काठकसंहिता (विस्वरः)/स्थानकम् ३२
← स्थानकं ३१ | काठकसंहिता (विस्वरः) स्थानकम् ३२ [[लेखकः :|]] |
स्थानकं ३३ → |
यजमान-ब्राह्मणम् |
अथ द्वात्रिंशं स्थानकम् ।
यजमान-ब्राह्मणम्।
अग्नीषोमाभ्यां यज्ञश्चक्षुष्मानित्यग्नीषोमौ वै यज्ञस्य चक्षुषी यज्ञस्यैव चक्षुषा चक्षुरात्मन् धत्ते चक्षुष्मान् भवति य एवं वेदाग्निरन्नस्यान्नपतिरित्यग्निर्वै, देवानामन्नादस्स एनं मनुष्येष्वन्नाद्यं प्रापयत्यन्नादो भवति य एवं वेद दब्धिरस्यदब्धो भूयासममुं दभेयमित्येतया वै दब्ध्या देवा असुरानदभ्नुवँस्तयैव भ्रातृव्यं दभ्नोति नैनं दिप्सन् दभ्नोति य एवं वेदाग्नीषोमौ वृत्रहणा इत्यग्नीषोमाभ्यां वै वीर्येणेन्द्रो वृत्रमहँस्ताभ्यामेव भ्रातृव्यँ स्तृणुत इन्द्राग्न्योरहं देवयज्ययौजस्वान् वीर्यावान् भूयासमित्योजो वै वीर्यमिन्द्राग्नी ओज एव वीर्यमात्मन् धत्त इन्द्रस्याहं देवयज्ययेन्द्रियावान् भूयासमितीन्द्रियं वा इन्द्र इन्द्रियमेवात्मन् धत्ते॥ महेन्द्रस्याहं देवयज्यया जेमानं भूमानं गमेयमिति जेमानमेव भूमानमुपैतीन्द्रस्याहं विमृधस्य देवयज्ययासपत्नो भूयासमित्यसपत्न एव भवतीन्द्रस्याहमिन्द्रियावतो देवयज्यया पशुमान् भूयासमितीन्द्रियं वै पशवः पशूनेवात्मन् धत्ते सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयमिति वाग्वै सरस्वती वाचैवान्नाद्यमवरुन्द्धे पूष्णोऽहं देवयज्यया पुष्टिमान् पशुमान् भूयासमिति पुष्टिर्वै पूषा पुष्टिमेवावरुन्द्धेऽदित्या अहं देवयज्यया प्रतिष्ठां गमेयमितीयमदितिरस्यामेव प्रतितिष्ठति ॥ विश्वेषामहं देवानां देवयज्यया प्राणानाँ सायुज्यं गमेयमिति प्राणानामेव सायुज्यं गच्छति द्यावापृथिव्योरहं देवयज्यया प्रजनिषीय प्रजया पशुभिरिति प्रजापतिमेवोपैत्यग्नेरहँ स्विष्टकृतो देवयज्ययायुः प्रतिष्ठां गमेयमित्यायुरेवात्मन् धत्ते प्रति यज्ञेन तिष्ठति यो देवताश्च यज्ञं च यज्ञे तर्पयितव्यान् वेद तृप्यति प्रजया पशुभिरुपैनँ सोमपीथो नमत्येतर्हि वै सर्वा देवता यर्हि स्विष्टकृदेतर्हि ह्येनास्सर्वास्संयजत्येष खलु वाव प्रत्यक्षं यज्ञो यत् स्विष्टकृदतीतृपद्यज्ञे यज्ञमिति देवताश्चैवैतद्यज्ञं च यज्ञे तर्पयति तृप्यति प्रजया पशुभिरुपैनँ सोमपीथो नमत्ययाडग्निरग्नेः प्रिया धामानीति ब्रह्मवर्चसं तेनावरुन्द्धे सोमस्यायाट् प्रिया धामानीति क्षत्रं तेनाग्नीषोमयोरयाट् प्रिया धामानीत्युपाँश्वनिरुक्तं तेनावरुन्द्धेऽग्नीषोमयोरयाट् प्रिया