← स्थानकं ३७ काठकसंहिता (विस्वरः)
स्थानकम् ३८
[[लेखकः :|]]
स्थानकं ३९ →
सौत्रामणी

अथाष्टात्रिंशं स्थानकम् ।

सौत्रामणी।
सोमो राजामृतँ सुत ऋजीषेणाजहान्मृत्युम् ।
ऋतेन सत्यमिन्द्रियं विपानँ शुक्रमन्धस इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥ सोममद्भ्यो व्यपिबच्छन्दसा हँसश्शुचिषत् ।
ऋतेन सत्यमिन्द्रियं विपानँ शुक्रमन्धस इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
अद्यःरा क्षीरं व्यपिबत् क्रुङ्ङाङ्गिरसो धिया ।
ऋतेन सत्यमिन्द्रियं विपानँ शुक्रमन्धस इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
अन्नात् परिस्रुतो रसं ब्रह्मणा व्यपिबत् क्षत्रम् ।
ऋतेन सत्यमिन्द्रियं विपानँ शुक्रमन्धस इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
रेतो मूत्रं विजहाति योनिं प्रविशदिन्द्रियम् ।
गर्भो जरायुणावृत उल्बं जहाति जन्मना ।
ऋतेन सत्यमिन्द्रियं विपानँ शुक्रमन्धस इन्द्रस्येन्द्रियमिदँ पयोऽमृतं मधु ॥
वेदेन रूपे व्यपिबत् सुतासुतौ प्रजापतिः ।
ऋतेन सत्यमिन्द्रियं विपानँ शुक्रमन्धस इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः । अश्रद्धामनृतेऽदधाच्छ्रद्धाँ सत्ये प्रजापतिः। ऋतेन सत्यमिन्द्रियं विपानँ शुक्रमन्धप्स इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
दृष्ट्वा परिस्रुतो रसँ शुक्रेण शुक्रं व्यपिबत् पयस्सोमं प्रजापतिः ।
ऋतेन सत्यमिन्द्रियं विपानँ शुक्रमन्धस इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥१॥

सुरावन्तं बर्हिषदँ सुवीरं यज्ञँ हिन्वन्ति महिषा नमोभिः ।
दधानास्सोमं दिवि देवतासु मदेनेन्द्रं यजमानास्स्वर्काः ।।
यस्ते रसस्संभृत औषधीषु सोमस्य शुष्मस्सुरया सुतस्य ।
तेन जिन्व यजमानं मदेन सरस्वतीमश्विना इन्द्रमग्निम् ।।
यमश्विना नमुचेरासुरादधि सरस्वत्यसनोदिन्द्रियाय ।
इमं तँ शुक्रं मधुमन्तमिन्दुँ सोमं राजानमिह भक्षयामि ।।
यदत्र रिप्तं रसिनस्सुतस्य यदिन्द्रो अपिबच्छचीभिः ।
अहं तदस्य मनसा शिवेन सोमं राजानमिह भक्षयामि ॥
पितृभ्यस्वधायिभ्यस्स्वधा नमः पितामहेभ्यस्स्वधायिभ्यस्स्वधा नमः प्रपितामहेभ्यस्स्वधायिभ्यस्स्वधा नमोऽक्षन् पितरोऽमीमदन्त पितरोऽतीतृपन्त पितरः पितरश्शुन्धध्वम् ॥
पुनन्तु मा पितरस्सोम्यासः पुन॑न्तु मा पितामहाः ।
पुनन्तु प्रपितामहाः पवित्रेण शतायुषा ॥
पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः। पवित्रेण शतायुषा विश्वमायुर्व्यश्नवै ॥ अग्न आयूँषि पवसे ॥
पुनन्तु मा देवजनाः पुनन्तु मनसा धियः। पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा॥
पवित्रेण पुनीहि मा शुक्रेण देव दीद्यत् । अग्ने क्रत्वा क्रतूँरनु ।
यत् ते पवित्रमर्चिष्यग्ने विततमन्तरा । ब्रह्म तेन पुनातु मा ॥
पवमानस्स्वर्जनः पवित्रेण विचर्षणिः । यः पोता स पुनातु मा॥
उभाभ्यां देव सवितः पवित्रेण सवेन च । मां पुनीहि विश्वतः ।।
वैश्वदेवी पुनती देव्यागाद्यस्या इमास्तन्वो वीतपृष्ठाः ।
तया मदन्तस्सधमाद्येषु वयँ स्याम पतयो रयीणाम् ।।
ये समानास्समनसः पितरो यमराज्ये । तेषां लोकस्स्वधा नमो यज्ञो देवेषु कल्पताम् ।।
ये समानास्समनसो जीवा जीवेषु मामकाः ।
तेषाँ श्रीर्मयि कल्पतामस्मिंल्लोके शतँ समाः ॥
द्वे स्रुती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् ।
ताभ्यामिदं विश्वमेजत् समेति यदन्तरा पितरं मातरं च ॥
इदँ हविः प्रजननं मे अस्तु दशवीरँ सर्वगणँ स्वस्तये ।
आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि ।
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ॥२॥

