कल्पः/श्रौतसूत्राणि/मानव-श्रौतसूत्रम्/कल्पः १२

← कल्पः ११ मानव-श्रौतसूत्रम्
कल्पः १२
[[लेखकः :|]]
कल्पः १३ →

वैष्णवे या प्रमेयाय शुल्बविद्भिश्च सर्वशः
संख्यातृभ्यः प्रवक्तृभ्यो नमो भरन्तो ये मसे
इदं भूम्या भजामहे या नो मानकृतामिव
यज्ञियं मानमुत्तमँ वर्धमानँ स्वे दमे १
स्पष्टा भूमिरृजुः शङ्कुर्मौञ्जँ शुल्बमबन्धुरम्
चित्रादौ नाकृतिः कार्या तिथ्यृक्षँ वरुणशुभम् २
सर्वाः प्रागायता वेद्यः करणँ यस्कदेहिकम्
अर्धेनार्वसमँ सर्वमुच्छेदो जानु पञ्चकम् ३
मध्यमेऽर्धमृतव्यानां नाकसत्पञ्चचूडयोः
करणाद्यर्थमुद्दिश्य क्षेत्रमर्धाष्टड्स्रमारः ४
अनःसिद्धँ हविर्धानं पात्रसिद्धाः खराः खराः
चात्वालः पशुभिः सिद्धो हविर्भिः साग्निकाः खराः ५
मण्डलार्धं चतुःस्रक्ति रत्निनाँ विहिताः खराः
अरत्निर्घन एतेषां भूयस्त्वे भूयसीबिधौ ६
पूर्वश्चतुर्वि ँ! शतिभागे लेख्यश्चतुर्व ँ! शैरालिखितस्तु पश्चिमः स्याद्दक्षिणेऽष्टद्वि-गुणेन लेख्यस्त्रिँ शद्भिरायम्य हरेत्तुरायम् ७
उदक्प्रक्रम्य चात्वालँ शामित्रं प्रक्रमे ततः
भूयस्तत्पशुभूयस्त्वे वृद्धिरुत्तरतो भवेत् ८
आयामबाहुं निक्षिप्य विस्तरस्तु तथा पृथक्
सोऽध्यर्धं गुणयेद्रा शिँ स सर्वगुणितो घनः ९
आयाममायामगुणँ विस्तारँ विस्तरेण तु
समस्य वर्गमूलँ यत्तत्कर्णं तद्विदो विदुः १०
श्रवणाभिजितोर्बहुलातिष्ययोर्वा चित्रास्वात्योरन्तरेऽप्स्वग्निना वा ११ नक्तं प्राचीभास्करश्रायमाहुः । शङ्कुलिप्ते मण्डले प्राक्पराक्चेति १२ 12.1.१

जन्मना रोगहीनो वा यजमानो भवेद्यदि
कथं तत्र प्रमाणानि प्रयोक्तव्यानि कर्तृभिः १
यद्युरुतन्तुः केशोवास्तृतः सर्षपो यवश्चैव षड्गुणितः षड्गुणितो भवति नरस्याङ्गुलं माने तद्द्वादशकं प्रादेशमित्याहुः २ तद्द्वयँ स्मृतोऽरत्निः प्रक्रमो-ऽरत्निसमः स द्विःप्रादेशो भवेच्चितिषु ३ अध्यर्धाङ्गुलहीनाश्चत्वारः प्रक्रमा भवेन्नियताः ४ तत्रैकादश यूपाश्चत्वारश्चतुरुत्तराः सत्त्रेसत्त्रे ५ एकस्याँ वेद्यामग्निद्वयमिष्टकारिक्तं भवति । पृथगतो वेदिः चेत्पृथगग्निः कॢप्तः ६ विँ शत्यङ्गुलः शतं नियतः पञ्चारत्निर्नरो दशपदो वा । हीनातिरिक्तयुक्त्या देहेदेहे प्रमाणं तु ७ षडशीतिर्युगमुक्तँ साष्टादश उच्यते त्वक्षस्तन्त्रसमसमस्तं द्व्युजँ रथमीषाँ व्यवास्यन्ति ८ मण्डलमथ चतुन्नरं मण्डलं च यः कुर्यात्तस्येमं करणविधिं