कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्/प्रश्नः ०९

← प्रश्नः ०८ कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्
प्रश्नः ०९
भरद्वाजः
प्रश्नः १० →

अथ नवमः प्रश्नः
श्रुतिलक्षणं प्रायश्चित्तं विध्यपराधे विधीयते १ एकस्मिन् दोषे श्रूयमाणानि प्रायश्चित्तानि समभ्युच्चीयेरन्नर्थान्तरत्वात् २ जपो होम इज्या च ३ दोष-निर्घातार्थानि भवन्ति ४ अनन्तरं दोषात् कर्तव्यानि ५ निर्हृते दोषे पुनः कृत्स्नं कर्म ६ तस्य नावचनात् पुनः प्रयोगः ७ यद्यन्वाहिताग्निः प्रयायात् तुभ्यं ता अङ्गिरस्तम इति गार्हपत्ये जुहुयात् ८ पृथगरणीष्वग्नीन् समारोप्य प्रयाति ९ स यत्रावस्यति तदेतामिष्टिँ सँ स्थापयति १० यद्यन्वाहिताग्नेरा-हवनीय उद्वायेत् अन्वग्निरुषसामग्रमख्यत् इत्यन्यं प्रणीय भूः इत्युपस्था-याज्यस्य स्रुवं पूर्णं जुहोति
यो अग्निं देववीतये हविष्माँ आविवासति ।
तस्मै पावक मृडय स्वाहा ॥
इति ११ तत एतामाहुतिं जुहोति इदं विष्णुर्वि चक्रमे इति १२ मनसा व्रतोपायनीयं यजुर्जपेत् १३ यः कश्चनानुगच्छेदेतदेव प्रणयनवर्जम् १४ मन्थेद्गार्हपत्यम् १५ यथाप्रकृत्यन्वाहार्यपचनम् १६ यद्याहिताग्नेरग्निर-पक्षायेदा शम्यापरासात् तँ संभरेत्
इदं त एकं पर उ त एकं तृतीयेन ज्योतिषा संविशस्व ।
संवेशनस्तनुवै चारुरेधि प्रिये देवानां परमे जनित्रे ॥
इति १७ ९.१

यदि परस्तरामपक्षायेदनुप्रयायावस्येत् १ ततोऽग्नये पथिकृते पुरोडाशमष्टा-कपालं निर्वपेत् २ पथोऽन्तिकाद्बर्हिराहरेत् ३ अनड्वान् दक्षिणा ४ सिद्ध-मिष्टिः संतिष्ठते ५ यदि हविषे वत्सा अपाकृता धयेयुर्वायव्यां यवागूं निर्वपेत् ६ सा दोहस्य स्थाने स्याद्यतरस्मा अपाकृता धयेयुः ७ अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ८ यदि सायं दुग्धँ हविरार्तिमार्छेदिन्द्रा य व्रीहीन् निरुप्योपवसेत् ९ यत् प्रातः स्यात् तच्छृतं कुर्यात् १० अथेतर ऐन्द्र ः! पुरोडाशः स्यात् ११ तस्य प्रातर्दोहेन समवदाय प्रचरेत् १२ अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् १३ एतदेव प्रातर्दोह आर्तिगते प्रायश्चित्तम् १४ एतावन्नाना । सायंदोहेनात्र समवदाय प्रचरेत् १५ यस्योभौ दोहावार्ति-मार्छेयातामैन्द्रं पञ्चशरावमोदनं निर्वपेत् १६ तस्योभे देवते यजेताग्निं चेन्द्रं चेत्याश्मरथ्यः । अथालेखनः । इन्द्र मेवैतस्य यजेत १७ नित्य आग्नेयो-ऽष्टाकपालः १८ अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् १९ यस्य व्रत्येऽहन् पत्न्यनालम्भुका स्यात् तामपरुध्य यजेत २० उदक्शुल्बँ स्तृणीयात् २१ ९.२

