कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्/प्रश्नः १३

← प्रश्नः १२ कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्
प्रश्नः १३
भरद्वाजः
प्रश्नः १४ →

अथ त्रयोदशः प्रश्नः
महारात्रे बुध्यन्ते १ आग्नेय्यर्चाग्नीध्रमभिमृशेत् । वैष्णव्या हविर्धानम् । आग्नेय्या स्रुचः । वायव्यया वायव्यानि । ऐन्द्र या! सदः २ अत्रैवा-भिमृशेदित्येकम् । कर्मागमे कर्माङ्गमित्यपरम् ३ आग्नध्रे यज्ञतनूर्जुहोति प्रजापतिर्मनसान्धोऽच्छेतः इत्येतास्त्रयस्त्रिँ शतम् । यज्ञार्तिं च प्रतिजुहोति । पूर्वामनुद्रुत्योत्तरया जुहोतीति विज्ञायते ४ एकया तु प्रथमम् ५ खरे पात्राणिओ प्रयुनक्ति अग्निर्देवता गायत्री छन्द उपाँ शोः पात्रमसि इत्येतै-र्मन्त्रैर्यथारूपम् ६ दक्षिणे ँ! ऽस उपाँ श्वन्तर्यामयोः पात्रे प्रयुनक्ति । पूर्वमुपाँ शो-रपरमन्तर्यामस्य ७ अपि वा दक्षिणमुपाँ शोरुत्तरमन्तर्यामस्य ८ ते अन्तरेणो-पाँ शुसवनँ सँ स्पृष्टं सादयति ९ प्रत्यञ्चि द्विदेवत्यपात्राणि । परिद्रुगैन्द्र -वायवस्याजगावं मैत्रावरुणस्य द्विस्रक्त्याश्विनस्य १० ततोऽपरे शुक्रामन्थिनोः पात्रे । दक्षिणं बैल्वँ शुक्रमन्थिनोः पात्रे । दक्षिणं बैल्वँ शुक्रपात्रमुत्तरं वैकङ्कतं मन्थिपात्रम् ११ ततोऽपरे आश्वत्थे अश्वशफबुध्ने उभयतोमुखे ऋतुपात्रे । दक्षिणमध्वर्योरुत्तरं प्रतिप्रस्थातुः १२ दक्षिणस्याँ श्रोण्यामाग्रयणस्थालीं प्रयुनक्ति । उत्तरस्यामुक्थ्यस्थालीं चोक्थ्यपात्रं चाश्वशफबुध्नम् १३ ते अन्तरेण १४ १३.१

त्रीण्यतिग्राह्यपात्राणि प्रयुनक्ति १ दक्षिणस्य हविर्धानस्याग्रेणोपस्तम्भनमादि-त्यस्थालीं चादित्यपात्रं च । उत्तरस्याग्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम् २ उत्तरे ँ! ऽस औदुम्बरं चतुःस्रक्ति दधिग्रहपात्रम् ३ मध्ये परिप्लवां यथा स्रुगदण्डा ४ यथावकाशं खादिरं चतुःस्रक्ति षोडशिपात्रं यदि षोडशी भवति ५ प्रादेशमात्राण्यूर्ध्वसानूनि मध्ये संनतानि वायव्यान्यासेचनवन्ति भवन्ति ६ यान्यनादिष्टवृक्षाणि यः कश्च यज्ञियो वृक्षस्तस्य स्युरित्याश्मरथ्यः । वैकङ्क-तानीत्यालेखनः ७ एतेन चमसानां वृक्षनियोगो व्याख्यातः । नैयग्रोधा एव स्युरित्यपरम् ८ त्सरुमन्तोऽत्सरुका वा दश चमसा भवन्ति ९ दश चमसाध्वर्यवः १० होतुर्ब्रह्मण उद्गातुर्यजमानस्य मैत्रावरुणस्य ब्राह्मणा-च्छँ सिनः पोतुर्नेष्टुरच्छावाकस्याग्नीध्रस्येत्येतेषामेते चमसा भवन्ति । तान् खरे यथावकाशं प्रयुनक्ति ११ दक्षिणस्य हविर्धानस्याधस्तात् पश्चादक्षं द्रो णकलशँ सदशापवित्रं प्रयुनक्ति युनज्मि ते पृथिवीं ज्योतिषा सह इति १२ उत्तरस्य नीड आधवनीयं युनज्मि वायुमन्तरिक्षेण ते सह इति १३ प्रउगे पूतभृतं युनज्मि वाचँ सह सूर्येण ते इति १४ अत्रैकेऽधिषवणचर्मणोओ ग्राव्णामिति प्रयोजनँ समामनन्ति १५ उपरमभि संमुखा भवन्ति १६ १३.२

अथैनान् संमृशति अपां क्षया ऋतस्य गर्भाः । भुवनस्य गोपाः श्येना अतिथयः । पर्वतानां ककुभः प्रयुतो न पातारः । वग्नुनेन्द्र ँ! ह्वयत । घोषेणामीवाँ श्चातयत । युक्ताः स्थ वहत । स्वर्गं लोकमभिवहत यजमानम् इति १ सवनीयस्य तन्त्रं प्रक्रमयति २ समानमाज्यानां ग्रहणात् ३ लौकिकादाज्यात् प्रचरण्यामग्रे गृह्णाति ४ सहेध्मेनैधान् प्रोक्षति यानेतदहरभ्याधास्यन् भवति ५ यत् किंचाभि तयोराघारसमिधोरादध्यात् प्रोक्षितमेवादध्यात् ६ समानमा स्रुचाँ सादनात् ७ स्रुचः सन्ना अभिमृशति युनज्मि तिस्रो विपृचः सूर्यस्य ते इति ८ अत्रैके पात्रप्रयोजनँ समामनन्ति ९ आसन्यान्मा मन्त्रात् पाहि कस्या-श्चिदभिशस्त्याः इत्याग्नीध्रे हुत्वान्तरेषे राजानं ग्रावसूपावहरति हृदे त्वा ॥ सोम राजन्नेह्यवरोह इति द्वाभ्याम् १० आग्नीध्रे पञ्चहोतारँ हुत्वा होत्रे प्रातरनुवाकाय संप्रेष्यति देवेभ्यः प्रातर्यावभ्योऽनुब्रूहि ब्रह्मन् वाचं यच्छ सुब्रह्मण्य सुब्रह्मण्यामाह्वय प्रतिप्रस्थातः सवनीयान्निर्वपामिक्षां दोहय इति ११ यं द्विष्यात्तस्य प्रवदितासु वाक्सूपाकुर्यात् १२ आह्वयति सुब्रह्मण्यः सुब्रह्मण्यां पितापुत्रीयाम् १३ अत्र सवनीयान्निर्वपेदामिक्षां दोहयेदित्येकम् । उपरितरा-मित्यपरम् १४ १३.३

यत्राभिजानाति अभूदुषा रुशत्पशुः इति तत् प्रचरण्या जुहोति शृणोत्वग्निः समिधा हवं मे इति १ अपरं चतुर्गृहीतं गृहीत्वा दर्भानादायोपनिष्क्रम्य संप्रेष्यति अप इष्य होतर्मैत्रावरुणस्य चमसाध्वर्यवाद्र वैकधनिन आद्र वत नेष्टः पत्नीमुदानयोन्नेतर्होतृचमसेन वसतीवरीभिश्चात्वालं प्रत्युपास्व इति २ त्र्! यवरार्ध्या अयुज एकधना भवन्ति ३ यथाचोदितं कुर्वन्ति ४ प्रेह्युदेहि इति नेष्टा पत्नीमुदानयति ५ यत्र होतुः प्रातरनुवाकमनुब्रुवत उपशृणुयात्तदपो-ऽध्वर्युर्गृह्णीयात् । यदि न शृणुयाद्बधिरः स्यात् । वाचोपछिद्येत ६ यदि दूरे स्युः प्रत्युदूह्य गृह्णीयात् ७ वहन्तीषु तृणं प्रास्यैतच्चतुर्गृहीतं जुहोति देवीरापो अपां नपात् इति ८ यदि वा पुरा तृणं भवति तस्मिन्नेव जुहोति ९ कार्षिरसि इति दर्भैराहुतिमपप्लाव्य घृतलिप्तानां मैत्रावरुणचमसेनोन्नयति समुद्र स्य वोऽक्षित्या उन्नये इति १० एवमेवैकधना उन्नयति । सोमस्य वो मूजवतो रसं गृह्णामि इति वा ११ पत्नी पन्नेजनीर्गृह्णाति वसुभ्यो रुद्रे भ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीर्गृह्णामि यज्ञाय वः पन्नेजनीर्गृह्णामि इति १२ आहरन्त्यपः १३ प्रेह्युदेहि इत्येव नेष्टा पत्नीमुदानयति १४ १३.४