तद्विदामुदाहृतँ शृणुत ९ मण्डलविष्कम्भसमस्त्रिभुजादवल-म्बकश्चतुःस्रक्तिः प्रागायतात्त्रिभागात्कर्णात्स मण्डलं भवति १० पुरुषः पुरुषं कुर्यात्तस्याक्ष्णया द्विपुरुषं भवेच्चतुरस्तस्याप्यक्ष्णया द्वाभ्याँ वा स्याश्चतुःपुरुषम् ११ द्विपुरुषः करणी श्रोणी बाहुस्तु द्विगुणो भवेत्त्रिंकुष्ठवत्त्र्! यवलम्बकस्ततो यश्चतुरस्रे द्वाष्टमाः पुरुषाः १२
विष्कम्भः पञ्चभागश्च विष्कम्भस्त्रिगुणश्च यः
स मण्डलपरिक्षेपो न वालमतिरिच्यते १३
दशधा छिद्य विष्कम्भं त्रिभागानुद्धरेत्ततः
तेन यच्चतुरस्रं स्यान्मण्डले तदपप्रथिः १४
चतुरस्रं नवधा कुर्याद्धनुःकोट्यस्त्रिधात्रिधा
उत्सेधात्पञ्चमँ लुम्पेत्पुरीषेणेह तावत्सस्रम १५
चतुररत्निर्वा नरः सिकताकरणे त्वर्धं भुजः प्रदिश्यते १६ करणानि ततोऽस्याः कारयेत्त्रिचतुःपञ्चत्रिरभिपर्यस्य यच्छुभं चयनेषु विधिः पुरातनैरृषिभिर्योऽभि-हितश्च नित्यशः १७ परिलेखनमानसंचयैर्व्यत्यास्यैः परिमाणसंपदा वेद्यः सर्वाः प्रमाणैरायामेन च विस्तरेण च मिमीयात् १८ चतुरस्रसँ पदाद्वाया-मसमापनाः स्मृता पञ्चाङ्ग्याथ वा पुरातनैर्याः पूर्वैरृषिभिः प्रदर्शिताः १९
यश्चैष विधिर्मर्याकृतस्तत्रैषा मिथुनात्सम
पाङ्गी तावती रज्जुर्यया सर्वं मिमीमहे
ऋते कङ्कालजश्येनाँ स्तेषाँ वक्ष्यामि लक्षणम् २०
इयं मिता या समयार्धलक्षणा ततश्चतुर्थे भवेन्निराञ्छनं ततोऽर्धशिष्टा विस्तार-समा चयस्य । यत्ततश्चतुःकुष्ठमिहानया चरेत् २१ प्राचीमथायामसमां नि-दध्यात्पाशौ निखन्यादथ मध्यमं च २२ उन्मुच्य पश्चादथ मध्यमे तत्प्राग्दक्षि-णायम्य निराञ्छनेन विस्तारतोऽर्धे निखनेत शङ्कुम् । प्रत्यक्तथोत्तरमध्यमे च । स वासुवेदीषु २३ अथ मानमेतच्छ्रोण्यां तु पाशोद्धरणं क्रियेत २४ अँ सश्रोण्योर्लिखेत दिक्षु लेखाः शङ्कू निहन्यात्समरेषु तेषु । तेभ्यः समन्तात्परिलेखयेत २५ यद्यैष्टिका नोभौ लिखेत शिष्टौ २६ पूर्वे त्रिभागे त्वपरे च सिद्धोपस्थितावुत्करदक्षिणाग्नी २७ अथान्यदस्य परिलेखनं तु मध्ये भवेद्दिक्षु नवाङ्गुलेनेति २८ 12.1.२

प्रमाणार्धं तु म्म्ञ्जषनँ विशेष इति संज्ञितम्
विशेषश्च प्रमाणं च प्रमाणस्याज्ञया भवेत् १
प्रमाणार्धमन्यत्स्यात्पाशषष्ठे सचतुर्वि ँ! शे लक्षणं करोति तन्निराञ्छनमक्ष्णया तिर्यङ्मानी शेषः । पाशादर्धशये श्रोणी द्व --- २
--- चाग्नीध्रमिहोपदिश्यते ३
अग्नेर्यदक्ष्णयामानं तस्य चैव तदक्ष्णया
