कविकण्ठाभरणम्
क्षेमेन्द्रः
१९३७

महाकविश्रीक्षेमेन्द्रविरचितं कविकण्ठाभरणम् । प्रथमः संधिः। जयति जितसुधाम्भःसंभवद्वाग्भवश्री- रथ सरससमुद्यत्कामतत्वानुभावा । तदनुपरमधामध्यानसंलब्धमोक्षा रविशशिशिखिरूपा त्रैपुरी मन्त्रशक्तिः ॥ १ ॥ शिष्याणामुपदेशाय विशेषाय विपश्चिताम् । अयं सरस्वतीसार क्षेमेन्द्रेण प्रदर्श्यते ॥२॥ तत्राकवेः कवित्वाप्तिः शिक्षा प्राप्तगिर कवेः। चमत्कृतिश्च शिक्षाप्तौ गुणदोषोद्गतिस्ततः ॥३॥ पश्चात्परिचयप्राप्तिरित्येते पञ्च संघयः। समुद्दिष्टाः क्रमेणैषां लक्ष्यलक्षणमुच्यते ॥ ४ ॥ सुविभक्ति समन्वितं बुधैर्गुणसंयुक्तममुक्तसौष्ठवैः । रचितं पदकैः सुवर्णवत्कविकण्ठाभरणं विचार्यताम् ॥५॥ अथेदानीमकवेः कवित्वशक्तिरुपदिश्यते-- प्रथमं तावदिव्यः प्रयत्नः, ततः पौरुषः- ॐ स्वस्त्यङ्कं स्तुमः सिद्धमन्तराद्यमितीप्सितम् । उद्यदूर्जप्रदं देव्या ऋऋलृलृनिगूहनम् ॥ ६॥ --- काव्यमाला। १५० एकमैश्वर्यसंयुक्तमोजोवर्धनमौषधम् । अन्तरान्तः कलाखण्डगलद्धनसुधाङ्कितम् ॥ ७॥ चन्द्रोच्छलजलं प्रोज्झदज्ञानं टठसंयुतम् । डम्बरप्रौढकिरणं तथतां दधदुन्नतम् ॥ ८॥ परं फलप्रदं बद्धमूलोद्भवमयं वपुः। स्म्यं लघुवरं शर्म वर्षत्सर्वसहाक्षरम् ॥ ९॥ एतां नमः सरस्वत्यै यः क्रियामातकां जपेत् । क्षेममैन्द्रं स लभते भव्योऽभिनववाग्भवम् ॥ १० ॥ श्वेतां सरस्वती मूर्ध्नि चन्द्रमण्डलमध्यगाम् । अक्षराभरणां ध्यायेद्वामयामृतवर्षिणीम् ॥११॥ त्रिकोणयुगमध्ये तु तडित्तुल्यां प्रमोदिनीम् । स्वर्गमार्गोद्गतां ध्यायेत्पराममृतवाहिनीम् ॥१२॥ निर्विकारां निराकारां शक्तिं ध्यायेत्परात्पराम् । एषा बीजत्रयी वाच्या त्रयी वाक्काममुक्तिसूः ॥ १३ ॥ काव्यक्रियेच्छाङ्कुरमूलभूमिमन्विष्य विश्रान्तिलवेन मोक्षः । अन्यावधाने मदनस्य मोक्षस्तृतीयबीजे सकलेऽस्ति मोक्षः॥१४॥ अथ पौरुषः। तत्र त्रयः शिष्याः काव्यक्रियायामुपदेश्याः । अल्पप्रयत्नसाध्यः, कृच्छ्रसाध्यः, असाध्यश्चेति । तत्र प्रथम:- कुर्वीत साहित्यविदः सकाशे श्रुतार्जनं काव्यसमुद्भवाय ।

न तार्किकं केवलशाब्दिकं वा कुर्याद्गुरुं सूक्तिविकासविघ्नम् १५

विज्ञातशब्दागमनामधातुश्छन्दोविधाने विहितश्रमश्च ।
काव्येषु माधुर्यमनोरमेषु कुर्यादखिन्नः श्रवणाभियोगम् ॥१६॥
गीतेषु गाथास्वथ देशभाषाकाव्येषु दद्यात्सरसेषु कर्णम् ।
वाचां चमत्कारविधायिनीनां नवार्थचर्चासु रुचिं विदध्यात् १७
रसे रसे तन्मयतां गतस्य गुणे गुणे हर्षवशीकृतस्य ।
विवेकसेकखकपाकभिन्नं मनः प्रसूतेऽङ्कुरवत्कवित्वम् ॥ १८ ॥

 अथ द्वितीयः--

पठेत्समस्तान्किल कालिदासकृतप्रबन्धानितिहासदर्शी ।
काव्याधिवासप्रथमोद्गमस्य रक्षेत्पुरस्तार्तिकगन्धमुग्रम् ॥ १९ ॥
महाकवेः काव्यनवक्रियायै तदेकचित्तः परिचारकः स्यात् ।
पदे च पादे च पदावशेषसंपूरणेच्छां मुहुराददीत ॥ २० ॥
अभ्यासहेतोः पदसंनिवेशैर्वाक्यार्थशून्यैर्विदधीत वृत्तम् ।
श्लोकं परावृत्तिपदैः पुराणं यथास्थितार्थं परिपूरयेच्च ॥ २१ ॥