तामिष्ट्वोपह्वयेत
अमूहमस्मि सा त्वं द्यौरहं पृथिवी त्वँ सामाहमृक् त्वम् ।
तावेहि संभवावहै रेतो दधावहै पुँ से पुत्राय वेत्तवै
रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ॥
इति १ यदि सांनाय्यमग्निहोत्रं वा विष्यन्देत प्राजापत्ययर्चा वल्मीकवपा-यामवनीय भूः इत्युपतिष्ठेत २ ततोऽन्यां दुग्ध्वा पुनर्जुहुयाद् यद्यग्निहोत्रम् ३ यद्यु वै सांनाय्यमुत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ४ यदि सांना-य्येऽग्निहोत्रे वा कीटोऽवपद्येत मध्यमेन पर्णेन द्यावापृथिव्ययर्चान्तःपरिधि निनयेत् ५ ततोऽन्यां दुग्ध्वा पुनर्जुहुयाद् यद्यग्निहोत्रम् ६ यद्यु वै सांनाय्यमुत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ७ यद्युद्द्रुतमग्निहोत्रमववर्षेत्
मित्रो जनान् कल्पयति प्रजानन् मित्रो दाधार पृथिवीमुत द्याम् ।
मित्रः कृष्टीरनि मिषाभिचष्टे सत्याय हव्यं घृतवज्जुहोति ॥
इति जुहुयात् ८ ततोऽन्यां दुग्ध्वा पुनर्जुहुयात् ९ यदि पूर्वस्यामाहुत्याँ हुतायामुत्तराहुतिः स्कन्देत् पूर्वां वोत्तरयाभिजुहुयात्
यत्र वेत्थ वनस्पते देवानां गुह्या नामानि ।
तत्र हव्यानि गामय ॥
इति वानस्पत्ययर्चा समिधमाधाय तूष्णीमेव पुनर्जुहुयात् १० ततोऽन्यां दुग्ध्वा पुनर्जुहुयात् ११ यदि पूर्वस्यामाहुत्याँ हुतायामाहवनीय उद्वायेदन्तमे शकले हिरण्यं निधायाभिजुहुयात् अग्निर्दारौ दारावग्निरगात् स्वाहा इति १२ ९.३

यदि पुरा प्रयाजेभ्यो बहिःपरिध्यङ्गारः स्कन्देत् तँ स्रुवस्य बुध्नेनाभिनिदध्यात्
मा तमो मा यज्ञस्तमन्मा यजमानस्तमत् ।
नमस्ते अस्त्वायते नमो रुद्र परायते नमो यत्र निषीदसि ॥
अध्वर्युं मा हि ँ! सीर्यजमानं मा हि ँ! सीः इति यदि पुरस्तात् । ब्रह्माणं मा
हि ँ! सीर्यजमानं मा हि ँ! सीः इति यदि दक्षिणतः । होतारं मा हि ँ! सीः पत्नीं मा हि ँ! सीर्यजमानं मा हि ँ! सीः इति यदि पश्चात् । आग्नीध्रं मा हि ँ! सीः पशून् मा हि ँ! सीर्यजमानं मा हि ँ! सीः इति यद्युत्तरतः १ अथैनमनुप्रहरति
सहस्रशृङ्गो वृषभो जातवेदाः स्तोमपृष्ठो घृतवान् सुप्रतीकः ।
मा नो हासीन्मेथितो नेत्त्वा जहाम गोपोषं नो वीरपोषं च यच्छ ॥
इति २ प्रहृत्याभिजुहुयादित्येकेषाम् ३ येन स्कन्देत् तेन प्रहरेत् ४ यद्याहिताग्नेरग्निर्मथ्यमानो न जायेत
अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् ।
दूरेदृशं गृहपतिमथर्युम् ॥
इत्यभिमन्त्र्! य यत्रान्यं पश्येत् तत आहृत्य विहृत्य जुहुयात् ५ ततोऽत्वरमाणः पुनर्मन्थेत् ६ यद्यन्यं न विन्देदजायै दक्षिणे कर्णे जुहुयात् ७ अजस्य तु ततो नाश्नीयात् ८ यद्यजां न विन्देद् ब्राह्मणस्य दक्षिणे हस्ते जुहुयात् ९ ब्राह्मणं तु वसत्यै नापरुन्ध्यात् १० यदि ब्राह्मणं न विन्देद् दर्भस्तम्बे जुहुयात् ११ दर्भा ँ! स्तु नाध्यासीत १२ ९.४

