प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← स्थानकं ३३ काठकसंहिता (विस्वरः)
स्थानकम् ३४
[[लेखकः :|]]
स्थानकं ३५ →
एकादशिनी

अथ चतुस्त्रिंशं स्थानकम् ।

एकादशिनी।
एकादशिनीभिर्यन्ति प्राणा वा एकादशिनीः प्राणेष्वेव तत् प्रतितिष्ठन्तो यन्ति तदाहुर्यदेकादशिनीभिरियुरहानि वातिरिच्येरन् पशवो वा नोत्तमेनाह्नोत्तमः पशुस्संपद्यतेति तद्यदेकादशिनीकामास्स्युः प्रथमे मास्येकादशिनीमुपेयुरुत्तमे च प्राणा वा एकादशिनी प्राणानेव मुखतः प्रतिपद्यन्ते प्राणेष्वन्ततः प्रतितिष्ठन्त्यैन्द्राग्नः खल्वेवाच्युतः पशुस्स्यात् प्राणापानौ वा इन्द्राग्नी प्राणापानयोरेव तत् प्रतितिष्ठन्तो यन्ति तेजो वा इन्द्राग्नी तेजस्येव तत् प्रतितिष्ठन्तो यन्त्योजो वै वीर्यमिन्द्राग्नी तेजस्येव यद्वीर्ये प्रतितिष्ठन्तो यन्तीन्द्राग्नी सर्वा देवता यदैन्द्राग्नः पशुर्भवति सर्वा एव तद्देवताः प्रीणन्तो यन्ति ॥ यदहो रथंतरँ साम स्यादाग्नेयं तदहः पशुमालभेरन् यदहर्बृहदैन्द्रं तदहस्तद्वैन्द्राग्न एव यदहो रथंतरँ साम स्यादाग्नेन्द्रं तदहः पशुमालभेरन् यदहर्बृहदैन्द्राग्नं तदहस्तदनुपूर्वं देवते कल्पयन्ति यथापूर्वं पशूनालभन्त इन्द्राग्निभ्यामेव यन्ति बार्हस्पत्यँ शितिपृष्ठँ षष्ठेऽहन्नालभेरन् ब्रह्म वै बृहस्पतिर्ब्रह्मण्येव तद्यज्ञस्यान्ततः प्रतितिष्ठन्ति बार्हस्पत्यः खलु वाव शितिपृष्ठो देवतया द्यावापृथिव्यां धेनुँ सप्तमेऽहन्नालभेरन् प्रथमे छन्दोमे द्यावापृथिवी वै यज्ञस्य प्रतिष्ठा द्यावापृथिव्योरेव तद्यज्ञस्यान्ततः प्रतितिष्ठन्ति द्यावापृथिव्या खलु वाव धेनुर्देवतया वायव्यं वत्समष्टमेऽहन्नालभेरन् मध्यमे छन्दोमे प्राणो वै वायुः प्राण एव तद्यज्ञस्यान्ततः प्रतितिष्ठन्ति ॥ वायव्यः खलु वाव वत्सो देवतया वाचे पृश्निं नवमेऽहन्नालभेरन्नुत्तमे छन्दोमे वाग्वै पृश्निः प्रतिष्ठा वाच्येव तद्यज्ञस्यान्ततः प्रतितिष्ठन्ति वाग्देवत्या खलु वाव पृश्निर्देवतयादित्यां वशां दशमेऽहन्नालभेरन्नियं वा अदितिरियं प्रतिष्ठास्यामेव तद्यज्ञस्यान्ततः प्रतितिष्ठन्त्यादित्या खलु वाव वशा देवतया वैश्वकर्मणमृषभं महाव्रतीयेऽहन्नालभेरनिन्द्रो वै वृत्रँ हत्वा विश्वकर्माभवत् प्रजापतिः प्रजासृष्ट्वा विश्वकर्माभवत् संवत्सरो विश्वकर्मेत्याहुर्यमिमाः प्रजा अनुप्रजायन्त इति त्रिरूपस्स्यादुभयतएतो यत् प्रथमं रूपं तेनैन्द्रो यद् द्वितीयं तेन प्राजापत्यो यत् तृतीयं तत् संवत्सरस्य रूपमिन्द्रो वृषा प्रजापतिर्वृषा संवत्सरोऽस्य वृषेत्याहुर्यमिमाः प्रजा अनुप्रजायन्त इति तस्मादृषभस्स्यात् ॥१॥