 तत्र वाक्यार्थशून्यं यथा-
 'आनन्दसंदोहपदारविन्दकुन्देन्दुकन्दोदितबिन्दुवृन्दम् ।
 इन्दिन्दिरान्दोलितमन्दमन्दनिष्यन्दनन्दन्मकरन्दवन्द्यम् ॥'
 परावृत्तिपदैर्यथा-~

'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥'
'वाण्यर्थाविव संयुक्तौ वाण्यर्थप्रतिपत्तये ।
जगतो जनकौ वन्दे शर्वाणीशशिशेखरौ ॥'

 अथ तृतीयः--

यस्तु प्रकृत्याश्मसमान एव कष्टेन वा व्याकरणेन नष्टः ।
तर्केण दग्धोऽनलधूमिना वाप्यविद्धकर्णः सुकविप्रबन्धैः ॥२२॥

१५२

काव्यमाला । न तस्य वक्तृत्वसमुद्भवः स्याच्छिक्षाविशेषैरपि सुप्रयुक्तैः । न गर्दभो गायति शिक्षितोऽपि संदर्शितं पश्यति नार्कमन्धः २३ इति ततसुकृतानां प्राक्तनानां विपाके भवति शुभमतीनां मन्त्रसिद्धं कवित्वम् । तदनु पुरुषयत्नैर्धीमतामभ्युदेति स्फुरति जडधियां श्रीशारदा साधनेन ॥२४॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रकृते कविकण्ठाभरणे कवित्वप्राप्तिः प्रथमः संधिः।


द्वितीयः संधिः। छायोपजीवी पदकोपजीवी पादोपजीवी सकलोपजीवी । भवेदथ प्राप्तकवित्वजीवी खोन्मेषतो वा भुवनोपजीव्यः ॥१॥ छायोपजीवी यथा भट्टभल्लटस्य- 'नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥' यथा च श्रीमदुत्पलराजदेवस्य- मात्सर्यतीव्रतिमिरावृतदृष्टयो ये ते कस्य नाम न खला व्यथयन्ति चेतः । मन्ये विमुच्य गलकन्दलमिन्दुमौले- येषां सदा वचसि बल्गति कालकूटः ॥' २ संधिः] कविकण्ठाभरणम् । १५३ पदकोपजीवी यथा भुक्ताकणस्य- 'यथा रन्ध्रं व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विधुज्वालोल्लसनपरिपिङ्गाश्च ककुभ- स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥' यथा चैतभ्द्रातुश्चक्रपालस्य-~- 'सरस्यामेतस्यामुदरबलिवीचीविलुलितं यथा लावण्याम्भो जघनपुलिनोल्लङ्घनकरम् । यथा लक्ष्यश्चायं चलनयनमीनव्यतिकर- स्तथा मन्ये मग्नः प्रकटकुचकुम्भः स्मरगजः ॥' पादोपजीवी यथामरकस्य- 'गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त्वरा द्वित्राण्येव दिनानि तिष्ठतु भवान्पश्यामि यावन्मुखम् । संसारे घटिकाप्रणालविगलद्वारा समे जीविते को जानाति पुनस्त्वया सह मम स्वाद्वा न वा संगमः ॥" यथा मम- 'हंहो स्त्रिग्धसखे विवेक बहुभिः प्राप्तोऽसि पुण्यैर्मया गन्तव्यं कतिचिद्दिनानि भवता नास्मत्सकाशात्क्वचित् । त्वत्सङ्गेन करोमि जन्ममरणोच्छेदं गृहीतत्वरः को जानाति पुनस्त्वया सह मम स्याद्वा न वा संगमः ॥" सकलोपजीवी यथार्यभट्टस्य- 'शब्दैर्निसर्गकटुभिर्मलिनखभावाः श्रोत्रं खला निगडवत्परितस्तुदन्ति । १५४ काव्यमाला । श्रव्यैरलुप्तपदबन्धतयातिमञ्जु- मञ्जीरवत्तु सुजना जनयन्ति मोदम् ॥' यथा च भट्टबाणस्य- 'कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव । मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥' भुवनोपजीव्यो यथा भगवान्व्यासः-- तथा चोक्तम्--- 'इदं कविवरैः सर्वैराख्यानमुपजीव्यते । उदयं प्रेप्सुभिर्भूत्यैरभिजात इवेश्वरः ॥" प्राप्तगिरः कवेः शिक्षास्तावदाह- व्रतं सारस्वतो यागः पूर्वं विघ्नेशपूजनम् । विवेकशक्तिरभ्यासः संधानं प्रौढिरश्रमः ॥२॥ वृत्तपूरणमुद्योगः पाठः परकृतस्य च । काव्याङ्गविद्याधिगमः समस्यापरिपूरणम् ॥३॥ सहवासः कविवरैर्महाकाव्यार्थचर्वणम् । आर्यत्वं सुजनैमैत्री सौमनस्यं सुवेषता ॥४॥ नाटकाभिनयप्रेक्षा शृङ्गारालिङ्गिता मतिः । कवीनां संभवे दानं गीतेनात्माधिवासनम् ॥५॥ लोकाचारपरिज्ञानं विविक्ताख्यायिकारसः । इतिहासानुसरणं चारुचित्रनिरीक्षणम् ॥६॥ शिल्पिना कौशलप्रेक्षा वीरयुद्धावलोकनम् । शोकप्रलापश्रवणं श्मशानारण्यदर्शनम् ॥७॥ व्रतिनां पर्युपासा च नीडायतनसेवनम् । मधुरस्निग्धमशनं धातुसाम्यमशोकता ॥८॥ २ संधिः] कविकण्ठाभरणम् । १५५ निशाशेषे प्रबोधश्च प्रतिभा स्मृतिरादरः । सुखासनं दिवा शय्या शिशिरोष्णप्रतिक्रिया ॥ ९ ॥ आलोकः पत्रलेख्यादौ गोष्ठीप्रहसनज्ञता । प्रेक्षा प्राणिस्वभावानां समुद्राद्रिस्थितीक्षणम् ॥ १० ॥ रवीन्दुताराकलनं सर्वर्तुपरिभावनम् । जनसंघाभिगमनं देशभाषोपजीवनम् ॥ ११ ॥ आधानोद्धरणप्रज्ञा कृतसंशोधनं मुहुः । अपराधीनता यज्ञसभाविद्यागृहस्थितिः ॥ १२ ॥ अतृष्णता निजोत्कर्षे परोत्कर्षविमर्शनम् । आत्मश्लाघाश्रुतौ लज्जा परश्लाघानुभाषणम् ॥ १३ ॥ सदा स्वकाव्यव्याख्यानं वैरमत्सरवर्जनम् । परोन्मेपजिगीषा च व्युत्पत्त्यै सर्वशिष्यता ॥ १४ ॥ पाठस्यावसरज्ञत्वं श्रोतृचित्तानुवर्तनम् । इङ्गिताकारवेदित्वमुपादेयनिबन्धनम् ॥ १५ ॥ उपदेशविशेषोक्तिरदीर्घरससंगतिः। स्वसूक्तप्रेपणं दिक्षु परसूक्तपरिग्रहः ॥ १६ ॥ वैदग्ध्यं पटुताभगिर्निःसङ्गैकान्तनिर्वृतिः । आशापाशपरित्यागः संतोषः सत्वशीलता ॥ १७ ॥ अयाचकत्वमग्राम्यपदालापः कथास्वपि । काव्यक्रियासु निर्बन्धो विश्रान्तिश्चान्तरान्तरा ॥ १८ ॥ नूतनोत्पादने यत्नः साम्यं सर्वसुरस्तुतौ । पराक्षेपसहिष्णुत्वं गाम्भीर्यं निर्विकारता ॥ १९ ॥ अविकत्थनतादैन्यं परेषां नष्टयोजनम् । पराभिप्रायकथनं परसादृश्यभाषणम् ॥ २० ॥ १५६ काव्यमाला। सप्रसादपदन्यासः ससंवादार्थसंगतिः। निर्विरोधरसव्यक्तिर्युक्तिर्व्याससमासयोः ॥ २१ ॥ प्रारब्धकाव्यनिर्वाहः प्रवाहश्चतुरो गिराम् । शिक्षाणां शतमित्युक्तं युक्तं प्राप्तगिरः कवेः ॥ २२ ॥