सीसेन तन्त्रं मनसा मनीषिण ऊर्णासूत्रेण कवयो वयन्ति ।
अश्विना यज्ञँ सविता सरस्वतीन्द्रस्य रूपं वरुणो भिषज्यम् ॥
तदस्य रूपममृतँ शचीभिस्तिस्रो ददुर्देवतास्संरराणाः ।
लोमानि शष्पैर्बहुधा न तोक्मभिस्त्वगस्य माँसमभवन्न लाजाः ॥
तदश्विना भिषजा रुद्रवर्तनी सरस्वती वयति पेशो अन्तरम् ।
अस्थि मज्जानं मासरैः करोतरेण दधतो गवां त्वचि ॥
सरस्वती मनसा पेशलं वसु नासत्याभ्यां वयति दर्शतं वपुः ।
रसं परिस्रुता न रोहितं नग्नहुर्वीरस्तसरं न वेम ॥
पयसा शुक्रममृतं जनित्रँ सुराया मूत्राज्जनयन्ति रेतः ।
अपामतिं दुर्मतिं बाधमाना ऊबध्यं वातँ सब्वं तदारात् ॥
इन्द्रस्सुत्रामा हृदयेन सत्यं पुरोडाशेन सविता जजान ।
यकृत् क्लोमानं वरुणो भिषज्यन् मतस्ने वायव्यैर्न मिनाति पित्तम् ॥
अन्त्राणि स्थाली मधु पिन्वमाना गुदाः पात्राणि सुदुघा न धेनुः ।
श्येनस्य पत्रं न प्लीहा शचीभिरासन्दी नाभिरुदरं न माता ॥
कुम्भो वनिष्ठुर्जनिता शचीभिर्यस्मिन्नग्रे योन्यां गर्भो अन्तः ।
प्लाशिर्व्यक्तश्शतधार उत्सो दुहे न कुम्भी स्वधां पितृभ्यः ॥
मुखँ सदस्य शिर इत्सतेन जिह्वा पवित्रमश्विनासन् सरस्वती ।
चप्यं न पायुर्भिषगस्य वारो वस्तिर्न शेपो हरसा तरस्वी ॥
अश्विभ्यां चक्षुरमृतं ग्रहाभ्यां छागेन तेजो हविषा शृतेन ।
पक्ष्माणि गोधूमैः कुवलैरुतानि पेशो न शुक्लमसितं वसाते ।।
अविर्न मेषो नसि वीर्याय प्राणस्य पन्था अमृतो ग्रहाभ्याम् ।
सरस्वत्युपवाकैर्व्यानं नस्यानि बर्हिर्बदरैर्जजान ॥
इन्द्रस्य रूपमृषभो बलाय कर्णाभ्याँ श्रोत्रममृतं ग्रहाभ्याम् ।
यवा न बर्हिर्भ्रुवि केसराणि कर्कन्धु जज्ञे मधु सारघं मुखात् ॥
आत्मन्नुपस्थे न वृकस्य लोम मुखे श्मश्रूणि न व्याघ्रलोम ।
केशा न शीर्षन् यशसे श्रियै शिखा सिंहस्य लोम त्विषिरिन्द्रियाणि ॥
अङ्गान्यात्मन् भिषजा तदश्विनात्मानमङ्गैस्समधात् सरस्वती ।
इन्द्रस्य रूपँ शतमानमायुश्चन्द्रेण ज्योतिरमृतं दधाना ॥
सरस्वती योन्यां गर्भमन्तरश्विभ्यां पत्नी सुकृतं बिभर्ति ।
अपां रसेन वरुणेन साम्नेन्द्रँ श्रियै जनयन्नप्सु राजा ॥
तेजः पशूनाँ हविरिन्द्रियावत् परिस्रुता पयसा सारघं मधु ।
अश्विभ्यां दुग्धं भिषजा सरस्वत्या सुतासुताभ्याममृतस्सोम इन्दुः ॥३॥
  