असुर्यं वा एतस्माद्वर्णं कृत्वा तेज इन्द्रियं वीर्यं प्रजा पशवोऽपक्रामन्ति यस्य यूपो विरोहति स ईश्वर ईजानः पापीयान् भवति त्वाष्ट्रं बहुरूपमालभेत त्वष्टा वै रूपाणां विकर्ता तमेव भागधेयेनोपधावति सोऽस्मै तेज इन्द्रियं वीर्यं प्रजां पशून् पुनरुपावर्तयत्यार्तिं वा एते नियन्ति येषां दीक्षितानां प्रमीयते तं यदववृजेयुः क्रूरकृतामिवैषां लोकस्स्यादाहर दहेति ब्रूयुस्तं दक्षिणार्धे वेद्यां निधाय सर्पराज्ञ्या ऋग्भिस्स्तुयुरियं वै सर्पराज्ञ्यस्या एवैनमधिसमीरयन्ति तदाहुर्व्यृद्धं वा एतद्यत् स्तुतमननुशस्तमिति होता प्रथमो दीक्षितानां प्राचीनावीतं कृत्वा मार्जालीयं परीयाद्यामीरनब्रुवन् सर्पराज्ञ्या ऋचां कीर्तयन्नियं वै सर्पतो राज्ञ्यस्या एवैनमधिसमीरयन्ति धुवन्त्येवैनमेतदथो न्येवास्मै ह्नुवते तम इव वा एते नियन्ति येषां दीक्षितानां प्रमीयते ॥ अग्न आयूँषि पवस इत्येताँ सोमस्य प्रतिपदं कुर्वीरन् पुतन एवात्मानमायुरेवात्मन् दधतेऽथो ज्योतिष्मन्त एव यन्त्यप्रतिष्ठिता वा एते येषां दीक्षितानां प्रमीयते रथंतरसामैषाँ सोमस्स्यादियं वै पृथिवी रथंतरमस्यामेव प्रतितिष्ठन्ति।।२।।

यद्यक्रीतमपहरेयुरन्यः क्रीतव्यो यदि क्रीतं यो नेदिष्ठँ स्यात् स आहृत्याभिषुत्यो राजाहाराय तु किंचिद्दीयते नास्य स परिक्रीतो भवति यदि सोमं न विन्देयुः पूतीकानभिषुणुयुर्यदि न पूतीकानार्जुनानि गायत्री वै सोममपाहरच्छ्येनो भूत्वा तस्य सोमरक्षिरनुविसृज्य नखमच्छिनत् ततो योँऽशुरमुच्यत स पूतीकोऽभवदूतीका वै नामैते यदूतीकानभिषुण्वन्त्यूतिमेव यज्ञाय कुर्वन्तीन्द्रो वै वृत्रमहँस्तस्य यल्लोहितमासीत् तान्यार्जुनानि लोहिततूलान्यभवन्नथ यो ग्रीवाभ्यः प्रवृढाभ्यो रसस्समस्रवत् तान्यार्जुनानि बभ्रुतूलान्यभवन् सोमो वा एषोऽसुर्य इव तु तस्मान्नाभिषुत्यः प्रतिधुक् च प्रातः पूतीकाश्च दधि मध्यन्दिने पूतीकाश्च शृतं चापराह्णे पूतीकाश्चेन्द्रियेण वा एष सोमपीथेन व्यृध्यते यस्य सोममपाहरन्ति स ओषधीश्च पशूँश्च प्रविशति यदेतदुभयमभिषुण्वन्त्योषधिभ्यश्चैव पशुभ्यश्चाधि सोमपीथं पुनरवरुन्द्धे ॥३॥

यदि सोमौ सँसुतौ स्यातां महति रात्र्याः प्रातरनुवाकमुपाकुर्यात् पूर्व एव यज्ञं पूर्वो देवताः पूर्वश्छन्दाँसि वृङ्क्ते वृषण्वतीं प्रतिपदं कुर्यादिन्द्रो वै वृषा प्रातस्सवनादेवैषामिन्द्रं वृङ्क्ते तदाहुस्सवनमुखे सवनमुखे कर्तव्येति सवनमुखात् सवनमुखादेवैषामिन्द्रं वृङ्क्ते संवेशायोपवेशाय गायत्र्यै छन्दसेऽभिभुवे स्वाहा संवेशायोपवेशाय त्रिष्टुभे जगत्या अनुष्टुभे छन्दसेऽभिभुवे स्वाहेत्येतावन्ति वै छन्दाँसि च्छन्दोभिर्देवा असुराणां छन्दाँस्यवृञ्जत च्छन्दोभिरेवैषां छन्दाँसि वृङ्क्ते ॥ सजन्यँ शस्यं विहव्यँ शस्यमगस्त्यस्य कयाशुभीयँ शस्यमेतावद्वावास्ति यावदेवास्त्यन्तरिक्षाद्दिवः पृथिव्या अहोरात्राभ्यां तेभ्य एनान् सर्वेभ्यो निर्भजति यदि प्रातस्सवने कलशो दीर्येत वैष्णवीषु शिपिविष्टवतीषु माध्यन्दिने पवमाने स्तुयुर्यद्वै यज्ञस्यातिरिच्यते विष्णुं तच्छिपिविष्टमभ्यतिरिच्यतेऽतिरिक्तं वा एतदतिरिक्तँ शिपिविष्टमतिरिक्तेनैवातिरिक्तमाप्नोति यदि मध्यन्दिन आर्भवस्य पवमानस्य पुरस्ताद्वषट्कारनिधनँ साम कुर्युर्यदि तृतीयसवन एतदेव वषट्कारो वै यज्ञस्य प्रतिष्ठा प्रतिष्ठामेवैनं गमयन्ति ॥४॥