इति बहुतरशिक्षालक्षणक्षीणदोषे प्रभवति गतनिद्रे प्रातिभे सुप्रभाते । कविरविरविलुप्तव्याप्तिभिः सूक्तपादै- र्नयति नवनवत्वं भावभावखभावम् ॥ २३ ॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रकृते कविकण्ठाभरणे [प्राप्तगिरः कवेः शिक्षाकथनं] द्वितीयः संधिः ।

तृतीयः संधिः । अथ शिक्षितस्य कवेः सूक्तिचमत्कारमाह- सुकविरतिशयार्थी वाक्चमत्कारलोभा- दभिसरति मनोज्ञे वस्तुशब्दार्थसार्थे । भ्रमर इव वसन्ते पुष्पकान्ते वनान्ते नवकुसुमविशेषामोदमाखादलोलः ॥ १ ॥ नहि चमत्कारविरहितस्य कवेः कवित्वं काव्यस्य वा काव्यत्वम् । एकेन केनचिदनमणिप्रभेण काव्यं चमत्कृतिपदेन विना सुवर्णम् । निर्दोषलेशमपि रोहति कस्य चित्ते लावण्यहीनमिव यौवनमङ्गनानाम् ॥ २ ॥ ३ संधिः कविकण्ठाभरणम् । चमत्कारविरहो यथा मालवरुद्रस्य- 'वेल्लत्पल्लव संमिलल्लत लसत्पुष्प स्फुटत्कुण्ल स्फूर्जद्गुच्छभर क्वणन्मधुकरक्रीडाविनोदाकर । रक्ताशोक सखे दयां कुरु हर प्रारब्धमाडम्बरं प्राणाः कण्ठमुपागताः प्रियतमो दूरे त्वमेवंविधः ॥' चमत्कारो यथा कालिदासस्य---- 'रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणैस्त्यामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥' तत्र दशविधश्चमत्कारः-अविचारितरमणीयः, विचार्यमाणरमणीयः, समस्तसूक्तव्यापी, सूक्तैकदेशदृश्यः, शब्दगतः, अर्थगतः, शब्दार्थगतः, अलंकारगतः, रसगतः, प्रख्यातवृत्तिगतश्च । अविचारितरमणीयो यथा मम शशिवंशे- 'शूराः सन्ति सहस्रशः सुचरितैः पूर्णं जगत्पण्डितैः संख्या नास्ति कलावतां बहुतरैः शान्तैर्वनान्ताः श्रिताः । त्यक्तुं यः किल वित्तमुत्तममतिः शक्नोति जीवाधिकं सोऽस्मिन्भूमिविभूषणं शुभनिधिर्भव्यो भवे दुर्लभः ॥' विचार्यमाणरमणीयो यथा मम पद्यकादम्बर्याम्----- 'अङ्गेऽनङ्गज्वरहुतवहश्चक्षुषि ध्यानमुद्रा कण्ठे जीवः करकिसलये दीर्घशायी कपोलः । अंसे वीणा कुचपरिसरे चन्दनं वाचि मौनं तस्याः सर्वं स्थितमिति न तु त्वां विना क्वापि चेतः ॥' १. अत्र कालिदासस्य नाम प्रमादेन लिखितं भाति, यतः प्रसिद्धोऽयं श्लोको यशोचर्मणः १५८ काव्यमाला। समस्तसूक्तव्यापी यथा मम शशिवंशे- 'माधुर्यानुभवेऽपि ते सुवदने तीक्ष्णाः कटाक्षाः परं पर्यन्तस्थिततारका अपि नृणां रागानुबन्धोधताः। नैवोज्झन्ति विवेकिनश्चपलतामुत्सेकसंवादिनी- माश्चर्यं श्रवणौ स्पृशन्ति च पुनर्मारं च कुर्वन्त्यमी ॥' सूक्तैकदेशद्दश्यो यथा मम पद्यकादम्बर्याम्- 'नित्यार्चा हृदयस्थितस्य भवतः पद्मोत्पलैश्चन्दनै- स्त्वद्भक्तिस्त्वदनुस्मृतिश्च मनसि त्वन्नाममन्त्रे जपः । सर्वत्रैव धनानुबन्धकलना त्वद्भावना सुभ्रुव- स्तस्या जीवविमुक्तिरेव दिवसैर्देव त्वदाराधनात् ॥' शब्दगतो यथा मम चित्रभारतनाटके--- "इतश्चञ्चक्चूतच्युतमधुचया वान्ति चतुराः समीराः संतोषं दिशि दिशि दिशन्तो मधुलिहाम् । निशान्ते कान्तानां स्मरसमरकेलिश्रममुषो विजृम्भन्ते जृम्भाकलितकमलामोदसुहृदः ॥' अर्थगतो यथा मम लावण्यवत्याम्--- 'सदासक्तं शैत्यं विमलजलधारापरिचितं घनोल्लासः क्ष्माभृत्पृथुकटकपाती वहति यः। विधत्ते शौर्यश्रीश्रवणनवनीलोत्पलरुचिः स चित्रं शत्रूणां ज्वलदनलतापं भवदसिः ॥' शब्दार्थगतो यथा मम पद्यकादम्बर्याम्- 'किंचित्कुञ्चितकामकार्मुकलतामैत्री विचित्रा भ्रुवो- नर्मोक्तिः स्मितकान्तिभिः कुसुमिता प्रागल्भ्यगर्भा गिरः । ३ संधिः] कविकण्ठाभरणम् । १५९ रागोत्सङ्गनिषङ्गिभिः सरसतासंवादिभिर्विभ्रमै- रायुष्यं परमं तया रतिपतेः प्राप्तं