यदि दर्भान्न विन्देदप्सु जुहुयात् १ आपस्तु न परिचक्षीतेमा भोजनीया इमा अभोजनीया इत्याश्मरथ्यः । अप्यभोजनीयस्यैतँ संवत्सरं परिगृह्णीयादेवाप इत्यालेखनः २ अद्भिस्तु न पादौ प्रक्षालयीतेत्येकेषाम् ३ संवत्सरादग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् ४ सिद्धमिष्टिः संतिष्ठते ५ यद्याहिता-ग्नेरन्यैरग्निभिरग्नयः सँ सृज्येरन् मिथो वाग्नये विविचये पुरोडाशमष्टाकपालं निर्वपेत ६ ततो व्रतपतये ७ सिद्धमिष्टिः संतिष्ठते ८ यद्याहिताग्नेरग्निर्गृहान् दहेदग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत् ९ ततो व्रतपतये १० सिद्ध-मिष्टिः संतिष्ठते ११ अथ यद्यभ्यादाह्येन सँ सृज्येरन् विविचये निरुप्य शुचये निर्वपेत् १२ ततो व्रतपतये १३ सिद्धमिष्टिः संतिष्ठते १४ अथ यदि वैद्युतेन सँ सृज्येरन्नग्नयेऽप्सुमते पुरोडाशमष्टाकपालं निर्वपेत् १५ ततो व्रतपतये १६ सिद्धमिष्टिः संतिष्ठते १७ अथ यदि शवाग्निना सूतकाग्निना वा सँ सृज्येरन्नग्नये संकुसुकाय पुरोडाशमष्टाकपालं निर्वपेत् १८ ततो व्रतपतये १९ सिद्ध-मिष्टिः संतिष्ठते २० अथ यदि सर्वाणि संनिपतेयुः क्षामवतीमन्ते कुर्यात् २१ यद्यग्निहोत्रस्थाली स्रवेत् तामभिमन्त्रयेत
गर्भ ँ! स्रवन्तमगदमकरग्निरिन्द्र स्त्वष्टा बृहस्पतिः ।
पृथिव्यामवचुश्चोतैतन्नाभिप्राप्नोति निरृतिं पराचैः ॥
इति २२ स्कन्नमपोऽभ्यवहरेत् २३ ९.५
यद्यनधिश्रितँ स्याद्वैष्णव्यानुमन्त्रयेत १ यस्य हविर्निरुप्तं पुरस्ताच्चन्द्र मा अभ्यु-देति त्रेधा तण्डुलान् विभजेत् । ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशम-ष्टाकपालं कुर्यात् । ये स्थविष्ठास्तानिन्द्रा य प्रदात्रे दधँ श्चरुम् । येऽणिष्ठास्तान् विष्णवे शिपिविष्टाय शृते चरुम् २ अनिरुप्ताभ्युदिते कतमाभ्यो देवताभ्यो निर्वपेत् । प्राकृतीभ्य इत्याश्मरथ्यो वैकृतीभ्य इत्यालेखनः ३ सेयं नासंनयतो विद्यत इत्येकम् । विद्यत इत्यपरम् ४ अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वातिपादयेत् ५ पथोऽन्तिकाद्बर्हिराहरेत् ६ अनड्वान् दक्षिणा ७ सिद्धमिष्टिः संतिष्ठते ८ अथैकेषां विज्ञायते वि वा एतस्य यज्ञश्छिद्यते यस्य यज्ञे प्रतत एतामन्तरेष्टिं निर्वपति । य एवासावाग्नेयोऽष्टाकपालः पौर्णमासे योऽमावास्यायां तमग्नये पथिकृते कुर्यात् । तेनैव पुनः पन्थामवैति न यज्ञं विच्छिनत्ति ९ अग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेद् यद्याहिताग्निः प्रवसन् पर्वणि माँ सं वाश्नीयात् स्त्रियं वोपेयात् १० व्रतभृत एके समामनन्ति ११ एतामेव निर्वपेद् यद्याहिताग्निरश्रु कुर्यात् १२ यथा कथा च कुर्यात् प्रायश्चित्तमेव स्यादित्या-श्मरथ्यः । आर्तिजमेव कुर्यादित्यालेखनः १३ ९.६