तदाश्वमेधिकँ विद्यादेकविँ शद्विधौऽथवा ४
पुरुषस्तिर्यग्भवेद्यदनुदशधा यो मितः
तस्य कर्णेन यत्क्षेत्रँ विद्यादेकादशं तु तत् ५
उभौ बाहू नशक्ष्णां तु नरस्तिर्यक्तदक्ष्णया
एकोच्चतानैकशताद्बाहुष्ट्यूवृआ! विवर्धयेत्
इति ६ 12.1.३

अवलम्बककुष्ठे तु यो भवेत्षोडशाङ्गुले
सौत्रामण्या भवेदेष प्रक्रमो मानकर्मणि १
प्रक्रमस्य तृतीयेन सौमिकी सार्पराज्ञिकी
संतृतीयैस्त्रिभिश्चान्यैः सिद्धमौत्तरवेदिकम् २
चतुर्दशाङ्गुलो वा स्यात्प्रक्रमस्तेन सौमिकी
शतैर्द्वादशभिर्वापि मिनुयात्पाशुकामिव ३
सचतुर्थे वनँ षड्भिर्नवभिर्वाथ सप्तभिः
नवभिर्वापरं चक्रं करणार्धे न लेखयेत् ४
चतुर्षु निवपेदेषाँ सावित्रादिषु यो विधिः
अरुणे जानुदघ्ने निखन्यादद्भिस्तु पूरयेत् ५
चतुरस्रमथापि मण्डलं द्विविधं गार्हपत्यलक्षणँ व्यायाममितं चतुर्भुजं पुरुषार्धेन तु मण्डलं परिलिखेत् ६ व्यायामतृतीयमायान्तं चतुरस्रँ सप्तमभागविस्तृतं प्रागाचितमुत्तराचितँ व्यत्यासे तदथैकविँ शकम् ७ पुरुषस्य तृतीयमायान्तं चतुरस्रँ षड्भागविस्तृतम् । प्रथिकश्च तदायतो भवेन्मध्ये तेन समायतो भवेन्मध्ये तेन समास्तिके शेषौ कोणौ प्रथिकमितौ समौ तद्विस्तारकृतौ विशाखः ८ षड्भागकृतायामो भवेद्द्व्यर्धे तु त्रिकोणसँ स्थिते ९ चतुरस्रवि-पाणकः प्रथिकोऽर्धं प्रथिकश्च यो मितः १० करणानि भवन्ति मण्डले चत्वारि प्रमितानि भागशः ११ मध्येऽस्य चतस्र इष्टकाः तत्पूर्वापरयोर्द्वयोर्द्वयम् । प्रतिकोऽर्धविषाणिकद्वयं पुनरेव पुनरैति मण्डलमर्धप्रथिकद्वये समँ संपूर्णम् । तदथैकविँ शकम् १२ व्यत्यासमुदङ्मुखेन सह व्यत्यस्येद्वेत्युत्तरोत्तरम् १३ अध्यर्धं पद्यं च पद्यार्धपद्यपादवत्पद्यार्धोत्सेधमित्याहुर्गायत्रे करणानि च १४
चतुर्गुणां द्विपुरुषाँ रज्जुं कृत्वा समाहिताम् ।
संभागज्ञातृतोदान्तां पञ्चाङ्गीं तद्विदो विदुः १५
मध्यमात्पाशयोस्तोदो गायत्रमानमुच्यते ।
सारत्नावर्धपुरुषे । चतुरस्रस्तया मितः ।
पक्षपुच्छान्तयोर्वृद्ध्या गायत्रेणेतरेषुभिः १६
इष्टका शोषपाकाभ्यां त्रिँ शन्मानात्तु हीयते १७