अपरेण नेष्टुर्धिष्णियं पत्नी पन्नेजनीः सादयति वसुभ्यो रुद्रे भ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीः सादयामि यज्ञाय वः पन्नेजनीः सादयामि इति १ उपरि चात्वालेऽध्वर्युर्होतृचमसं च मैत्रावरुणचमसं च सँ स्पृश्य वसतीवरी-र्व्यानयति समापो अद्भिरग्मत समोषधीभिरोषधयः सं व्रतैर्व्रतचारिणः इति २ होतृचमस आनीय मैत्रावरुणचमसं पूरयति । मैत्रावरुणचमसाद्धोतृचमसम् । होतृचमसान्मैत्रावरुणचमसम् ३ अथैनाः प्रचरण्या समनक्ति
सं वोऽनक्तु वरुणः समिन्द्र ः! सं बृहस्पति ।
त्वष्टा विष्णुः प्रजया सँ रराणो यजमानाय द्र विणं दधातु ॥
इति यथायथं धुरो धूर्भिः कल्पन्ताम् इति च ४ पृच्छति होताध्वर्युम् अध्वर्योऽवेरपा इति ५ उतेमनन्नमुः इति प्रत्याह ६ ततः क्रतुकरणं जुहोति यमग्ने पृत्सु मर्त्यम् इत्येतया यद्यग्निष्टोमः ७ यद्युक्थ्यो हुत्वा परिधौ लेपं निमार्ष्टि ८ यदि षोडशी हुत्वा परिधौ लेपं निमृज्य द्रो णकलशमुपस्पृशति रराटीं वा ९ न जुहोति न निमार्ष्टि नोपस्पृशति वाजपेयेऽतिरात्रे वा । एतद्यजुर्वदन् प्रपद्यते १० दक्षिणस्य हविर्धानस्य प्रधुरे प्रचरणीँ सादयति ११ यं द्विष्यात्तमुपस्पृशेत् १२ १३.५

अपरया द्वारा हविर्धानेऽपः प्रपादयति पूर्वया वा । पूर्वया तु यजमानः प्रपद्यते १ उत्तरस्य हविर्धानस्याधस्ताद्वसतीवरीरेकधना मैत्रावरुणचमसीया इति सादयति २ दक्षिणस्य हविर्धानस्याधस्तात् पुरोऽक्षँ होतृचमसँ सादयित्वा दधिग्रहेण चरति ३ औदुम्बरेण पात्रेण चतुःस्रक्तिना दधि गृह्णाति उपयाम-गृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामि इति ४ हरति अपेन्द्र द्विषतो मनः इति ५ जुहोति प्राणाय त्वा इत्यनुवाकशेषेण ६ आज्यग्रहं गृह्णीयात् तेजस्कामस्य । सोमग्रहं गृह्णीयाद् ब्रह्मवर्चसकामस्य । दधिग्रहं गृह्णीयात् पशुकामस्य ७ आज्यग्रहस्यैष एव कल्पः ८ सोमग्रहं ग्रहीष्यन्नधि-षवणचर्मणि राजानं निवपति यावन्तमेकग्रहायाप्तं मन्यते ९ प्रत्युपनह्येतरं वसतीवरीभिर्होतृचमसं पूरयित्वा निग्राभ्यासु यजमानं वाचयति निग्राभ्या स्थ देवश्रुतः इति प्रतिपद्य गणा मे मा वि तृषन् इत्यन्तेन १० वसतीवरीभिरु-पसृज्याभिषोष्यन्नभिमन्त्रयते अवीवृधं वो मनसा सुजाताः इति ११ यत्र क्व चाभिषुणुयादेवमेवाभिमन्त्रयेत १२ अथैनमुपरे ग्राव्णाभिषुणोति १३ १३.६

तिस्रो यह्वस्य समिधः परिज्मनो देवा अकृण्वन्नुशिजो अमर्त्यवे । तासा-मेनामदधुर्मर्त्ये भुजं लोकमिद् द्वे उप जामी ईयतुः इति १ यत्र क्व चाभिषुणुयादुपर एव ग्राव्णाभिषुणुयात् २ एतस्यैवैषोऽभिषवमन्त्रः ३ योऽभिषूयमाणस्य प्रथमो ँ! ऽशुः स्कन्दति तमभिमन्त्रयेत आ मा स्कान् सह प्रजया सह रायस्पोषेण ४ अभिषवेऽभिषवेऽभिमन्त्रयेतेत्येकम् । य एव सर्वप्रथम इत्यपरम् ५ द्र प्सश्चस्कन्द इति विप्रुषोऽभिमन्त्रयेत ६ अभि-षवेऽभिषवेऽभिमन्त्रयेतेत्येकम् । य एव सर्वान्तत इत्यपरम् ७ अत्र यजमानो दशापवित्रस्य नाभिं कुरुते ८ अथैनँ सहिरण्येन पाणिना तिरः पवित्रमच्छिन्नां धाराँ स्रावयन् दधिग्रहपात्रेण गृह्णाति । वायव्येनैव गृह्णीयादित्यपरम् ९ अथैनं खरे सादयति एष ते योनिः इति १० अथैनँ सहिरण्येन पाणिना प्राङ्मुखो जुहोति । तस्य दधिग्रहेण मन्त्रा व्याख्याताः ११ अनधिकृतो वा सोम-धर्मैर्दधिग्रहविकारत्वात् १२ तत्रार्थग्रहणोऽभिषवः परत्रसंयोगात् । सोम-करणी चास्याभिषवमन्त्रः १३ तत्रैषोऽत्यन्तप्रदेशः १४ १३.७

सर्वान् सोमान् सहिरण्येन पाणिना गृह्णाति च जुहोति च १ सर्वाः सोमाहुतीः प्राङ्मुखो जुहोति २ हुत्वा सदसि शेषं भक्षयति ३ मार्जालीये पात्रं प्रक्षालयति ४ सदस्येवात ऊर्ध्व ँ! सोमभक्षान् भक्षयन्ति । आग्नीध्रे हविर्भक्षान् ५ मार्जालीय उच्छिष्टपात्राणि प्रक्षालयति ६ ततोऽदाभ्यं गृह्णाति ७ उपनद्धस्य राज्ञस्त्रीनँ शून् प्रवृहति वसवस्त्वा प्र वृहन्तु गायत्रेण छन्दसा इत्येतैर्मन्त्रैः ८ निग्राभ्याणां दध्नः पयसो वा चमसे निःषिच्याँ शूनाधूनोति मान्दासु ते शुक्र शुक्रमा धूनोमि इत्येतैर्मन्त्रैः ९ त्रिभिराधूनोतीत्येकेषाम् । पञ्चभिरित्येकेषाम् । सप्तभिरित्येकेषाम् १० अथैनं दधिग्रहपात्रेण गृह्णाति शुक्रं ते शुक्रेण गृह्णामि ॥ अग्निः प्रातःसवने पात्वस्मान् इति चैताभिस्तिसृभिः ११ हरति आस्मिन्नुग्रा अचुच्यवः इति १२ जुहोति सोमः सोमस्य पुरोगाः इति १३ ततो ँ! ऽशुष्वँ शूनपिसृजति उशिक् त्वं देव सोम गायत्रेण छन्दसा इत्येतैः प्रतिमन्त्रम् १४ अनुसवनमपिसृजेदित्येकम् । तदानीमेवैकैकमपिसृजेदित्यपरम् १५ द्वादश पष्ठौहीर्दक्षिणा ददाति कृत्त्यधीवासं च १६ ततो ँ! ऽशुं गृह्णाति १७ अधिषवणचर्मणि राजानं निवपति यावन्तमेकग्रहायाप्तं मन्यते १८ १३.८

अथैनमनवानँ सकृदभिषुत्य तिरः पवित्रमच्छिन्नां धाराँ स्रावयन्नदाभ्य-पात्रेणानवानँ सकृद् गृह्णाति १ वामदेव्यं मनसा गायमानो गृह्णातीति विज्ञायते २ वामदेव्यस्यर्चा गृह्णीयादित्येकेषां कया नश्चित्र आ भुवत् इत्येतया ३ प्राणता ग्राह्योऽपानता ग्राह्यः प्राण्यापान्य व्यनता गृहीतव्य इति विज्ञायते ४ गृहीत्वा शतमानँ हिरण्यमभिव्यनिति आ नः प्राण एतु परावतः इति ५ हिरण्येन ग्रहमपिधायाप उपस्पृशति इन्द्रा ग्नी मे वर्चः कृणुताम् इति ६ अथैनमनवानँ सकृज्जुहोति दधन्वे वा यदीम् इति ७ यद्यनवानं न शक्नुयाद्धोतुं गृहीतुं वा वरे दत्ते जुहुयात् ८ हुत्वा सदसि शेषं भक्षयति यथा पुरस्तात् ९ द्वादश पष्ठौहीर्दक्षिणा ददाति कृत्त्यधीवासं च १० तत उपाँ शुसवनं ग्रावाणमादत्ते देवस्य त्वा सवितुः प्रसवे इति प्रतिपद्य वृष्टिवनिम् इत्यन्तेन ११ तमादाय वाचं यच्छत्याग्रयणात् १२ अथैनदूर्ध्वसानुँ सहिरण्येन पाणिना राज्ञोऽभिमि-मीते इन्द्रा य त्वा वृत्रघ्ने इत्येतैर्मन्त्रैः १३ तत्र स एव मानकल्पो यः क्रयेऽन्यत्रोप-समूहनात् १४ तत उपाँ शुं गृह्णाति १५ अधिषवणचर्मणि राजानं निवपति यावन्तमेकग्रहायाप्तं मन्यते १६ १३.९

