काठकसंहिता (विस्वरः)
स्थानकम् ०१
[[लेखकः :|]]
स्थानकं २ →
पुरोडाशः

अथ यजुर्वेदीय काठक-संहिता।

अथ प्रथम स्थानकम् ।

पुरोडाशः।
इषे त्वोर्जे त्वा वायवस्थोपायवस्स्थ देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे ।। आप्याय - ध्वमघ्न्या देवभागं प्रजावतीरनमीवा अयक्ष्माः ॥ मा वस्स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥ ध्रुवा अस्मिन् गोपतौ स्यात बह्वीर्यजमानस्य पशून् पाहि यजमानस्य पशुपा असि ॥ १ ॥

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे गोषदसि प्रत्युष्टं रक्षः प्रत्युष्टारातिः प्रेयमगाद्धिषणा बर्हिरच्छ मनुना कृता स्वधया वितष्टा । उर्वन्तरिक्षं वीहीन्द्रस्य परिषूतमासि माधो मोपरि परुस्त ऋध्यासमाच्छेत्ता ते मा रिषत् ॥ देव बर्हिश्शतवल्शं विरोह सहस्रवल्शा वि वयं रुहेम । अदित्या रास्नासीन्द्राण्यास्संनहनं पूषा ते ग्रन्थिं ग्रथ्नातु स ते मा स्थादिन्द्रस्य त्वा बाहुभ्यामुद्यच्छे बृहस्पतेस्त्वा मूर्ध्नाहरामि देवङ्गममसि ॥ तदाहरन्ति कवयः पुरस्ताद्देवेभ्यो जुष्टमिह बर्हिरासदे ॥ २ ॥

वसोः पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारम् ।।
अयक्ष्मा वः प्रजया सँसृजामि रायस्पोषेण बहुला भवन्तीः ।
मधुमद् घृतवत् पिन्वमाना जीवा जीवन्तीरुप वस्सदेम ।।
मातरिश्वनो घर्मोऽसि द्यौरसि पृथिव्यसि विश्वधायाः परेण धाम्नाह्रुतासि मा ह्वास्सा विश्वायुस्सा विश्वव्यचास्सा विश्वधाया हुतस्स्तोको हुतो द्रप्सोऽग्नये बृहते नाकाय स्वाहा द्यावापृथिवीभ्याम् ॥
संपृच्यध्वमृतावरीरूर्मिणा मधुमत्तमाः । मन्द्रा धनस्य सातयः ।।
इन्द्रस्य त्वा भागँ सोमेनातनच्म्यदस्तमसि विष्णवे विष्णो हव्यं रक्षस्वापो जागृत ॥ ३ ॥

कर्मणे वां वानस्पत्यमसि प्रत्युष्टं रक्षः प्रत्युष्टरातिः । उर्वन्तरिक्षं वीहि धूरसि धूर्व धूर्वन्तं योऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामस्तं च धूर्व ॥ देवानामसि वह्नितमं सस्नितमं पप्रितमं जुष्टतमं देवहूतमं विष्णोः क्रमोऽस्यह्रुतमसि हविर्धानं दृँहस्व मा ह्वार्मिंत्रस्य त्वा चक्षुषा प्रेक्ष उरु त्वा वाताय देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामि यछन्तु त्वा पञ्च रक्षायै त्वा नारात्या इदं देवानामिदं नस्सह स्वरभिव्यख्यं ज्योतिर्वैश्वानरं दृँहन्तां दुर्यास्स्वाहा पृथिव्यामुर्वन्तरिक्षं प्रेह्यग्ने हव्यं रक्षस्व ।। ४ ।।

विष्णोर्मनसा पूते स्थः ।। देवो वस्सवितोत्पुनात्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।। देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं प्रोक्षामि शुन्धन्तां पात्राणि देवयज्यायै यदशुद्धः पराजघान तद्व एतेन शुन्धन्तामवधूतं रक्षोऽवधूतारातिरदित्यास्त्वगसि प्रति त्वा पृथिवी वेत्त्वधिषवणमसि वानस्पत्यं प्रति त्वादित्यास्त्वग्वेत्तु पृथिवीं दृँहाग्नेस्तनूरास वाचो विसर्जनं देवताभ्यस्त्वा देववीतये गृह्णामि बृहद् ग्रावासि वानस्पत्यस्स इदं देवेभ्यो हव्यँ शम्नीष्व सुशमि शम्नीष्वाद्रिरसि श्लोककृदपहतं रक्षोऽपहतारातिर्वयँ संघातँ संघातँ संजयेम वर्षवृद्धमसि प्रति त्वा वर्षवृद्धं वेत्तु परापूतं रक्षः परापूतारातिर्निरस्तो अघशँसो वायुर्व इष उर्जे विविनक्तु।। ५ ।।

