← स्थानकं ३५ काठकसंहिता (विस्वरः)
स्थानकम् ३६
[[लेखकः :|]]
स्थानकं ३७ →
चातुर्मास्यानि

अथ षट्त्रिंशं स्थानकम्।

चातुर्मास्यानि।
इन्द्रस्य वै वृत्रं जघ्नुष इन्द्रियं वीर्यमपाक्रामत् तदिदँ सर्वमनुप्राविशदप ओषधीर्वनस्पतीँस्तेन देवा अश्राम्यँस्त इदँ समनयन् यत् सान्नाय्यं मिथुनं वै दधि च पयश्च यत् सँसृष्टं मण्डमिव मस्त्विव परीव ददृशे गर्भ एव स तपसो वै प्रजाः प्रजायन्ते तपस्त्वमेतद्गच्छति यच्छृतत्वं गच्छति तत एव प्रजायते यद्वैश्वदेव्यामिक्षया प्रजा असृजत तस्मादिमा वैश्वदेवीः प्रजास्स्तोका वै विश्वे देवास्तानेवैतद्यजत्यमुतःप्रदानाद्धि प्रजा उपजीवन्ति ॥ योनिर्वा एष प्रजानां तं मरुतोऽभ्यकामयन्त तेँऽहोगृहीता असृज्यन्त यत् स्वतवद्भ्यस्स्वत्वायैव निष्कृत्यै पशवो वै मरुतः प्रजननायैष पशूनाँ सप्तकपालो भवति सप्त हि मरुतो निरवत्त्या एव मारुतोऽथो ग्राम्यमेवैतेनान्नाद्यमवरुन्द्धे ता वैश्वदेवेन सृष्टा विषूचीर्व्युदायँस्ता द्यावापृथिव्येन पर्यगृह्णात् प्रजानामेवैष सृष्टानां परिगृहीत्यै यदेककपालस्तेन प्राजापत्यः प्रजापतिमेवैतद्देवता अभि प्रतितिष्ठति यजमानो वा एककपाल आहवनीयस्स्वर्गो लोकस्सर्वहुतं जुहोति हविर्भूतमेवैनँ स्वर्गं लोकं गमयत्यात्मा वा एककपाल: पशवो घृतं यद् घृतेनाभिपूरयति पशुभिरेवैनँ समर्धयति यदाभिपूरयेद भुञ्जन्त एनं पशव उपतिष्ठेरन्नधरँ ह्येनं पशुभ्यः करोत्याविःपृष्ठः कार्य उत्तरमेवैनं पशुभ्यः करोति भुञ्जन्त एनं पशव उपतिष्ठन्ते तत तन्न सूर्क्ष्यमभ्येव पूरयेन्न हि पशवो न भुञ्जन्ति बर्हिषदं करोति प्रतिष्ठित्यै यजमानं वै हूर्छन्तं प्रजा अनुहूर्छन्ति यजमानं प्रतितिष्ठन्तमनु प्रतितिष्ठन्त्यृजुः प्रतिष्ठितो होतव्यो यजमानस्य प्रतिष्ठित्यै ॥१॥

त्रेधासंनद्धस्तर्हि भवति त्रेधासंनद्ध इध्मस्त्रेधाविहितानि हि संवत्सरेण चातुर्मास्यानि वसन्ता यजेत प्रजननाय प्रवणे यजेत प्रजननाय प्रस्वो भवन्ति प्र मा जनयानीति नोत्तरवेदिमुपवपन्ति प्रजननायाग्निं मन्थत्यग्निं वै पशवोऽनुप्रजायन्ते प्रजननायाथो वृषाणमेवैतं यजमानाय जनयति पशवो वै पृषदाज्यं नानारूपाः पशवस्तस्मान्नानारूपमाग्नेयं घृतमैन्द्रं दध्यैन्द्राग्नं पृषदाज्यं देवतया प्राणापानौ वा इन्द्राग्नी मिथुनं प्राणापानौ मिथुनयोनयः प्रजास्तस्मादेव मिथुनात् प्रजायते ॥ यदि वसन्ता यजेत द्विरुपस्तृणीयात् सकृदभिघारयेदोषधीरेव प्रतिष्ठापयति यदि प्रावृषि यजेत सकृदुपस्तृणीयाद् द्विरभिघारयेद्वृष्ट्यैव पशूनभिजिघर्ति प्राणेभ्यो वै प्रजाः प्रजायन्ते प्राणा एतानि नव हवीँषि नव प्राणा आत्मा देवता तत एव प्रजायते नव प्रयाजा नवानुयाजा द्वा आज्यभागा अष्टौ हवीँष्यग्नये समवद्यति वाजिनो यजति तत् त्रिंशत् त्रिंशदक्षरा विराडन्नं विराड् विराज्येवान्नाद्ये प्रतितिष्ठति त्रिँशदक्षरा वै विराड् विराजो योनेः प्रजाः प्रजायन्ते विराज एवैना योनेः प्रजनयति।। त्रिँशत् त्रिँशद्वै रात्रयो मासो यो वै मासस्स संवत्सरस्संवत्सरः प्रजापतिस्तदेतत् प्रजापतेश्चैव विराजश्चाधि मिथुनात् प्रजायत एकैकया वा आहुत्या द्वादश द्वादश रात्रीरयुवन्त ता यावतीस्संवत्सरस्य रात्रयस्तावतीस्संख्याने संवत्सरमेव भ्रातृव्याद्युवते वैश्वदेवेन वै ते चतुरो मासोऽयुवन्त वरुणप्रघासैः पराँश्चतुरस्साकमेधैः पराँश्चतुरस्तानेव भ्रातृव्याद्युवते यच्चतुरश्चतुरो मासोऽयुवन्त तच्चातुर्मास्यानां चातुर्मास्यत्वम् ॥२॥