यद्यग्निहोत्र्! युपसृष्टा निषीदेत् तामुत्थापयेत्
उदस्थाद् देव्यदितिर्विश्वरूप्यायुर्यज्ञपतावधात् ।
इन्द्रा य कृण्वती भागं मित्राय वरुणाय च ॥
इति १ तां दुग्ध्वा ब्राह्मणाय दद्याद्यस्यान्नं नाद्यात् २ अथ यदि स्पन्देतान्यां दुह्यात् ३ यदि दुह्यमानँ स्कन्देत् तदनुमन्त्रयेत
यदद्य दुग्धं पृथिवीमसक्त यदोषधीरप्यसरद्यदापः ।
पयो गृहेषु पयो अघ्नियासु पयो वत्सेषु पयो अस्तु मन्मयि ॥ इति ४ अथैनदद्भिरुपसृजति समुद्रं वः प्र हिणोमि इत्येतया ५ तदेव यादृक्कीदृक् च हुत्वाथान्यां दुग्ध्वा पुनर्जुहुयात् ६ यदि दुग्धँ स्कन्देद्यद्यधिश्रितं यदि विष्य-न्देताभिदुह्य जुहुयादित्याश्मरथ्यः । तदेव यादृक्कीदृक् च हुत्वाथान्यां दुग्ध्वा पुनर्जुहुयादित्यालेखनः ७ यद्युन्नीयमानँ स्कन्देद् यद्युन्नीतं यदि पुरः पराहृतँ होमायाभिदुह्य जुहुयादित्याश्मरथ्यः । तदेव यादृक्कीदृक् च हुत्वाथान्यां दुग्ध्वा पुनर्जुहुयादित्यालेखनः ८ यद्युद्द्रुतस्य स्कन्देद्यत्र स्कन्देत् तन्निषद्य पुनर्गृह्णीयात् । तदेव यादृक्कीदृक् च हुत्वाथान्यां दुग्ध्वा पुनर्जुहुयात् ९ ९.७
यदि सकृदुन्नीतँ स्कन्देद्यदि द्विर्यदि त्रिर्न तदाद्रि येतेति विज्ञायते १ कृत्स्नानामग्निहोत्राणां वादमाश्मरथ्य ऊचे स्रुववादमित्यालेखनः २ यदि चतुर्थ ँ! स्कन्देत् स्थाल्याँ शेषमानीय ततश्चतुर्गृहीतं गृहीत्वा जुहुयात् । अपि वाज्यस्य वारुणीमृचमनूच्य वारुण्यर्चा जुहुयात् ३ अथैकेषाम् । यदि दुह्यमानावभिन्द्यादन्यां निर्णिज्य दोह्या ४ यदि दुग्धमन्याभिदोह्या । यद्य-धिश्रितमन्याभिदोह्या । यदि विष्यन्देतान्याभिदोह्या । यद्युन्नीयमानमन्या-भिदोह्या । यद्युन्नीतं पुनः प्रत्यवनीयान्याभिदोह्या ५ यदि प्राचीनँ ह्रियमाणं प्रजापतेर्विश्वभृति तन्वँ हुतमसि स्वाहा इत्यभिमृशेत् । आज्यस्य वारुणी-मृचमनूच्य वारुण्यर्चा जुहुयात् ६ यदि लोहितं दुह्येतान्यद्वा विवर्णमन्वा-हार्यपचनं परिश्रित्य अग्नये रुद्र वते स्वाहा इति जुहुयात् ७ यदि शिलि-शिलीभवेत् समोषामुम् इति ब्रूयाद्यं द्विष्यात् ८ यदि सायमाहुतौ स्कन्देदा प्रातराहुतेर्नाश्नीयात् । यदि प्रातराहुतौ स्कन्देदा सायमाहुतेर्नाश्नीयात् ९ ९.८

यस्याग्निहोत्रेऽधिश्रिते श्वान्तराग्नी धावेद्गार्हपत्याद्भस्मादाय इदं विष्णुर्वि चक्रमे इति वैष्णव्यर्चाहवनीयाद् ध्वँ सयन्नुद्द्रवेत् १ भस्मना शुनः पदमपिवपति २ एतदेव सूकरैकसृके विद्यात् ३ यस्याग्निमनुद्धृतँ सूर्योऽभिनिम्रोचेद्दर्भेण हिरण्यं प्रबध्य पूर्वः प्रतिपद्येत ४ अन्वङ् ब्राह्मण आर्षेयो बहुविदग्निमुद्धरेत् । अन्वङ्ङग्निहोत्रेणानूद्द्रवेत् ५ प्रतिष्ठाप्याग्निमग्निहोत्रमुपसाद्या तमितोरप्राण-न्नासित्वा हुत्वा वरं दत्त्वा भूः इत्युपतिष्ठेतेत्याश्मरथ्यः । भूर्भुवः सुवः इत्यालेखनः ६ अनाश्वानेताँ रात्रिमुपवसति ७ श्वो भूते वारुणं दशकपालं निर्वपति । चरुमित्येकेषाम् ८ सिद्धमिष्टिः संतिष्ठते ९ यदि सायम-ग्निहोत्रस्यर्तुमतिनयेत् दोषा वस्तोर्नमः स्वाहा इति जुहुयात् १० एतदेव नित्यमग्निहोत्रमित्याश्मरथ्यः । अथालेखनः । कालसमापादनीयमेवैतेन मन्त्रेण होमँ हुत्वा नित्यमग्निहोत्रं जुहुयात् ११ तत्र स एव होमकल्पः १२ एतावन्नाना । भूर्भुवः सुवः इति पुरा होतोर्वदेत् १३ यदि प्रातरग्निहोत्र-स्यर्तुमतिनयेत् प्रातर्वस्तोर्नमः स्वाहा इति जुहुयात् १४ एतदेव नित्य-मग्निहोत्रमित्याश्मरथ्यः । अथालेखनः । कालसमापादनीयमेवैतेन मन्त्रेण होमँ हुत्वा नित्यमग्निहोत्रमुपसाद्या तमितोरप्राणन्नासित्वा वरं दत्त्वा हुत्वा भूर्भुवः सुवः इत्युपतिष्ठेत १५ अनुगमयित्वाहवनीयमन्यं प्रणयेत् अन्व-ग्निरुषसामग्रमख्यत् इति १६ अथैनमभिमन्त्रयते इहैव क्षेम्य एधि मा प्रहासीमाममुमामुष्यायणम् इति १७ ९.९