श्वात्रा स्थ वृत्रतुरः इत्याप्याय्याभिमन्त्रयते यत्ते सोम दिवि ज्योतिः इति १ अधिषवणफलके अभिमन्त्रयते धिषणे वीडू सती वीडयेथाम् इति २ उपरिष्टाद् ग्रावा भवत्यधस्तादँ शवः ३ अथ होतृचमसे प्रदक्षिणं परिप्लाव-यन्निग्राभमुपैति प्रागपागुदगधराक्तास्त्वा दिश आधावन्त्वम्ब नि ष्वर इति ४ षडँ शूनुपयच्छति । आद्रा रः! सन्तोऽसँ श्लिष्टा भवन्ति ५ मा भेर्मा सं विक्थाः इति ग्रावाणमुद्यम्य वदन्ति ६ यत्र तृणं मूलं वा पश्यति तत्प्रत्यभिषुणोति अनागसस्त्वा वयमिन्द्रे ण प्रेषिता उप वायुष्टे अस्त्वँ शभूर्मित्रस्ते अस्त्वँ श-भूर्वरुणस्ते अस्त्वँ शभूरहतः सोमो राजा मया इति ७ एतयैवात ऊर्ध्वम-भिषुणुयात् ८ अष्टौकृत्वोऽग्रेऽभिषुत्य पुनरेव निग्राभमुपैति ९ द्विरादितोऽन्ततो वा । चतुर्निग्राभमुपैति १० त्रिरुदचनेन संभृत्योदञ्चतीति विज्ञायते ११ अपात्तानामँ शूनां द्वाभ्यां प्रतिप्रस्थातोपाँ शुपात्रमपिधायोत्तरत उपयच्छति १२ अञ्जलिना राजानमादायाध्वर्युरुपाँ शुपात्रं नयति वाचस्पतये पवस्व वाजिन् इति १३ एवंविहितावपरौ द्वावभिषवौ भवतः १४ अपि वैकादशकृत्वो द्वितीयमभिषुणुयाद् द्वादशकृत्वस्तृतीयम् १५ १३.१०

अन्याभ्यामन्याभ्यामँ शुभ्यां प्रतिप्रस्थाता पात्रमपिदधाति १ असादयित्वा ग्रहमादायाध्वर्युरुत्तिष्ठति स्वाङ्कृतोऽसि मधुमतीर्न इषस्कृधि इति २ उत्तरेण होतारँ हरति उर्वन्तरिक्षमन्विहि इति ३ मनस्त्वाष्टु इत्युत्तरं परिधि-संधिमन्ववतिष्ठतः ४ ऋजुस्तिष्ठन् दक्षिणाप्राञ्चँ संततं जुहोति स्वाहा त्वा सुभवः सूर्याय इति ५ देवेभ्यस्त्वा मरीचिपेभ्यः इति हुत्वा परिधौ लेपं निमार्ष्टि ६ यदि कामयेत वर्षुकः पर्जन्यः स्यादिति नीचा हस्तेन निमृज्यात् ७ यदि कामयेतावर्षुकः स्यादित्युत्तानेन निमृज्यात् ८ आग्रयणस्थाल्याँ संपातमवनीयायतने पात्रँ सादयति एष ते योनिः प्राणाय त्वा इति ९ अनभिषुतानामँ शूनामेकमादायाध्वर्युरुपाँ शुपात्रेऽपास्यति । स आ तृतीय-सवनात् परिशेरे १० ततो ँ! ऽशुष्वँ शूनपिसृजति यत्ते सोमादाभ्यं नाम जागृवि इति । द्वौद्वावनुसवनं वा ११ यद्यभिचरेत् अमुष्य त्वा प्राणे सादयामि इत्युपाँ शु गृहीत्वा सादयेत् १२ अथैनँ सावित्रेणादाय हरति १३ समानमा होमात् १४ होष्यन्नभिमन्त्रयते अमुं जह्यथ त्वा होष्यामि इति १५ यदि दूरे स्यादा तमितोस्तिष्ठेत् १६ समन्य जुहोति प्रहर्षिणो मदिरस्य मदे मृषासावस्तु स्वाहा इति १७ समानमितरत् १८ १३.११

ततो ग्राव्ण आदायाध्वर्यवो महाभिषवायोपविशन्ति । पुरस्तादाध्वर्युर्दक्षिणतः प्रतिप्रस्थाता पश्चान्नेष्टोत्तरत उन्नेता १ अधिषवणचर्मणि भूयिष्ठँ राजानं निवपति । अल्पीयाँ सं माध्यंदिनाय सवनायावशिनष्टि २ वसतीवरीभिरुपसृज्य निग्राभमुपेत्यापरिमितमभिषुण्वन्ति ३ निग्राभमुपयन्ति । अभिषुण्वन्ति । निग्राभमुपयन्ति । अभिषुण्वन्ति ४ त्रिरभिषुतँ राजानं चमसे सँ सिच्या-धवनीय आनयति ५ एवंविहितावपरौ भवतः ६ उत्तमेऽभिषवे प्रपीड्यर्जीषम् ७ सुसंभृतँ राजानं कुर्वन्ति ८ पवित्रेण निर्मृज्य प्रपीडयति ९ अधिषवण-चर्मणि संमुखान् ग्राव्णः कृत्वा ग्रावभ्य ऋजीषं व्यपोहति । ऋजीषमुखान् करोति १० प्राञ्चमुद्गातारो द्रो णकलशं ग्रावस्वध्यूहन्ति ११ समयाक्षं प्रकर्षन्ति १२ द्रो णकलश उदीचीनदशं पवित्रं वितन्वन्ति १३ पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत इति राजानमभिमन्त्र्! य होतृचमसाद्यजमानः पवित्रे संततां धाराँ स्रावयति । यं द्विष्यात्तस्य विच्छिन्द्यात् १४ १३.१२

उदचनेनोन्नेताधवनीयाद्धोतृचमस आनयति १ तिरः पवित्रँ स्रवन्त्या धाराया अन्तर्यामं गृह्णाति उपयामगृहीतोऽस्यन्तर्यच्छ मघवन् इति २ तस्योपाँ शुना कल्पो व्याख्यातः ३ एतावन्नाना । दक्षिणेन होतारँ हरत्युत्तरेण वा ४ मनस्त्वाष्टु इति दक्षिणं परिधिसंधिमन्ववतिष्ठतः ५ ऋजुस्तिष्ठन् प्राञ्चमुदञ्चँ संततं जुहोति स्वाहा त्वा सुभवः सूर्याय इति ६ व्याख्यातं लेपनिमार्जनँ संपातावनयनमिति ७ सूदवदन्तर्यामपात्रमायतने सादयति एष ते योनिरपानाय त्वा इति ८ यद्यभिचरेत् अमुष्य त्वापाने सादयामि इत्यन्तर्यामपात्रं गृहीत्वा सादयेत् ९ समानमितरत् १० ते अन्तरेणोपाँ शुसवनँ सँ स्पृष्टँ सादयति व्यानाय त्वा इति ११ यद्यभिचरेते अमुष्य त्वा व्याने सादयामि इत्युपाँ शुसवनँ सादयेत् १२ एवँ सन्नान्येव भवन्त्या तृतीयसवनात् १३ तावुभावुदिते जुहुयाद्यदि न त्वरेत १४ अथ यदि त्वरेतानुदित उपाँ शुं जुहुयात् । उदितेऽन्तर्यामम् १५ विपरीतमेक उपाँ श्वन्तर्यामयोर्होमँ समामनन्ति । उभावनुदित इत्येके १६ १३.१३