आसन्दीमारुह्योद्गाता महाव्रतेनोद्गायति प्रेङ्खमारुह्य होता महदुक्थमनुशँसत्यधिष्ठानेऽधिष्ठायाध्वर्यू प्रतिगृणीतः कूर्चेष्वितर आसतेऽन्तरिक्षं वा अन्नममुतो वै प्रदीयतेऽस्यां प्रजायते तदन्तरिक्षाय जायते यदन्तरिक्ष आसीना महाव्रतेन चरन्त्यन्नाद्यस्योपाप्त्या अथो देवसाक्ष्य एवो परिषद्य याजयन्ति स्वर्गमु लोकमाक्रममाणा यन्त्यभिगरापगरौ भवतः प्र वा अन्यस्सत्त्रिणश्शँसति निन्दत्यन्यो यः प्रशंसति यदेवैषाँ सुष्टुतँ सुशस्तं तत् स प्रशँसत्यथ यो निन्दति यदेवैषाँ सुष्टुतँ सुशस्तं तत् सोऽपहन्ति शूद्रार्यौ चर्मन् व्यायच्छेते ॥ देवाश्च वा असुराश्चादित्ये व्यायच्छन्त तं देवा अभ्यजयन्नार्यं वर्णमुज्जापयत्यात्मानमेवोज्जापयत्यन्तर्वेद्यार्यस्स्याद्बहिर्वेदि शूद्रश्श्वेतं चर्म परिमण्डलं स्यादादित्यस्य रूपँ सर्वासु स्रक्तिषु दुन्दुभयो वदन्ति या दिक्षु वाक्तां तेनावरुन्धते भूमिदुन्दुभिर्भवति यास्यां वाक्तां तेनावरुन्धते वीणा वदन्ति या पशुषु वाक्तां तेनावरुन्धते काण्डवीणा वदन्ति यौषधिषु वाक्तां तेनावरुन्धते नाडीतूणवा वदन्ति या वनस्पतिषु वाक्तां तेनावरुन्धते वाणश्शततन्तुर्भवति शतायुर्वै पुरुषश्शतवीर्य आयुरेव वीर्यमवरुन्द्धे ।। ब्रह्मचारी च पुँश्चली चर्तीयेते सर्वा हि भूते वाचो वदन्ति मिथुनं चरन्ति संवत्सरं वा एते प्रजायमानास्सत्त्रमासते तेषाँ संवत्सरेणैव प्रजननमन्तर्धीयते यन्मिथुनं चरन्ति संवत्सरस्यैव प्रजननस्योपाप्त्यै कुम्भिनीरुपाचरन्ति समृद्ध्या इदंमधुरं गायन्तीस्संनद्धकवचाः परियन्ति महाव्रतमेव महयन्त्यथो सेन्द्रताया एव ब्रह्मणो वा अन्या त्विषिः क्षत्रस्यान्या यद्दीक्षितोऽधिकृष्णाजिनस्सा ब्रह्मणस्त्विषिर्यत् संनद्धकवचोऽधिज्यधनुस्सा क्षत्रस्य त्विषिस्तदुभयं भवत्युभयोस्त्विष्योरवरुद्ध्यै ॥५॥

प्रजापतिर्वा आत्मनोऽधि द्वादशाहं निरमिमीत संवत्सरः प्रजापतिस्स चतुर्णां मासां तिस्रस्तिस्रो रात्रीरादत्त सा दीक्षाभवत् स उत्तरेषां चतुर्णां तिस्रस्तिस्रो रात्रीरादत्त ता उपसदोऽभवन् स उत्तरेषां चतुर्णां तिस्रस्तिस्रो रात्रीरादत्त सा सुत्याभवत् तस्मादाहुर्यावान् संवत्सरस्तावान् द्वादशाह इति सर्वस्माद्ध्येष संवत्सरादधि निर्मितस्स प्रथमं चाहरसृजतेहीडं च सामेमं लोकमग्निं ज्योतिर्द्वितीयं चाहरसृजतोर्ध्वेडं च सामान्तरिक्षं लोकं वायुं ज्योतिस्तृतीयं चाहरसृजतेडाभिरैडं च सामामुं लोकँ सूर्यं ज्योतिश्चतुर्थं चाहरसृजत परिस्तुब्धेडं च साम यस्मिँश्च लोके तेजो ज्योतिः पञ्चमं चाहरसृजताध्यर्धेडं च साम यस्मिंल्लोके सत्यं ज्योतिष्षष्ठं चाहरसृजत होइडं च साम यस्मिंल्लोके ब्रह्म ज्योतिस्सप्तमं चाहरसृजत पुनर्नितुन्नां चेडां यस्मिँश्च लोके तपो ज्योतिरष्टमं चाहरसृजत विष्वगैडं च साम यस्मिँश्च लोक ऋतं ज्योतिर्नवमं चाहरसृजत होइडं च साम यस्मिँश्च लोके ब्रह्म ज्योतिर्दशमं चाहरसृजत द्वीडं च साम यस्मिँल्लोकेऽमृतं ज्योतिः प्राण एव प्रायणीयोऽपान उदयनीयस्तस्माद्यावदेव प्रायणीये क्रियते तावदुदयनीये क्रियते यावान् हि प्राणस्तावानपान एतांल्लोकानेतानि सामान्येतानि ज्योतीँष्येतानि तेजाँस्यवरुन्द्धे य एवं विद्वान् द्वादशाहेन यजते ॥६॥