धामानीत्युच्चैर्निरुक्तं तेनानिरुक्तं च वा इदं निरुक्तं च तस्यैवोभयस्यावरुद्ध्या अथो शुष्कहरिते एवावरुन्द्धे यद्वै शुष्कं तदाग्नेयं यद्धरितं तत् सौम्यँ शुष्कं च वा इदँ हरितं च तस्यैवोभयस्यावरुद्ध्यै देवानामाज्यपानामयाट् प्रिया धामानीति प्रयाजानुयाजा वै देवा आज्यपास्तानेवोभयान् प्रीणाति तेऽस्योभये प्रीता यज्ञे भवन्ति ॥१॥
बृहतो मा वाजेन वाजय वामदेव्यस्य मा वाजेन वाजयेति वामदेवो वा एतद्गोनामपश्यत् पशव इडा पशुष्वेव पशून् दधाति जुष्टे जुष्टिं ते गमेयमुपहूत उपहवं तेऽशीयेति द्व्याशीर्वै यज्ञो यज्ञस्यैवैतामाशिषमाशास्ते सुहवा मेहीति सुहवामेवैनां कुरुते सह रायस्पोषेणेति सहैवैवं रय्याभ्यैत्यस्मास्विन्द्र इन्द्रियं दधात्वितीडाया वा एष दोह इडामेवैतद्दुहेऽस्मान् रायो मघवानस्सचन्तामिति पशवो वै रायो मघवानः पशूनेवात्मन् धत्तेऽस्माकँ सन्त्वाशिष इत्याशिषमेवाशास्ते संजयन् क्षेत्राणि सहसाहमिन्द्र कुर्वाणो अन्याँ अधरान् सपत्नानित्यधरमेव भ्रातृव्यं कुरुते ॥ ब्रह्म तेजो मे पिन्वस्व क्षत्रमोजो मे पिन्वस्वेत्येतदेवासा इडा सर्वं दुहे सर्वँ हास्यैतद्भवति य एवं वेद मयि त्यदिन्द्रियं महदितीन्द्रियं वा आप इन्द्रियमेवात्मन् धत्ते ब्रध्न पिन्वस्व कल्पन्तां दिश इत्यसौ वा आदित्यो ब्रध्नस्स यदोदेत्यथ दिशः कल्पन्ते य एवं वेद यामब्राह्मणः प्राश्नाति सा स्कन्नाहुतिस्तस्या वै वसिष्ठ एव प्रायश्चित्तिं विदांचकार ब्रध्न पिन्वस्वेति पुरोडाशमभिमृशति दक्षिणीयेष्वेव यज्ञं प्रतिष्ठापयत्यस्कन्नमविक्षुब्धमपि ह वा अस्य यामब्राह्मणः प्राश्नाति सा हुतैव भवत्यथ ह स्माह कपिवनो भौवायनः किमु स यजेत यो गामिव यज्ञं न दुहे सुदोहतरो वा एष गोरिति सं यज्ञपतिराशिषेति यजमानो यजमानभागं प्राश्नाति यजमानो वै यज्ञपतिर्यज्ञो यजमानभागो यद्यजमानो यजमानभागं प्राश्नाति यज्ञपता एव यज्ञं प्रतिष्ठापयति ॥२॥
देवस्याहं बर्हिषो देवयज्यया प्रजावान् भूयासमिति बर्हिषा वै प्रजापतिः प्रजा असृजत प्रजामेव सृजते देवस्याहं नराशँसस्य देवयज्यया पशुमान् भूयासमिति नराशँसेन वै प्रजापतिः पशूनसृजत पशूनेव सृजते देवस्याहमग्नेस्स्विष्टकृतो देवयज्ययायुः प्रतिष्ठां गमेयमित्यायुरेवात्मन् धत्ते प्रति यज्ञेन तिष्ठत्या माशिषो दोहकामा इत्याशिषो वै दोहकामा यजमानमुपतिष्ठन्ते ता यथा धेनवोऽदुग्धा अपक्रामन्त्येवं त्वस्माद्यजमानादपक्रामन्त्यथ य एवं वेदाशिष एवैष दुहे सा मे सत्याशीर्देवान् गम्यादिति सत्यामेवाशिषं देवान् गमयित्वा वरं वृणीते ॥ जुष्टाज्जुष्टतरेति जुष्टादेवैनां जुष्टतरां करोति पन्यात् पन्यतरेति पन्यादेवैनां पन्यतरां करोत्यरेडता मनसा देवान् गच्छेत्येवैतदाह यो देवयानः पन्थास्तेन देवान् गच्छेति य एव देवयानः पन्थास्तमेवैनमपिपादयति रोहितेन त्वाग्निर्देवतां गमयतु हरिभ्यां त्वेन्द्रो देवतां गमयत्विति यजमानो वै प्रस्तरो हविर्भूतमेवैनँ स्वर्गं लोकं गमयति यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छेति स्वमेवैनं योनिं गमयति यो यज्ञस्यायुर्वेद सर्वमायुरेति यज्ञस्यायुरसि यज्ञो म आयुर्दधात्वित्येतद्वै यज्ञस्यायुर्य एवं वेद सर्वमायुरेति यद्वै युक्तो विमुक्तश्शमरथं वा करोति प्र वा क्षिणाति वि ते मुञ्चामि रशनां वि रश्मीनिति विमोक एवास्यैष स्वर्गमेव लोकं देवता गमयित्वा प्रतिष्ठाप्य विमुञ्चति विष्णोश्शम्योर्यज्ञस्यान्त इति विष्णुर्वै यज्ञोऽन्तत एव यज्ञं प्रतिष्ठापयति ॥३॥
इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिभिरिति यज्ञस्य वा एष दोहो यज्ञमेवैतद्दुहे तस्य यज्ञस्येष्टस्य स्विष्टस्य द्रविणमागच्छत्वित्याशिषमेवाशास्तेऽङ्गिरसो मेऽस्य यज्ञस्य प्रातरनुवाकैरहौषुरित्याशिषामेवैष दोहो वसुर्यज्ञो वसुमान् यज्ञ इति वसुमन्तमेव यज्ञं कुरुते तस्य यज्ञस्य वसोर्वसुमतो वसुमागच्छत्वित्याशिषमेवाशास्ते सोमो रेतोधा इति सोमो वै देवानां रेतोधास्सोम एवास्मै रेतोधा रेतो दधाति त्वष्टा रूपाणां विकर्तेति त्वष्टा वै रूपाणां विकर्ता सोऽस्मै रूपाणि विकरोति देवानां पत्नीरग्निर्गृहपतिर्मिथुनं यजमानस्येत्येतद्वै दर्शपूर्णमासयोर्मिथुनं दर्शपूर्णमासयोरेव मिथुनेन मिथुनमात्मन् धत्ते तयोरहं देवयज्यया मिथुनेन प्रजनिषीयेति प्र प्रजया प्र पशुभिर्जायते या वा एतस्य पत्नी सैतँ संप्रति पश्चादासीताग्निरस्याः प्रजा निर्दहेद्यदाह पत्न्येष ते पत्नि लोक इति लोकमेवास्यै करोत्यनिर्दाहुकोऽस्या अग्निः प्रजा भवति सं पत्नी पत्या सुकृतेषु गच्छतामिति पत्न्या एवैष यज्ञस्यान्वारम्भस्सह स्वर्गे लोके भवतस्स्वाहा स्वाहेष्टेभ्यो वषडनिष्टेभ्य इति स्विष्टिश्च वै दुरिष्टिश्च यज्ञे संयतेते यस्य स्विष्टिर्यज्ञं युवते स वसीयान् भवति यस्य दुरिष्टिर्यज्ञं युवते स पापीयान् भवति स्विष्ट्यैवास्य यज्ञँ समर्धयति वसीयान् भवत्ययाश्चाग्नेऽस्यनभिशस्तिश्चेत्यया वै