर्वमध्यमयोस्तृतीयो हारिवर्णर्क्षु तैरश्च्योत्तमायां च १८ पूर्वोत्तमासु चतुर्थस्तैरश्च्यर्क्षु च १९ उपोत्तमो वा द्विकविष्टावोऽश्वमेधेऽष्टादशादितरे २० पञ्चदशस्य पर्यायौ पूर्वावेकविंशस्योत्तराविति वोत्तराविति २१
इति द्राह्यायणश्रौतसूत्रे सप्तदशे पटले चतुर्थः खण्डः ४