प्रजापतिरकामयत प्रजास्सृजेयेति स एतमात्मन् द्वादशाहमपश्यत् तमात्मनो निरमिमीत तेन प्रजा असृजत तं गायत्री छन्दोऽन्वसृज्यत साकामयताहमिमँ सर्वतः परिभवेयमिति तं तेजसा मुखतः पर्यभवदोजसा मध्यतश्छन्दसोपरिष्टात् सर्वतो वै सा तं व्यत्यशयत् सर्वतो भ्रातृव्यं व्यतिशये य एवं वेद द्वे रूपे संवत्सरस्य मासा अन्यदृतवोऽन्यद्यत् षडृतवस्तेनाप्तो यद् द्वादश मासास्तेनाप्त उभाभ्यामेव रूपाभ्याँ संवत्सरमाप्नोति ब्रह्म वै गायत्री क्षत्रं द्वादशाहोऽन्वेनं क्षत्रं बुध्यते प्र पुरोधामाप्नोति य एवं वेद ॥ यज्ञं वा अन्यानि च्छन्दाँस्यभ्यसृज्यन्त स्वाराज्यमेव बृहत्यभ्यसृज्यत तस्माद्बृहत्या न वषट्कुर्वन्ति यद्वषट्कुर्युः पशूनग्नौ प्रदध्युर्वचसाप्त्वा पशूनवरुन्धते वाचि वा एते चत्वारः पशवो गौरश्वोऽजाविस्तस्माद्वाचा हूताः पशव उदायन्ति वाचा सिद्धा आवर्तन्ते बृहतीं वा एत आप्नुवन्ति य एता रात्रीरासते षट्त्रिँशदेता रात्रयष्षट्त्रिंशदक्षरा बृहती बृहती स्वर्गं लोकं प्रवेद स्वर्गं लोकमाप्नुवन्ति य एता रात्रीरासते देवलोकान् वा एत आप्नुवन्ति य एता रात्रीरासते षट्त्रिँशदेता रात्रयष्षट्त्रिँशद्देवलोका अष्टौ वसव एकादश रुद्रा द्वादशादित्या वषट्कारश्च प्रजापतिश्च त्रय इमे लोकास्तान् सर्वान् देवलोकानाप्नुवन्ति य एता रात्रीरासत उभये वै देवाश्च मनुष्याश्चाव्यावृत्ता आसँस्ते देवा एतं द्वादशाहमुपायँस्ते दीक्षयैवात्मानमपुनतोपसद्भिर्यज्ञँ समभरन्त हित्वा शरीरँ सुत्यया स्वर्गं लोकमायन् य एवं विद्वान् द्वादशाहमुपैति दीक्षयैवात्मानं पुनीत उपसद्भिर्यज्ञँ संभरते हित्वा शरीरँ सुत्यया स्वर्गं लोकमेति प्रजापतिर्वा एतँ स्वर्गकाम आहरत् स न प्राभवदेकादशाहो वा एष स एतमतिरात्रमुपरिष्टादुभयतः पर्यहरत् समानो वा एष उभयतः परिह्रियते स्वर्गस्य लोकस्य समष्ट्यै ॥७॥

प्रजापतिरकामयत प्रजायेयेति स द्वादशाहेनायजत तेन प्राजायत प्रैव जायते य एवं वेदापो वै यद्यज्ञिया मेध्या असृज्यन्त तदेका अपि नासृज्यन्तासृग्वाव तन्नासृज्यत तदस्नोऽसृक्त्वं तस्माद्यदेवासृक छिद्यतेऽथ यज्ञियो मेध्यो भवति पुरुषसंमितो वा एष यस्सत्त्रियं प्रतिगृह्णाति पुरुषं वै सोऽत्ति यं खलु वै पुरुषमत्ति न तस्यास्मिंल्लोके नामुष्मिन्नपिभवति प्राणो वै पूर्वोऽत्रिरात्रोऽपान उत्तर इयं वै पूर्वोऽतिरात्रोऽसा उत्तरोऽग्निर्वै पूर्वोऽग्निष्टोमस्सूर्य उत्तरोऽन्तरौ वा एता अनयोस्तस्मादन्तरौ प्रयुज्येते तदाहुर्यदग्निष्टोमप्रायणो यज्ञः कस्मादतिरात्रौ पूर्वौ प्रयुज्येते इत्यथाहुश्चक्षुषी वा एते यज्ञस्य यदतिरात्रौ कनीनिके अग्निष्टोमा इति यदग्निष्टोमौ पूर्वौ प्रयुञ्जीरन् बहिष्कनीनिके निरादध्युरन्धाः प्रजायेरन् यदतिरात्रौ पूर्वौ प्रयुज्येते चक्षुषी एव यज्ञस्य प्रतिधाय मध्यतः कनीनिके प्रतिदधाति भूतं वै पूर्वोऽतिरात्रो भव्यमुत्तरस्सदिमानि दशाहानि मध्ये सद्भवति य एवं वेद यो ह वै गायत्रीं ज्योतिष्पक्षां वेद ज्योतिष्मता भासा स्वर्गं लोकमेति या अतिरात्रौ तौ पक्षौ या अग्निष्टोमौ ते ज्योतिषी येऽष्टा अन्तर उक्थ्यास्स आत्मैषा वै गायत्री ज्योतिष्पक्षा य एवं गायत्रीं ज्योतिष्पक्षां वेद ज्योतिष्मता भासा स्वर्गं लोकमेति ॥ पक्षिणो वा एते भवन्ति पक्षिणा भूत्वा यत्र कामयन्ति तत् परापातमासत एष वै प्रजापतिर्द्वादशधा विनिहितो यद् द्वादशाहो या अतिरात्रौ तौ पक्षी या अग्निष्टोमौ ते चक्षुषी येऽष्टा अन्तर उक्थ्यास्स आत्मा स एष प्रजापतिरेव सद्वै सत्त्रिणस्स्पृण्वन्ति तत् सत्त्रस्य सत्त्रत्वं प्राणा वै सत् प्राणानेव तत् स्पृण्वन्ति सर्वासां वा एते प्रजानां प्राणैरासते ये सत्त्रमासते तस्मात् पृच्छन्ति किमेते सत्त्रिण इति प्रियः प्रजानामुत्थितो भवति य एवं वेद ॥८॥