वैश्वदेवेन यजते प्रजाकामो वा पशुकामो वा न वरुणप्रघासैर्न साकमेधैस्सर्वो वै पुरुषस्साहस्रो जायते यावत्तरसं त्वै गच्छति प्रजननमेतद्धविर्यद्वैश्वदेवं प्रजननमेव यजते स्वां मात्रां गच्छानीति यदा सहस्रं पशून् गच्छेदथ वरुणप्रघासैर्यजेत यदेव तत् सहस्रमगँस्तस्याँहोऽवयजत ऋतुयाजी वा अन्यश्चातुर्मास्ययाज्यन्यो यो वसन्तोऽभूत् प्रावृडभूच्छरदभूदिति यजते स ऋतुयाजी यस्त्रयोदशं मासं संपादयति स त्रयोदशं मासमभियजते स चातुर्मास्ययाजी त्रीन् ऋजूनिष्ट्वा चतुर्थमुत्सृजेद् द्वौ परा ऋजू इष्ट्वा तृतीयमुत्सृजेद्ये वै त्रयस्संवत्सरास्तेषाँ षट्त्रिँशत् पूर्णमासा यौ द्वौ तयोश्चतुर्विँशतिर्ये षट्त्रिँशत्यधि ते चतुर्विँशतिमुपयन्त्येष वाव स त्रयोदशो मासस्तमेवैतत् संपादयति तमभियजते । यद्बर्हिः प्रयाजेषु यजत्योषधीस्तद्यजति यद्बर्हिरनुयाजेषु फलं तद्यजति यद्बर्हिर्वारितीनां यदेव फलादधि प्रजायते तत् तद्यजति यद्दुरो यजत्युपस्थं तद्यजति यदुषासानक्ता व्युष्टिं चैव निम्रुक्तिं च तद्यजति यज्जोष्ट्री यदेव जातं यज्जनिष्यमानं तद्यजति यदूर्जाहुती यदेवात्ति च पिबति च तत् तद्यजति यद्दैव्या होतारेमे वै दैव्या होतारेमे एव तद्यजति यत् तिस्रो देवीर्वाग्वै तिस्रो देवीर्वाचमेव तद्यजति च्छन्दाँसि वै वाक् छन्दाँस्येव तद्यजति नराशँसं यजति तनूनपाद्वै यज्ञः प्रसृतो नराशँसोऽप्रसृतः प्रसृतो वा एतर्हि यज्ञस्तस्मान्नराशँसमनुयाजेषु यजति त्वष्टारं यजति स हि रूपाणि विकरोति वनस्पतिं यजत्यूर्ग्वै सोमो वनस्पतिस्सौमीरिमाः प्रजाः प्रजास्वेवोर्जं दधाति ॥३॥

वाजिनो यजति पशवो वै वाजिनस्तानेव तद्यजति न वा एष सुयज्ञ इव सँस्थिते हि यज्ञे प्रहृतेषु परिधिषु जुहोति यदनवानँ होता यजति तेन यज्ञः क्रियतेऽनुयजत्यग्निस्समिष्टिरग्निः प्रतिष्ठितिस्समिष्ट्या एव प्रतिष्ठित्यै पशवो वै वाजिनो यत् सँस्थापयेत् तान् सँस्थापयेदसँस्थिता ह्येते सददि प्रजायन्ते बर्हिरनुनिषिञ्चन् गृह्णात्यृषभेष्वेव रेतो दधाति प्रजा वै बर्ही रेतो वाजिनं प्रजास्वेव रेतो दधात्यूर्ध्वज्ञुरासीनो यजत्यूर्ध्वज्ञुर्हि पशुः पशौ रेतो दधाति समुपहूय भक्षयन्ति सोमपीथ इव ह्येष सर्व ऋत्विजः प्राश्नन्ति वाजिनो मे यज्ञं वहानित्यात्मना प्राश्नीयादात्मन्नेव वाजं धत्ते ॥४॥