मृगाक्ष्या वयः ॥' अलंकारगतो यथा मम लावण्यवत्याम्- 'स्तनौ स्तब्धौ तीक्ष्णं नयनयुगलं निम्नमुदरं भ्रुवोर्वका वृत्तिर्विहितमुनिमारोऽधरमणिः । तथासन्ने देवादियति विषमे दुर्जनगणे गुणी मध्ये हारः स्पृशति तव दोलातरलताम् ॥' रसगतो यथा मम कनकजानक्याम्-- 'अत्रार्यः खरदूषणत्रिशिरसां नादानुबन्धोद्यमे रुन्धाने भुवनं त्वया चकितया योद्धा निरुद्धः क्षणम् । सस्नेहाः सरसाः सहासरभसाः सभ्रूभ्रमाः सस्पृहाः सोत्साहास्त्वयि तद्बले च निदधे दोलायमाना दृशः ॥' प्रख्यातवृत्तिगतो यथा मम शशिवंशे-- 'अग्रं गच्छत यच्छत स्वपृतनां व्यूहक्षितिं रक्षत क्षोणी पश्यत नश्यत द्रुततरं मा मा स्थितिं मुञ्चत । यत्नात्तिष्ठत पृष्ठतस्तनुभिदामुग्रा गतिः पत्रिणा- मित्यासीज्जनभञ्जने रथपथे पार्थस्य पृथ्वी श्रुतिः ॥' इत्युक्त एष सविशेषचमत्कृतीनां सारः प्रकारपरभागविभाव्यमानः। कर्पूरवेध इव वाङ्मधुगन्धयुक्ते- श्चैत्रासवस्य सहकाररसाधिवासः ॥३॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रकृते कविकण्ठाभरणे चमत्कारकथनं तृतीयः संधिः। १६० काव्यमाला । चतुर्थः संधिः। अथ गुणदोषविभागः-- काव्यैकपात्रविलसद्गुणदोषदुग्ध- पाथःसमूहपृथगुद्धरणे विदग्धाः । जानन्ति कर्तुमभियुक्ततया विभागं चन्द्रावदातमतयः कविराजहंसाः ॥ १ ॥ तत्र शब्दवैमल्यमर्थवैमल्यं रसवैमल्यमिति त्रयः काव्यगुणाः । शब्दकालुष्यमर्थकालुष्यं रसकालुष्यमिति काव्यदोषाः । सगुणं निर्गुणं सदोषं निर्दोष सगुणदोषं च काव्यम् । शब्दवैमल्यं यथा मम पद्यकादम्बर्याम्-~- 'तत्कालोपनते वयस्यनिधने हा पुण्डरीकेति त- न्मोहव्यञ्जनमश्मभञ्जनमलं जीवस्य संतर्जनम् । कुञ्जव्यापि कपिञ्जलेन करुणं निस्पन्दमाक्रन्दितं येनाद्यापि च तैः स्मृतेन हरिणैः शष्पं परित्यज्यते ॥' अर्थवैमल्यं यथा मम शशिवंशे- 'स्निग्धश्यामलशाद्वले फलतरुच्छायानिपीतातपे चञ्चद्वीचिचयोच्छलत्कलकले निःसङ्गगङ्गातटे । अन्योन्याभिमुखोपविष्टहरिणे खस्थैर्यदि स्थीयते तत्का श्रीः किमकाण्डमङ्गुरसुखैमोहस्य दत्तोऽञ्जलिः ॥' रसवैमल्यं यथा मम पद्यकादम्बर्याम्- 'अथोद्ययौ बालसुहृत्स्मरस्य श्यामाधवः श्यामललक्ष्मभङ्ग्या । तारावधूलोचनचुम्बनेन लीलाविलीनाञ्जनबिन्दुरिन्दुः ॥' ४ संधिः] कविकण्ठाभरणम् । शब्दकालुष्यं यथा भट्टश्रीशिवस्वामिनः- 'उत्खातप्रखरा सुखासुखसखी खङ्गासिता खेलगा वैशृङ्खल्यखलीकृताखिलखला खे(खा)त्खेटकैः ख्यापिता ? खेटादुत्खनितुं निखर्वमनसां मौर्ख्यं मुखात्खक्खटं निःसंख्यान्यनिखर्वसर्वमणिभूराख्यातु संख्यानि वः ॥' अर्थकालुष्यं यथा तस्यैव- "पित्रापि त्रायते या न खलु खलधृताज्ञानमात्रपमात्रा स्योनस्योनस्थितेर्भूरनुनयविरमद्दामपाशाप्यपाशा । वर्षावर्षाम्बुपातात्रुटिततृणवसत्यश्रियातां श्रियातां सौरी सौरीष्टयाग्रे सरदिह जनतां साश्रुवानांश्नुवानाम् ॥' रसकालुण्यं यथा भट्टनारायणस्य वेणीसंहारे-- 'भानुमत्या नकुलप्राणिखमदर्शने पाण्डवनकुलखैरसंगमेर्ष्यासद्भाव- श्चक्रवर्तिमहिष्याः सामान्यनीचवनितावत् ॥' सगुणं यथा कालिदासस्य-- 'श्यामाखङ्गं चक्रितहरिणीप्रेक्षणे दृष्टिपातं गण्डच्छायां शशिनि शिखिनां बर्हमारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासा- न्हन्तैकस्थं क्वचिदपि न ते चण्डि सादृश्यमस्ति ॥' निर्गुणं यथा चन्द्रकस्य- 'स्तनौ सुपीनौ कठिनौ ठिनौ ठिनौ कटिर्विशाला रभसा भसा मसा । मुखं च चन्द्रप्रतिमं तिमं तिमं अहो सुरूपा तरुणी रुणी रुणी ॥' १. रत्नाकरादिकसमकालीनः शिवस्वामिकविः 'वाक्पञ्च(?)