तिरः पवित्रँ स्रवन्त्या धाराया ग्रहान् गृह्णाति १ यदि रथन्तरसामा सोमः स्यादैन्द्र वायवाग्रान् गृह्णीयात् । यदि बृहत्सामा शुक्राग्रान् । यदि जगत्सा-माग्रयणाग्रान् । उभयसामैन्द्र वायवाग्रान् गृह्णीयात् २ ऐन्द्र वायवाग्रान् गृह्णीयादामयाविन इति काम्यानि ग्रहाग्राणि ब्राह्मणव्याख्यातानि भवन्ति । ऐन्द्र वायवाग्रानित्येव भवन्ति ३ यद्यन्यमैन्द्र वायवात् काम्यं पूर्वं ग्रहं गृह्णीया-द्धारयेदेवमैन्द्र वायवस्य सादनात् ४ अथैनमैन्द्र वायवँ सादयित्वा सादयेत् ५ यान् प्राचीनमाग्रयणाद् ग्रहान् गृह्णीयात्तानुपाँ शु गृह्णीयात् । यानूर्ध्वा ँ! स्तानुपब्दिमत इति ६ आग्रयणाग्रान् गृह्णन् मन्थिनमेव गृहीत्वा वाचं विसृजेत । उक्थ्याग्रान् गृह्णन्नुपाँ शूक्थ्यं गृह्णीयात् ७ ऐन्द्र वायवं गृह्णाति आ वायो भूष शुचिपाः इति प्रतिपद्य उपयामगृहीतोऽसि वायवे त्वा इत्यन्तेन ८ अपयम्य पात्रं पुनरेव गृह्णाति इन्द्र वायू इमे सुताः इति प्रतिपद्य उपयामगृहीतोऽसीन्द्र -वायुभ्यां त्वा इत्यन्तेन ९ अथैनं पवित्रेण परिमृज्यायतने सादयति एष ते योनिः सजोषाभ्यां त्वा इति १० एवमेवेतरान् ग्रहान् यथादेवतं गृहीत्वा यथायतनँ स्वेन स्वेन सादनेन सादयति ११ यर्ह्यनाम्नातँ सादनँ स्यात् एष ते योनिः इत्येवैनँ सादयेत् १२ १३.१४

मैत्रावरुणं गृह्णाति अयं वां मित्रावरुणा इति १ अथैनँ शृतशीतेन पयसा श्रीणाति
राया वयँ ससृवाँ सो मदेम हव्येन देवा यवसेन गावः ।
तां धेनुं मित्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीम् ॥
इति २ अतीत्याश्विनँ शुक्रं गृह्णाति अयं वेनश्चोदयत् पृश्निगर्भाः इति ३ अथैनँ हिरण्येन श्रीणाति शुक्रं ते शुक्रेण श्रीणामि इति ४ ततो मन्थिनं तं प्रत्नथा पूर्वथा इति ५ अथैनँ सक्तुभिः श्रीणाति
मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्र वन्ता ।
आ यः शर्याभिस्तुविनृम्णो अस्याः श्रीणीतादिमं गभस्तात् ॥
इत्यनभिध्वँ सयन्नात्मानँ चेतराँ श्च ग्रहान् ६ तत आग्रयणं द्वयोर्धारयोर्गृह्णाति ७ य एष आग्रयणस्थाल्याँ राजा तमन्यस्मिन् पात्रे पर्यासिच्य द्वितीयां धारां कुरुते ये देवा दिव्येकादश स्थ इति ८ रुग्णवत्यर्चा भ्रातृव्यवतो गृह्णीयात् त्रि ँ! शत्त्रयश्च गणिनो रुजन्तः इति ९ आग्रयणं गृहीत्वा त्रिर्हिंकृत्वा वाचं विसृजते सोमः पवते सोमः पवते सोमः पवतेऽस्मै ब्रह्मणे पवतेऽस्मै क्षत्राय पवतेऽस्मै विशे पवतेऽस्मै सुन्वते यजमानाय पवत इषे पवत ऊर्जे पवतेऽद्भ्यः पवत ओषधीभ्यः पवते वनस्पतिभ्यः पवते द्यावापृथिवीभ्यां पवते सुभूताय पवते ब्रह्मवर्चसाय पवते यजमानाय पवते मह्यं ज्यैष्ठ्याय पवते इति १० शनैरभिव्याहरत्यथोच्चैरथ सूच्चैरिति विज्ञायते ११ १३.१५

ततस्त्रीनतिग्राह्यान् गृह्णाति अग्न आयूँ षि पवसे इत्येतैस्त्रिभिरनुवाकैः १ तत उक्थ्यम् उपयामगृहीतोऽसीन्द्रा य त्वा बृहद्वते वयस्वते इति २ ततो ध्रुवं मूर्धानं दिवो अरतिं पृथिव्याः इति ३ यं कामयेत सर्वमायुरियादिति तस्य पूर्णं ग्रहं गृह्णीयात् ४ हिरण्येऽधि सादयेदायुष्कामस्य ५ राजपुत्रो ध्रुवं गोपायतीति विज्ञायते ६ ध्रुवे गृहीते यजमानो न प्रस्रावयत्यावनयनात् ७ द्रो णकलशे राजानमतिपावयति यावन्तं प्रातःसवनायाप्तं मन्यते ८ प्रपीड्य पवित्रं पूतभृति वितत्य मैत्रावरुणचमसीया एकधनासु व्यानयति ९ यथार्थमेकधनानामाधवनीयेऽवनीयाधवनीयात् पूतृभृत्येकदेशँ राज्ञोऽवनयति १० तत्रैषोऽत्यन्तप्रदेशः । यत्र क्व च किं च पूतभृत्यवनयेत् तिरः पवित्र-मेवावनयेदन्यत्र द्रो णकलशात् ११ पवमानग्रहान् गृह्णाति । उपयामगृहीतो-ऽसि प्रजापतये त्वा इति द्रो णकलशमभिमृशेत् । इन्द्रा य त्वा इत्याधवनीयम् । विश्वेभ्यस्त्वा देवेभ्यः इति पूतभृतम् १२ पुरस्तादुपयामा यजुषा गृह्यन्त उपरिष्टादुपयामा ऋचा यज्ञस्य धृत्या इति विज्ञायते १३ वैप्रुषान् होमान् जुह्वति यस्ते द्र प्स स्कन्दति इत्येताभिस्तिसृभिः १४ सप्तहोतारं च हुत्वोदञ्चः प्रह्वा बहिष्पवमानाय प्रसर्पन्ति १५ अध्वर्युं प्रस्तोतान्वारभते प्रस्तोतारमुद्गातो-द्गातारं प्रतिहर्ता प्रतिहर्तारं ब्रह्मा ब्रह्माणं यजमानः । यजमानं ब्रह्मेत्येकेषाम् १६ बर्हिर्मुष्टिं धून्वन्नध्वर्युः प्रथमँ सर्पति गायत्रः पन्था वसवो देवता वृकेणापरिपरेण पथा स्वस्ति वसूनशीय इति वागग्रेगा अग्र एतु इति च १७ १३.१६

दक्षिणेन चात्वालमुपविशन्ति १ अग्रेण प्रस्तोतारमुपविश्याध्वर्युः प्रस्तोत्रे बर्हिर्मुष्टिं प्रयच्छन् स्तोत्रमुपाकरोति वायुर्हिंकर्ता इति प्रतिपद्य ते देवाः प्राणभृतः प्राणं मयि दधतु ॥ सोमः पवते इत्यन्तेन २ एतेनैव सर्वाणि स्तोत्रा-ण्युपाकरोति ३ उपावर्तध्वम् इत्यन्यत्र पवमानेभ्योऽनन्तरं करोति ४ चात्वा-लमवेक्षमाणाः स्तुवते ५ स्तोत्रँ स्तूयमानं चत्वार ऋत्विज उपगायन्ति । दिग्भ्य उपगायन्ति ६ यजमानपञ्चमा ऋत्विज उपगायन्ति ७ नाध्वर्युरुप-गायेदिति विज्ञायते ८ ओ इत्यन्य ऋत्विज उपगायन्ति । हो इति यजमानः ९ स्तूयमानं यजमानोऽन्वारोहं जपति श्येनोऽसि गायत्रछन्दाः इति १० स्तुतमनुमन्त्रयते स्तुतस्य स्तुतमसि इति ११ एतेनैव सर्वाणि स्तोत्रा-ण्यनुमन्त्रयते १२ स्तुत उत्तिष्ठन्नाह अग्नीदग्नीन् विहर बर्हिः स्तृणाहि पुरोडाशाँ अलंकुरु प्रतिप्रस्थातः पशुनेहि इति १३ प्रत्येत्य राजानं यजमान उपतिष्ठते विष्णो त्वं नो अन्तमः इति १४ आग्नीध्रादङ्गारानाहृत्य यथान्युप्तमाग्नीध्रो धिष्णियान् विहरति १५ पुरस्तात्प्रत्यङ्ङासीनः प्रतिप्रस्थाता धिष्णियान् व्याघारयति १६ द्रो णकलशात् परिप्लवया राजानमादायाहवनीयमाग्नीध्रीयँ होत्रीयम् । पञ्चगृहीतेनाज्येनेतरान् । सोमेन मार्जालीयम् १७ य एव निवपनमन्त्रास्ते व्याघारणाः १८ सवनीयानां पात्राणि प्रक्षाल्य प्रयुनक्ति या-न्यौषधकारितानि भवन्ति १९ पवित्रे कृत्वा संप्रेष्यति यजमान वाचं यच्छ इति २० वाग्यतः पात्राणि संमृशति २१ १३.१७