ता वैश्वदेवेन सृष्टास्तस्मिँस्तरुणिमन्वरुणोऽगृह्णादथो आहरति वै तास्तमचरँस्ता अतिचरन्तीर्वरुणेनाग्राहयदिति तस्मात् पिता नातिचरितवै वैश्वदेवेन वै प्रजापतिः प्रजा असृजत तस्य मरुतो हव्यं व्यमथ्नत ततोँऽहोगृहीता असृज्यन्त ताभ्यो भेषजमैच्छत् तदात्मन्नेवैच्छत् स एतदात्मनोऽधि पयो निरमिमीत तेनाभ्योँऽहोऽवायजदँहसो वा एषावेष्टिर्यद्वरुणप्रघासा जग्धाद्वै वरुणो गृह्णाति तस्माद्वरुणप्रघासा यावद्वै कुमारेऽम्नो जात एनस्तावदेतस्मिन्नेनो भवति यो वरुणप्रघासैर्यजतेऽथैतानि पञ्च हवींषि संतत्यै ॥ सावित्रोऽष्टाकपालो गायत्रो हि देवानाँ सवितैन्द्राग्नो द्वादशकपालो वैश्वदेवत्वाय यद्वै तत् प्रजा वरुणगृहीता अवेव्लीयन्तेव तदास्विन्द्राग्नी बलमधत्तां न वै ताः प्राणँस्ता अप्राणन्तीर्वरुणोऽगृह्णात् प्राणापानौ वा इन्द्राग्नी प्राणापाना एवैतन्मध्यतो धीयेते शिथिला वै ताः प्रजा वरुणोऽगृह्णादोजो वीर्यमिन्द्राग्नी ओज एवैतद्वीर्यं मध्यतो धीयते निरवत्त्या एव मारुती निर्वरुणत्वाय वारुणी कन्वाय कायो यद्वा आभ्यस्तद्वरुणगृहीताभ्यः कमभवत् तस्मात् कायः प्रजापतिर्वै ताः प्रजा वरुणेनाग्राहयत् प्रजापतिः क आत्मनैवैना वरुणान्मुञ्चत्यृतं वै सत्यं यज्ञोऽनृत स्त्र्यनृतमेषा करोति या पत्युः क्रीता सत्यथान्यैश्चरत्यनृतमेव निरवदायर्तँ सत्यमुपैति यद्वाचयति मेध्यामेवैनां यज्ञियां करोति न मिथु ब्रूयाद्यन्मिथु ब्रूयात् प्रियतमेन यातयेत् ॥५॥

आमपेषा भवन्ति सर्वस्याँहसोऽवेष्ट्यै यद्भृज्ज्येयुर्वित्त्वकमँहोऽवेष्टँ स्यात् पात्रेभ्यो वै ताः प्रजा वरुणोऽगृह्णाद्यत् पात्राणि पात्रेभ्य एवैना वरुणान्मुञ्चति प्रतिपुरुषं भवन्ति प्रतिपुरुषमेवाँहोऽवयजत एकमधि भवति गर्भेम्य एव तेनाँहोऽवयजतेऽन्नाद्वै ताः प्रजा वरुणोऽगृह्णाच्छूर्पेणान्नं बिभ्रति तस्माच्छूर्पेण हूयते स्त्रीपुँसौ जुहुतो मिथुना एव प्रजा वरुणान्मुञ्चतः पुरस्तात् प्रत्यञ्चौ तिष्ठन्तौ जुहुतः पुरस्तादेवाग्रेँऽहोऽवयजतो यत् पात्राणि य एव द्विपादः पशवो मिथुनास्तेषां तेन पुरस्तादँहोऽवयजतो यन्मेषश्च मेषी च य एव चतुष्पादः पशवो मिथुनास्तेषां तेनोपरिष्टादँहोऽवयजत उभयत एवाँहोऽवयजतः पुरस्ताच्चोपरिष्टाच ॥ पात्राणि हुत्वाग्निँ संमार्ष्टि यत्राँहोऽवायाक्षुस्तस्मिन्नुत्पूते देवता यजानिति यद्वै प्रजा वरुणो गृह्णाति शमीं च यवं च न गृह्णाति हेमन्तौ हि वरुणस्तस्मादेतौ हेमन्न शुष्यतो या एवावरुणगृहीतौ ताभ्यामेना वरुणान्मुञ्चति वरुण्यो वै यवो वरुणदेवत्यस्स्वेनैव भागधेयेन वरुणं निरवदयतेऽथैता अनृतपशू अनृताद्वै ताः प्रजा वरुणोऽगृह्णाद्यदेता अनृतपशू अनृतादेवैना वरुणान्मुञ्चति स्त्रीपुँसौ भवतो मिथुना एव प्रजा वरुणान्मुञ्चति लोमशौ भवतो मेध्यत्वाय यावन्तो हि पशवो लोम जगृहुस्ते मेधं प्रापुश्शमीपर्णानि भवन्ति शन्त्वाय भूर्जो वै नामेष वृक्षः कार्या वा एतस्य स्रुचः प्रजापतिर्वा अन्नाद्यं नावारुन्द्ध तच्छतेध्मेनावारुन्द्ध परश्शतानि कार्याण्यन्नाद्यस्यावरुद्ध्यै सहस्रेध्मो ह त्वा अँहसोऽवेष्टिं विव्याच परस्सहस्राणि कार्याण्यँहसोऽवेष्ट्यै ॥६॥