नामैवाग्नेस्तनूरया मर्याधैर्येणेति खलु वा आहुर्यां च विद्म यज्ञस्य प्रायश्चित्तिं यां च न विद्म यश्च यज्ञस्य क्रियते यश्च न क्रियते तस्यैषोभयस्य प्रायश्चित्तिस्सरस्वत्यै वेशभगिन्यै स्वाहेति वेशयमनं वा एतदपि ह वा एनमाजीवन्त उपासते वाचमस्य ब्राह्मणस्य वा राजन्यस्य वोपास्मह इति य एवं वेद यज्ञस्य त्वा प्रमयाभिमयोन्मया प्रतिमया परिगृह्णामीति गायत्री वै यज्ञस्य प्रमा त्रिष्टुबभिमा जगत्युन्मानुष्टुप् प्रतिमैतावन्ति वै छन्दाँसि यज्ञं वहन्ति तैरेवैनं परिगृह्णाति तेष्वेनं प्रतिष्ठापयति॥४॥
पूर्णमसि पूर्णं मे भूया इति येभ्य एव कामेभ्य ऊनस्तानापूरयतेऽग्निर्वै भूयाँसं यजमानं प्रदहति संततँ स्रावयत्यपोऽतिमुच्यमाना अनु यजमानोऽतिमुच्यतेऽथो अद्भिरेवैतदग्नेरात्मानमन्तर्धत्तेऽप्रदाहाय सर्वं वा एतस्य यज्ञो मृष्टश्शुचाभिषीदति यद्गृहा यत् पशवः प्राच्या दिशा देवा ऋत्विजो मार्जयन्तामित्येता वै यज्ञस्य मृष्टय एताश्शान्तयो मृष्टोऽस्य यज्ञो भवति शान्तोऽघातुकः पशुपतिः पशून् पृथिवीं विष्णुर्व्यक्रँस्त गायत्रेण च्छन्दसेति विष्णुमुखा वै देवाश्छन्दोभिरेभ्यो लोकेभ्यो ऽसुरान् प्राणुदन्त विष्णुमुख एवैतद्यजमानश्छन्दोभिरेभ्यो लोकेभ्यो भ्रातृव्यं प्रणुदतेऽगन्म स्वरिति स्वरेव गच्छति सं ज्योतिषाभूमेति ज्योतिर्वै यज्ञो यज्ञ एव यज्ञमनुसंतनोति सूर्यस्यावृतमन्वावर्त इत्यमुष्यैवादित्यस्यावृतमन्वावर्ततेऽथो एवँ हि यज्ञ आवर्ततेदमहं योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तस्य प्राणं निवेष्टयामीति यमेव द्वेष्टि तस्य प्राणं निवेष्टयति तेजोऽसि तेजो मयि धेहीति तेज एवात्मन् धत्ते समहं प्रजया सं मया प्रजेति प्रजामेवात्मन् धत्ते समहं रायस्पोषेण सं मया रायस्पोष इति पशवो वै रायस्पोषः पशूनेवात्मन् धत्तेऽग्नेस्तेजसा तेजस्वी भूयासमिति तेज एवात्मन् धत्ते वायोरायुषायुष्मान् भूयासमित्यायुरेवात्मन् धत्ते सूर्यस्य वर्चसा वर्चस्वी भूयासमिति वर्च एवात्मन् धत्ते इन्द्रस्येन्द्रियेणेन्द्रियावान् भूयासमितीन्द्रियं वा इन्द्र इन्द्रियमेवात्मन् धत्ते ॥ धाता मे धाम्ना सुधां दधात्विति धातैवास्मै धाम्ना सुधां दधाति प्रजापतेः प्रजया प्रजावान् भूयासमिति प्रजामेवात्मन् धत्ते प्र वा एषोऽस्माल्लोकाच्च्यवते यः प्रक्रमान प्रक्रामति च्छन्दोभिर्हि पराङ् रोहति स ईश्वरः प्रमेतोरग्ने गृहपत इति गार्हपत्यमुपतिष्ठतेऽस्मिन्नेव लोके प्रतितिष्ठति ॥५॥