द्विपदीशतान्यथ महाकाव्यानि सप्त कमात्र्यक्षप्रत्यहनिर्मितस्तुतिकथालक्षाणि चैकादश। कृत्दा नाट- कनाटिकाप्रकरणप्रायान्प्रबन्धान्बहून्धिश्राम्यत्यधुनापि नातिशयिता वाणी शिव- खामिनः ॥' इति सूक्तिमुक्तावलौ कस्यचिच्छ्लोकः. ११ चतु० १६२ काव्यमाला। सदोषं यथा भट्टश्रीशिवस्वामिनः-- 'आद्यत्वावधि शिण्ढि शिण्ढि दृढतागूढानि गूढेतरां प्रौढिं ढौकय पिण्ढि पिण्ढि च रुजं रूढापरूढां तया । मूढं मूढममूढयख हृदयं लीद्वाथ मुढ्वा तमः सोऽव्यूढामिति च प्रभापरिवृढाव्यूढा द्रढिम्नेऽस्तु ॥' निर्दोषं यथा श्रीभीमसाहेः सांधिविग्रहिकस्येन्द्रभानो:- 'स्नातुं वाञ्छसि किं मुधैव धवलक्षीरोदफेनच्छटा- छायाहारिणि वारिणि द्युसरितो दिक्पूरविस्तारिणि । आस्ते ते कलिकालकल्मषमषीप्रक्षालनैकक्षमा कीर्तिः संनिहितैव सप्तभुवनखच्छन्दमन्दाकिनी ॥' सगुणदोषं यथा भट्टमयूरस्य- 'अस्तव्यस्तत्वशून्यो निजरुचिरनिशानश्वरं(रः) कर्तुमीशो विश्वं वेश्मेव दीपः प्रतिहततिमिरं यः प्रदेशस्थितोऽपि । दिक्कालापेक्षयासौ त्रिभुवनमटतस्तिग्मभानोर्नवाख्यां यातः शातक्रतव्यां दिशि दिशतु शिवं शोचिषामुद्गमो वः ॥ इति गदितगुणार्थी त्यक्तनिर्दिष्टदोषः कविरुचिरपदस्थश्चक्रवर्तित्वसिद्ध्यै । किमपि कृतविवेकः साधुमध्याधमानां नृप इव परिरक्षेत्संकरं वर्णवृत्तेः ॥२॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रकृते कविकण्ठाभरणे गुणदोष- विभागश्चतुर्थः संधिः। १. सुवृत्ततिलकेऽयमेव श्लोको रिस्सुनाम्ना लिखितः, तस्मादिन्द्रभानोरेव रिस्तु- रिति नामान्तरमिति भाति. २. अयं सूर्यशतककर्ता मयूरकविरुजयिनीप्रान्ते बाणभट्टसमसमये समुत्पन्न इति सुप्रसिद्धमेव. ५ संधिः कविकण्ठाभरणम् । १६३ पञ्चमः संधिः। अथ परिचयचारुत्वमाह- नहि परिचयहीनः केवले काव्यकष्टे कुकविरभिनिविष्टः स्पष्टशब्दप्रविष्टः । विबुधसदसि पृष्टः क्लिष्टधीर्वेत्ति वक्तुं नव इव नगरान्तर्गह्वरे कोऽप्यधृष्टः ॥ १ ॥ तत्र तर्कव्याकरणभरतचाणक्यवात्स्यायनभारतरामायणमोक्षोपायात्म- ज्ञानधातुवादरत्नपरीक्षावैद्यकज्यौतिषधनुर्वेदगजतुरगपुरुषलक्षणद्यूतेन्द्र- जालप्रकीर्णेषु परिचयः कविसाम्राज्यव्यञ्जनः । तर्कपरिचयो यथा मम पद्यकादम्बर्याम्-- 'यत्प्राप्यं न मनोरथैर्न वचसा स्वप्नेऽपि दृश्यं न य- तत्रापि स्मरविप्रलब्धमनसां लाभाभिसानग्रहः । मोहोत्प्रेक्षितशुक्तिकारजतवत्प्रायेण यूनां भ्रमं दत्ते तैमिरिकद्विचन्द्रसदृशं खे नूनमाशाऋषिः ॥' व्याकरणपरिचयो यथा भट्टमुक्तिकलशस्य--- 'द्विगुरपि सद्वन्द्वोऽहं गृहे च मे सततमव्ययीभावः ॥ तत्पुरुष कर्म धारय येनाहं स्यां बहुत्रीहिः ॥' भरतपरिचयो यथा भट्टश्रीशिवखामिनः- 'आतन्वन्सरसां खरूपरचनामानन्दि विन्दूदयं भावग्राहि शुभप्रवेशकगुणं गम्भीरगर्भस्थिति । उच्चैवृत्ति सपुष्करव्यतिकरं संसारविष्कम्भकं भिन्धाद्वो भरतस्य भाषितमिव ध्वान्तं पयो यामुनम् ॥' १. विह्नणकवेः प्रपितामहो भट्टमुक्तिकलश इति विक्रमाङ्कदेवचरितेऽष्टादशे सर्गे द्रष्टव्यम्. १६४ काव्यमाला । चाणक्यपरिचयो यथा मम पद्यकादम्बर्याम्- 'खामी प्रमादेन मदेन मन्त्री कोपेन राष्ट्रं व्यसनेन कोषः। छिद्रेण दुर्गं विषमेण सैन्यं लोभेन मित्रं क्षयमेति राज्ञाम् ॥' वात्स्यायनपरिचयो यथा भट्टदामोदरगुप्तस्य- 'अधरे बिन्दुः कण्ठे मणिमाला कुचयुगे शशप्लुतकम् । तव सूचयन्ति सुन्दरि कुसुमायुधशास्त्रपण्डितं रमणम् ॥' भारतपरिचयो यथा मम देशोपदेशे- 'भगदत्तप्रभावाढ्या कर्णशल्योरकटखना। सेनेव कुरुराजस्य