ततः क्षेत्रं त्रिचतुर्भागं निरुह्यादापयेच्छिवम् १८ अँ स उत्तरेऽँ! से च प्राच्योऽध्यर्धास्तु विँ शतिर्दश पुच्छे द्विर्द्वादशकौ पक्षयोरभितः पुच्छे तु पञ्च देयाः पञ्च प्राचीः पञ्चदश दद्याच्छिरसि । चतुरशीती पक्षयोः पञ्चाशतं त्रिँ शतमात्मनि पद्या भवन्ति शतमेकोनं पुच्छेऽँ! सश्रोण्योर्वि ँ! शतिर्वि ँ! शतिः पुच्छे पक्षयो-र्दशदशाहुः १९ अध्यर्धा दश शिरसि प्राच्युदीच्यो भवन्ति २० पूर्वोपहिता प्रथमा पदयुजः सर्वा । द्वितीयावाग्युजोऽश्विनी २१ व्यत्यासं चिनुयादेवं जानुनास्य वर्त्मसु २२ त्रिपदा अल्पक्षेत्रा एकचितिकाश्चतुः करणयुक्ताः धि-ष्ण्या भवन्ति साग्निचित्यमन्त्राः सातिरिक्ताश्च २३ अध्यर्धास्तु चतस्रो द्वे मध्ये नकुलश्चतुर्भागः २४ अश्मा नवमोऽग्नीध्रे २५ होत्रीयमतः सँ वक्ष्यामो । द्ध्यऽँ! सश्रोण्योः पद्याश्रया नकुलका बहिस्तिसृषु दिक्ष्वन्तश्चतुर्दश पदकचतुर्थाः स --यः प्रतिदिशमष्टौ पद्या दिक्षु विदिक्षु २६ ब्राह्मणाच्छँ स्ये दश चैका स्युर्मध्ये द्वौद्वौ चतुर्थ्यौ नकुलकश्च २७ अभितस्तिस्रः पद्या द्वे मध्येऽध्यर्धे शिष्टेष्वष्टौ २८ अध्यर्धाः षण्मार्जालीये । ऽसं मार्जालीयँ स्याद्दक्षिणपार्श्वेन शामित्रं चात्वालस्य च पश्चादवभृथकल्पेऽप्येवं पदमेकतस्त्रिपदस्तिस्रोऽतिरिक्तेष्विति २९ 12.1.४


सप्तत्रिँ शत्सार्धाः पक्षः सव्यश्च शिरसि चत्वारः षड्विँ शकस्तथात्मा श्येने पञ्चदशकं पुच्छम् । सप्तदशकं पुच्छं द्वयँ शिरस्यात्मपक्षयोः कॢप्तमलजस्य । भागसंधान्तयज्ञैः प्रतिमा नरचतुर्थे १ अष्टौ भागाः पुच्छं कङ्कचिते भवन्ति पादयोश्चतुरः शिरसि तु सप्त ज्ञेयाः श्येनवदात्मा च पक्षौ च २ श्येनालजकङ्कानामष्टौ सार्धा विस्तृतं पुच्छं चत्वारोत्मा द्वौ च शिरः सर्वेषां पञ्चकौ पक्षौ ३ श्येनालजकङ्कानां द्वित्रिचतुः कुष्ठमित्युच्यते पुच्छम् । पञ्चाक्ष्णाः पक्षपात्रास्त्वक्ष्णाभिः परिश्रिताः ४ पुच्छे द्वौ भागावानयेत्पुच्छमलजेन त्रिकुष्ठवत्त्रीन्श्येनपुच्छाच्छिरसि कङ्के पादौ तु हरेत् ५ प्राचीर्द्वादश सार्धा विँ शतिरुदीचीर्भवेन्मिता भागा दश पञ्च कङ्कचितावलज उदीचीस्त्रयोदश सार्धाश्च ६

त्रिचतुर्भागमानी स्याद्र ज्जुरर्धत्रयोदशी
मध्ये च लक्षणं तस्याश्चतुर्भागैर्निराञ्छनम् ७
भागिकाश्चत्वारस्तोदा अर्धषष्ठेऽपरः स्मृतः
अर्धाश्च मेऽष्टमे चैव नवमे दशमेऽपरः
अर्धद्वादशो वान्यः ८
ततः प्राचीः प्रसार्य तु तस्या निखानयेच्छङ्कुम् ।
पाशयोर्मध्यमेऽष्टमे । चतुर्थे वाहत्य पाशम् ।
आसज्य मध्यमे निराञ्छनम् ९
निरायम्य विनुद्योन्मुच्य मध्यमात् ।
अभितो दशम आयम्य भागा द्विकचतुष्काः ।
अर्धषष्ठेऽपि चाहत्य पूर्वादेवँ समाचरेत् ।