यतीन् वै सालावृकेया आदँस्तेषामेतानि शीर्षाणि यत् खर्जूरास्सोमपीथ एष उदीषति यत् करीराणि यत् करीराणि भवन्ति सोमपीथमेवावरुन्द्धे प्रजापतेर्वा एतज्ज्येष्ठं तोकं यत् पर्वतास्ते पक्षिण आसँस्ते यत्र यत्राकामयन्त तत् परापातमासताथ वा इयं तर्हि शिथिलासीत् तेषामिन्द्रः पक्षानच्छिनत् तैरिमामदृँहद्ये पक्षा आसँस्ते जीमूता अभवँस्तस्मात् ते गिरिमुपप्लवन्ते योनिर्ह्येषामेष तस्माद्गिरौ भूयिष्ठं वर्षति यत् प्राक्षरत् तानि करीराणि तदेतत् प्रावृष्युज्जीमूताः प्लवन्ते यजन्ते वरुणप्रघासैर्वृष्टिमेव संतनोति तस्मात् तर्हि भूयिष्ठं वर्षति वृष्टिँ हि संतनोति न वैश्वदेव उत्तरवेदिमुपवपन्त्युपात्र वपन्ति प्रजाता एव प्रजाः परिगृह्णाति योत्तरा वेदिर्या अत्रीः प्रजास्तासाँ सा योनिस्तास्तामनुप्रजायन्ते या दक्षिणा वेदिर्या आद्याः प्रजास्तासाँ सा योनिस्तास्तामनुप्रजायन्त उभयीरेवैतदत्रीश्चाद्याश्च प्रजाः प्रजनयत्ययं वाव हस्त आसीन्नायं यैषा द्वितीया वेदिस्तयेमं द्वितीयँ हस्तमविन्दँस्तस्मादेष एतस्य परिवेष्टापरजो हि तस्मात् कनीयाञ्ज्यायाँसं परिवेवेष्टि समे कार्ये समौ हीमो हस्ता असंभिन्ने भवतोँऽहसोऽवेष्ट्यै यत् संभिन्द्युरनवेष्टमँहस्स्यादेकस्फ्यामनु संभिन्दन्त्यनुसंतत्या उपोत्तरां वपन्ति न दक्षिणामनभ्यारोहाय ॥ क्षत्रं वै वरुणो विण्मरुतो नाना यजन्ति पापवसीयसस्य व्यावृत्त्यै यदध्वर्युः करोति तत् प्रतिप्रस्थाता करोति तस्माद्यद्राजा करोति तद्विट्करोति न वैश्वदेवे त्रिँशदाहुतयस्सन्ति न साकमेधेषु वरुणप्रघासेषु वाव त्रिँशदाहुतयो वैराजः पुरुषो दश हस्त्या अङ्गुलयो दश पद्या दश प्राणास्तत् त्रिँशत् त्रिंशदक्षरा विराङ्वैराजः पुरुषो यदेतर्ह्यवभृथमवैत्यात्मानमेवाँहोऽवयजते यद्वै यज्ञस्य स्वगाकृतिं न प्राप्नोति वरुणस्तद्गृह्णाति यन्निष्काषेणावभृथमवैति यदेव वरुणगृहीतं तेन वरुणं निरवदयतेऽथो यदेवात्र वरुणस्य न्यक्तं तस्य निरवत्त्या अनपेक्षमाणा आयान्ति वरुणस्यानन्ववायायैधोऽस्येधिषीमहीति वरुणमेव निरवदायैधतुमुपयन्ति समिदसि समेधिषीमहीत्याशिषमेवाशास्ते तेजोऽसि तेजो मयि धेहीति तेज एवात्मन् धत्ते ॥७॥

प्रजास्सृष्ट्वाँहोऽवेज्य सोऽकामयत वृत्रँ हन्यामिति स एताभिर्देवताभिस्सयुग्भूत्वोपप्लायत मरुद्भिर्विशाग्निनानीकेन स वृत्रमभीत्य वृत्रं दृष्ट्वोरुस्तम्भगृहीतोऽतिष्ठदनभिधृष्णुवँस्तं मरुत ऐषीकैर्वातरथैरध्यैयन्त तेऽत्यैषँस्तेऽस्य यत्र मर्मागच्छँस्तदचेष्टत् सं वा एनं तदतपँस्तस्मात् सांतपना वार्त्रघ्ना वै साकमेधा अग्निना वा अनीकेनेन्द्रो वृत्रमहन्ननीकत्वायैवैषोऽग्निर्देवानाँ सेनानीस्सेनोत्थापनीयमेवैतदिन्द्रो वै वृत्राय वज्रमुद्यमं नाशक्नोत् स एतं मरुद्भ्यो भागं निरवपत् तं मरुतो वीर्याय समतपन् स तेन वीर्येण वज्रमुदयच्छत् सं वा एनं तदतपँस्तस्मात् सांतपना मध्यंदिने निरुप्यस्तर्हि ह्युभा अन्तौ तपति चरुर्भवति तँ हि सर्वतस्तपति देवा वै वृत्रस्य मर्म नाविन्दँस्तं मरुतः क्षुरपविना व्ययुस्सं वा एनं तदतपँस्तस्मात् सांतपनाः ॥८॥