कुट्टनी किं तु निष्कृपा ॥' रामायणपरिचयो यथा भट्टवाचस्पतेः-- 'जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदक्षु प्रलपितम् । कृतालङ्काभर्तुर्वदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥' मोक्षोपायपरिचयो यथा मम मुक्तावल्याम्- 'निरासङ्गा प्रीतिर्विषयनियमोऽन्तर्न तु बहिः स्वभावे भावानां क्षयजुषि विमर्शः प्रतिदिनम् । अयं संक्षेपेण क्षपिततमसामक्षयपदे तपोदीक्षाक्षेपक्षपणनिरपेक्षः परिकरः ॥" १. अयं कुट्टनीमतग्रन्थकर्ता दामोदरगुप्तः कश्मीरमहाराजस्य जयापीडस्य सचिव आसीत्. जयापीडराज्यसमयस्तु ७५५ मितखिस्तसंवत्सरादारभ्य ७८६ मितसंवत्सरपर्यन्तम्. २. इयमार्या कुट्टनीमठे ४०२ एतत्संख्याविशिष्टा वर्तते. बिन्दुमणिमालाशशतकलक्षणं वात्स्यायनकामसूत्रे द्वितीयेऽधिकरणे चतुर्थपञ्च- माध्याययोर्द्रष्टव्यम्. ५ संधिः] कविकण्ठाभरणम् । १६५ आत्मज्ञानपरिचितिर्यथा मम चित्रभारतनाम्नि नाटके- 'पृथुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् । अन्वेष्टव्यं प्रयत्नेन तत्त्वज्ञैर्ज्योतिरान्तरम् ॥' धातुवादपरिचयो यथा राजशेखरस्य--- 'नखदलितहरिद्राग्रन्थिगौरे शरीरे स्फुरति विरहजन्मा कोऽप्ययं पाण्डुभावः । बलवति सति यस्मिन्सार्धमावर्त्य हेम्ना रजतमिव मृगाक्ष्याः कल्पितान्यङ्गकानि ॥' रत्नपरीक्षापरिचयो भट्टभल्लटस्य---- 'द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपकः । बहुविधोर्व्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः ॥' वैद्यकपरिचयो यथा मम पद्यकादम्बर्याम्- 'अङ्गं चन्दनपङ्कपङ्कजबिसच्छेदावलीनं मुहु- स्तापः शाप इवैष शोषणपटुः कम्पः सखीकम्पनः । श्वासाः संवृततारहाररुचयः संभिन्नचीनांशुका जातः प्रागतिदाहवेदनमहारम्भः स तस्या ज्वरः ॥' ज्योतिःशास्त्रपरिचयो यथा विद्यानन्दस्य- 'द्यामालोकयतां कलाः कलयतां छायाः समाचिन्वतां क्लेशः केवलमङ्गुलीर्गणयतां मौहूर्तिकानामयम् । धन्या सा रजनी तदेव सुदिनं पुण्यः स एव क्षणो यत्राज्ञातचरः प्रियानयनयोः सीमानमेति प्रियः ॥' धनुर्वेदपरिचयो यथा मम कनकजानक्याम्- 'आर्यस्यास्त्रधनौघलाघववती संधानसंबन्धिनी स्थाणुस्थानकसौष्ठवप्रणयिनी चित्रक्रियालंकृतिः । १६६ काव्यमाला। निष्पन्देन मयातिविस्मयमयी सत्यस्थितप्रत्यया संहारे खरदूषणत्रिशिरसामेषैव दृष्टा स्थितिः ॥' गजलक्षणपरिचयो यथा मम कनकजानक्याम्-- 'कर्णाभ्यर्णविकीर्णचामरमरुद्विस्तीर्णनिःश्वासवा- ञ्छङ्खच्छक्रविराजिराज्यविभवद्वेषी विलीनेक्षणः । स्मृत्वा राधवकुञ्जरः प्रियतमामेकाकिनी कानने संत्यक्तां चिरमुक्तभोगकवलः क्लेशोष्मणा शुष्यति ॥' तुरगलक्षणपरिचयो यथा ममामृततरङ्गनाम्नि काव्ये- 'आवर्तशोभी पृथुसत्त्वराशिः फेनावदातः पवनोरुवेगः । गम्भीरघोषोऽद्रिविमर्दखेदादश्वाकृतिं कर्तुमिवोद्यतोऽब्धिः ॥ उच्चैःश्रवाः शक्रमुपाजगाम स विश्वसाम्राज्यजयप्रदोऽश्वः । जग्राह हेलाघनशङ्खशब्दनिवेदिताशेषशुभं तमिन्द्रः ॥' (युम्मम्) पुरुषलक्षणपरिचयो यथा कालिदासस्य- 'व्यूढोरस्को वृषस्कन्धः सालप्रांशुर्महाभुजः । आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥' द्यूतपरिचयो यथा चन्द्रकस्य- 'यत्रानेके क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते । इत्थं नेयौ रजनिदिक्सौ तोलयन्द्वाविवाक्षौ कालः काल्या सह बहुकलः क्रीडति प्राणिसारैः ॥' इन्द्रजालपरिचयो यथा श्रीहर्षस्य--- 'एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शंकरोऽयं