देवाञ्जनमगन् यज्ञ इति जनं वा एतद्यज्ञस्यैति यत् स्कन्दति जनादेव यज्ञस्याशिषमवरुन्द्धे पञ्चानां त्वा वातानां धर्त्राय गृह्णामीत्ययं वाव यः पवते स यज्ञः पाङ्क्तो यज्ञो यज्ञमेवास्मै गृह्णाति पञ्चानां त्वा सलिलानां धर्त्राय गृह्णामीति पशवो वै सलिलं पशूनेवास्मै गृह्णाति पञ्चानां त्वा पृष्ठानां धर्त्राय गृह्णामीति यज्ञो वै पृष्ठानि यज्ञमेवास्मै गृह्णात्येतेन वै दर्शपूर्णमासौ पृष्ठवन्तौ पञ्चानां त्वा दिशां धर्त्राय गृह्णामीति पञ्च वै दिशो दिश एवास्मै गृह्णाति सर्वा दिशोऽभिजयति सर्वा अस्य दिशोऽभिजिता भवन्ति पञ्चानां त्वा पञ्चजनानां धर्त्राय गृह्णामीति ॥ छन्दाँसि वै पञ्च पञ्चजना यज्ञश्छन्दाँस्युपैनं यज्ञो नमति भूरस्माकँ हव्यं देवानामाशिषो यजमानस्येति भूतिमेवात्मने गृह्णाति हव्यं देवेभ्य आशिषो यजमानस्य चरोस्त्वा पञ्चबिलस्य धर्त्राय गृह्णामीतीमे लोकाश्चरुः पञ्चबिल इमानेवास्मै लोकान् गृह्णाति धामासि प्रियं देवानामनाधृष्टं देवयजनमिति प्रज्ञात आज्यग्रहः पथागान्न यज्ञाद्धूर्छति नास्माद्यज्ञो हूर्छति य एवं वेद यज्ञो वै देवेभ्योऽपाक्रामत् तं वेदेनान्वविन्दँस्तद्वेदस्य वेदत्वं यद्वेदो भवति यज्ञस्यानुवित्त्यै स्त्री वै वेदिः पुमान् वेदो यद्वेदेन वेदिं संमार्ष्टि मिथुनमेव करोति प्रजापतेर्वा एतानि श्मश्रूणि यद्वेदो यां पत्नीं कामयेत पुत्रं विन्देतेति तस्या उपस्थ आस्येन्मिथुनमेव करोति ॥ शिरो वा एतद्यज्ञस्य यत् पुरोडाशः केशा वेदो यद्वेदेन पुरोडाशँ समुन्मार्ष्टि यज्ञस्य सर्वत्वायौषधयो वै वेदः पशव ओषधय एष पशूनां गोष्ठो यदन्तराग्नी यद्वेदमन्तराग्नी स्तृणाति स्व एव गोष्ठे भ्रातृव्यस्य पशून् वृङ्क्ते दुरनुवेदो वा अमुत्र यज्ञो यद्वेदो भवति यज्ञस्यानुवित्त्यै वि वा एतद्यज्ञश्छिद्यते यदर्धमासेऽर्धमासे सँस्थां गच्छति यत् संततमाहवनीयात् स्तृणाति यज्ञमेव संतनोति तँ संततमुत्तरेऽर्धमास आलभते ॥ यज्ञहनो वै देवा यज्ञमुषस्सन्ति त एषु लोकेष्वासत आददाना विमथ्नाना यो ददाति यो यजते तस्य ये देवा यज्ञहनो यज्ञमुषः पृथिव्यामध्यासत इति य एव पृथिव्यां यज्ञहनश्च यज्ञमुषश्च देवास्तानतीत्यान्तरिक्षं गच्छति गच्छेम सुकृतो वयमित्याशिषमेवाशास्ते ये देवा यज्ञहनो यज्ञमुषोऽन्तरिक्षेऽध्यासत इति य एवान्तरिक्षे यज्ञहनश्च यज्ञमुषश्च देवास्तानतीत्य दिवं गच्छति गच्छेम सुकृतो वयमित्याशिषमेवाशास्ते ये देवा यज्ञहनो यज्ञमुषो दिव्यध्यासत इति य एव दिवि यज्ञहनश्च यज्ञमुषश्च देवास्तानतीत्य स्वर्गं लोकं गच्छति गच्छेम सुकृतो वयमित्याशिषमेवाशास्ते ॥ गोमाँ अग्नेऽविमाँ अश्वी यज्ञ इति गोमन्तमेवाविमन्तमश्विनं यज्ञं कुरुते नृवत् सखा सदमिदप्रमृष्य इति नृवत् सखा ह्येष सदमिदप्रमृष्य इडावाँ एषो असुर प्रजावानित्याशिषमेवाशास्ते दीर्घो रयिः पृथुबुध्नस्सभावानिति प्रथयत्येवाग्ने व्रतमचारिषमित्यग्निर्वै देवानां व्रतपतिर्व्रतपतय एव व्रतँ संप्रयच्छति ॥६॥
देवतानां वा एतदायतनं यदाहवनीयो यदन्तराग्नी तत् पशूनां मनुष्याणां गार्हपत्योऽन्वाहार्यपचनः पितॄणां पूर्वं चाग्निमपरं च परिस्तरितवा आह मनुष्याणामिन्वैपच नवावसानं प्रियं नवावसानमेवाक्रन् मेध्यत्वाय सर्वा ह वा अस्य यक्ष्यमाणस्य देवता यज्ञमागच्छन्ति य एवं वेदाग्नेस्तनूरसि वाचो विसर्जनमिति पुरोडाशीयानावपति देवतानां वा एष ग्रहो देवता एवैतदग्रहीदथ ह स्माहारुण
औपवेशिरहुतासु वा अहमाहुतिषु देवता हव्यं गमयामि सँस्थितेन यज्ञेन सँस्थां गच्छानीति य एवं वेदाहुतास्वेवास्याहुतिषु देवता हव्यं गच्छति सँस्थितेन यज्ञेन सँस्थां गच्छत्यपः प्रणेष्यन् वाचं यच्छेदौलूखलेन वै दृषदा देवा यज्ञमुखाद्रक्षाँस्यपाघ्नन्मनसा वै प्रजापतिर्यज्ञमतनुतौलूखलस्योद्वदितोरध्वर्युश्च यजमानश्च वाचं यच्छेतां प्रजापतिरेव भूत्वा मनसा यज्ञं तत्वा तेन सर्वाणि सह यज्ञायुधानि प्रहृत्यानि मानुषं तत् क्रियते नैकमेकं पितृदेवत्यं तद् द्वे द्वे प्रहृत्ये याज्यानुवाक्ययो रूपमुपवसत्युभयाँस्तत् पशूनवरुन्द्धे ग्राम्याँश्चारण्याँश्च यद्ग्राम्यस्य नाश्नाति तेन ग्राम्यान् पशूनवरुन्द्धे यदारण्यस्याश्नाति तेनारण्यानथो इन्द्रियं वा एतद्यदारण्यमिन्द्रियमेवावरुन्द्धे ॥ न माषाणामश्नीयादमेध्या वै माषा न तस्य सायमश्नीयाद्येन प्रातर्यक्ष्यमाणस्स्यादप्रतिजग्धेन वै हव्येन देवा वसीयोभूयमगच्छन् प्रतिजग्धेनासुराः पराभवन्नप्रतिजग्धेन वै तद्धव्येन यजमानो वसीयोभूयं गच्छति यो वै श्रद्धामनारभ्य यजते पापीयान् भवत्यापश्श्रद्धा न वाचा गृह्णाति न यजुषाति वा एता वाचं नेदन्त्यति वर्त्रं मनस्तु नातिनेदन्ति तद्यर्ह्यपो ग्रहीष्यन् स्यादिमां तर्हि मनसा ध्यायेदियं वा एतासां पात्रमनयैवैना गृह्णाति श्रद्धामेवारभ्य यजते वसीयान् भवति ॥७॥ [२११९]
॥ इति श्रीयजुषि काठके चरकशाखायामोरिमिकायां यजमान-ब्राह्मणं नाम द्वात्रिंशं स्थानकं संपूर्णम् ॥३२॥