तुल्यं शङ्कुं तुर्ये १०
ततः प्राचीः प्रसार्य तु अर्धषष्ठकयोः पाशौ ।
शङ्कू अर्धाष्टमेऽष्टमे । प्रगृह्य पश्चिमशङ्कू ।
द्विकयोर्वोत्सृजेत्ततः ११
चतुर्थनवमौ शङ्कू प्रवृहेदन्तिमावुभौ १२
अष्टमे पाशमासृज्य अष्टमेनैव निग्रहः ।
भागेभागे ततः शङ्कू तयोः १३
अष्टमे पाशमासृज्य आदिशङ्कौ निगृह्य च
दशमे शङ्कुमाहन्यात्पुच्छार्धे अलजस्य तु १४
स्यार्धाष्टमे शङ्कुः कङ्कस्य दर्शने स्मृतः १५
त्रिके पाशँ समासृज्य दशकेन निगृह्य च
एताभ्यामेव तोदाभ्याँ शङ्कू देयौ तथोत्तरौ १६
अर्धद्वादशमे पाशस्त्रिको निग्रहणो भवेत्
आदिपाशे द्विके चैव शङ्कू देयौ तथोत्तरौ १७
उत्तरे द्विकमासज्य दक्षिणँ समयोर्हरेत् १८
चतुर्थे शङ्कुमाहन्याद्विपरीतँ समाचरेत्
चतुर्थे तु तदर्थेन निगृह्य च --- १९
इति श्येनस्य रज्जुर्द्वादशलक्षणा २०
चत्वारि करणान्येषां त्रिचतुर्थेन कारयेत्
नवभागा अक्ष्णार्धाक्ष्णाः पञ्चकोणाः च भागशः २१
प्राचीने पञ्चकोणे द्वे अथार्धाक्ष्णाद्वयं न्यसेत्
अँ साग्रयोरथैकैका एवं पक्षविपक्षयोः २२
नवभागैश्चितं मध्यमक्ष्णाभिः परिषिञ्चते
पक्षाग्रे पञ्च पत्राण्येवं चाक्ष्णा विधीयते २३
व्यत्यासाक्ष्णाद्वयं तुन्दे पञ्चकोणे प्रत्यक्स्थिते
अर्धाक्ष्णे कण्ठसंध्योश्च पूरयेदमितँ शिरः २४
द्वे पक्षसंध्योरर्धाक्ष्णे पुच्छसंध्योस्तथापरे
दश पञ्च च पुच्छाग्रे पक्षाग्र एकविँ शतिम् २५
औपमाने चयने चैषाँ व्यत्यासे करणेषु च
रज्ज्वाश्चावपनँ ह्रासो श्येनसिद्धिरिति स्थितिः २६
अवक्रपक्षमलजं च पूर्वपक्षे तथायुतम्
मध्यात्प्रसिद्धं पुच्छँ श्येने दाम्ना प्रसिध्यत इति २७
नवमात्प्राग्भागे शङ्कू तुरीयस्य करणम्
अलजे पक्षार्धमवक्रताद्ध्येवं भवेत् २८ 12.1.५

पुरुषस्य तृतीयपञ्चमौ भागौ तत्करणं पुनश्चितेः
तस्यार्धमथापरं भवेत्त्रिचितिकमग्निचितिश्चेत् १
अष्टावष्टौ संमिता चितिरष्टैकादशिका च मध्यमा
व्यत्यासवतीरुपन्य सेदष्टौ द्वादश चोत्तमा चितिः २
पञ्चदशनरं क्षेत्रं प्रउगचित्ततस्त्वर्धम्
मध्याद्दशके त्रिकुष्ठमेतत्तथा करणम् ३
बाह्वोरेकविंश उभकरणे तथार्धोऽन्यश्च
अंसश्रोण्योश्छेदस्तस्योभयतो भवेत्प्रउगः ४
चात्वालेभ्यश्चतुर्भ्यस्तु समूह्योऽग्निरनिष्टकः
दिग्भ्यः पुरीषैः समूह्यो भागशो युक्तितो विधिः ५
मण्डलचतुरस्रोऽद्य परिवार्यः श्मशानचित्
द्रो णचित्त्सरुमानेषां दशभागो भवेत्त्सरुः ६