ते श्वो वृत्रँ हनिष्यन्त उपावसँस्तेऽब्रुवन् कस्य वाहेदँ श्वो भविता कस्य वा पचतेति त एतमोदनमपचन्त ते पशूनचिकयुर्यतरान् वा इमे श्वः कमितारस्ते जेतार इति तेभ्य एतेन प्रातिष्ठँस्तानेतेनायच्छन् पशूनामेवैषा यतिस्ते श्वोविजयिनोऽवसँस्तेऽब्रुवन् कस्य वाहेदँ श्वो भविता कस्य वा पचतेति त एतमोदनमपचन्त तेऽब्रुवन् माहुतमशिष्मेति ते मरुद्भ्यो गहमेधेभ्योऽजुहवुः पशवो वै मरुतो गृहमेधास्तेभ्य एव तदजुहवुस्ते संयत्ता आसँस्तेऽसुरा देवेभ्यः क्षुधं प्राहिण्वँस्तां देवाः प्रतिश्रुत्यैतमोदनमपचन्त सा देवेषु लोकमवित्त्वा पुनरसुरान् प्राविशत् सैनान्निरदहदपि प्रतिवेश ओदनं पचेत भ्रातृव्यायैव क्षुधं प्रहिणोति सैनं निर्दहति ॥ यद्वै चातुर्मास्यानां पाकयज्ञस्यैव तदेषां पशव्यं गृहमेध्यो वै पाकयज्ञो न प्रयाजा इज्यन्ते नानुयाजा न सामिधेनीरन्वाहाज्यभागौ यजति तेन यज्ञः क्रियतेऽग्नये समवद्यत्यनिस्समिष्टिरग्निः प्रतिष्ठितिस्समिष्ट्या एवं प्रतिष्ठित्यै पशवो वै गृहमेधाः पशव इडा तस्मादिडामुपह्वयन्ते निष्काषो निधीयते संतत्यै तेषां वा उभयेषामिन्द्रः प्रावसत् ते देवा एतमिन्द्राय भागं न्यदधुरस्माञ्छ्वो निहितभागो वृणाता इति रुवथो वषट्कारोऽथो असुराणामेव तद्वृषभमत्याह्वयन्नस्मान् प्रजनयादित्यृषभमाह्वयतीन्द्रमेव तन्निह्वयतेऽथो पुष्टिमेव भ्रातृव्यस्य वृङ्क्ते ॥९॥

सवत्सा गावो वसन्ति साकमेधत्वाय यत् पत्नी नाश्नीयादसाकमेधास्स्युर्यत् पत्न्यश्नाति साकमेधत्वाय निर्ऋतिर्वा एतद्यज्ञस्य गृह्णाति यत् स्त्र्यश्नाति निर्ऋतिर्वै स्त्री स्त्रिया एष हस्तो यद्दर्विर्यद्दर्व्या जुहोति निर्ऋत्यैव निर्ऋतिं निरवदयते यद्वै यज्ञस्य स्वगाकृतिं न प्राप्नोति निर्ऋतिस्तद्गृह्णाति निर्ऋतिगृहीता वै दर्विस्तप्तँ ह्येषावचरति यद्दर्व्या जुहोति निर्ऋतिगृहीतयेव निऱ्ऋतिं निरवदयते स श्वो वृत्रँ हन्तुमुपप्लायत तं मरुतः परिक्रीडन्त आयँस्तेऽस्याप्त्वा व्यनयँस्त एनमभ्यधर्षयँस्तस्मात् क्रीडयस्ते संयत्ता आसँस्ते देवा असुराणां परमन्तं न परापश्यँस्ते मरुतः क्रीडीन् क्रीडतोऽपश्यँस्तेऽविदुर्जितमनसो वा इम इति तेभ्य एतं भागं निरवपँस्ततोऽजयन् विजित्या एवैषोऽसौ वा आदित्य इन्द्रो रश्मयः क्रीडयस्साकं रश्मिभिः प्रचरन्ति विजित्यै ॥ देवा वै वृत्रँ हतं न व्यजानँस्तं मरुतो ऽध्यक्रीडॅँस्तस्मात् क्रीडयोऽथैतानि पञ्च हवीँषि संतत्या अथैन्द्राग्न इन्द्राग्नी वै तं वज्रेणाभ्यौहतामथो आहुरिन्द्राग्नी अस्मै वज्रमनुबिभृतामित्यथैन्द्र एतेन वा इन्द्रो वृत्रमहन् स एतमुद्धारमुदहरतोद्धार एवास्यैष भाग एवाथ वैश्वकर्मणो विश्वा मे कर्म कृतानीति विश्वकर्मा ह्यभवद्वृत्रँ हत्वाग्ने वेर्होत्रं वेर्दूत्यमित्याघारमाघारयत्याहुतीनाँ संपत्त्यै त्रिँशत्त्वाय ॥१०॥

प्रजास्सृष्ट्वाँहोऽवेज्य वृत्रँ हत्वा तेऽमृतत्वमकामयन्त स्वर्गो वै लोकोऽमृतत्वं द्वादश मासास्संवत्सरस्स्वर्गों लोको यद् द्वादशाहुतयोऽमृतत्वमेव तेन स्पृणोति सं वा एतत् संवत्सरमकृक्षदापद्वा एतत् संवत्सरं यत् षट् षट् संपादयति षड्वा ऋतव ऋतूनेवैतत् पुनरपिपादयति तानपिपद्यमानानन्वपिपद्यते ततः प्रजायतेऽति वा एतत् संवत्सरमगाद्यद् द्वादशाहुतयस्संवत्सरमेवाभिपर्यावर्तत आपद्वा एतत् संवत्सरं पितर ऋतवस्तमेव प्रजनयति तं प्रजायमानमनुप्रजायत एतद्वा अस्य संवत्सरोऽभीष्टोऽभूदीष्टा ऋतवोऽथास्य पितरोऽनभीष्टा यदेष पितृयज्ञस्तेनास्य पितरोऽभीष्टाः प्रीता भवन्ति ॥ दक्षिणतो निरुप्यं दक्षिणा हि पितॄणामुभयतो निरुप्यमुभये हीज्यन्ते तत् तन्न सूर्क्ष्यं दक्षिणत एव निरुप्यं दक्षिणा हि पितॄणाँ षट्कपालः पुरोडाशो भवति षड्वा ऋतव ऋतव एवास्य तेनाभीष्टाः प्रीता भवन्ति न वै धानाभिर्न मन्थेन यज्ञो यदेष पुरोडाशस्तेन यज्ञः क्रियतेऽथैता धानास्सुधा वा एता अमुष्मिंल्लोकेऽपरिमितास्संवत्सरस्य रात्रयस्ता एवास्यैताभिरभीष्टाः प्रीता भवन्ति न वै धानाभिर्न पुरोडाशेन पितृयज्ञो यदेष मन्थस्तेन पितृयज्ञोऽभिवान्यवत्साया दुग्धे भवति सा हि पितॄणां नेदिष्ठमेकयोपमन्थत्येकलोका हि पितरो दक्षिणोपमन्थति दाक्षिणा हि पितॄणामनारभ्योपमन्थति तद्धि पितॄन् गच्छति ॥११॥