ततो मैत्रं चरुं निर्वपेत् सौर्यमेककपालम् १ सिद्धमिष्टिः संतिष्ठते २ तस्याँ सँ स्थितायां वाग्यतावेतदहरनश्नन्तौ जायापती अग्निमिन्धानावासाते ३ द्वयोः पयसा सायमग्निहोत्रं जुहुयात् ४ श्वोऽग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् ५ सिद्धमिष्टिः संतिष्ठते ६ यस्याग्निमनुद्धृतँ सूर्योऽभ्युदियाच्चतु-र्गृहीतमाज्यं गृहीत्वा पूर्वः प्रतिपद्येत ७ अन्वङ् ब्राह्मण आर्षेयो बहुविद-ग्निमुद्धरेत् । अन्वङ्ङग्निहोत्रेणानूद्द्रवेत् ८ प्रतिष्ठाप्याग्निमग्निहोत्रमुपसाद्य पुरस्तात्प्रत्यङ्ङुपविश्यैतेनाज्येन जुहुयात्
उषाः केतुना जुषतां यज्ञं देवेभिरन्वितम् ।
देवेभ्यो मधुमत्तमँ स्वाहा ॥
इति ९ ततो नित्यमग्निहोत्रं जुहुयात् १० तत्र स एव होमकल्पः ११ स प्रायश्चित्तो यः प्रातरृतावतिनीतः १२ एतावन्नाना । नात्राहवनीयमनुगमयति १३ अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेत् १४ सिद्धमिष्टिः संतिष्ठते १५ ९.१०

अथैकेषाम् । यस्याग्निमनुद्धृतँ सूर्योऽभिनिम्रोचेदभ्युदियाद् वा मनो ज्योति-र्जुषताम् ॥ त्रयस्त्रिँ शत्तन्तवः इति द्वे चतुर्गृहीते जुहुयात् १ यद्यनस्तमिते जुहुयात् पुनरेवास्तमिते हुत्वा भवतं नः समन्सौ इत्युपतिष्ठते २ यदि महारात्रे जुहुयात् पुनरेवौषसँ हुत्वा पूर्ववदुपतिष्ठेत ३ यस्यानुदितहोमेऽभिप्रेते-ऽग्निहोत्रमहुतँ सूर्योऽभ्युदियाद् यद्यन्ते स्यादुन्नीय प्राङुदाद्र वेत् ४ स उपसा-द्या तमितोरासीत ५ स यदा ताम्येदथ भूः स्वाहा इति जुहुयात् ६ यस्याहवनीयेऽनुद्वाते गार्हपत्य उद्वायेदनुगमयित्वाहवनीयं गार्हपत्यस्याव-क्षाणानि संनिधाय मन्थेत् इतः प्रथमं जज्ञे अग्निः इत्येतया ७ अथैनमभिमन्त्रयते इषे रय्यै रमस्व सहसे द्युम्नायोर्जेंऽपत्याय इति ८ आहवनीयं प्रणीयोपसमिन्द्धे सारस्वतौ त्वोत्सौ समिन्धाताम् । सम्राडसि विराडसि इति ९ ततोऽग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत् १० सिद्धमिष्टिः संतिष्ठते ११ एतदेव गार्हपत्ये धारयत्याहवनीयेऽनुगते प्रायश्चित्तम् १२ एतावन्नाना । नात्र गार्हपत्यमनुगमयति । अग्नये ज्योतिष्मते पुरोडाश-मष्टाकपालं निर्वपेन्न तपस्वते १३ सिद्धमिष्टिः संतिष्ठते १४ ९.११

यदि सायमहुतेऽग्निहोत्रे पूर्वोऽग्निरनुगच्छेदग्निहोत्रमधिश्रित्योन्नीयाग्निना पूर्वे-णोद्द्रुत्यान्वङ्ङग्निहोत्रेणानुद्र वेत् १ यो ब्राह्मणो बहुवित् सोऽग्निमुद्धरेत् २ यत् पुरा धनमदायी स्यात्तद्दद्यात् ३ एतदेव प्रातः ४ यदि प्रातर-हुतेऽग्निहोत्रेऽपरोऽग्निरनुगच्छेदनुगमयित्वा पूर्वं मथित्वापरमुद्धृत्य जुहुयाद् यदि न त्वरेत ५ अथ यदि त्वरेत पूर्वमग्निमन्ववसाय ततः प्राञ्चमुद्धृत्य जुहुयात् ६ जामि तु तद् योऽस्य पूर्वोऽग्निस्तमपरं करोति । अन्यत्रैवाव-सायाग्निं मथित्वोद्धृत्य जुहुयात् । ततोऽग्नये तपस्वते जनद्वते पावकवते-ऽष्टाकपालं निर्वपेत् ७ सिद्धमिष्टिः संतिष्ठते ८ यदि सायमहुतेऽग्निहोत्रे-ऽपरोऽग्निरनुगच्छेत् पूर्वमग्निमन्ववसाय तत एव प्राञ्चमुद्धृत्य जुहुयात् ९ अथाभिमन्त्रयते
इत एव प्रथमं जज्ञे अग्निराभ्यो योनिभ्योऽधि जातवेदाः ।
स गायत्र्! या त्रिष्टुभा जगत्यनुष्टुभा च देवेभ्यो हव्यं वह नः प्रजानन् ॥
इषे रय्यै रमस्व सहसे द्युम्नायोर्जेंऽपत्याय इति रमयत्येव । सम्राडसि सुषदा सीद इति सुषदैवैनँ सादयति १० ९.१२