क्षत्रस्य नाभिरसि क्षत्रस्य योनिरसि स्योनासि सुषदासि स्योनामासीद सुषदामासीद मा त्वा हिंसीन्मा मा हिँसीः ॥
निषसाद धृतव्रतो वरुणः पस्त्यास्वा । साम्राज्याय सुक्रतुः ॥
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याँ सरस्वत्या भैषज्येन वीर्यायान्नाद्यायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामिन्द्रस्येन्द्रियेण बलाय श्रियै यशसेऽभिषिञ्चामि कोऽसि को नामासि कस्मै त्वा काय त्वा सुश्लोका३ सुमङ्गला३ सत्यराजा३न् ॥
शिरो मे श्रीर्यशो मुखं त्विषिः केशाश्च श्मश्रूणि ।
राजा मे प्राणों अमृतँ सम्राट् चक्षुर्विराट्छ्रोत्रम् ॥
जिह्वा मे भद्रं वाङ् महो मनो मन्युस्स्वराड् भामः ।
मोदाः प्रमोदा अङ्गुलीरङ्गानि मित्रं मे सहः ॥
बाहू मे बलमिन्द्रियँ हस्तौ मे कर्म वीर्यम् । आत्मा क्षत्रमुरो मम ॥
पृष्टीर्मे राष्ट्रमुदरमँसौ ग्रीवाश्च श्रोण्यौ । ऊरू अरत्नी जानुनी विशो मेऽङ्गानि सर्वतः ॥
नाभिर्मे चित्तं विज्ञानं पायुर्मेऽपचितिर्भसत् ।
आनन्दनन्दा अण्डौ मे भगस्सौभाग्यं पसः ॥
जङ्घाभ्यां पद्भ्यां धर्मोऽस्मि विशि राजा प्रतिष्ठितः।
प्रति क्षत्रे प्रतितिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रतितिष्ठामि गोषु ॥
प्रत्यङ्गेषु प्रतितिष्ठाम्यात्मन् प्रति प्राणेषु प्रतितिष्ठामि पुष्टे ।
प्रति द्यावापृथिव्योः प्रतितिष्ठामि यज्ञे ॥
त्रयो देवा एकादश त्रयस्त्रिँशास्सुराधसः । बृहस्पतिप्रसूता देवस्य सवितुस्सवे ॥
देवा देवैरवन्तु मा प्रथमा द्वितीयैर्द्वितीयास्तृतीयैस्तृतीयास्सत्येन सत्यं यज्ञेन यज्ञो यजुर्भिर्यजूँषि सामभिस्सामान्यृग्भिर्ऋचो याज्याभिर्याज्या वषट्कारैर्वषट्कारा आहुतिभिराहुतयो मे कामान् समर्धयन्तु भूस्स्वाहा ॥
लोमानि प्रयतिर्मम त्वङ् म आनतिरागतिः ।
माँसं म उपनतिर्वस्वस्थि मज्जा म आनतिः ॥४॥

