कल्पः/श्रौतसूत्राणि/मानव-श्रौतसूत्रम्/कल्पः १०

← कल्पः ९ मानव-श्रौतसूत्रम्
कल्पः १०
[[लेखकः :|]]
कल्पः ११ →

अथातः शुल्बँ व्याख्यास्यामः १ रज्जुं पाशवतीँ समां निरायतां पृष्ठ्याँ यथार्थमुपकल्पयेत् २ अन्तरेण चित्रास्वाती श्रवणप्रतिश्रवणौ कृत्तिकाप्रति-कृत्तिके तिष्यपुनर्वसू च प्राग्देशोऽयं युगमात्रोदितयोः पाशाञ्च ३
दार्शिक्याः शयाः षट्तानि सप्त सप्तदशैव तु
एकं द्वे पञ्च तैर्मीत्वा समरैः परिलेखयेत् ४
अँ साच्छ्रोणौ रज्ज्वन्तं प्रतिष्ठाप्य प्राचीमनुलिखेदँ से प्रतिष्ठाप्य प्रतीचीँ समरे रज्ज्वन्तं प्रतिष्ठाप्य श्रोणेरध्यँ सादनुलिखेत् ५ एवमुत्तरतः पुरस्तात्पश्चाच्च ६
अरत्निश्चतुरस्रस्तु पूर्वस्याग्नेः खरो भवेत्
रथचक्राकृतिः पश्चाच्चन्द्रा र्धेन तु दक्षिणे ७
मध्यात्कोटिप्रमाणेन मण्डलं परिलेखयेत्
अतिरिक्तत्रिभागेन सर्वं तु सहमण्डलम्
चतुरश्रेऽक्ष्णया रज्जुर्मध्यतः संनिपातयेत्
परिलेख्य तदर्धेनार्धमण्डलमेव तत् ८
गार्हपत्याहवनीयावन्तरा रज्जुं निमायापरस्मिँ स्तृतीये लक्षणम् । मध्यात् तुरीयमुत्सृज्य लक्षणं पाशान्तौ समाहृत्य दक्षिणतो दक्षिणाग्नेर्लक्षणम् ९ एतदेव विपर्यस्योत्तरत उत्करस्य लक्षणम् १०
यावत्प्रमाणा रज्जुः स्यात्तावदेवागमो भवेत्
आगमार्धे भवेच्छङ्कुः शङ्कोरर्धे निराञ्छनम् ११
समन्तचतुराणि विधिरेषः प्रकीर्तितः १२ 10.1.१

अष्टाशीतिः शतमीषा तिर्यगक्षश्चतुःशतम्
षडशीतिर्युगं चास्य रथश्चारक्य उच्यते १
ईषायां लक्षणं मीत्वा षट्सु नवसु च लक्षणे
त्रिचत्वारिँ शके पाशोऽङ्गुलानां नियोगतः २
एषा वेदिः समाख्याता चारक्य रथसंमिता
ऐन्द्रा ग्नस्य पशोरेषा पशुष्वन्येषु षट्शया ३
प्राच्यर्धः षडरत्निः स्यादर्धारत्नेर्निराञ्छनम्
अर्धे श्रोणी ततोऽर्धेऽँ! सावध्यर्ध इति पाशुकी ४
पशादर्धशये श्रोणी द्वयोः पृष्ठ्यापरा द्वयोः
प्राच्यर्धस्तु ततोऽध्यर्धे ततोऽध्यर्धे निराञ्छनम्
अर्धेऽँ! सोऽध्यर्ध एवान्यस्ततोऽध्यर्धेऽँ! स उत्तरः
अरत्नौ तु ततः पाशो वेदी मारुती स्रवाणी ५
सर्वा दशशया रज्जुर्मध्ये चास्या निराञ्छनम्
प्राच्यर्धं पञ्चमे कुर्याद्दिक्कुष्ठा पैतृकी स्मृता ६
सर्वा सप्तशया रज्जुर्मध्ये चास्या निराञ्छनम्
प्राच्यर्धं पञ्चमे कुर्याद्दिक्कुष्ठा पैतृकी स्मृता ७ 10.1.२