मण्डले चतुरस्रं तु कुर्याद्गार्हपत्यवत्
बाह्वोर्वि ँ! शतिभागेन वारुणँ सार्धमेव तु ७
प्रसिद्धं दशधा कुर्याद्बहिरन्तश्च युक्तितः
त्रिकुष्ठश्च विषाणः स्यात्संधौ व्यत्यास एव सः ८
चतुरस्रस्य करणं बाह्वोर्द्वात्रिँ शद्भागिकम्
चतुरस्रमथाध्यर्धं ताभ्यां गायत्रवद्विधिः ९
साहस्रस्य करणं बाह्वोः पञ्चदशभागं चतुरस्रम्
अध्यर्धास्तु ततः स्युर्द्विशताश्चितयः स्मृताः १०
पञ्च पञ्चाशतमध्यर्धास्तिस्रः पञ्चाशतं चतुरस्राः
सहस्राच्छतं पक्षाः स्युरुषा सहस्रतमी ११
बाह्वोरेकत्रिँ शो भागः करणं चितिस्तथोत्तरयोः
चतुरस्रानाँ साहस्रँ सवनिके व्यवास्यन्ति १२
अर्धैकादशपुरुषं धनं भवेद्भवेन्मण्डलँ रथचक्रम् । नाभिररा विवरधा नेमिररेभ्यो यद्यतिरिक्तम् १३ तदर्धाः पुरुषायामाः पुरुषाष्टभागविस्तृताः चतु-
र्वि ँ! शतिस्त्रिनरनायाः १४ विवरकरणमतः संप्रवक्ष्यामि । द्विसप्तमेन नेम्य-स्रकरणं भवेदरस्याष्टभागेन वैकृतश्चतुर्विँ शतिभागेन नाभ्यामन्तरमन्तरो-ऽष्टमभागेन प्रउगवद्भवेत् १५
द्वीष्टकाँ चिनुयान्नाभिं चतुर्भिश्चिनुयादरान्
त्रिभिर्नेमिँ यथाभागँ । व्यत्यासः कूपवत्स्मृतः १६
विष्कम्भस्य चतुर्थेन नाभ्यास्तु विवरँ लिखेत्
त्रिचत्वारिँ शाङ्गुलां नेमिँ सार्धचतुरङ्गुलाम् १७
सिद्धमन्यद्यथा युक्तिश्चयने याश्च संपदः १८
य इदमपि यथातथँ स्मृतिँ विधिँ यदाधीत्य मिमीते रौरवँ समवति खलु कृत्स्नसंमतो व्रजति च शुल्बकृताँ सलोकताम् १९ 12.1.६

रथचक्रस्य चित्यस्य संक्षेपोक्तस्य विष्णुना
अथ धातुर्निविष्ठस्य त्रिगुणान्यं बहिर्बहिः
लीयन्ते मण्डले यस्य सप्त सार्धा नरा बुधैः १
मुच्यन्ते विवरेष्वन्ये क्षेत्रादभ्यधिकास्त्रयः २
तस्य चक्रविधानं तु । नेमिररेभ्यो विस्तरः
मण्डलानां च विष्कम्भः त्रिभागः करणानि च ३
नरार्धेनाभिलिखेन्नाभिस्ततः प्रस्तारगोचरा
अरेभ्योऽभ्यधिका नेमिस्त्रिषष्ठेनाक्षरागारम्
त्रिँ शतेन सविँ शेन अधिकैश्चार्धपञ्चमैः
मिमायाङ्गुलैर्वा मध्यं कुर्याद्विँ शेन परिलेखनम् ४
प्रथमे प्रस्तरे रथचक्रस्य शृणुतेष्टकाः
चतुर्भिरधिकँ वेत्थ चत्वारिँ शच्छतत्रयम् ५
द्वितीयेऽभ्यधिका यान्तु चतुर्वि ँ! शतिरिष्टकाः
पञ्चकोणास्त्रिकोणाश्च नेम्यरेभ्यः च संधिषु ६
इष्टकानाँ सहस्रेण शतैः सप्तभिरेव च
अष्टषष्ट्या च चक्रस्य चितयः पञ्च पूरिताः ७ 12.1.७
इति वैष्णवँ समाप्तम्
इति शुल्बसूत्रँ समाप्तम् ८ १६