अवधूतं रक्षोऽवधूतारातिरदित्यास्त्वगसि प्रति त्वा पृथिवी वेत्तु धिषणासि पार्वती प्रति त्वादित्यास्त्वग्वेत्तु पृथिवीं दृँह धिषणासि पार्वतेयी प्रति त्वा पार्वती वेत्तु दिवं दृँह दिवस्स्कम्भधान्यमसि धिनुहि देवान् धिनुहि यज्ञं धिनुहि यज्ञपतिं धिनुहि मां यज्ञन्यं प्राणाय वा व्यानाय त्वापानाय त्वा दीर्घामनु समृतिमायुषे त्वा देवो वस्सविता हिरण्यपाणिः प्रतिगृह्णात्वदब्धेन वश्चक्षुषावपश्यामि रायस्पोषाय सुप्रजास्त्वाय ।। ६ ।।

निर्दग्धं रक्षो निर्दग्धारातिरपाग्ने अग्निमामादं जहि निष्क्रव्यादँ सेधा देवयजनं वह ध्रुवमसि पृथिवीं दृँहायुर्देहि प्राणं देहि सजातानस्मै यजमानाय पर्यूह धरुणमस्यन्तरिक्षं दृँह चक्षुर्देहि श्रोत्रं देहि सजातानस्मै यजमानाय पर्यूह धर्त्रमसि दिवं दृँहौजो देहि बलं देहि सजातानस्मै यजमानाय पर्यूह धर्मासि दिशो दृँह रयिं देहि पोषं देहि सजातानस्मै यजमानाय पर्यूह यन्त्रमस्याशा दृँह रूपं देहि बलं देहि सजातानस्मै यजमानाय पर्यूह चितस्स्थ परिचितो यजमानस्य सजाता भृगूनामाङ्गिरसां तपसा तप्यध्वम् ।।
यानि घर्मे कपालान्युपचिन्वन्ति वेधसः । पूष्णस्तान्यपि व्रत इन्द्रवायू विमुञ्चताम्॥७॥

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टँ संवपामि समाप ओषधीभिस्समोषधयो रसेन मधुना मधुमतीः पृच्यन्तां यद्वो रेवती रेवत्यं यद्वो हविष्या हविष्यं यद्वो जगतीर्जगत्यं तेनास्मै यज्ञपतय आशासाना मधुना मधुमतीस्संपृच्यध्वं जनयत्यै त्वा मखस्य शिरोऽसि घर्मोऽसि विश्वायुरुरु प्रथस्वोरु ते यज्ञपतिः प्रथतां प्रत्युष्टं रक्षः प्रत्युष्टारातिर्देवस्त्वा सविता श्रपयतु वर्षिष्ठेऽधिनाकेऽग्निस्ते तन्वं मा हिंसीदग्ने ब्रह्म गृहीष्वैकताय स्वाहा द्वितीय स्वाहा त्रिताय स्वाहा ॥ ८ ॥