ततः सवनीयान्निर्वपतीन्द्रा य हरिवते धाना इन्द्रा य पूषण्वते करम्भँ सरस्वत्यै भारत्यै परिवापमिन्द्रा य पुरोडाशमष्टाकपालं प्रातःसवन एकादशकपालं माध्यंदिने सवने द्वादशकपालं तृतीयसवने । अपि वा सर्वत्रैकादशकपालम् १ मन्थं करम्भ इत्याचक्षते । लाजान् परिवाप इति २ समानमावपनात् ३ यवानोप्य लाजार्थं कपालमुपधाय तस्मिन्नर्धं व्रीहीणां यजुरुत्पूताभिरद्भिः संयुत्यावपति ४ आवपन्नधिश्रयणमन्त्रं जपत्युद्वपन्नुद्वासनमन्त्रम् ५ भ्राष्ट्रान् लाजानभिघार्योद्वासयति ६ काल एवालंकरोति ७ समानमावहननात् ८ यवानवहत्य पाणिभ्यां लाजान् वितुषान् करोति ९ तत्रावपनमन्त्रोऽवहननमन्त्र उद्वपनमन्त्रो निष्पवनमन्त्र इति क्रियन्ते १० पाण्योरुलूखलमुसलमन्त्राः क्रियेरन् ११ ततः पुरोडाशीयानवहन्ति १२ यत् प्रागधिवपनात् तत्कृत्वा करम्भार्यं कपालमुपधाय यवतण्डुलानामर्धं करम्भार्थं कपाल आवपति १३ व्याख्यातः सँ स्कारः १४ पिष्टानामावृता धानाः पि ँ! षन्ति १५ समानमा कपालोपधानात् १६ धानार्थं कपालमुपधाय पुरोडाशकपालान्युपदधाति १७ आमिक्षां करोति १८ नानापात्रेषु हवी ँ! षि संवपति । उत्पुनाति १९ १३.१८

मन्थं चैव पुरोडाशं च संयौति १ धाना ओप्य पुरोडाशमधिश्रयति २ एवमेव धाना उद्वास्य पुरोडाशमुद्वासयति ३ आग्नीध्र एवानुपृष्ठ्यं बर्हिः स्तृणाति ४ पुरोडाशानलंकरोति ५ तत आश्विनं द्रो णकलशात् परिप्लवया गृह्णाति या वां कशा मधुमती इत्येतेनानुवाकेनोत्तरेण वा ६ द्रो णकलशादेवात ऊर्ध्वं परिप्लवया ग्रहान् गृह्णात्यन्यत्र धाराग्रहेभ्यः ७ आश्विनं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं पशुँ सवनीयपशुमुपाकरोत्यग्निष्टोमे । ऐन्द्रा ग्नमुक्थ्ये द्वितीयम् । ऐन्द्रं वृष्णि ँ! षोडशिनि तृतीयम् । सारस्वतीं मेषीमतिरात्रे चतुर्थीम् ८ वेदिसंमितां वैकादशिनीं मिनोति ९ समानमा वपाया होमात् १० हुतायां वपायां प्रस्रप्स्यन्तो ग्रहानवेक्षन्ते ११ द्वौ समुद्रौ विततावजूर्यौ इति द्रो ण-कलशाधवनीयौ १२ द्वे द्र धसी इति पूतभृतम् १३ सर्व ँ! राजानमुपतिष्ठन्ते परिभूरग्निं परिभूरिन्द्र म् इति प्रतिपद्य तस्य त इदमुन्मृजे इत्यन्तेन १४ प्राणाय मे इत्युपाँ शुपात्रम् १५ अपानाय मे इत्यन्तर्यामम् १६ व्यानाय मे इत्युपांशु-सवनम् १७ वाचे मे इत्यैन्द्र वायवम् १८ दक्षक्रतुभ्यां मे इति मैत्रावरुणम् १९ चक्षुर्भ्यां मे इति शक्रामन्थिनौ २० १३.१९

श्रोत्राय मे इत्याश्विनम् १ आत्मने मे इत्याग्रयणम् २ अङ्गेभ्यो मे इत्युक्थ्यम् ३ आयुषे मे इति ध्रुवम् ४ तेजसे मे ॥ ओजसे मे ॥ वर्चसे मे इत्यतिग्राह्यान् ५ वीर्याय मे इति षोडशिपात्रं यदि षोडशी भवति ६ विष्णोर्जठरमसि इति द्रो णकलशम् ७ इन्द्र स्य जठरमसि इत्याधवनीयम् ८ विश्वेषां देवानां जठरमसि इति पूतभृतम् ९ सर्व ँ! राजानमुपतिष्ठन्ते कोऽसि को नाम इति प्रतिपद्य तस्य त इदमुन्मृजे इत्यन्तेन १० बुभूषन्नवेक्षेत ब्रह्मवर्चसकामो-ऽवेक्षेतामयाव्यवेक्षेताभिचरन्नवेक्षेतेति विज्ञायते ११ तत इतराणि द्र व्याण्यु-पतिष्ठन्ते १२ उत्करे वेदिकरणानि स्फ्यः स्वस्तिर्विघनः स्वस्तिः इत्येतै-र्मन्त्रैर्यथारूपम् १३ यज्ञिया यज्ञकृत स्थ ते मास्मिन् यज्ञ उपह्वयध्वम् इति च सर्वाणि १४ उप मा द्यावापृथिवी ह्वयेताम् इति द्यावापृथिवी १५ उपास्तावः इत्यास्तावम् १६ कलशः इति द्रो णकलशम् १७ सोमः इति सोमम् १८ अग्निः इत्याहवनीयम् १९ उप देवा उप यज्ञः इति यज्ञम् २० उप मा होत्रा उपहवे ह्वयन्ताम् इति होत्रकान् २१ ह्वयतां ह्वयेतां ह्वयन्ताम् इत्यनुषङ्गान् २२ नमोऽग्नये मखघ्ने इत्याहवनीयम् २३ नमो रुद्रा य मखघ्ने इत्याग्नीध्रीयम् २४ नम इन्द्रा य मखघ्ने इति होत्रीयम् २५ दृढे स्थः शिथिरे समीची माँ हसस्पातम् इति द्यावापृथिवी २६ सूर्यो मा देवो दिव्यादँ हसस्पातु इत्यादित्यम् २७ १३.२०

वायुरन्तरिक्षात् इति वायुम् १ अग्निः पृथिव्याः इत्यग्निम् २ यमः पितृभ्यः इति यमम् ३ सरस्वती मनुष्येभ्यः इति सरस्वतीम् ४ देवी द्वारौ मा मा सं ताप्तम् इति सदसो द्वारौ ५ नमः सदसे इति सदः ६ नमः सदसस्पतये इति यजमानम् ७ नमः सखीनां पुरोगाणां चक्षुषे इत्यृत्विजः ८ नमो दिवे इति दिवम् ९ नमः पृथिव्यै इति पृथिवीम् १० प्रविश्य यत्रोपवेक्ष्यन् भवति तदुपतिष्ठते अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतरः इति ११ अग्रेण प्रशास्त्रीयमतिक्रम्योपविशति उन्निवत उदुद्वतश्च गेषम् इति १२ द्यावापृथिवी समीक्षते पातं मा द्यावापृथिवी अद्याह्नः इति १३ सदसो दक्षिणार्धं परेक्षेत आगन्त पितरः पितृमानहं युष्माभिर्भूयासँ सुप्रजसो मया यूयं भूयास्त इति १४ सवनीयानासाद्य संप्रेष्यति प्रातः प्रातःसावस्येन्द्रा य पुरो-डाशानामनुब्रूहि इति १५ जुह्वामुपस्तीर्य सर्वेषाँ हविषाँ समवद्यति १६ आमिक्षाया अवदाय वाजिनस्यावद्यति । न वा वाजिनस्य १७ अवदाया-भिघार्यात्याक्रम्याश्राव्याह प्रातः प्रातःसावस्येन्द्रा य पुरोडाशान् प्रस्थितान् प्रेष्य इति १८ संप्रेष्यति अग्नयेऽनुब्रूहि ॥ अग्नये प्रेष्य इति स्विष्टकृतः १९ अत्रैवेडां निरवद्येदित्येकम् । उपरितरामित्यपरम् २० १३.२१