न प्राच्युद्धत्या पितृयज्ञो हि न दक्षिणा यज्ञो ह्युभे दिशा अन्तरोद्धन्त्युभये हीज्यन्त उभयानेव व्यश्नोति देवाँश्च पितॄँश्च चतुस्स्रक्तिर्वेदिर्भवति सर्वासु हि दिक्षु पितरः परिश्रिते याजयन्त्यन्तर्हिता ह्यमुष्मादादित्यात् पितरोऽथो अन्तर्हिता हि देवेभ्यश्च मनुष्येभ्यश्च पितर उपमूलं बर्हिर्दाति तेन पितॄणां यदृतेमूलं तेन देवानामुभये हीज्यन्ते समन्तं बर्हिस्स्तृणन् पर्येति समन्तँ हीम ऋतवः परिविष्टा एति वा एषोऽस्माल्लोकाद्यः पितृयज्ञं पर्येति यदस्तृणन् पुनः पर्येतीममेव लोकमुपावर्ततेऽमुष्मिन् वै पूर्वस्मिन् देवता यजन्ति यत् तत्र यजेदाहुतीस्सँसृजेत् समदं कुर्याद्गार्हपत्ये शृतं कुर्वन्ति तेन यज्ञः क्रियत ओदनपचनादग्निमाहरन्ति तदु स्विन्नान्यत आह्रियत उशन्तस्त्वा हवामह इत्यन्वाहोशन्तो हि पितरोऽनुष्टुभमन्वाहान्तो वा अनुष्टुबन्तः पितरोऽथो अनुष्टुब्भि सर्वाणि च्छन्दाँस्येकामन्वाहैकलोका हि पितरस्त्रिरन्वाह तृतीये हि लोके पितरो यदेकामन्वाह तेन पितॄणां यत् त्रिरन्वाह तेन देवानामुभये हीज्यन्ते नार्षेयं वृणीते न होतारं मृत्योरेवैना उत्सृजत्यपबर्हिषः प्रयाजान् यजति प्रजा वै बर्हिः प्रजा एवं मृत्योरुत्सृजति संव्ययते वै मनुष्येभ्यः करिष्यन् दक्षिणतो देवेभ्य उपव्ययतेऽथात्र प्राचीनावीतेन भव्यं व्यावृत्त्यै दक्षिणतोऽवदायोदङ्ङतिक्रम्य दक्षिणावृत्य जुहोति दक्षिणा हि पितॄणाम् ॥१२॥

सोममग्रे यजति सोमो वै पितॄणां देवता पितृदेवत्यो हि सोमो यत् सोमं पितृमन्तं यजति सोमपाँस्तत् पितॄन् यजति यद्बर्हिषदो यज्वनस्तद्यदग्निष्वात्तान् गृहमेधिनस्तद्यदग्निं कव्यवाहनं द्वे वा अग्नेस्तन्वौ हव्यवाहन्या देवेभ्यो हव्यं वहति कव्यवाहन्या पितृभ्योऽग्निस्समिष्टिरग्निः प्रतिष्ठितिस्समिष्ट्या एव प्रतिष्ठित्यै पञ्च पञ्च कृत्वोऽवद्यति पञ्च ह्यृतवस्स्वधा नम इति वषट्करोति स्वधा हि पितॄणां नमस्कारो देवानां द्वे वै देवानां याज्यानुवाक्ये प्रान्यया यच्छति गमयत्यन्ययाथात्र तिस्रः कार्या व्यावृत्त्यै द्वे अनुवाक्ये एका याज्या परे वै देवेभ्यः पितरो यैषा तृतीयाभ्येवैतया प्रयच्छति ॥ देवान् वै पितॄन् मनुष्याः पितरोऽनुप्रपिबन्ते देवानेवैतत् पितॄनयाड्यत् स्रक्तिषु निदधाति तेन मनुष्यान् पितॄन् यजति त्रिर्निदधाति त्रीन् हीदं पुरुषानभिस्मस्त्रीन् परानन्वाचष्टे त्रयो वै पिता पुत्रः पौत्रोऽनुसंतत्यै सर्वासु स्रक्तिषु निदधाति सर्वा एव दिशो गमयति सर्वासु हि दिक्षु पितरो नास्यां निदध्याद्यदस्यां निदध्यान्मृत्युनैनान् परिगृह्णीयात् तामेवानूद्यन्ति यत् तस्यां निमार्ष्टि तेनैव तान् प्रीणात्यत्र पितरो मादयध्वमिति निष्क्रामन्ति त आहवनीयमुपायन्ति सुसंदृशं त्वा वयमिति त आ तमितोस्तिष्ठन्त्यन्तं वा एते प्राणस्य गच्छन्ति ये पितृयज्ञमुपयन्त्यग्निमेवोपद्रष्टारं कृत्वान्तं प्राणस्य गच्छन्ति परेत पितरस्सोम्यास इति पुनरायन्त्यनुषक्ता वा एतान् पितरो व्यावृत्त्या अमीमदन्त पितर इति प्रपद्यन्ते त ऊर्णां वा दशां वा न्यस्यन्ति यदेव तत्र निगच्छन्ति तस्य निरवत्त्या अपः परिषिञ्चति मार्जयत्येव पुनरपरिषिञ्चन् पर्येत्यमुं वा एते लोकं निगच्छन्ति ये पितृयज्ञमुपयन्ति प्रजापतिस्त्वा एनानत उन्नेतुमर्हति यदेतामनिरुक्तां प्राजापत्यामन्वाहाया विष्ठा जनयन् कर्वराणीति प्रजापतिरेवैनाँस्तत उन्नयति पितॄन् वा एतद्यज्ञोऽगन् पङ्क्त्या पुनरायन्ति पाङ्क्तो यज्ञस्सहैव यज्ञेनायान्ति पितॄन् वा एतस्य मनो गच्छति मनो न्वहुवामह इति तदेव पुनरुपह्वयते॥१३॥
 