यद्देवा देवहेडनं देवासश्चकृमा वयम् । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वँहसः॥
यदि दिवा यदि नक्तमेनाँसि चकृमा वयम् । वायुर्मा तस्मादेनसो विश्वान्मुञ्चत्वँहसः॥
यदि जाग्रद्यदि स्वप्न एनाँसि चकृमा वयम् । सूर्यो मा तस्मादेनसो विश्वान्मुञ्चत्वँहसः॥
यद्ग्रामे यदरण्ये यत् सभायां यदिन्द्रिये । यच्छूद्रे यदर्य एनश्चकृमा वयम् ।
यदेकस्याधि धर्मणि तस्यावयजनमसि ॥
यदापो अघ्न्या वरुणेति शपामहे ततो वरुण नो मुञ्चावभृथ निचुङ्कुण निचेरुरसि निचुङ्कुणोऽव देवैर्देवकृतमेनोऽयाडव मर्त्यैर्मर्त्यकृतमुरोरा नो देव रिषस्पाहि ॥
समुद्रे ते हृदयमप्स्वन्तस्सं त्वा विशन्त्वोषधीरुतापः ॥
सुमित्रा ण आप ओषधयो भवन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यं च वयं द्विष्मः॥६२
द्रुपदादिवेन्मुमुचानस्स्विन्नस्स्नात्वी मलादिव ।
पूतं पवित्रेणेवाज्यमापश्शुन्धन्तु मैनसः॥
उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥
प्रत्यस्तो वरुणस्य पाशः प्रतियुतो वरुणस्य पाशः ॥ एधोऽस्येधिषीमहि समिदसि ॥ तेजोऽसि तेजो मयि धेहि ॥
अपो अद्यान्वचारिषं रसेन समगन्महि । पयस्वानग्न आगमं तं मा सँसृज वर्चसा ॥
समाववर्ति पृथिवी समुषास्समु सूर्यः । वैश्वानरज्योतिर्भूयासं विभुं कामं व्यश्नवै ॥
भूस्स्वाहा ॥५॥

समिद्ध इन्द्र उषसामनीके पुरोरुचा पूर्वकृद्वावृधानः ।
त्रिभिर्देवैस्त्रिंशता वज्रबाहुर्जघान वृत्रं वि दुरो ववार ॥
नराशँसः प्रति शूरो मिमानस्तनूनपात् प्रति यज्ञस्य धाम ।
गोभिर्वपावान् मधुना समञ्जन् हिरण्यैश्चन्द्री यजतु प्रचेताः॥
ईडितो देवैर्हरिवाँ अभिष्टिराजुह्वानो हविषा शर्धमानः।
पुरंदरो गोत्रभिद्वज्रबाहुरायातु यज्ञमुप नो जुषाणः ॥
जुषाणो बहिर्हरिवान्न इन्द्रः प्राचीनँ सीदत् प्रदिशा पृथिव्याः ।
उरुप्रथाः प्रथमानँ स्योनमादित्यैरक्तं वसुभिस्सजोषाः ॥
इन्द्रं दुरः कवष्यो धावमाना वृषाणं यन्तु जनयस्सुपत्नीः।
द्वारो देवीरभितो विश्रयन्ताँ सुवीरा वीरं प्रथमाना महोभिः॥
उषासानक्ता बृहती बृहन्तं पयस्वती सुदुघे शूरमिन्द्रम् ।
पेशस्वती तन्तुना संव्ययन्ती देवानां देवं यजतस्सुरुक्मे ॥
दैव्या मिमाना मनसा पुरुत्रा होतारा इन्द्रं प्रथमा सुवाचा ।
मूर्धन् यज्ञस्य मधुना दधाना प्राचीनं ज्योतिर्हविषा वृधातः ।।
तिस्रो देवीर्हविषा वर्धमाना इन्द्रं जुषाणा वृषणं न पत्नीः ।
अच्छिन्नं तन्तुं पयसा सरस्वतीडा देवी भारती विश्वतूर्तिः ॥
त्वष्टा दधदिन्द्राय शुष्ममपाकोऽचिष्टुर्यशसे पुरूणि ।
वृषा यजन् वृषणं भूरिरेता मूर्धन् यज्ञस्य समनक्तु देवान् ॥
वनस्पतिरवसृष्टो न पाशैस्त्मन्या समञ्जञ्छमिता न देवः।
इन्द्रस्य हव्यैर्जठरं पृणानस्स्वदाति यज्ञं मधुना घृतेन ॥
स्तोकानामिन्दुं प्रति शूर इन्द्रो वृषायमाणो वृषभस्तुराषाट् ।
घृतप्रुषा मनसा हव्यमुन्दन् मूर्धन् यज्ञस्य जुषताँ स्वाहा ॥६॥

आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनां पुरुहूत इन्द्रः ।
स्तुतश्श्रवस्यन्नवसोप मद्रिग्युक्त्वा हरी वृषणा याह्यर्वाक् ॥
विवेष यन्मा धिषणा जजान स्तवै पुरा पार्यादिन्द्रमह्नः ।
अँहसो यत्र पीपरद्यथा नो नावेव यान्तमुभये हवन्ते ॥
तँ सध्रीचीरूतयो वृष्ण्यानि पौँस्यानि नियुतस्सश्चुरिन्द्रम् ।
समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिर आविशन्ति ।।
सत्यमित् तन्न त्वावाँ अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान् ।
अहन्नहिं परिशयानमर्णोऽवासृजो अपो अच्छा समुद्रम् ।।
प्र ससाहिषे पुरुहूत शत्रूञ्ज्येष्ठस्ते शुष्म इह रातिरस्तु ।
इन्द्राभर दक्षिणेना वसूनि पतिस्सिन्धूनामसि रेवतीनाम् ॥
स शेवृधमधिधा द्युम्नमस्मे महि क्षत्रं जनाषाडिन्द्र तव्यम् ।
रक्षा च नो मघोनः पाहि सूरीन् राये च नस्स्वपत्या इषे धाः ॥७॥

समिद्धो अग्निरश्विना तप्तो घर्मो विराट् सुतः ।
दुहे धेनुस्सरस्वती सामँ शुक्रमिहेन्द्रियम् ॥
तनूपा भिषजा सुतेऽश्विनोभा सरस्वती । मध्वा रजाँसीन्द्रियमिन्द्राय पथिभिर्वहान् ॥
इन्द्रायेन्दुँ सरस्वती नराशँसेन नग्नहुम् । अधातामश्विना मधु भेषजं भिषजा सुते ॥
आजुह्वाना सरस्वतीन्द्रायेन्द्रियाणि वीर्यम् । इडाभिरश्विना इषँ समूर्जँ सं रयिं दधुः॥
अश्विना नमुचेस्सुतँ सोमँ शुक्रं परिस्रुता । सरस्वती तमाभरद्बर्हिषेन्द्राय पातवे ॥
कवष्यो न व्यचस्वतीरश्विभ्यां न दुरो दिशः ।
इन्द्रो न रोदसी दुघे दुहे कामान् सरस्वती ॥
उषासा नक्तमश्विना दिवेन्द्रँ सायमिन्द्रियैः । संजानाने सुपेशसा समञ्जाते सरस्वत्या।।
पातं नो अश्विना दिवा पाहि नक्तँ सरस्वति ।
दैव्या होतारा भिषजा पातमिन्द्रँ सचा सुते ॥
तिस्रस्त्रेधा सरस्वत्यश्विना भारतीडा । तीव्रं परिस्रुता सोममिन्द्रायासुषवुर्मदम् ।।
आश्विना भेषजं मधु भेषजं नस्सरस्वती।
गोभिर्न सोममश्विना मासरेण परिस्रुतम् ।
समधाताँ सरस्वत्या स्वाहेन्द्रे सुतं मधु ॥८॥