दोर्भिर्दैत्यान्तकोऽसौ सधनुरसिगदाचक्रचिह्नैश्चतुर्भिः । ५ संधिः] कविकण्ठाभरणम्। १६९ एषोऽप्यैरावणस्थस्त्रिदशपतिरमी देवि देवास्तथगिरां नृत्यन्त्यो व्योम्नि चैताश्वलचरणरणन्नूपुरा दिव्यन्यार्थिनाम् । प्रकीर्णे चित्रपरिचयो यथा भगवतो व्यासस्य-- 'अतथ्यान्यपि तथ्यानि दर्शयन्ति विचक्षणाः । समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥" देशपरिचयो यथा मम शशिवंशे-- 'भोजैर्भञ्जनभीरुभिर्विलुलितं व्यामीलितं मालवै- मद्रैर्विद्रुतमेव यातमसकृन्मार्गादधो मागधैः । वङ्गानामभिमन्युकङ्कणरवैर्व्राते पुरः सूचिते मीनैः संकुचितं परस्परधृतैरन्ध्रमन्धैः स्थितम् ॥' वृक्षपरिचयो यथा मम कनकजानक्याम्---- 'जम्बूबिम्बकदम्बनिम्बबकुलप्लक्षाक्षभल्लातक- द्राक्षाकिंशुककर्णिकारकदलीजम्बीरकोदुम्बरैः । सा संतानकबिल्वतिल्वतिलक श्लेष्मातकारग्वध- न्यग्रोधार्जुनशालनासनवनश्यामान्ददर्शाश्रमान् ॥' वनेचरपरिचयो यथा मम तत्रैव--- 'वामस्कन्धनिषण्णशार्ङ्गकुटिलप्रान्तार्पिताधोमुख- स्पन्दच्छोणितलम्बमानशशकान्पाणिस्खलच्चामरान् । ज्यान्तप्रोतकपोतपोतनिपतद्रक्ताक्ततूणीरका- न्सापश्यत्करिकुम्भमेदजनिताकन्दान्पुलिन्दान्पुरः ॥" औदार्यपरिचयो यथा मम चतुर्वर्गसंग्रहे- 'मान्यः कुलीनः कुलजात्कलावान्विद्वान्कलाज्ञाद्विदुषः सुशीलः । धनी सुशीलाद्धनिनोऽपि दाता दातुर्जिता कीर्तिरयाचकेन ॥' १६८ काव्यमाला। अचेतनचेतनाध्यारोपपरिचयो' यथा मच्छिष्यमहाश्रीभट्टोदासिं- हस्य ललिताभिधाने महाकाव्ये-- 'इह विकसदशोकास्तोकपुष्पोपकारै- रयमतिशयरक्तः सक्तमुस्निग्धभावः । त्रिभुवनजयसज्जः प्राज्यसाम्राज्यभाजः प्रथयति पृथुमैत्रीं पुष्पचापस्य चैत्रः ॥' भक्तिपरिचयो यथास्यैव भक्तिभवनाम्नि महाकाव्ये-- 'बाल्यादेव निरर्गलप्रणयिनी भक्तिर्मवानीपतौ जन्माभ्यासविकासवासितमनःसंवाससंदायिनी । प्रायः प्राक्तमकर्मनिर्मितमहामोहनरोहापहा भव्यानां भवभीतिभञ्जनसखी संजायते सन्मतिः ॥" विवेकपरिचयो यथा मच्छिष्यराजपुनलक्ष्मणादित्यस्य- 'आशापाशविमुक्तियुक्तममलं संतोषमान्यं मनः सेवायासविवर्जितं विहरणं मायाविहीनं वचः । चण्डीशार्चनमात्मशुद्धिजननी गङ्गेव सत्संगतिः सोऽयं संतरणे परः परिकरः संसारवारां निधेः ॥' प्रशमपरिचयो यथा मम चतुर्वर्गसंग्रहे- 'चित्तं वातविकासिपासुसचिवं रूपं दिनान्तातपं भोगं दुर्गतगेहबन्धचपलं पुष्पस्मितं यौवनम् । स्वप्नं बन्धुसमागमं तनुमपि प्रस्थानपुण्यप्रपां नित्यं चिन्तयतां भवन्ति न सतां भूयो भवग्रन्थयः ॥' इत्युक्ता रुचिरोचिता परिचयप्राप्तिर्विभागैर्गिरां दिङ्मात्रेण विचित्रवस्तुरचनामैत्रीपवित्रीकृता । यधस्त्यत्र नवोपदेशविषये लेशेऽप्युपादेयता तत्सद्भिर्गुणकौतुकादवसरः श्रोतुं समाधीयताम् ॥ २ ॥ भल्लटशतकम् । १६९ कृत्वा निश्चलदैवपौरुषमयोपायं प्रसूत्यै गिरां क्षेमेन्द्रेण यदर्जितं शुभफलं तेनास्तु काव्यार्थिनाम् । निर्विघ्नमतिभाप्रभावसुभगा वाणी प्रमाणीकृता सद्भिर्याग्भवमत्रपूतविततश्रोत्रामृतस्यन्दिनी ॥ ३ ॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रकृते कविकण्ठाभरणे परिचय- प्राप्तिः पञ्चमः संधिः। काश्मीरेषु पृथुप्रतापसवितुः कीर्त्यंशुतारापतेः प्रौढारातिवनानलस्य धनदस्येन्द्रस्व भूमण्डले । विश्वाकारवतः पुनः कलियुगे विष्णोरिवोत्साहिनो राज्ये श्रीमदनन्तराजनृपतेः काव्योदयोऽयं कृतः ॥ इति कविकण्ठाभरणं समाप्तम् ।

"https://sa.wikisource.org/w/index.php?title=कविकण्ठाभरणम्&oldid=290841" इत्यस्माद् प्रतिप्राप्तम्