एतद्वा अस्य संवत्सरोऽभीष्टोऽभूदभीष्टाः पितरोऽथास्य रुद्रा अनभीष्टा रुद्रास्त्र्यम्बका यदेते त्र्यम्बकास्तेनास्य रुद्रा अभीष्टाः प्रीता भवन्ति प्रतिपुरुषं भवन्ति प्रतिपुरुषमेव रुद्रं निरवदयत एकोऽधि भवति गर्भेभ्य एव तेन रुद्रं निरवदयत एककपाला भवन्ति न वै पुरुषं कपालैराप्तुमर्हत्येकधैवैनमाप्नोत्यभिघार्या३ नाभिघार्या३ इति मीमाँसन्ते अभिघार्या एव न हि हविरनभिघृतं यदभिधारयेद्रुद्रं पशूनन्ववनयेत् तस्मान्नाभिघार्या एकोल्मुकँ हरन्त्येकोल्मुकँ हि रुद्राणां धूपायद्धरन्ति धूपायद्धि रुद्राणां पराचीनँ हरन्ति पराञ्चमेव रुद्रँ हरन्तीमां दिशँ हरन्त्येतस्यां वै दिशि रुद्राणां गृहा गृहेष्वेव रुद्रं निरवयजते ॥ रुद्राखुं ते पशुं करोमीत्याखुकिरा एकमुपवपति पशुभ्य एव रुद्रं निरवदयते तस्मात् तान् पशुपतिर्घातुकश्चतुष्पथे याजयन्ति चतुष्पथे वै रुद्राणां गृहा गृहेष्वेव रुद्रं निरवयजत एष ते रुद्र भागस्सह स्वस्राम्बिकया तं जुषस्व स्वाहेति शरद्वै रुद्रस्य स्वसाम्बिका तामेषोऽन्ववचरति तस्मादेष शरदि भूयिष्ठँ हन्ति तयैवैनँ सह निरवदयते मध्यमेन पर्णेन जुहोति तद्ध्यरक्षोहतं यद्ग्राम्येण जुहुयाद्रुद्रः पशूनन्ववनयेत् तस्मादारण्येन हूयतेऽवाम्ब रुद्रमदिमहीत्यनृणा एवाभूवन भेषजं गवेऽश्वाय पुरुषाय चेत्यनृणा एव भूत्वा भेषजमक्रत ॥ त्र्यम्बकं यजामह इति परियन्ति या पतिकामा स्यात् सापि परीयात् पतिवेदनमेवास्यै कुर्वन्ति तानुदस्य प्रतिलभन्तेऽनृणा एव भूत्वा भगं प्रतिलभन्ते तान् यजमानाय समावपन्ति भगमेवास्मै समावपन्ति या पतिकामा स्यात् तस्यै समावपेयुर्भगमेवास्यै समावपन्ति तान् मूते कृत्वा वृक्ष आसचन्त्येष ते रुद्र भागस्तेनावसेन परो मूजवतोऽतीहीति गिरिर्वै रुद्रस्य योनिस्तत एषोऽभ्यवचरति स्वेनैवैनं भागधेयेन स्वं योनिं गमयत्यनपेक्षमाणा आयान्ति रुद्रस्यानन्ववायायैधोऽस्येधिषीमहीति रुद्रमेव निरवदायैधतुमुपयन्ति समिदसि समेधिषीमहीत्याशिषमेवाशास्ते तेजोऽसि तेजो मयि धेहीति तेज एवात्मन् धत्तेऽम्बी वै स्त्री भगानाम्नी तस्मात् त्र्यम्बका अप्रतिष्ठितो वा एष यस्याप्रतिष्ठितँ हविरप्रतिष्ठितास्त्र्यम्बका न प्रयाजा इज्यन्ते नानुयाजा न सामिधेनीरन्वाहादित्यै चरुं निर्वपतीयं वा अदितिरियं प्रतिष्ठास्यामेव प्रतितिष्ठति ॥१४॥