ततो द्विदेवत्यैश्चरतः १ वायव इन्द्र वायुभ्यामनुब्रूहि इति संप्रेष्यति २ आदित्यपात्रेण प्रतिप्रस्थातैन्द्र वायवस्यैकदेशं गृह्णाति उपयामगृहीतोऽसि वाक्षसदसि वाक्पाभ्यां त्वा क्रतुपाभ्यामस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि इति ३ द्रो णकलशाद् गृह्यन्तेऽसन्ना हूयन्ते इत्येकेषां प्रतिनिग्राह्याणां वदति ४ ऐन्द्र वायवमादायाध्वर्युद्रो र्ण!कलशात् परिप्लवया राजानमादायाघारमा-घारयति यत्रोपाँ शुः अध्वरो यज्ञोऽयमस्तु देवा ओषधीभ्यः इति ५ तत्रैषोऽत्यन्तप्रदेशः । मध्येऽग्नेराज्याहुतीः पश्वाहुतीः पुरोडाशाहुतीश्च जुहोति । आद्यन्तयोराधारस्य सोमाहुतीः ६ यतो मन्येतानभिक्रम्य होष्यामीति तत्तिष्ठन्नाश्रावयेत् ७ अत्याक्रम्याश्राव्याह वायव इन्द्र वायुभ्यां प्रेष्य इति ८ वषट्कृते जुहोति ९ पुनर्वषट्कृते जुहुतः १० हुतमनुमन्त्रयते भूरसि श्रेष्ठो रश्मीनां प्राणपाः प्राणं मे पाहि धूरसि श्रेष्ठो रश्मीनामपानपा अपानं मे पाहि इति ११ यद्येनं पूर्वः सन् भ्रातृव्योऽभिष्यादङ्गुल्याङ्गुष्ठमुपनिगृह्णीयात् यद्यपरोऽङ्गुष्ठेनाङ्गुलिं यो न इन्द्र वायू अभिदासति इति १२ अध्वर्युपात्रे प्रतिप्रस्थाता सँ स्रावमानयति । अध्वर्युः प्रतिप्रस्थातुः पात्रे । प्रतिप्रस्था-तादित्यस्थाल्यां देवेभ्यस्त्वा इति १३ होत्रेऽध्वर्युर्भक्षं प्रयच्छति मयि वसुः पुरोवसुर्वाक्या वाचं मे पाहि इति १४ एतेनैव होता प्रतिगृह्णाति १५ १३.२२

एवमेवोत्तराभ्यां यथादेवतं प्रचरतः १ एतावन्नाना । उत्तरेण मन्त्रेण प्रतिनिग्राह्यं गृह्णाति । नात्राघारो भवति । सकृत्सकृज्जुहुतः । उत्तरेणोत्तरेणावबाधते । उत्तरेणोत्तरेणादित्यस्थाल्याँ संपातमवनयति २ अथैनामेतेनैव पात्रेणापि-दधाति विष्णवरुक्रमैष ते सोमस्तँ रक्षस्व तं ते दुश्चक्षा माव ख्यत् इति ३ उत्तरेणोत्तरेणाध्वर्युर्भक्षं प्रयच्छति । तेन तेनैव होता प्रतिगृह्णाति ४ आधवनीयं पूतभृत्यवनयति । न्युप्याधवनीयमुन्नेता ५ संप्रेष्यति उन्नीयमानेभ्योऽनुब्रूहि इति ६ होतृचमसमुख्यान्नव चमसानुन्नयत्यन्यत्राछावाकचमसात् ७ द्रो ण-कलशादुपस्तीर्य पूतभृत उन्नीय द्रो णकलशादेवाभिघारयति ८ तत्रैषो-ऽत्यन्तप्रदेशः । यत्र क्व च चमसानुन्नयेदेवमेवोन्नेतोन्नयेत् । सर्वान् सर्वा-नेवात ऊर्ध्वं चमसानुन्नयति ९ सवनमुखीयेष्वेव चमसेषून्नीयमानसूक्तं भवति १० परिहित उन्नीयमानसूक्ते स्तुतोऽसि जनधाः । देवास्त्वा शुक्रपाः प्रणयन्तु इति शक्रमध्वर्युरादत्ते । स्तुतोऽसि जनधाः । देवास्त्वा मन्थिपाः प्रणयन्तु इति मन्थिनं प्रतिप्रस्थाता ११ सावित्रेणोभावुपरिष्टात् प्रिक्षिताभ्याँ शकला-भ्यामपिधत्तः १२ अधस्तादप्रोक्षिताभ्यां पाँ सूनपध्वँ सयतः १३ अपनुत्तः शण्डः सहामुना इत्यध्वर्युः । यं द्वेष्टि तस्य नाम गृह्णाति १४ अपनुत्तो मर्कः सहामुना इति प्रतिप्रस्थाता । यं द्वेष्टि तस्य नाम गृह्णाति १५ हस्ताभ्यामपिधाय प्राञ्चावुपनिष्क्रामतः उर्वन्तरिक्षं वीहि इति १६ १३.२३

अग्रेण हविर्धाने ग्रहौ संधत्तोऽरत्नी वा ब्रह्म संधत्तं तन्मे जिन्वतम् । क्षत्रँ संधत्तं तन्मे जिन्वतम् । इषँ संधत्तं तां मे जिन्वतम् । ऊर्ज ँ! संधत्तं तां मे जिन्वतम् । रयिँ संधत्तं तां मे जिन्वतम् । पुष्टि ँ! संधत्तं तां मे जिन्वतम् । प्रजाँ संधत्तं तां मे जिन्वतम् । पशून् संधत्तं तान् मे जिन्वतम् इति १ उत्तरवेद्यां ग्रहौ सादयित्वा अनाधृष्टासि इत्यङ्गुष्ठाभ्यामुत्तरवेदिमाग्रमेते २ व्यपरिफन्तावि-वोत्तरवेदिं विपरिक्रामतः ३ सुवीराः प्रजाः प्रजनयन् परीहि । शुक्रः शुक्र-शोचिषा इति दक्षिणेनाध्वर्युः । सुप्रजाः प्रजाः प्रजनयन् परीहि । मन्थी मन्थिशोचिषा इत्युत्तरेण प्रतिप्रस्थाता ४ शुक्रं यजमानोऽन्वारभते इन्द्रे ण सयुजो वयँ सासह्याम पृतन्यतः इति ५ अग्रेणोत्तरवेदिं ग्रहौ संधत्तोऽरत्नी वा संजग्मानौ दिव आ पृथिव्यायुः । संधत्तं तन्मे जिन्वतम् । प्राणँ संधत्तं तं मे जिन्वतम् । अपानँ संधत्तं तं मे जिन्वतम् । व्यानँ संधत्तं तं मे जिन्वतम् । चक्षुः संधत्तं तन्मे जिन्वतम् । श्रोत्रँ संधत्तं तन्मे जिन्वतम् । मनः संधत्तं तन्मे जिन्वतम् । वाचँ संधत्तं तां मे जिन्वतम् इति ६ अथैनावध्वर्युरभि-मन्त्रयते आयुः स्थ आयुर्मे धत्तम् । आयुर्यज्ञाय धत्तम् । आयुर्यज्ञपतये धत्तम् । प्राणः स्थः प्राणं मे धत्तम् । प्राणं यज्ञाय धत्तम् । प्राणं यज्ञपतये धत्तम् । चक्षुः स्थश्चक्षुर्मे धत्तम् । चक्षुर्यज्ञाय धत्तम् । चक्षुर्यज्ञपतये धत्तम् । श्रोत्रं स्थः श्रोत्रं मे धत्तम् । श्रोत्रं यज्ञाय धत्तम् । श्रोत्रं यज्ञपतये धत्तम् ७ १३.२४