अश्विना हविरिन्द्रियं नमुचेर्धिया सरस्वती ।
आ शुक्रमासुराद्वसु मघमिन्द्राय जभ्रिरे ॥
यमश्विना सरस्वती हविषेन्द्रमवर्धयन् ।
स बिभेद बलं मघं नमुचा आसुरे सचा ॥
तमिन्द्रं पशवस्सचाश्विनोभा सरस्वती ।
दधाना अभ्यनूषत हविषा यज्ञ इन्द्रियम् ॥
य इन्द्र इन्द्रियं दधुस्सविता वरुणो भगः।
स सुत्रामा हविष्पतिर्यजमानाय सश्चत॥
सविता वरुणो दधद्यजमानाय दाशुषे । आदत्त नमुचेर्वसु सुत्रामा बलमिन्द्रियम् ॥
वरुणः क्षत्रमिन्द्रियं भगेन सविता श्रियम् । सुत्रामा यशसा बलं दधाना यज्ञमाशत॥
अश्विना गोभिरिन्द्रियमश्वेभिर्वीर्यं बलम् । हविषेन्द्रँ सरस्वती यजमानमवर्धयन् ॥
ता नासत्या सुपेशसा हिरण्यवर्तनी नरा । सरस्वती हविष्मतीन्द्र कर्मसु नोऽवत ।।
ता भिषजा सुकर्मणा सा सुदुघा सरस्वती । स वृत्रहा शतक्रतुरिन्द्राय दधुरिन्द्रियम्॥
युवँ सुराममश्विना नमुचा आसुरे सचा। विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥
पुत्रमिव पितरा अश्विनोभेन्द्रावथुः काव्यैर्दँसनाभिः ।
यत् सुरामं व्यपिबश्शचीभिस्सरस्वती त्वा मघवन्नभिष्णक् ॥
यस्मिन्नश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टा आहुताः।
कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनय चारुमग्नये ॥
अहाव्यग्ने हविरास्ये ते सुचीव घृतं चम्वीव सोमः ।
वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥९॥

समिद्धो अग्निस्समिधा सुषमिद्धो वरेण्यः । गायत्री छन्द इन्द्रियं त्रियविर्गौर्वयो दधुः॥
तनूनपाच्छुचिव्रतस्तनूपाश्च सरस्वती । उष्णिहा छन्द इन्द्रियं दित्यवाड् गौर्वयो दधुः॥
इडाभिरग्निरीड्यस्सोमो देवो अमर्त्यः । अनुष्टुप् छन्द इन्द्रियं पञ्चाविर्गौर्वयो दधुः ।।
सुबर्हिरग्निः पूषण्वाँ स्तीर्णबर्हिरमर्त्यः । बृहती छन्द इन्द्रियं त्रिवत्सो गौर्वयो दधुः ॥
दुरो देवीर्दिशो महीर्ब्रह्मा देवो बृहस्पतिः।
पङ्क्तिश्छन्द इहेन्द्रियं तुर्यवाड्गौर्वयो दधुः ॥
उषे यह्वी सुपेशसा विश्वे देवा अमर्त्याः । त्रिष्टुप् छन्द इहेन्द्रियं पष्ठवाड्गौर्वयो दधुः।।
दैव्या होतारा भिषजेन्द्रेण सयुजा युजा।
जगती छन्द इन्द्रियमनड्वान् गौर्वयो दधुः ।।
तिस्त्र इडा सरस्वती भारती मरुतो विशः।
विराट् छन्द इहेन्द्रियं धेनुर्गौर्न वयो दधुः ।।
 त्वष्टा तुरीपो अद्भुत इन्द्राग्नी पुष्टिवर्धना ।
द्विपदा छन्द इन्द्रियमुक्षा गौर्न वयो दधुः ॥
 शमिता नो वनस्पतिस्सविता प्रसुवन् भगम् ।
ककुप् छन्द इहेन्द्रियं वशा वेहद्वयो दधुः ॥
स्वाहा यज्ञं वरुणस्सुक्षत्रो भेषजं करत् ।
अतिच्छन्द इन्द्रियं बृहद्वृषभो गौर्वयो दधुः ॥१०॥