सारस्वतौ त्वोत्सौ प्रावताम् इति । ऋक्सामे वै सारस्वतावुत्सौ । ताभ्यामेवैनं प्रावति ताभ्याँ समर्धयति १ अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेद् वारुणं यवमयं चरुम् २ सिद्धमिष्टिः संतिष्ठते ३ अथैकेषाम् । यद्यहुते-ऽग्निहोत्रेऽपरोऽग्निरनुगच्छेत् तेभ्य एवावक्षाणेभ्यो मन्थितव्यः ४ अथ यदि न तादृशानीवावक्षाणानि स्युर्भस्मनारणी सँ स्पर्श्य मन्थितव्यः । स्वादेवैनं योनेर्जनयतीति विज्ञायते ५ ततोऽग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत् ६ सिद्धमिष्टिः संतिष्ठते ७ अथैकेषाम् । यतरोऽग्निरनुगच्छेत् तेभ्य एव दारुभ्योऽधिमन्थितव्यः ८ अथ यदि तृणैधः शकैधो वा स्याद् भस्मनारणीं सँ स्पर्श्य मन्थितव्यः । स्वादेवैनं योनेर्जनयतीति विज्ञायते ९ ततोऽग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत् १० सिद्धमिष्टिः संतिष्ठते ११ न वानुगतेष्टिं कुर्यात् १२ एता एवाहुतीर्जुहुयात् मित्राय स्वाहा ॥ वरुणाय स्वाहा ॥ सूर्याय स्वाहा ॥ अग्नये स्वाहा ॥ अग्नये व्रतपतये स्वाहा ॥ अग्नये तपस्वते जनद्वते पावकवते स्वाहा ॥ अग्नये शुचये स्वाहा ॥ अग्नये ज्योतिष्मते स्वाहा इति १३ व्याहृतीभिर्जुहोत्येकैकशः समस्ताभिश्च १४ ९.१३

अग्नये तन्तुमते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्निहोत्रं विलुप्येत १ आग्ना-वैष्णवमेकादशकपालं निर्वपेद्यमन्यस्याग्निषु याजयेयुर्यो वान्यस्याग्निषु यजेत २ अग्नयेऽग्निवते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्नावग्निमभ्युद्धरेयुः ३ त्रयस्त्रिँ शत्तन्तवः इत्येतया जुहुयाद्यस्याग्निहोत्रेऽधिश्रिते हविषि वा निरुप्ते पुरुषो वा श्वा वानो वा रथो वान्तराग्नी वीयादिति विज्ञायते ४ यस्यानो वा रथो वान्तराग्नी वीयादित्येकेषाम् ५ न कालमवधारयति ६ ततोऽत्रापो-ऽन्वतिषिच्य गामन्वत्यावर्तयेत् ७ इदं विष्णुर्वि चक्रमे इति पदँ संलोपयेत् ८ अनुगमयित्वाहवनीयमन्यं प्रणयेत्
यदग्ने पूर्वं प्रभृतं पदँ हि ते सूर्यस्य रश्मीनन्वाततान ।
तत्र रयिष्ठामनुसंभरैतँ सं नः सृज सुमत्या वाजवत्या ॥
त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः ।
त्वया यज्ञं वितन्वते ॥
इति ९ ततोऽग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् १० पथोऽन्तिका-द्बर्हिराहरेत् ११ अनड्वान् दक्षिणा १२ सिद्धमिष्टिः संतिष्ठते १३ एतामेव निर्वपेत् स्तोत्रे मूढे । एताँ शस्त्रे १४ एतां यस्याग्निनाग्नीन् व्यवेयुः १५ एतां जने प्रमीतस्य १६ जनयतु खलु प्रमीतस्येति विज्ञायते १७ अभि-वान्यवत्साया अस्य पयसाग्निहोत्रं जुहुयुरा यावदस्याग्निभिः शरीराणि सँ स्पर्शयेयुः १८ ९.१४