तौ देवौ शुक्रामन्थिनौ । कल्पयतं दैवीर्विशः । कल्पयतं मानुषीः । ईष-मूर्जमत्मासु धत्तम् । प्राणान् पशुषु । प्रजां मयि च यजमाने च इति १ पुरस्तात्प्रत्यञ्चावुत्तरवेदिमाक्रम्य बहिर्वेद्यप्रोक्षितौ शकलौ निरस्यतस्तेनैव मन्त्रेण २ अप उपस्पृश्याग्नौ प्रोक्षितौ प्रास्यतः । शुक्रस्य समिदसि इत्यध्वर्युः । मन्थिनः समिदसि इति प्रतिप्रस्थाता ३ पश्चात्प्राञ्चश्चमसाध्वर्यवश्चमसैर-वतिष्ठन्ते ४ आश्राव्य प्रत्याश्राविते संप्रेष्यति प्रातः प्रातःसावस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्रा य सोमान् प्रस्थितान् प्रेष्य मध्यतःकारिणां चमसाध्वर्यवो वषट्कृतानुवषट्कृताञ्जुहुत होत्रकाणां चमसाध्वर्यवः सकृत् सकृद्धुत्वा शुक्रस्याभ्युन्नीयोपावर्तध्वम् इति ५ वषट्कृते जुह्वति ६ शुक्रामन्थिनौ जुहुतः ।
स प्रथमः संकृतिर्विश्वकर्मा । स प्रथमो मित्रो वरुणो अग्निः ।
स प्रथमो बृहस्पतिश्चिकित्वान् । तस्मा इन्द्रा य सुतमा जुहोमि स्वाहा ॥
इत्यध्वर्युः । तस्मै सूर्याय सुतमा जुहोमि स्वाहा इति प्रतिप्रस्थाता ७ सानुवषट्कारावेके शुक्रामन्थिनौ समामनन्ति । अननुवषट्कारावेके । अन्यतरँ सानुवषट्कारमेके ८ अनुवषट्कृते मध्यतःकारिणां चमसाञ्जुह्वत्य-पयच्छन्तीतरान् ९ उत्तरतःपुरस्तादङ्गारान्निर्वर्त्य प्रतिप्रस्थाता मन्थिनः सँ स्रावं जुहोति एष ते रुद्र भागो यं निरयाचथास्तं जुषस्व स्वाहा इति १० सूदवच्छुक्रपात्रमायतने सादयित्वा संप्रेष्यति प्रैतु होतुश्रमसः प्र ब्रह्मणः प्रोद्गातुः प्र यजमानस्य इति ११ एते मध्यतः कारिणां चमसा भवन्ति १२ १३.२५

ततः पुनरभ्युन्नीतैश्चरन्ति १ द्रो णकलशादभ्युन्नीता भवन्ति २ मैत्रावरुण-चमसमादायाध्वर्युरत्याक्रम्याश्राव्याह प्रशास्तर्यज इति । वषट्कृते जुहोति ३ एवमनुपूर्वं यो यो यजते तं तं संप्रेष्यति ब्रह्मन् यज । पोतर्यज । नेष्टर्यज । अग्नीद्यज इति ४ एतेषामेते चमसा भवन्ति ५ सर्वासु सोमाहुतीष्व-नुवषट्कार आम्नातो भवति ६ अयाडग्नीत् इति होत्र आचष्टे ७ स भद्र मकर्यो नः सोमं पाययिष्यति इति होता प्रत्याह ८ भक्षमभिमन्त्रयते भक्षेहि माविश इति ९ प्रतिगृह्णाति अश्विनोस्त्वा बाहुभ्याँ सघ्यासम् इति १० अवेक्षते नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम् इति ११ यत्र क्व च भक्षयेदेवमेवैतान् मन्त्राञ्जपेत् १२ अथैतमुपहवमिष्ट्वा प्राणेषूपनियम्य भक्षयति मन्द्रा -भिभूतिः इति १३ ये के चानैन्द्रा अनाराशँ साः प्रातःसवन एष एवैतेषां भक्षमन्त्रो भवति १४ वाग्देवी सोमस्य तृप्यतु इत्येके सार्वत्रिकँ समामनन्ति १५ द्विरैन्द्र वायवं भक्षयति सकृत् सकृदितरौ । चक्षुषोरुपनिग्राहं मैत्रावरुणम् । श्रोत्रयोरुपनिग्राहँ सर्वतःपरिहारमाश्विनम् १६ १३.२६

होता प्रथमो भक्षयत्यथाध्वर्युरथ प्रतिप्रस्थाता १ यत्र क्व चैकपात्रे भक्षयेयुर्द्वौ वा बहवो वा वषट्कर्तैव प्रथमो भक्षयेत् २ ये के चैककाले भक्षयेयुः सर्व एव मिथः कर्मनामभिः समुपह्वयेरन् ३ असावसावुपह्वयस्व इत्यामन्त्रणः । उपहूतः इति प्रतिवचनः ४ भक्षयित्वात्मानं प्रत्यभिमृशति हिन्व मे गात्रा हरिवः इति ५ यत्र क्व च भक्षयेदेवमेवात्मानं प्रत्यभिमृशेत् ६ भक्षयित्वा नानुत्सृजन्त्यावनयनात् ७ होतृचमसे द्विदेवत्यसंपातानवनीय पुरोडाश-शकलमैन्द्र वायवस्य पात्रेऽवदधाति । पयस्यां मैत्रावरुणस्य । धाना आश्विनस्य ८ अथैतानि दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्यां पश्चादक्षँ सादयति ९ एवँ सन्नान्येव भवन्त्या तृतीयसवनात् १० निरवदाय होत्र इडामादधाति ११ उपह्वयते होतेडाम् १२ उपोद्यच्छन्त्यस्मै चमसान् १३ होतृचमसँ सँ स्पृष्टं धारयति १४ उपहूतामिडां प्राश्नन्ति ये प्रकृतौ १५ पुरोडाशशकलमछावाकाय निदधाति १६ यथाचमसं चमसिनो भक्षयन्ति १७ वसुमद्गनस्य सोम देव ते इति मध्यतःकारिणः १८ अनैन्द्रै रेवेतरेषां भक्षमन्त्रो व्याख्यातः १९ सर्वेषु चमसेषु होता भक्षयति २० सर्वेषु पुन-रभ्युन्नीतेष्वध्वर्युः मन्द्रा भिभूतिः इति २१ यतरोऽध्वर्युर्जुहुयात् स वषट्कर्तारं प्रतिभक्षयेत् २२ भक्षयित्वाप्याययति आ प्यायस्व समेतु ते इति २३ यत्र क्व चाप्याययेदेतयैवाप्याययेत् २४ सीदन्ति नाराशँ सा आप्यायिता दक्षिणस्य हविर्धानस्याधस्तादपालम्बे २५ १३.२७

सीदत्यछावाकोऽग्रेण स्वं धिष्णियं बहिः सदसः १ तस्मै पुरोडाशशकल-मादधदाह अछावाक वदस्व यत्ते वाद्यम् इति २ यत्राभिजानाति उपो अस्मान् ब्राह्मणान् ब्राह्मणा ह्वयध्वम् इति तत आह अछावाको वा अयमुपहवमिच्छते तँ होतरुपह्वयस्व इति ३ तमृचा होतोपह्वयते ४ यत्राभिजानाति उत नो गाव उपहूता उपहूतः इति तत आह उन्नीयमानायानुब्रूहि इति ५ उन्नीतमछावाक-चमसमादायात्याक्रम्याश्राव्याह अछावाक यज इति ६ वषट्कृते जुहोति ७ अछावाकाय भक्षं प्रयच्छति ८ नास्मिन्नछावाक उपहवमिच्छते ९ नैतेन संभक्षयेत् १० यद्यस्मिन्नुपहवमिच्छेत भक्षय इत्येनं ब्रूयात् ११ भक्षितम-छावाकचमसमाप्यायितमन्तरेण नेष्टुश्चाग्नीध्रस्य च चमसौ सादयति १२ अत्र सवनीयानां पिष्टलेपफलीकरणहोमौ जुहोति १३ कपालानि विमुञ्चति १४ अत्रैके वाजिनचर्या ँ! समामनन्ति १५ १३.२८

तत ऋतुग्रहैश्चरतः १ दक्षिणमृतुपात्रमध्वर्युरादत्त उत्तरं प्रतिप्रस्थाता २ सह प्रथमौ गृह्णीतः सहोत्तमौ ३ गृह्णात्यध्वर्युः उपयामगृहीतोऽसि मधुश्च इति । उपयामगृहीतोऽसि माधवश्च इति प्रतिप्रस्थाता ४ उपनिष्क्रम्याध्वर्युरत्या-क्रम्याश्राव्याह ऋतुना प्रेष्य इति ५ वषट्कृते जुहोति ६ आवर्ततेऽध्वर्युः ७ उपनिष्क्रम्य प्रतिप्रस्थातात्याक्रम्याश्राव्याह ऋतुना प्रेष्य इति ८ वषट्कृते जुहोति ९ नान्योऽन्यमनुप्रपद्येत । द्वार एव व्यतीतः १० प्रसिद्धमेवा-ध्वर्युर्दक्षिणेन प्रपद्यते । प्रसिद्धं प्रतिप्रस्थातोत्तरेण ११ प्रत्यञ्चं यन्तमध्वर्युं प्रतिप्रस्थाता ग्रहेण परिप्रगृह्णाति । प्राञ्चं यन्तं पात्रेण १२ एवमेवोत्तरैरुत्तरै-र्मन्त्रैर्गृह्णीतः १३ पूर्वेणपूर्वेणाध्वर्युरुत्तरेणोत्तरेण प्रतिप्रस्थाता १४ अध्वर्युरेव त्रयोदशं गृह्णाति उपयामगृहीतोऽसि सँ सर्पोऽस्यँ हस्पत्याय त्वा इति १५ द्वादश गृह्यन्त इति विज्ञायते । त्रयोदशेत्येकेषाम् । चतुर्दशेत्येकेषाम् १६ सह प्रथमौ जुहुतो यदि त्रयोदश गृह्यन्ते १७ सहप्रथमौ सहोत्तमौ यदि चतुर्दश १८ १३.२९