प्राग्वँ शं दशकं कुर्यात्पत्नीशालां चतुःशयाम्
प्राग्वँ शात्त्रिषु वेद्यन्तो वेद्यन्तात्प्रक्रमे सदः १
नवकं तु सदो विद्याच्चत्वारः सदसोऽन्तरम्
चत्वारस्त्रिका हविर्धानमरुषर्धस्तदन्तरम् २
पदँ यूपावटे मीत्वा शेषमौत्तरवेदिकम्
आग्नीध्रँ षडरत्न्येव षट्त्रिँ शत्प्रक्रमा रज्जुः ३
लक्षिका द्वादश त्रिका । वेदिसदोहविर्धानानि मिनोत्येवानुपूर्वशः पञ्चदश-कमेकविँ शकं त्रिकमपरम् । परतोऽपरस्त्रिको द्वादशसु च पाशद उच्यते । सोमे रज्जुनिमानमुत्तमम् ४
त्रिपदा पार्श्वमानी स्यात्तिर्यङ्मानी पदं भवेत्
तस्याक्ष्णया तु या रज्जुः कुर्याद्दशपदां तया ५
पादादर्धं चतुर्दशे नवके तु ततः पुनः
अर्धचतुर्दशः पाशः सदसश्छेदनमुत्तमम् ६
निमाय रज्जुं दशभी रथाक्षैरेकादशभिश्चोपरष्ठबुमात्रैस्तस्याश्चतुर्वि ँ! शतिभा-गधेयमेकादशिनीं प्रतिवेदिमाहुः ७
शिखण्डिनी चेत्कर्तव्या वेद्यन्ताद्द्व्यर्धमुद्धरेत्
अष्टाङ्गुलं तदर्ध ँ! स्याद्देव्य वेदि प्रसिद्धये
तं प्राञ्चं तु समीक्षेत तांस्तु विद्याच्छिखण्डिनीम् ८
पञ्चकँ सप्तकं चैव एकमेकं ततः पुनः
एषा वेदिः समाख्याता कौकिल्यास्त्वथ चारके ९ 10.1.३

जन्मना रोगहीनो वा यजमानो भवेद्यदि
कथं तत्र प्रमाणानि प्रयोक्तव्यानि कर्तृभिः १
तुण्डं पुष्करनालस्य षड्गुणं परिवेष्टितम्
त्रिहायण्या वत्सतर्या वालेन सममिष्यते २
त्रयस्त्रिहायणीवालाः सर्षपार्ध ँ! विधीयते
द्विगुणँ सर्षपं प्राहुर्यवः सर्षपार् ३
अङ्गुलस्य प्रमाणं तु षड्यवाः पार्श्वसँ हिताः
दशाङ्गुलस्तु प्रादेशो वितस्तिर्द्वादशाङ्गुलः
द्विवितस्तिररत्निः स्याद्व्यायामस्तु चतुःशयः ४
विँ शतिशताङ्गुलतः पुरुषः स्वैः स्वैरङ्गुलिपर्वभिः
अथ चेत्प्रपदोत्थानः पञ्चविँ शशतो भवेत् ५
त्रियवं कृष्णलँ विघ्नद्या मानँ विद्यात्त्रिकृष्णलम्
अनेन कृष्णलप्रमाणेन निष्कमाहुश्चतुर्गुणम् ६
पुरुषस्य तृतीयपञ्चमौ भागौ तत्करणं पुनश्चितेः
तस्यार्धमथापरं भवेत्त्रिचितिकमग्निचितिश्चेत् ७
अष्टावष्टौ संमिता चितिरष्टैकादशिका च मध्यमा
व्यत्या सवतीरुपन्यसेदष्टौ द्वादश चोत्तमा चितिः
अष्टौ द्वादश चोत्तमा चितिरिति ८ 10.1.४
इति शुल्बसूत्रँ समाप्तम्