प्रजापतिरकामयत स्यामिति स द्वादशाहेनायजत तेनाभवत् तस्मादाहुर्बुभूषतो यज्ञ इति तं मासा दीक्षितमदीक्षिता अयाजयँस्तस्माद्दीक्षितमदीक्षिता याजयन्ति तेभ्य इषमूर्जमददात् सेयं मासेष्वार्ध्नोत् प्रजापतिदत्तार्ध्नुवन्मासाः प्रतिगृह्यर्ध्नोति य एवं विद्वान् ददात्यृध्नोति यः प्रतिगृह्णाति पीवा दीक्षेत यदस्याङ्गानामीयते जुहोत्येव तत् स यथा वसन्तो नवदाव्यश्शोभमान उत्तिष्ठत्येवमेव नवदाव्यश्शोभमान उत्तिष्ठति तपो वै यज्ञस्य श्लेष्म यथा वै रथस्य श्लेष्मैवं यज्ञस्य तपो योऽतपस्वी भवत्यसँश्लिष्टोऽस्य यज्ञस्तपस्वी स्याद्यज्ञमेव संश्लेषयतेऽर्धमसा वावासँस्तेऽकामयन्त मासास्स्यामेति ते द्वादशाहमुपायँस्त्रयोदशं ब्रह्माणं कृत्वा तस्मिन् दृष्टोदतिष्ठँस्तस्मात् सोऽनायतन इतरानुपजीवति तस्माद् द्वादशाहस्य त्रयोदशेन न ब्रह्मणा भवितव्यं द्वादश दीक्षेरन् संवत्सरायतना द्वादश मासास्संवत्सरस्संवत्सरायतना एवर्नु्षवन्ति त्रयोदश दीक्षेरन् संवत्सरायतनास्त्रयोदश मासास्संवत्सरस्संवत्सरायतना एवर्ध्नुवन्ति पञ्चदश दीक्षेरन्नर्धमासायतनाः पञ्चदशार्धमासस्य रात्रयोऽर्धमासायतना एवर्ध्नुवन्ति सप्तदश दीक्षेरन् प्राजापत्यायतनाः प्रजापतिस्सप्तदशः प्राजापत्यायतना एवर्ध्नुवन्त्येकविँशतिर्दीक्षेरन् रुक्कामा असा आदित्य एकविँश एष रुचः प्रदाता स एभ्यो रुचं प्रयच्छति चतुर्विँशतिर्दीक्षेरन् ब्रह्मवर्चसकामाश्चतुर्विँशत्यक्षरा गायत्री तेजो गायत्री ब्रह्मवर्चसं तेज एव ब्रह्मवर्चसमवरुन्धते सप्तविँशतिर्दीक्षेरँस्त्रिणवायतनास्त्रिणवा इमे लोकास्त्रिणवायतना एवर्ध्नुवन्ति त्रिँशद्दीक्षेरन् मासायतनास्त्रिँशन्मासो रात्रयो मासायतना एवर्ध्नुवन्ति त्रयस्त्रिँशद्दीक्षेरन् देवतायतनास्त्रयस्त्रिँशद्देवता देवतायतना एवर्ध्नुवन्ति चतुश्चत्वारिँशद्दीक्षेरन्नोजस्कामा वीर्यकामाश्चतुश्चत्वारिंशदक्षरा त्रिष्टुबोजो वीर्यं त्रिष्टुबोज एव वीर्यमवरुन्धतेऽष्टाचत्वारिँशद्दीक्षेरन् पशुकामा अष्टाचत्वारिँशदक्षरा जगती तागताः पशवः पशूनेवावरुन्धतेऽपरिमिता दीक्षेरन्नपरिमितस्यावरुद्ध्या अपरिमितः प्रजापतिः प्रजापतिमेवार्ध्नुवन्त्यृतवो वावासन्ननुयावरा मासास्ते मासा अकामयन्तर्तूनाप्नुयामेति ते द्वादशाहमुपायँस्त्रयोदशं ब्रह्माणं कृत्वा त ऋतूञ्छिशिरेण निभाय्य वसन्तमूर्जमेषामभ्युदतिष्ठन् य एवं विद्वाञ्छिशिरे दीक्षते तपसैव भ्रातृव्यं निभाय्येषमूर्जमस्याभ्युत्तिष्ठति शिशिरं वा एतस्य प्रयाणं वसन्तोऽवसानमृध्नोति य एवं विद्वाञ्छिशिरे दीक्षते ॥९॥