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इन्द्रस्य बाहुरसि दक्षिणस्सहस्रभृष्टिश्शततेजा वायुरसि तिग्मतेजाः पृथिवि देवयजन्योषध्यास्ते मूलं मा हिँसिषं व्रजं गच्छ गोस्थानं वर्षतु ते द्यौर्बधान देव सवितः परमस्यां पृथिव्याँ शतेन पाशैर्योऽस्मान् दिप्सति यं वयं दिप्सामस्तमतो मा मौग्द्रप्सस्ते द्यां मा स्कान् व्रजं गच्छ गोस्थानं वर्षतु ते द्यौर्बधान देव सवितः परमस्यां पृथिव्याँ शतेन पाशैर्योऽस्मान् दिप्सति यं वयं दिप्सामस्तमतो मा मौगररुर्द्यां मा पप्तद् व्रजं गच्छ गोस्थानं वर्षतु ते द्यौर्बधान देव सवितः परमस्यां पृथिव्याँ शतेन पाशैर्योऽस्मान् दिप्सति यं वयं दिप्सामस्तमतो मा मौगपाररुमदेवयजनं पृथिव्या देवयजनाञ्जहि ॥ इमां नरः कृणुत वो देवेभ्यो जुष्टामदित्या उपस्थे । इमां देवा अजुषन्त विश्वे रायस्पोषा यजमानं विशन्तु। वसवस्त्वा परिगृह्णन्तु गायत्रेण छन्दसाङ्गिरस्वद्रुद्रास्त्वा परिगृह्णन्तु त्रैष्टुभेन च्छन्दसाङ्गिरस्वदादित्यास्त्वा परिगृह्णन्तु जागतेन च्छन्दसाङ्गिरस्वद्धा असि स्वधा असि ।।
पुरा क्रूरस्य विसृपो विरप्शिन्नुदादाय पृथिवीं जीरदानुम् ।।
तामैरयँश्चन्द्रमसि स्वधाभिस्तां धीरासो अनुदृश्यायजन्त कवयः ॥ ९ ॥

पृश्न्याः पयोऽसि तस्य तेऽक्षीयमानस्य पिन्वमानस्य पिन्वमानं निर्वपामि ॥
आशासाना सौमनसं प्रजां सौभाग्यं रयिम् । अग्नेरनुव्रता भूत्वा संनह्य सुकृताय कम्॥ अग्ने गृहपत उप मा ह्वयस्व देवानां पत्नीरुप मा ह्वयध्वमदितिरिव त्वा सुपुत्रोपनिषदेयमिन्द्राणीवाविधवेषे त्वादब्धेन त्वा चक्षुषावपश्यामि रायस्पोषाय सुप्रजास्त्वायोर्जे त्वाग्नेर्जिह्वासि सुपूर्देवेभ्यो धाम्ने धाम्ने त्वा यजुषे यजुषे हविरसि वैश्वानरमुन्नीतशुष्मैं सत्यौजास्सहो नामासि सहस्वारातिँ सहस्व पृतनायतस्सहस्रवीर्यमसि तन्मार्जित्वाज्यस्याज्यमसि हविषो हविस्सत्याभिघृतमसि सत्येन त्वाभिघारयामि ।। तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियं देवानामनाधृष्टं देवयजनं देवताभ्यस्त्वा यज्ञियेभ्यो गृह्णामि प्रत्युष्टं रक्षः प्रत्यारातिरनिशितास्स्थ सपत्नक्षयणीरायुः प्राणं मा निर्दृक्षं वाजिनं त्वा वाजिन्वाजयत्यायै संमार्ज्मि चक्षुः श्रोत्रं मा निर्दृक्षं वाजिनीं त्वा वाजिनि वाजयत्यायै संमार्ज्मि प्रजां योनिं मा निर्दृक्षं वाजिनीं त्वा वाजयत्यायै संमार्ज्मि गोष्ठं यजमानस्य रायस्पोषं मा निर्दृक्षं वाजिनीं त्वा वाजिनि वाजयत्यायै संमार्ज्मि ।। १० ।।