वसन्तेनर्तुना देवा वसवस्त्रिवृता स्तुतम् । रथन्तरेण तेजसा हविरिन्द्रे वयो दधुः ॥
ग्रीष्मेण देवा ऋतुना रुद्राः पञ्चदशे स्तुतम् ।
बृहता यशसा बलँ हविरिन्द्रे वयो दधुः॥
वर्षाभिर्ऋतुनादित्यास्तोमे सप्तदशे स्तुतम् । वैरूपेण विशौजसा हविरिन्द्रे वयो दधुः।।
शारदेनर्तुना देवा एकविँश ऋभवस्स्तुतम् । वैराजेन श्रिया श्रियँ हविरिन्द्रे वयो दधुः॥
हेमन्तेनर्तुना देवास्त्रिणवे मरुतस्स्तुतम् । बलेन शक्करीस्सहो हविरिन्द्रे वयो दधुः ॥
शैशिरेणर्तुना देवास्त्रयस्त्रिंशेऽमृतँ स्तुतम् ।
सत्येन रेवतीः क्षत्रँ हविरिन्द्रे वयो दधुः ॥११॥

बृहस्पतिपुरोहिता देवा देवानां देवा देवाः प्रथमजा देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु त्रिरेकादशास्त्रयस्त्रिँशा अनु व आरभ इदँ शकेयं यदिदं करोमि ते मावत ते मा जिन्वतास्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्यां देवहूत्याम् ॥
योऽस्य कौष्ठ जगतः पार्थिवस्यैक इद्वशी । यमं भङ्गश्रवो गाय यो राजानपरोध्यः।।
यमं गाय भङ्गश्रवो यो राजानपरोध्यः । येनापो नद्यो धन्वानि येन द्यौः पृथिवी दृढा॥
हिरण्यकेशान् सुधुरान् हिरण्याक्षानयश्शफान् ।
अश्वाननश्यतो दानं यमो राजाधितिष्ठति ॥
अयं योऽसि यस्य त इदँ शिर एतेन त्वमत्र शीर्षण्वानेधि ।
इदमस्माकं भुजे भोगाय भूयात् ॥
उदेह्यग्ने अधि मातुः पृथिव्या विश आविश महतस्सधस्थात् ।
आशुं त्वाजौ दधिरे देवयन्तो हव्यवाहं भुवनस्य गोपाम् ॥
धनंजयस्सहमानः पृतन्युरग्न ईषमूर्जं यजमानाय धेहि ।
विश्वाः पृतनास्सहमानस्सहोभिरन्नं नो धेहि बहुधा विरूपं यत् प्रजा अनु जीवन्ति सर्वाः॥
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये त्वा वैश्वानराय त्रैष्टुभेन च्छन्दसाहरुपदधे देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये त्वा वैश्वानरायानुष्टुभेन च्छन्दसा रात्रीमुपदधे ॥
पुनस्त्वादित्या रुद्रा वसवस्समिन्धतां पुनर्ब्रह्माणो वसुनीथ यज्ञैः।
घृतेन ते तन्वं वर्धयामि सत्यास्सन्तु यजमानस्य कामाः ॥
अग्निर्होता नो अध्वरे वाजी सन् परिणीयते । देवो देवेषु यज्ञियः ॥
परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव । आ देवेषु प्रयो दधत् ॥
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे ॥
परि त्वाग्ने पुरं वयं विप्रँ सहस्य धीमहि । धृषद्वर्णं दिवे दिवे हन्तारं भङ्गुरावताम् ॥
परि प्रागाद्देवो अग्नी रक्षोहामीवचातनः। सेधन् विश्वा अप द्विषो दहन रक्षाँसि विश्वहा॥
चितस्स्थ परिचित ऊर्ध्वश्रितश्श्रयध्वम् । प्रजामस्मे रयिमस्मे नियच्छत ॥१२॥
व्रजं कृणुध्वँ स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि ।
पुरः कृणुध्वमायसीरधृष्टा मा वस्सुस्रोच्चमसो दृँहता तम् ।।
 अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीडुजम्भम् ।
दश स्वसारो अग्रुवस्समीचीः पुमाँसं जातमभिसंरभन्ताम् ॥
साकँ हि शुचिना शुचिः प्रशास्ता ऋतुनाजनि ।
विद्वाँ अस्य व्रता ध्रुवा वया इवानुरोहति ॥
अपास्मदेतु निर्ऋतिर्नेहास्या अपि कि चन । अगोतां नाष्ट्रां पाप्मानँ सर्वं तदपहन्महे।।
अपास्य नैर्ऋतान् पाशान् मृत्योरेकशतं चये ।
अपास्य ये सिनाः पाशा मृत्योरेकशतँ सुवे ॥
ये ते पाशा एकशतं मृत्यो मर्त्याय हन्तवे । ताँस्ते यज्ञस्य मायया सर्वानवयजामहे॥
देवीमहं निर्ऋतिं बाधमानः पितेव पुत्रं दमये वचोभिः ।
या जायमानस्य जायमानस्य शिरो देवी प्रति सूरिर्विचष्टे ॥
शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः ॥
ऊर्जं बिभ्रद्वसुवनिस्सुमेधा गृहाणां मोदमाना सुवर्चाः ।
अघोरेण चक्षुषाहँ शिवेन गृहाणां पश्यन् वय उत्तिरामि ॥
गृहाणामायुः प्र वयं तिराम गृहा अस्माकं प्रतिरन्त्वायुः ।
येन देवा ज्योतिषोर्ध्वा उदायन् येनादित्या वसवो येन रुद्राः ।
येनाङ्गिरसो महिमानमानशुस्तेनैतु यजमानस्स्वस्ति ।।
स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छा नश्शर्म सप्रथाः ॥
वाक्त्वा समुद्र उपदधातु प्रजावनिं रायस्पोषवनिं मह्यं वाजिनाय मही ध्रुवा सलिलासि ज्योतिष्मती सा स्वर्गं लोकं प्रजानीहि प्रजापतिः प्रजापतौ सादयतु तयाङ्गिरस्वद् ध्रुवा सीद ॥१३॥