ब्रह्मवादिनो वदन्ति किं प्रथमेनाह्ना द्वादशाहस्यावरुन्द्ध इति तेजो ब्रह्मवर्चसं किं द्वितीयेनेति वाचमन्नाद्यं किं तृतीयेनेति त्रीनिमांल्लोकान् किं चतुर्थेनेति चतुष्पदः पशून् किं पञ्चमेनेति चतस्रो दिश ऊर्ध्वां पञ्चमीं किँ षष्ठेनेति षडृतून् किँ सप्तमेनेति सप्तपदाँ शक्करीं किमष्टमेनेत्यष्टाक्षरां गायत्रीं किं नवमेनेति नव प्राणान् किं दशमेनेति दशाक्षरां विराजं किमेकादशेनेत्येकादशाक्षरां त्रिष्टुभं किं द्वादशेनेति द्वादशाक्षरां जगतीमेतावद्वावास्ति यावदेवास्ति तत् सर्वमाप्त्वावरुन्द्ध ऋध्नोति वसीयान् भवति य एवं विद्वान् द्वादशाहेन यजते ॥१०॥

चतुर्वै तास्तिस्रस्तिस्रस्तासां याः प्रथमा आत्मानं ताभिः पुनीते या द्वितीया मेध्यस्ताभिर्यज्ञियो भवति यास्तृतीया गात्राणि ताभिर्निर्णेनिक्तेऽथ याश्चतुर्थीर्यदेवास्यान्तरतो यद्बहिष्टाच्छमलं तत् ताभिर्धूनुते पुरुषं खलु वा एतेऽदन्ति यद् द्वादशाहेन याजयन्ति यः पाशवमत्ति माँसँ सोऽत्ति यो वाजिनं लोहितँ स यो धाना अस्थि स य आज्यं मज्जानँ स यः परिवापं केशान् स यः पुरोडाशं मस्तिष्कँ स यो राजानं भक्षयति स्वेदँ स यः करम्भं निष्पदँ स एष ह खलु वै सत्रियमत्ति योऽनृतं वदति स्वदितमस्य सत्त्रियं भवति नास्य सत्त्रियं जग्धं भवति य एवं वेद ॥११॥
  
द्वादश दीक्षितो भवति जायत एव तत् तद्धि जातं यत् तपसोऽधि जायते न यत् स्त्रिया द्वादश दीक्षितो भवति द्वादश वै पुरुषेऽमेध्यानि लोम च तनूश्चासृक् च माँसं चास्थि च मज्जा च सेहुश्च प्लीहा चाश्रु च दूषीका च स्वेदश्च यच्च प्रस्रावयत एतानि वै पुरुषे द्वादशामेध्यानि यद् द्वादश दीक्षितो भवति तान्येवापहते द्वादश दीक्षितो भवति द्वादशोपसदो द्वादश प्रसूतस्ताष्षट्त्रिँशत् संपद्यन्ते षट्त्रिंशदक्षरा बृहती बार्हताः पशवो बृहत्यामेवैतत् पशूनाप्नोति बृहत्यामेवैतत् पशूनाप्त्वावरुन्द्धे ततो यानि चत्वार्यक्षराण्युत्क्रामन्ति सा चतुष्पदानुष्टुब् वागनुष्टुब् वाच्येवैतत् पशूनाप्नोति वाच्येवैतत् पशूनाप्त्वावरुन्द्धे तस्माद्वाचा पशवो नाम जानते वाचा सिद्धानि वर्तन्ते ॥१२॥

प्रजापतिरकामयत भूयान् स्याँ श्रेयान् स्यामृध्नुयामिति स द्वादशाहेनादीक्षत तेनायजत स आर्ध्नोत् तस्मादेको द्वादशाहेन यजतैको हि स आर्ध्नोत् प्रजापतिरेव प्रजापतेरेवर्द्धमन्वृध्नोति य एवं विद्वानेको द्वादशाहेन यजते तेन तिस्रो देवता रोचना अदीक्षन्त तेनायजन्त ता आर्ध्नुवँस्तस्मात् त्रयो द्वादशाहेन यजेरँस्त्रयो हि त आर्ध्नुवन्निम एव लोका एषामेव लोकानामृद्धमन्वृध्नुवन्ति य एवं विद्वाँसस्त्रयो द्वादशाहेन यजन्ते तेन षड् देवता अदीक्षन्त तेनायजन्त ता आर्ध्नुवँस्तस्मात् षड् द्वादशाहेन यजेरन् षड्ढि त आर्ध्नुवन्नृतव एवर्तूनामेवर्द्धमन्वृध्नुवन्ति य एवं विद्वाँसष्षड् द्वादशाहेन यजन्ते तेन द्वादश देवता अदीक्षन्त तेनायजन्त ता आर्नुेनवँस्ते पूर्वपक्षेष्वार्ध्नुवन्नपरपक्षाननूपाह्वयन्त तस्माद् द्वादश द्वादशाहेन यजेरन् द्वादश हि त आर्ध्नुवन् मासा एव मासानामेवर्द्धमन्वृध्नुवन्ति य एवं विद्वाँसो द्वादश द्वादशाहेन यजन्त उपसत्सु त्रयोदशो दीक्षेतोत हि तं विदुरुत न विदुरुत वै त्रयोदशं मासं विदुरुत न विदुः ॥१३॥