पूर्वेषाँ शेष उत्तरानभिगृह्णीतः १ असन्ना हूयन्ते २ ऋतुना प्रेष्य इति त्रिरध्वर्युराह । त्रिः प्रतिप्रस्थाता ३ पर्यावृत्य पात्रम् ऋतुभिः प्रेष्य इति द्विरध्वर्युराह । द्विः प्रतिप्रस्थाता ४ पर्यावृत्य पात्रम् ऋतुना प्रेष्य इति सकृदध्वर्युराह । सकृत् प्रतिप्रस्थाता ५ यत्राभिजानाति अध्वर्यू यजतम् इति तदध्वर्युराह होतरेतद्यज इति ६ यत्राभिजानाति गृहपते यज इति तद्यजमान आह होतरेतद्यज इति ७ अननुवषट्कारा ऋतुग्रहा भवन्ति ८ अध्वर्युपात्रे प्रतिप्रस्थाता संस्रावमानयति । अध्वर्युः प्रतिप्रस्थातुः पात्रे ९ प्रतिप्रस्थाता तेन भक्षमाहरति १० एवमनुपूर्वं यो यो यजति तं तं प्रतिभक्षयतः मन्द्रा भिभूतिः इति । होतारमध्वर्युः । पोतारं प्रतिप्रस्थाता । नेष्टारमध्वर्युः । आग्नीध्रं प्रतिप्रस्थाता । ब्राह्मणाछँ सिनमध्वर्युः । मैत्रावरुणं प्रतिप्रस्थाता । होतारमध्वर्युः । पोतारं प्रतिप्रस्थाता । नेष्टारमध्वर्युः । अछावाकं प्रतिप्रस्थाता । होतारमेवाध्वर्युः । होतारं प्रतिप्रस्थाता ११ अत्रैव पात्रं निधायाध्वर्युः स्वेन पात्रेण १२ १३.३०

ससँ स्रावेणैन्द्रा ग्नं गृह्णाति इन्द्रा ग्नी आगतँ सुतम् इति १ शस्त्रमत्र भवति २ अग्रेण होतारमुपविश्याध्वर्युः शस्त्रमुपाकरोति इडा देवहूः इत्यनुवाकशेषेण ३ एतेनैव सर्वाणि शस्त्राण्युपाकरोति ४ अथैनं पराञ्चमूर्ध्वज्ञुमासीन-मभ्याह्वयते होता ५ शॐसा मोद इव इति प्रदक्षिणमावर्तते ६ ऋतुपात्र-मारभ्योर्ध्वस्तिष्ठन् सदोबिले प्रतिगृणाति प्रह्वो वा ७ ओथा मोद इव इत्यर्धर्चेषु ८ ओमोथा मोद इव इति प्रणवेषु ९ नाभिप्रतिगृणीयात् । नार्धर्चाल्लुप्यते १० यत्र यत्र होता विरमेत् ओमोथा मोद इव इत्येव ब्रूयात् ११ उभयं व्याहावे करोति शॐसा मोद इवोथा मोद इव इति १२ परिधानीयाया उत्तमेन प्रणवेन सह प्रणौति १३ एवमेव सर्वाणि शस्त्राणि प्रतिगृणात्यन्यत्र पात्रारम्भणात् १४ शस्त्रमनुमन्त्रयते शस्त्रस्य शस्त्रमसि इति १५ एतेनैव सर्वाणि शस्त्राण्यनु-मन्त्रयते १६ शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते नाराशँ सान् १७ अत्याक्रम्याश्राव्याह उक्थशा यज सोमस्य इति १८ वषट्कृते जुहोति १९ १३.३१

वषट्कारं चानुवषट्कारं चानु प्रकम्पयन्ति नाराशँ सान् १ ऐन्द्रै रेव ग्रह-भक्षमन्त्रो व्याख्यातः २ नाराशँ सान् भक्षयन्ति नराशँ सपीतस्य सोम देव ते इति ३ एवमेवोत्तरेणोत्तरेण नाराशँ सेन सवनेसवने नाराशँ सान् भक्षयन्ति ४ असर्वान् भक्षयित्वाप्याययन्ति ५ व्याख्यातमाप्यायनँ सादनम् ६ वैश्वदेवँ शुक्रपात्रेण गृह्णाति ओमासश्चर्षणीधृतः इत्येतेनानुवाकेन ७ स्तुतशस्त्रे अत्र भवतः ८ शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते नाराशँ सान् ९ अत्या-क्रम्याश्राव्याह उक्थशा यज सोमस्य इति १० वषट्कृते जुहोति ११ व्याख्यातमनुप्रकम्पनम् १२ व्याख्यातो ग्रहस्य भक्षमन्त्रः १३ व्याख्यातो नाराशँ सानाम् १४ सर्वान् भक्षयन्ति । नाप्याययन्ति । मार्जयन्ते १५ सर्वभक्षा एवात ऊर्ध्वं प्रातःसवने चमसा भवन्ति १६ तत उक्थ्यं विगृह्णाति १७ उक्थ्यस्थाल्या उक्थ्यपात्रे तृतीयं गृह्णाति उपयामगृहीतोऽसि मित्रा-वरुणाभ्यां त्वा इति १८ अथैनँ सादयति एष ते योनिर्मित्रावरुणाभ्यां त्वा इति १९ पुनर्हविरसि इति स्थालीं प्रत्यभिमृशति २० मैत्रावरुणचमस-मुख्याँ श्चमसानुन्नयति २१ स्तुतशस्त्रे अत्र भवतः २२ शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते चमसाँ श्चमसाध्वर्यवः २३ अत्याक्रम्याश्राव्याह उक्थ-शा यज सोमानाम् इति २४ वषट्कृते जुह्वति २५ मैत्रावरुणचमसेऽध्वर्युः सँ स्रावमवनयति देवेभ्यस्त्वा देवायुवं पृणज्मि यज्ञस्यायुषे इति २६ १३.३२

यदि कामयेताध्वर्युरात्मानं यज्ञयशसेनार्पयेयमित्येतद्यथासमाम्नातम् १ यथाचमसं चमसिनो भक्षयन्ति मन्द्रा भिभूतिः इति २ एवं प्रतिप्रस्थातो-त्तराभ्यामुक्थ्यविग्रहाभ्यामभक्षयन् प्रचरति ३ यो यो मुख्यश्चमसस्तस्मिँ स्त-स्मिन् सँ स्रावमवनयति ४ ब्राह्मणाछँ सिचमसमुख्यो द्वितीयः । अछावा-कचमसमुख्यस्तृतीयः ५ एतेन शस्त्रयाज्यानामानुपूर्व्यं व्याख्यातम् ६ एतावन्नाना । इन्द्रा त्वा इति ब्राह्मणाछँ सिनो ग्रहणसादनौ भवतः । ऐन्द्रो भक्षमन्त्रः । इन्द्रा ग्निभ्यां त्वा इत्यछावाकस्य ग्रहणसादनौ भवतः । मन्द्रा -भिभूतिः इति भक्षमन्त्रः ७ उत्तममुक्थ्यविग्रहं गृहीत्वा न स्थालीं प्रत्यभि-मृशति ८ न्युप्योक्थ्यस्थाली ँ! षोडशिनं गृह्णाति आ तिष्ठ वृत्रहन् रथम् इत्येते-नानुवाकेनोत्तरेण वा ९ अपि वैनं धाराग्रहाणामुत्तमं गृह्णीयात् १० एवमेवोत्तरेणानुवाकेन सवनेसवने षोडशिनमभिगृह्णाति ११ षोडशिनं गृहीत्वा संप्रेष्यति उत्तमाँ श्चमसानुन्नय द्रो णकलशं पूतभृत्यवनय सर्व ँ! राजानं चमसेषून्नय दशाभिः कलशौ मृष्ट्वा न्युब्ज इति १२ उक्थशा इत्याह प्रातःसवनं प्रतिगीर्य १३ अग्निः प्रातःसवने पात्वस्मान् इत्याहुतिँ हुत्वा संप्रेष्यति प्रशास्तः प्रसुहि इति १४ सर्पत इत्याह प्रशास्ता १५ संतिष्ठते प्रातःसवनम् १६ १३.३३
इति त्रयोदशः प्रश्नः