दक्षिणाप्रागग्रैर्दर्भैरग्नीन् परिस्तृणाति १ अधस्तात् समिधं धारयन्नुद्द्रवति २ सोमं पितृमन्तं पूर्वस्यामाहुत्यामुपलक्षयत्यग्निं कव्यवाहनमुत्तरस्याम् ३ पात्रनिर्णेजनमुदकं दक्षिणा प्रसिञ्चेयुः ४ ब्राह्मणाय यज्ञायुधानि दद्युः ५ अपोऽभ्यवहरेयुः ६ अमैव पुत्रस्य दृषत् स्यादायसं च ७ यस्याज्यमनुत्पूतँ स्कन्देच्छिन्दत् प्राणि दद्यात् ८ यद्युत्पूतं यदस्य गृहेषु चित्रं धनं तद्दद्यात् ९ एतदेवैकेषां विपरीतवत् । अनुत्पूते चित्रमुत्पूते छिन्दत् १० अथ यदि स्रुग्गतँ स्कन्देत् यत्र स्कन्देत् तत् प्राञ्चं प्रादेशं निदध्यात् भूपतये स्वाहा इति । भुवनपतये स्वाहा इति दक्षिणाप्राञ्चम् । भूतानां पतये स्वाहा इति प्रत्यञ्चम् । भूताय स्वाहा इत्युदञ्चम् ११ अथैनत् सँ सिञ्चेदित्याश्मरथ्यः । सं त्वा सिञ्चामि इत्येतयानुमन्त्रयेतेत्यालेखनः १२ भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा इति स्कन्नमनुमन्त्रयेतेत्येकेषाम् १३ न किं चन हविरधिकृत्य वदति १४ देवाञ्जनमगन् यज्ञस्तस्य माशीरवतु इत्येनद-भिमन्त्रयेतेत्येकेषामाज्यादनन्तरं वदति १५ यदि प्रणीताः स्कन्देयुः आपो हि ष्ठा मयोभुवः इति तिसृभिर्गृहीत्वा ततं म आपः इत्याहुतिं जुहुयात् १६ ९.१५

यदि कपालं भिद्येत तत् संदध्यात् गायत्र्! या त्वा शताक्षरया संदधामि इति १ अथैनदपोऽभ्यवहरेत् अभिन्नो घर्मो जीरदानुः इति २ तत एतामाहुतिं जुहोति त्रयस्त्रिँ शत् तन्तवः इत्येतया ३ ततोऽन्यत् कपालँ संस्कृत्य कपालेष्वपिसृजेत् घर्मो देवाँ अप्येतु इति ४ इति वै खलु यदि प्रागुपधानाद् भिद्येत ५ अथ यद्युपहितानामेतेनैव मन्त्रेणोपदध्यात् ६ यदि कपालं नश्येदाश्विनं द्विकपालं निर्वपेद् द्यावापृथिव्यमेककपालम् ७ भागवो होता भवति । एकहायनो दक्षिणा ददातीति विज्ञायते ८ यथा कथा च नश्येत् प्रायश्चित्तमेव स्यादि-त्याश्मरथ्यः । उपयुक्तानां प्राग्विमोकादित्यालेखनः ९ यदि पत्नीः संयाजयन् कपालमभिजुहुयात् वैश्वानरं द्वादशकपालं निर्वपेत् १० सिद्धमिष्टिः संतिष्ठते ११ एतामेव निर्वपेदमावास्यां पौर्णमासीं वातिपाद्य १२ एतां यदनिष्ट्वाग्रयणेन नवमश्नीयात् १३ यस्य यमौ जायेयातां गावौ वा पुरुषौ वा वैश्वानरं द्वादश-कपालं निर्वपेत् १४ तस्य त्रिष्टुभौ याज्यानुवाक्ये भवतो जगत्यौ वा १५ रौद्रं वास्तुमयं चरुं निर्वपेद्यस्य रुद्र ः! पशून् शमायेत १६ तया निषादस्थपतिं याजयेत् १७ कृष्णाजिनं वा कूटं वाकर्णो वा गर्दभो हरिणो वा हरिणपृणाका वा शफकश्यामाकपात्रौ वा द्वे वा कम्बुशूर्पे दक्षिणेति विज्ञायते १८ ९.१६