देवीरापो अग्रेगुवः प्रेमं यज्ञं नयत प्र यज्ञपतिं तिरत युष्मानिन्द्रोऽवृणीत वृत्रतूर्ये यूयमिन्द्रमवृणीध्वं वृत्रतूर्ये मेक्षितास्स्थ कृष्णोऽस्याखरेष्ठा अग्नये त्वा जुष्टं प्रोक्षामि वेदिसि बर्हिषे त्वा जुष्टं प्रोक्षामि बर्हिरसि स्रुग्भ्यस्त्वा जुष्टं प्रोक्षामि पितॄणां भागधेयीस्स्थोर्जा पृथिवीं गच्छत विष्णोस्स्तुपोऽस्यूर्णम्रदः प्रथस्व स्वासस्थं देवेभ्यो गन्धवोंऽसि विश्वावसुर्विश्वस्मादीषतो यजमानस्य परिधिरिड ईडित इन्द्रस्य बाहुरसि दक्षिणो यजमानस्य परिधिरिड ईडितो मित्रावरुणौ त्वा परिधत्तां ध्रुवेण धर्मणेड ईडितम् ।।
वीतिहोत्रं त्वा कवे द्युमन्तस्समिधीमहि । अग्ने बृहन्तमध्वरे ।।
सूर्यस्त्वा पुरस्तात् पातु कस्याश्चिदभिशस्त्याः । वर्षिष्ठेऽधि नाके ।।
सवितुर्बाहू स्थो देवजनानां विधरणिर्वसूनां रुद्राणामादित्यानां सदनमसि जुह्वेहि घृताची द्यौर्जन्मनादितिरच्छिन्नपत्रा प्रिया देवानां प्रियेण धाम्ना प्रिये सदसि सीदोपभृदेहि घृताच्यन्तरिक्षं जन्मनादितिरच्छिन्नपत्रा प्रिया देवानां प्रियेण धाम्ना प्रिये सदसि सीद ध्रुव एहि घृताची पृथिवी जन्मनादिरतिच्छिन्नपत्रा प्रिया देवानां प्रियेण धाम्ना प्रिये सदसि सीदर्षभोऽसि शाक्वरो वायुर्जन्मनादितिरच्छिन्नपत्रः प्रियो देवानां प्रियेण धाम्ना प्रिये सदसि सीद धुवा असदन्नृतस्य योनौ सुकृतस्य लोके ता विष्णो पाहि पाहि यज्ञं पाहि यज्ञपतिं पाहि मां यज्ञन्यम् ॥ ११ ॥

भुवनमसि विप्रथस्वाग्निर्यष्टेदं नमो जुह्वेह्यग्निस्त्वाह्वयति देवयज्याय उपभृदेहि देवस्त्वा सविताह्वयति देवयज्याया अङ्घ्रिणा विष्णू मा वामवक्रमिषं पाहि माग्ने दुश्चरितादा मा सुचरिते भज विजिहाथां मा मा संताप्तं लोकं मे लोककृतौ कृणुतं विष्णोस्स्थाम्न इत इन्द्रो वीर्यमकृणोत्।। ऊर्ध्वो अध्वरो दिविस्पृगह्रुतो यज्ञो यज्ञपतेः ॥ इन्द्रवान् बृहद्भास्स्वाहा ।। सं ज्योतिषा ज्योतिर्वाजस्याहं प्रसवेनाग्नीषोमाभ्यां देवतयोज्जयामि वाजस्याहं प्रसवेनाग्नीषोमाभ्यां देवतयासुं प्रतिनुदे ॥
वाजस्य मा प्रसवेनोद्ग्राभेनोदजीग्रभम् । अथा सपत्नाँ इन्द्रो मे निग्राभेनाधराँ अकः॥
उद्ग्राभश्च निग्राभश्च ब्रह्म देवाँ अवीवृधत् ।
अथा सपत्नानिन्द्राग्नी मे विषूचीनान् व्यस्यताम् ।।
पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वार्थं रिहाणा व्यन्तु वयः ॥
 मरुतां पृषती वशा पृश्निर्भूत्वा दिवं गच्छ। ततो नो वृष्टिमेरय ॥
अहीनः प्राणश्चक्षुष्पा असि चक्षुर्मे पाहि ।।
यं परिधिं पर्यधत्था अग्ने देव पणिभिरिध्यमानः ।
तं त एतमनु जोषं भराम्येष नेत्त्वपचेतयातै ।।
अग्नेः पाथ उपेहीन्द्रस्य पाथ उपेहि विश्वेषां देवानां पाथ उपेहि यजमानं प्रथत ॥
सँस्रावभागास्स्थेषा बृहन्तः प्रस्तरेष्ठाः परिधेयाश्च देवाः ।
यज्ञस्य गोपा उत रक्षितारस्स्वाहा देवा अमृता मादयन्ताम् ।।
अग्नेऽदब्धायोऽशीर्ततनो पाहि विद्योत्पाहि प्रसित्याः पाहि दुरिष्ट्याः पाहि दुरद्मन्या अविषं नः पितुं कृधि सुधीन्योनीन् सुषदां पृथिवीँ स्वाहा देवा गातुविदो गातुं वित्त्वा गातुमित मनसस्पत इमं देवयज्ञँ स्वाहा वाचि स्वाहा वाते धाः ॥ १२ ॥


॥ इति श्रीयजुषि काठके चरकशाखायामिठिमिकायां पुरोडाशो नाम प्रथमं स्थानकं संपूर्णम् ॥१॥