अपां यो द्रवणे रसस्तमहमस्मा अमुष्मा आमुष्यायणाय तेजसे वर्चसे गृह्णाम्यपां य ऊर्मौ रसस्तमहमस्मा अमुष्मा आमुष्यायणायौजसे क्षत्राय गृह्णाम्यपां यो मध्ये रसस्तमहमस्मा अमुष्मा आमुष्यायणाय प्रजायै पुष्ट्यै गृह्णाम्यपां यो यज्ञिया तनूस्तामहमस्मा अमुष्मा आमुष्यायणायायुषे दीर्घायुत्वाय गृह्णामि ॥
रथे अक्षेषु वृषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे ।
इन्द्रं या देवी सुभगा जजान सेयमागाद्वर्चसा संविदाना ॥
या हस्तिनि द्वीपिनि यो हिरण्ये गोष्वश्वेषु पुरुषेष्वन्तः ।
इन्द्रं या देवी सुभगा जजान सेयमागाद्वर्चसा संविदाना ॥
सिँहे व्याघ्र उत यो पृदाकौ त्विषिरग्नौ ब्राह्मणे सूर्ये या।
इन्द्रं या देवी सुभगा जजान सेयमागाद्वर्चसा संविदाना ॥
या राजन्ये दुन्दुभा आयतायामश्वस्य क्रन्दे पुरुषस्य मायौ ।
इन्द्रं या देवी सुभगा जजान सेयागाद्वर्चसा संविदाना ॥
राडसि विराडसि सम्राडसि स्वराडसीन्द्राय त्वा मधुमते मधुमन्तँ श्रीणामीन्द्राय त्वौजस्वत ओजस्वन्तँ श्रीणामीन्द्राय त्वा पयस्वते पयस्वन्तँ श्रीणामीन्द्राय त्वायुष्मत आयुष्मन्तँ श्रीणामि वर्चोऽसि तन्मे नियच्छ तत् ते नियच्छाम्योजोऽसि तन्मे नियच्छ तत् ते नियच्छामि पयोऽसि तन्मे नियच्छ तत् ते नियच्छाम्यायुरसि तन्मे नियच्छ तत् ते नियच्छामि ॥
वर्चस्वदस्तु मे मुखं वर्चस्वच्छिरो अस्तु मे ।
वर्चस्वान् विश्वतः प्रत्यङ् वर्चसा संपिपृग्धि मा ॥
ओजस्वदस्तु मे मुखमोजस्वच्छिरो अस्तु मे ।
ओजस्वान् विश्वतः प्रत्यङ्डोजसा संपिपृग्धि मा ।।
पयस्वदस्तु मे मुखं पयस्वच्छिरो अस्तु मे ।
पयस्वान् विश्वतः प्रत्यङ् पयसा संपिपृग्धि मा ।
आयुष्मदस्तु मे मुखमायुष्मच्छिरो अस्तु मे ।
आयुष्मान् विश्वतः प्रत्यङ्ङायुषा संपिपृग्धि मा ॥
इदमहं गायत्रेण च्छन्दसा त्रिवृता स्तोमेन रथंतरेण साम्नाग्निना देवतया तेजस्ते वर्च आददेऽसा इदमहं त्रैष्टुभेन च्छन्दसा पञ्चदशेन स्तोमेन बृहता साम्नेन्द्रेण देवतयौजस्ते क्षत्रमाददेऽसा इदमहं जागतेन च्छन्दसा सप्तदशेन स्तोमेन वैरूपेण साम्ना विश्वैर्देवैर्देवतया प्रजाँ ते पुष्टिमाददेऽसा इदमहमानुष्टुभेन च्छन्दसैकविँशेन स्तोमेन वैराजैन साम्ना प्रजापतिना देवतयायुस्ते दीर्घायुत्वमाददेऽसौ ॥
इममग्न आयुषे वर्चसे कृधि तिग्ममोजो वरुण संशिशाधि ।
मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथासत् ॥
विश्वकर्मा विश्वदेवो विश्वजिद्विश्वदर्शतः । ते त्वा घृतस्य धारया श्रेष्ठ्याय समसूषत ॥
यतो वातो मनोजवा यतः क्षरन्ति सिन्धवः ।
तासां त्वा सर्वासां रुचाभिषिञ्चामि वर्चसा ।।
अभि त्वा वर्चसासिचं यज्ञेन पयसा सह ।
यथासो मित्रवर्धनस्तथा त्वा सविता करत् ॥
इन्द्रं विश्वा अवीवृधन् समुद्रव्यचसं गिरः ।
रथीतमं रथीनां वाजानाँ सत्पतिं पतिम् ॥
अपां यो द्रवणे रसस्तेनाहमिमममुमामुष्यायणममुष्याः पुत्रं तेजसे ब्रह्मवर्चसायाभिषिञ्चाम्यपां यं ऊर्मौ रसस्तेनाहमिमममुमामुष्यायणममुष्याः पुत्रमोजसे क्षत्रायाभिषिञ्चाम्यपां यो मध्ये रसस्तेनाहमिमममुमामुष्यायणममुष्याः पुत्रं प्रजायै पुष्ट्या अभिषिञ्चाम्यपां या यज्ञिया तनूस्तयाहमिमममुमामुष्यायममुष्याः पुत्रमायुषे दीर्घायुत्वायाभिषिञ्चामि ॥१५॥ २३२१]


॥ इति श्रीयजुषि काठके चरकशाखायामोरिमिकायां चातुर्मास्यानि नाम षट्त्रिंशं स्थानकं संपूर्णम् ॥३६॥