प्रजापतिर्मनसि सारस्वतो वाचि विसृष्टायां धाता दीक्षायां ब्रह्म व्रते सविता भृत्यामन्धोऽच्छेतो दिव्यस्सुपर्णः प्रतिख्यातोऽदितिः प्रायणीये पशुष्ठा न्युप्तो रुद्रो विचीयमानश्छन्दाँसि मीयमानो वरुण उपनद्धः पूषा सोमक्रयण्यां भगः पण्यमानोऽसुरः क्रीतश्शिपिविष्ट ऊरा आसाद्यमानो बृहस्पतिरुत्थितो वायुरधिह्रियमाणोऽधिपतिः प्रोह्यमाणोऽग्नीषोमीयः पशा अतिथिर्दुरोणसदातिथ्ये वरुणस्सम्राडासन्द्यामासाद्यमान ऐन्द्राग्नो अग्नौ मथ्यमान ऐन्द्राग्नोऽग्नौ प्रह्रियमाणे साम तानूनप्त्रे तपोऽवान्तरदीक्षायां पृथिव्युपसद्यन्तरिक्षमुपसदि द्यौरुपसदि यज्ञस्य प्रमाभिमोन्मा प्रतिमा वेद्यां क्रियमाणायां पशव उत्तरवेद्यां द्यौर्हविर्धानेऽन्तरिक्षमाग्नीध्रे पृथिवी सदसि ॥१४॥
 
प्राण उपरवेषु भ्रातृव्या धिष्ण्येषु पशवा बर्हिषि वेद्याँ स्तीर्यमाणायामप्तुर्वैसर्जने प्रजापतिः प्रणीयमानोऽग्निराग्नीध्रे वैष्णव आसन्नकर्मणि हस्तो विसृष्टो वैष्णवो यूप ओषधयो रशनायां मेध आप्रीषु हविः पर्यग्निकृतः पितृदेवत्यस्संज्ञप्यमाने यज्ञस्य मिथुनं पन्नेजनीषु रक्षसां भागधेयं वपायामुद्बृह्यमानायां यज्ञस्य संततिर्वसतीवरीषु परिह्रियमाणास्विन्द्राग्न्योर्धेनुर्दक्षिणायामुत्तरवेद्याश्श्रोण्यामासन्ना मित्रावरुणयोर्धेनुरुत्तरस्यामुत्तरवेद्याश्श्रोण्यामासन्ना विश्वेषां देवानामाग्नीध्रे छन्दाँस्युपवसथे हविरुपावहृतस्सारस्वतः प्रातरनुवाकेऽथ वा न्युप्तः प्रजापतिर्विभज्यमाना देवता विभक्त इन्द्रो वृत्रहेन्द्रोऽभिमातिहेन्द्रो वृत्रतूरुन्नीयमान आयुरुपाँश्वन्तर्यामयोर्यमोऽभिषुतः ॥१५॥

निभूयपूराधवनीये सुपूतपूः पूतभृति शुक्रश्रीः क्षीरश्रीः ककुहस्सक्तुश्रीः पात्रेषु वायुर्बहिष्पवमाने होत्राः प्रवरे वसवः प्रयाजेषु यद्देवत्यस्सोमस्तद्देवत्यः पशुर्वैश्वदेव उन्नीयमान ऐन्द्राग्न उन्नीतो रुद्रो हूयमानो वाग्घुतो मारुतो गणोऽभ्यावृत्तो मित्रः प्रतिख्यात इन्द्र आसन्नो भक्षो भक्ष्यमाणस्सखा भक्षितः पितरो नाराशँस आग्नेयं प्रातस्सवनमैन्द्रं माध्यन्दिनँ सवनं यज्ञो दक्षिणायामैन्द्राणि पृष्ठानि वैश्वदेवं तृतीयसवनं वैश्वानरोऽग्निष्टोम ऐन्द्रावारुणं मैत्रावरुणस्य स्तोत्रमैन्द्राबार्हस्पत्यं ब्राह्मणाच्छँसिन ऐन्द्रावैष्णवमच्छावाकस्यैन्द्रष्षोडशी रात्री पत्न्याग्नेयो रथंतरस्संधिस्सौर्यमाश्विनमहर्यज्ञ आदित्या अनुयाजेषु यदन्तरा क्रियते समुद्रो वरुणोऽवभृथे समुद्र ऋजीषे यदवारे तीर्थं तत् प्रायणीयं यत्पारे तीर्थं तदुदयनीयं वैष्णवो वशायां ब्रह्मा समिष्ट्याम् ॥१६॥

यथा वै रथ एकैकमरमभिप्रतितिष्ठन् वर्तत एवं यज्ञ एकैकां तन्वमभिप्रतितिष्ठन्नेति पुरा प्रचरितोराग्नीध्रे होतव्या एतद्ध वा उवाच वासिष्ठस्सात्यहव्याऽस्कान् सोम इत्युक्ते मा सूर्क्षत प्रचरत प्रातर्वावाद्याहँ सोमँ समस्थापयमिति नास्य सोमस्स्कन्दति य एवं वेद स ह स्म वै स आसन्द्यामासीनस्सक्तुभिरुपमथ्य सोमं पिबत्यहं वाव सर्वतो यज्ञं वेद य एता वेद न मामेष हिँसिष्यतीति नैनँ सोमः पीतो न पेयो हिनस्ति य एवं विद्वान् सोमं पिबति तँ ह स्म यदाहुः कस्मात् त्वमिदमासीनस्सक्तुभिरुपमथ्य सोमं पिबसीति देवतास्वेव यज्ञं प्रतिष्ठापयामीत्यब्रवीद्यस्यैवं विदुषो यस्यैवं विद्वान् यज्ञार्त्या यज्ञप्रायश्चित्तिं जुहोति देवतास्वेव यज्ञं प्रतिष्ठापयति ॥ यज्ञार्तिं प्रतिजुहुयात् सयोनित्वाय त्रयस्त्रिंशद्वै यज्ञस्य तन्व एकान्नत्रिँशत् स्तोमभागास्त्रीणि सवनानि यज्ञश्चतुर्थस्स्तोमभागैरेवैतत् स्तोमभागान् प्रतियुङ्क्ते सवनैस्सवनानि यज्ञेन यज्ञँ सर्वा ह वा अस्य यज्ञस्य तन्वः प्रयुक्ता भवन्ति सर्वा आप्तास्सर्वा अवरुद्धा देवस्य सवितुः प्रसवे बृहस्पतये स्तुतेति यद्यद्वै सविता देवेभ्यः प्रासुवत् तेनार्नुर्वन् सवितृप्रसूता एव स्तुवन्त्यृध्नुवन्त्यृध्यन्ते ह वा अस्य स्तोमा ऋध्यते यज्ञ ऋध्यते यजमानायर्ध्यते प्रजाया ऋध्यते पशुभ्य ऋध्यते ब्रह्मणे यस्यैवं विदुषो यस्यैवं विद्वान् ब्रह्मा भवति ॥१७॥