उदस्थाद्धनजिद्गोजिदश्वजिद्धिरण्यजित् सूनृतया परीवृतः।
एतचक्रेण सविता रथेनोर्जो भागं पृथिवीमेत्यापृणन् ।
सं वरत्रान् दधातन निराहावं कृणोतन ।
सिञ्चामहा अवतं वयमुद्रिणं विश्वाहादस्तमक्षितम् ॥
ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतस्सुरुचो वेन आवः ।
स बुध्न्या उपमा अस्य विष्ठास्सतश्च योनिमसतश्च विवः ।।
अनाप्ता या वः प्रथमा यस्यां कर्माणि कुर्वते ।
वीरान्नो अत्र मा दभँस्तद्व एतत् पुरो दधे ॥
पर्यू षु प्रधन्व वाजसातये परि वृत्राणि सक्षणिः।
द्विषस्तरध्या ऋणया न ईयसे ॥
सहस्रधारेऽव ते समस्वरन् दिवो नाके मधुजिह्वा असश्चतः ।
तस्य स्पशो न निमिषन्ति भूर्णयः पदे पदे पाशिनस्सन्ति सेतवः॥
मलिम्लुचो नामासि त्रयोदशो मास इन्द्रस्य शर्मासीन्द्रस्य वर्मासीन्द्रस्य वरूथमसि तं त्वा प्रपद्ये सगुस्साश्वस्सपुरुषः ॥ सह यन्मेऽस्ति तेन स मे शर्म च वर्म च भव गायत्रींल्लोमभिः प्रविशामि त्रिष्टुभं त्वचा प्रविशामि जगतीं माँसेन प्रविशाम्यनुष्टुभमस्थ्ना प्रविशामि पङ्क्तिं मज्ज्ञा प्रविशामि ॥
ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नाति विध्यन्ति शूराः।
तन्नस्त्रायतां तन्वस्सर्वतो महदायुष्मन्तो जरामुपगच्छेम जीवाः ॥१४॥ [२५४४]


॥ इति श्रीयजुषि काठके चरकशाखायामोरिमिकायां सौत्रामणीनामाष्टात्रिंशं स्थानकं संपूर्णम् ॥३८॥