यो ब्रह्मचारी स्त्रियमुपेयात् स रौद्रं गर्दभमालभेत १ तस्यावदानैरप्सु प्रचरन्ति २ नास्य वपया चरन्ति न पशुपुरोडाशो भवति ३ इडान्तो भवति शंयुवन्तो वा ४ नैरृतः प्राजापत्यो वा ५ यस्य हविः क्षायति तं यज्ञं निरृतिर्गृह्णाति ६ यदुच्छिष्टँ स्यात् तेन शेषँ सँ स्थापयेत् ७ यज्ञो हि यज्ञस्य प्रायश्चित्तिः ८ यं द्विष्यात् तस्मै तां दक्षिणां दद्यात् ९ यथा कथा च क्षायेत् प्रायश्चित्तमेव स्यादित्याश्मरथ्यः । यद्यवदानेभ्यो न प्रभवेदित्यालेखनः १० अपो दुष्टँ हविरभ्यवहरन्तीति विज्ञायते ११ यद्यप्रत्तदैवतँ हविर्व्यापद्येतापस्तदभ्यवहृ-त्यान्यत् तद्दैवतँ हविर्निर्वपेत् १२ तत्र स्रुगादानप्रभृतयो मन्त्रा अभ्यावर्तेरन् १३ अथ यदि प्रत्तदैवतमाज्येन शेषँ सँ स्थापयेदित्येकम् । तूष्णीकँ हवि-रभ्युदाहरेदित्यपरम् १४ ९.१७

अथ यदि सर्वाण्येव हवी ँ! षि नश्येयुर्वा दुष्येयुर्वाज्येनैनानि प्रतिसंख्याय तयाज्यहविषेष्ट्या यजेत १ अतोऽन्यामिष्टिमनुल्बणां तन्वीत २ यज्ञेन हि यज्ञस्य प्रायश्चित्तिं कुर्वन्तीति विज्ञायते ३ कथं दुष्टँ हविर्विद्यात् । यदार्याणां धर्मज्ञानां धर्मकामानामभोजनीयं न तेन देवान् यजेत ४ यद्धविर्दुःशृतं तद्यम-देवत्यम् । यममेव तद्गच्छतीति विज्ञायते ५ सँ स्थाप्य तद्धविरन्वाहार्यपचने चतुःशरावमोदनं पक्त्वा चतुर्भ्यो ब्राह्मणेभ्यो जीवतण्डुलमिवोपहरेत् ६ तत्रापि भार्गव एकः प्राशितॄणाँ स्यात् ७ यद्यादिष्टां दक्षिणामन्तरियादुर्वरां प्रतिष्ठितां दद्यात् ८ योऽदक्षिणेन यज्ञेन यजेत स यज्ञः प्रक्षामः । अना-र्युर्यजमानः स्यात् ९ उर्वराँ सस्यवतीं दद्यात् १० यद्यभागां देवतामा-वाहयेदाज्येनैनां यथोढां यजेत ११ भागिनीमन्तरितां यत्र स्मरेत् तदुपोत्थाया-वाहयेत् १२ यद्वो देवा अतिपादयानि इत्यत्राहुतिं जुहुयात् १३ ९.१८

यदि दैवते वावदाने वा याज्यानुवाक्ये वा विपरिहरेयुर्यदस्य गृहेषु चित्रं धनं तद्दद्यात् १ यद्याहुतिः स्कन्देदाग्नीध्रं ब्रूयात् जुहुधि इति २ ताँ सोऽञ्जलिना जुहोति अग्नेस्त्वास्ये जुहोमि मा यजमानो रिपन्मा यज्ञपत्नी मा यज्ञनीः इति । अमुष्मै त्वास्ये जुहोमि इति वा ३ यस्यै देवतायै हुतं भवति तस्यै पूर्णपात्रं दद्यात् ४ यस्यै देवतायै गृहीतमहुतँ स्कन्देद् यस्य वा देवतामन्तरियुर्यदस्य गृहेषु पुष्कलं धनं तद्दद्यात् ५ यद्याहुती विपरिहरेदथैतां प्रायश्चित्तिं जुहुयात् त्वं नो अग्ने ॥ स त्वं नो अग्ने इति ६ एते एवान्तरये सर्वत्र विपर्यये च जुहुयात् ७ यदि पुरोडाशः सं वा विजेतोद्वा पतेत् तमुद्वास्य बर्हिष्यासा-द्यैतेनाभि च घारयेदभि च मन्त्रयेत
किमुत्पतसि किमुत्प्रोष्ठाः शान्तः शान्तेरिहागहि ।
अघोरो यज्ञियो भूत्वासीद सदनँ स्वम् ॥
मा हि ँ! सीर्देवप्रेषित आज्येन तेजसाज्यस्व मा नः किंचन रीरिषः ।
योगक्षेमस्य शान्त्या अस्मिन्नासीद बर्हिषि ॥
इति ८ भूत्वा प्रभवति यजमानो यस्यैतां यज्ञे प्रायश्चित्तिं कुर्वन्तीति विज्ञायते प्रायश्चित्तिं कुर्वन्तीति विज्ञायते ९ ९.१९
इति नवमः प्रश्नः