कल्याणमन्दिरस्तोत्रम् (सिद्धसेनदिवाकरप्रणीतम्)

कल्याणमन्दिरस्तोत्रम्
सिद्धसेनदिवाकरः
१९२६


श्रीसिद्धसेनदिवाकरप्रणीतं कल्याणमन्दिरस्तोत्रम्। कल्याणमन्दिरमुदारमवद्यभेदि भीताभयप्रदमनिन्दितमङ्किपद्मम् । संसारसागरनिमज्जदशेषजन्तु- पोतायमानमभिनम्य जिनेश्वरस्य ॥ १॥ यस्य स्वयं सुरगुरुर्गारिमाम्बुराशेः स्तोत्रं सुविस्तृतमतिर्न विभुर्विधातुम् । कल्याणमन्दिरस्तोत्रम् । तीर्थेश्वरस्य कमठस्मयधूमकेतो. स्तस्याहमेष किल संस्तवनं करिष्ये ॥ २ ॥ (युग्मम् ) सामान्यतोऽपि तव वर्णयितुं स्वरूप- मस्मादृशाः कथमधीश भवन्त्यधीशाः । धृष्टोऽपि कौशिकशिशुर्यदि वा दिवान्धो रूपं प्ररूपयति किं किल धर्मरश्मेः ॥ ३ ॥ मोहक्षयादनुभवन्नपि नाथ मर्त्यो नूनं गुणान्गणयितुं न तव क्षमेत । कल्पान्तवान्तपयसः प्रकटोऽपि यस्मा- न्मीयेत केन जलधेर्ननु रत्नराशिः ॥ ४ ॥ अभ्युद्यतोऽस्मि तव नाथ जडाशयोऽपि कर्तुं स्तवं लसदसंख्यगुणाकरस्य । बालोऽपि किं न निजबाहुयुगं वितत्य विस्तीर्णतां कथयति खधियाम्बुराशेः ॥ ५ ॥ ये योगिनामपि न यान्ति गुणास्तवेश वक्तुं कथं भवति तेषु ममावकाशः । जाता तदेवमसमीक्षितकारितेयं जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ।। आस्तामचिन्त्यमहिमा जिन संस्तवते नामापि पाति भवतो भवतो जगन्ति । तीत्रातपोपहतपान्थजनान्निदाधे प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥ ७ ॥ हृद्धर्तिनि त्वयि विभो शिथिलीभवन्ति जन्तोः क्षणेन निबिडा अपि कर्मबन्धाः । को नाम पार्श्वनाथप्रभोस्तपोविनकती कश्चन दैत्य आसीत्, पार्श्वनाथस्यानु- भूतः कमठ इत्यपि केचिद्वदन्ति. 'शठकमठकृतोपद्वाबाधितस्य' इति पार्श्व- नाथस्तवेऽपि पार्श्वनाथविशेषणम्. 22 काव्यमाला। सद्यो भुजंगममया इव मध्यभाग- मभ्यागते वनशिखण्डिनि चन्दनस्य ।। ८॥ मुच्यन्त एव मनुजाः सहसा जिनेन्द्र रौद्वैरुपद्रवशतैस्त्वयि वीक्षितेऽपि । गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे चौरैरिवाशु पशवः प्रपलायमानैः ॥९॥ त्वं तारको जिन कथं भविनां त एव त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः । यद्वा दृतिस्तरति यज्जलमेष नून- मन्तर्गतस्य मरुतः स किलानुभावः ॥ १० ॥ यस्मिन्हरप्रभृतयोऽपि हतप्रभावाः सोऽपि त्वया रतिपतिः क्षपितः क्षणेन । विध्यापिता हुतभुजः पयसाथ येन पीतं न किं तदपि दुर्धरवाडवेन ॥ ११ ॥ स्वामिन्ननल्पगरिमाणमपि प्रपन्ना- स्त्वां जन्तवः कथमयो हृदये दधानाः । जन्मोदधिं लघु तरन्त्यतिलाघवेन चिन्त्यो न हन्त महतां यदि वा प्रभावः ॥ १२ ॥ क्रोधस्त्वया यदि विभो प्रथमं निरस्तो ध्वस्तस्तदा वद कथं किल कर्मचौराः । प्लोषत्यमुत्र यदि वा शिशिरापि लोके नीलद्रुमाणि विपिनानि न किं हिमानी ॥ १३ ॥ त्वां योगिनो जिन सदा परमात्मरूप- मन्वेषयन्ति हृदयाम्बुजकोषदेशे। १. सूर्ये. २, चर्मभस्त्रा. ३. निर्वाणं नीताः. कल्याणमन्दिरस्तोत्रम् । पूतस्य निर्मलरुचेर्यदि वा किमन्य- दक्षस्य संभवपदं ननु कर्णिकायाः ॥ १४ ॥ ध्यानाज्जिनेश भवतो भविनः क्षणेन देहं विहाय परमात्मदशां ब्रजन्ति । तीव्रानलादुपलभावमपास्य लोके चामीकरत्वमचिरादिव धातुभेदाः ॥ १५॥ अन्तः सदैव जिन यस्य विभाव्यसे त्वं भव्यैः कथं तदपि नाशयसे शरीरम् । एतत्स्वरूपमथ मध्यविवर्तिनो हि यद्विग्रहं प्रशमयन्ति महानुभावाः ॥ १६ ॥ आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या ध्यातो जिनेन्द्र भवतीह भवत्प्रभावः । पानीयमप्यमृतमित्यनुचिन्त्यमानं किं नाम नो विषविकारमपाकरोति ॥ १७ ॥ त्वामेव वीततमसं परवादिनोऽपि नूनं विभो हरिहरादिधिया प्रपन्नाः । किं काचकामलिभिरीश सितोऽपि शङ्खो नो गृह्यते विविधवर्णविपर्ययेण ॥ १८ ॥ धर्मोपदेशसमये सविधानुभावा- दास्तां जनो भवति ते तरुरप्यशोकः । अभ्युद्गते दिनपतौ समहीरहोऽपि किं वा विबोधमुपयाति न जीवलोकः ।। १९ ॥ चित्रं विभो कथमवाङ्मुखवृन्तमेव विष्वक्पतत्यविरला सुरपुष्पवृष्टिः । १. अक्षस्य पद्मबीजस्य. २. 'संभविपदं' इति पाठः, ३. काचकामलादयो नेत्ररोगास्तद्युक्तैः. ४. श्रीपार्श्वनाथोऽशोकक्षतले स्थितवान्, 'उचैरशोकतरवैश्रितं' इति भक्तामरस्तवेऽपि. २ का०स० गु० काव्यमाला। त्वद्गोचरे सुमनसां यदि वा मुनीश गच्छन्ति नूनमध एव हि बन्धनानि ॥२०॥ स्थाने गभीरहृदयोदधिसंभवायाः पीयूषतां तव गिरः समुदीरयन्ति । पीत्वा यतः परमसंमदसङ्गभाजो भव्या ब्रजन्ति तरसायजरामरत्वम् ।। २१ ।। स्वामिन्सुदूरमवनन्य समुत्पतन्तो मन्ये वदन्ति शुचयः सुरचामरौघाः । येऽस्मै नतिं विदधते मुनिपुङ्गवाय ते नूनमूर्ध्वगतयः खलु शुद्धभावाः ॥ २२ ॥ श्यामं गभीरगिरमुज्वलहेमरत्न- सिंहासनस्थमिह भव्यशिखण्डिनस्त्वाम् । आलोकयन्ति रभसेन नदन्तमुच्चै- श्वामीकरादिशिरसीव नवाम्बुबाहम् ॥ २३ ॥ उद्गच्छता तव शितिद्युतिमण्डलेन लुप्तच्छदच्छविरशोकतरुर्बभूव । सांनिध्यतोऽपि यदि वा तव वीतराग नीरागतां व्रजति को न सचेतनोऽपि ॥ २४ ॥ भो भोः प्रमादमवधूय भजध्वमेन- मागत्य निर्वृतिपुरी प्रति सार्थवाहम् । एतन्निवेदयति देव जगत्रयाय मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते ॥ २५ ॥ उद्दयोतितेषु भवता भुवनेषु नाथ तारान्वितो विधुरयं विहताधिकारः। मुक्ताकलापकलितोरुसितातपत्र- व्याजात्रिधा धृततनुर्ध्रुवमभ्युपेतः ॥ २६ ॥ कल्याणमन्दिरस्तोत्रम् । १५ स्वेन प्रपूरितजगत्रयपिण्डितेन कान्तिप्रतापयशसामिव संचयेन । माणिक्यहेमरजतप्रविनिर्मितेन सालनयेण भगवन्नभितो विभासि ॥ २७ ॥ दिव्यस्रजो जिन नमत्रिदशाधिपाना- मुत्सृज्य रत्नरचितानपि मौलिबन्धान् । पादौ श्रयन्ति भवतो यदि वापरत्र त्वत्संगमे सुमनसो न रमन्त एव ॥ २८ ॥ त्वं नाथ जन्मजलधेर्विपराङ्मुखोऽपि यत्तारयस्यसुमतो निजपृष्ठलमान् । युक्तं हि पार्थिवनिपस्य सतस्तवैव चित्रं विभो यदसि कर्मविपाकशून्यः ॥ २९ ॥ विश्वेश्वरोऽपि जनपालक दुर्गतस्त्वं किं वाक्षरप्रकृतिरप्यलिपिस्त्वमीश । अज्ञानवत्यपि सदैव कथंचिदेव ज्ञानं त्वयि स्फुरति विश्वविकासहेतुः ॥ ३० ॥ प्राग्भारसंभृतनभांसि रजांसि रोषा- दुत्थापितानि कमठेन शठेन यानि । छायापि तैस्तव न नाथ हता हताशो ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ ३१ ॥ यद्गर्जदूर्जितघनौषमदभ्रभीम- भ्रश्यचडिन्मुसलमांसलघोरधारम् । दैत्येन मुक्तमथ दुस्तरवारि दध्रे तेनैव तस्य जिन दुस्तरवारि कृत्यम् ॥ ३२ ॥ १. प्राकारत्रयेण, २. पार्थिवश्चासौ निपो घटः, 'पार्थिवनिभस्य', 'पार्थिवभवस्य' इति च पाठः ३. घटस्तु वह्निकृतपाकेन शून्यस्तारयितुमसमर्थो भवति. ४. तरवारि खङ्गः, "विमलतरवारिधारावासितराजहंसमण्डलः' इति वासवदत्ताश्लेषः, काव्यमाला। ध्वस्तोर्ध्वकेशविकृताकृति मर्त्यमुण्ड- मालम्बभृद्भयदवक्रविनियंदग्निः । प्रेतब्रजः प्रति भवन्तमपीरितो यः सोऽस्याभवत्प्रतिभवं भवदुःखहेतुः ॥ ३३ ॥ धन्यास्त एव भुवनाधिप ये त्रिसंध्य- माराधयन्ति विधिवद्विधुतान्यकृत्याः । भक्त्योल्लसत्पुलकपक्ष्मलदेहदेशाः पादद्वयं तव विमो भुवि जन्मभाजः ॥ ३४ ॥ अस्मिन्नपारभववारिनिधौ मुनीश मन्ये न मे श्रवणगोचरतां गतोऽसि । आकर्णिते तु तव गोपवित्रमन्त्रे किं वा विपद्विषधरी सविधं समेति ॥ ३५ ॥ जन्मान्तरेऽपि तव पादयुगं न देव मन्ये भया महितमीहितदानदक्षम् । तेनेह जन्मनि मुनीश पराभवानां जातो निकेतनमहं मथिताशयानाम् ॥ ३६ ॥ नूनं न मोहतिमिरावृतलोचनेन पूर्वं विभो सकृदपि प्रविलोकितोऽसि । मर्माविधो विधुरयन्ति हि मामनर्थाः प्रोद्यत्प्रबन्धगतयः कथमन्यथैते ॥ ३७॥ आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि नूनं न चेतसि मया विधृतोऽसि भक्त्या । जातोऽस्मि तेन जनबान्धव दुःखपात्रं यस्मात्क्रियाः प्रतिफलन्ति न भावशून्याः ॥ ३८ ॥ त्वं नाथ दुःखिजनवत्सल हे शरण्य कारुण्यपुण्यवसते वशिनां वरेण्य । १. गोत्रं नाम. २. मर्मभेदकाः एकीभावस्तोत्रम् । भक्त्या नते मयि महेश दयां विधाय दुःखाङ्कुरोद्दलनतत्परतां विधेहि ॥ ३९ ॥ निःसंख्यसारशरणं शरणं शरण्य- मासाद्य सादितरिपुप्रथितावदानम् । त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो वन्ध्योऽस्मि चेद्भुवनपावन हा हतोऽस्मि ॥ ४०॥ देवेन्द्रवन्द्य विदिताखिलवस्तुसार संसारतारक विभो भुवनाधिनाथ । त्रायस्व देव करुणाह्रद मां पुनीहि सीदन्तमद्य भयदव्यसनाम्बुराशेः ॥ ४१ ।। यद्यस्ति नाथ भवदङ्घ्रिसरोरुहाणां भक्तेः फलं किमपि संततसंचितायाः । तन्मे त्वदेकशरणस्य शरण्य भूयाः खामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ ४२ ॥ इत्थं समाहितधियो विधिवज्जिनेन्द्र सान्द्रोल्लसत्पुलककञ्चकिताङ्गभागाः । त्वद्विम्बनिर्मलमुखाम्बुजबद्धलक्ष्या ये संस्तवं तव विभो रचयन्ति भव्याः ॥ ४३ ।। जननयनकुमुदचन्द्र प्रभास्वराः खर्गसंपदो भुक्त्वा । ते विगलितमलनिचया अचिरान्मोक्षं प्रपद्यन्ते ॥ ४४ ॥ (युग्मम् ) इति श्रीसिद्धसेनदिवाकरविरचितं पार्श्वनाथस्य कल्याणमन्दिरस्तोत्रम् ॥