यो वै स्तोमभागानामायताश्च प्रतिहिताश्च विद्यात स समृतसोमस्य ब्रह्मा स्याद्बहिष्पवमाने प्रस्तुते ब्रूयात् स्तुतेषे स्तुतोर्जे स्तुत देवस्य सवितुः प्रसवे बृहस्पतिप्रसूता इत्येता वै स्तोमभागानामायतप्रतिहिता य एवं विद्यात् स समृतसोमस्य ब्रह्मा स्याद्यां दिशँ सोमौ सँस्तुतौ स्यातां तां दिशं परीक्षेतेदमहममुमामुष्यायणममुष्याः पुत्रँ शुचा विध्यामीत्यृत्विजामेकं ब्रूयाच्छुचैवैनान् विध्यति यो वै स्तोमभागानामायताश्च प्रतिहिताश्चाविद्वान् ब्रह्मा भवति स विष्वग्वीर्येण व्यृध्यते बहिष्पवमाने प्रस्तुते स्तुतेषे स्तुतोर्जे स्तुत देवस्य सवितुः प्रसवे बृहस्पतिप्रसूता इत्युपर्युपरि ब्रह्माणमतीक्षेताधरमेव द्विषन्तं कुरुते ब्रह्मन् सोमोऽस्कानिति यज्ञोऽस्कानित्येवैतदाह यत्र स्कन्देत् तदपो निनीय ॥
अभूद्देवस्सविता वन्द्यो नु न इदानीमह्न उपवाच्यो नृभिः ।
वि यो रत्ना भजति मानवेभ्यश्श्रेष्ठं नो अत्र द्रविणं यथा दधत् ॥
इत्यभिमन्त्रयेतापो वै सर्वा देवता देवतास्वेव यज्ञं प्रतिष्ठापयति यत्र वै ब्रह्मान्यस्मै भूयो दीयमानं पश्यति सोऽधराचीनप्रवणस्सोमो भवति यदि ब्रह्मान्यस्मै भूयो दीयमानं पश्येदिदमहममुष्यामुष्यायणस्येन्द्रियं वीर्यं वृञ्ज इति यजमानं ब्रूयादिन्द्रियमेवास्य वीर्यं वृङ्क्ते ॥१८॥
  
अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् । दूरेदृशं गृहपतिमथर्युम् ॥
अग्निनाग्निस्समिध्यते कविर्गृहपतिर्युवा । हव्यवाड् जुह्वास्यः ॥
सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्तर्षयस्सप्त धाम प्रियाणि ।
सप्त होत्रा अनु विद्वान् सप्त योनीरापृणस्वा घृतेन ॥
मनो ज्योतिर्जुषतामाज्यस्यारिष्टं यज्ञँ समिमं तनोतु ।
इमं यज्ञँ सप्ततन्तुं ततं न आ देवा यन्तु सुमनस्यमानाः ॥
त्रयस्त्रिंशत् तन्तवो यान्वितन्वत इमं यज्ञँ स्वधया ये ददन्ते ।
तेषां छिद्रं प्रतिदध्मो यदत्र स्वाहायं यज्ञो अप्येतु देवान् ॥
यन्मे मनसश्छिद्रं यद्वाचो यच्च मे हृदः।
अयं देवो बृहस्पतिस्सं तत् सिञ्चतु राधसा ॥
विश्वकर्मा हविरिदं जुषाणस्संतानैर्यज्ञँ समिमं तनोतु ।
या व्युष्टा उषसो याश्च निम्रुचस्तास्संदधातु हविषा घृतेन ॥
अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यमित्त्वमया असि ।
अयास्सन् मनसा कृतोऽयास्सन् हव्यमूहिषेऽया नो धेहि भेषजम् ॥
त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवयासिसीष्ठाः ।
यजिष्ठो वह्नितमश्शोशुचानो विश्वा द्वेषाँसि प्रमुमुग्ध्यस्मत् ॥
स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।
अवयक्ष्व नो वरुणं रराणो वीहि मृडीकँ सुहवो न एधि ॥१९॥ [२१७८]


॥ इति श्रीयजुषि काठके चरकशाखायामोरिमिकायामेकादशिनी नाम चतुस्त्रिंशं स्थानकं संपूर्णम् ॥३४॥