कात्यायनसंहिता
कात्यायनसंहिता ।
प्रथमोऽध्यायः ।
अथातो गोभिलोक्तानामन्येषाञ्चैव कर्म्मणाम् ।
अस्पष्टानां विधिं सम्यग्दर्शयिष्ये प्रदीपवत् ।। 1.1 ।।
त्रिवृदूर्द्धवृतं कार्य्यं तन्तुत्रयमधोवृतम् ।
त्रिवृत्तञ्चोपवीतं स्यात् तस्यैको ग्रन्थिरिष्यते ।। 1.2 ।।
पृष्ठवंशे च नाभ्याञ्च धृतं यद्विन्दते कटिम् ।
तद्धार्य्यमुपवीतं स्यान्नातो लम्वं न चोच्छ्रितम् ।। 1.3 ।।
सदोपवीतिना भाव्यं सदा वद्धशिखेन च ।
विशिखो व्युपवीतश्च यत् करोति न तत्कृतम् ।। 1.4 ।।
त्रिः प्राश्यापो द्बिरून्मृज्य मुखमेतान्युपस्पृशेत् ।
आस्यनासाक्षिकर्णांश्च नाभिवक्षः शिरोऽसकान् ।। 1.5 ।।
संहताभिस्त्र्यङ्गुलिभिरास्यमेवमुपस्पृशेत् ।
अङ्गुष्ठेन प्रदेशिन्या घ्राणञ्चैवमुपस्पृशेत् ।
अङ्गुष्ठानामिकाभ्याञ्च चक्षुः श्रोत्रं पुनःपुनः ।। 1.6 ।।
कनिष्ठाङ्गुष्ठयोर्नाभिं हृदयन्तु तलेन वै ।
सर्ब्बाभिस्तु शिरः पश्चाद्वाहू चाग्रेण संस्पृशेत् ।। 1.7 ।।
यत्रोपदिश्यते कर्म्म कर्त्तुरङ्गंन तुच्यते ।
दक्षिणस्तत्र विज्ञेयः कर्म्मणां पारगः कारः ।। 1.8 ।।
यत्र दिङ्नियमो न स्याज्जपहोमादिकर्म्मसु ।
तिस्रस्तत्र दिशः प्रोक्ता ऐन्द्रीसौम्यापराजिताः ।। 1.9 ।।
तिष्ठन्नासीनः प्रह्वो वा नियमो यत्र नेट्टशः ।
तदासीनेन कर्त्तव्यं न प्रह्वेण न तिष्ठता ।। 1.10 ।।
गौरी पद्मा शची मेधा सावित्री विजाया जया ।
देवसेना स्वधा स्वाहा मातरो लोकमातरः ।। 1.11 ।।
धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सह ।
गणेशेनाधिका ह्येता वृद्धौ पूज्याश्चदुर्द्दश ।। 1.12 ।।
कर्म्मादिषु तु सर्व्वेषु मातरः सगणाधिपाः ।
पूजनोयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ।। 1.13 ।।
प्रतिमासु च शुभ्रासु लिखित्वा वा पटादिषु ।
अपि वाक्षतपुञ्जेषु नैवैद्यैश्च पृथग्विधैः ।। 1.14 ।।
कुड्यलग्नां वसोर्द्धरां सप्तधारां घृतेन तु ।
कारयेत् पञ्चधारां वा नातिनीचां नचोच्छ्रिताम् ।। 1.15 ।।
आयुष्यानि च शान्त्यर्थं जप्त्वा तत्र समाहितः ।
षड़्भ्यः पितृभ्यस्तदनु भक्त्या श्राद्धमुपक्रमेत् ।। 1.16 ।।
अनिष्ठ्वा तु पितॄन् श्राद्धे न कुर्य्यात् कर्म्म वैदिकम् ।
तथापि मातरः पूर्व्वं पूजनीयाः प्रयत्नतः ।। 1.17 ।।
वसिष्ठोक्तो विधिः कृत्स्नो द्रष्टव्योऽत्रानरामिषः ।
अतः परं प्रवक्ष्यामि विशेष इह यो भवेत् ।। 1.18 ।।
इति प्रथमखण्डः ।। 1 ।।
द्वितीयः खण्डः ।
प्रातरामन्त्रितान् विप्रान् युग्मानुभयतस्तथा ।
उपवेश्य कुशान् दद्याट्टजुनैव हि पाणिना ।। 2.1 ।।
हरिता यज्ञिया दर्भाः पीतकाः पाकयज्ञियाः ।
समूलाः पितृदैवत्याः कल्माषा वैश्यदेविकाः ।। 2.2 ।।
हरिता वै सपिञ्जलाः शुष्काः स्निग्धा समाहिताः ।
रत्निमात्राः प्रमाणेन पितृतीर्थन संस्तृताः ।। 2.3 ।।
पिण्डार्थं ये स्तृता दर्भास्तर्पणार्थं तथैव च ।
धृतैः कृते च विण्मूत्रेत्यागस्तेषां विधीयते ।। 2.4 ।।
दक्षिणं पातयेज्जानु देवान् परिचरन् सदा ।
पातयेदितरज्जानु पितॄन् परिचरन्नपि ।। 2.5 ।।
निपातो नहि सव्यस्य जानुनो विद्यते क्वचित् ।
सदा परिचरेद्भक्त्या पितॄनप्यत्र देववत् ।। 2.6 ।।
पितृभ्य इति दत्त्वैष उपवेश्य कुशेष तान् ।
गोत्रनामभिरामन्त्र्य पितृनर्घ्यं प्रदापयेत् ।। 2.7 ।।
नात्रापसव्यकरणं न पित्र्यं तीर्थमिष्यते ।
पात्राणां पूरणादीनि दैवेनैव हि कारयेत् ।। 2.8 ।।
ज्येष्ठोत्तरकरान् युग्मानु कराग्राग्रपवित्रकान् ।
कृत्वार्घ्यं सम्प्रदातव्यं नैकैकस्यात्र दीयते ।। 2.9 ।।
अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव च ।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ।। 2.10 ।।
एतदेव हि पिञ्जल्या लक्षणं समुदाहृतम् ।
आज्यस्योत्पवनार्थं यत्तदप्येतावदेव तु ।। 2.11 ।।
एत् प्रामाणमेवैके कीशीमेवार्द्रमञ्जरीम् ।
शुष्कां वा शीर्णकुसुमां पिञ्जलीं परिचक्षते ।। 2.12 ।।
पित्र्यमन्त्रानुद्रवण आत्मालम्भेऽधमे क्षणे ।
अधोवायुसमुत्सर्गे प्रहासेऽनृतभाषणे ।। 2.13 ।।
मार्ज्जारमूषकस्पर्श आक्रुष्टे क्रोधसम्भवे ।
निमित्तेवेषु सर्व्वत्र कर्म्म कुर्व्वन्नपः स्पृशेत् ।। 2.14 ।।
इति द्वितीयः खण्डः ।। 2 ।।
तृतीयः खण्डः ।
अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कर्म्मकारिणाम् ।
अक्रिया च परोक्ता च तृतीया चायथाक्रिया ।। 3.1 ।।
स्वशाखाश्रयमुत्मृज्य परशाखाश्रयञ्च यः ।
कर्त्तूमिच्छति दुर्म्मेधा मोघं तत्तस्य चेष्टितम् ।। 3.2 ।।
यन्नाम्नातं स्वशाखायां परोक्तमविरोधि च ।
विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्म्मवत् ।। 3.3 ।।
प्रवृत्तमन्यथा कुर्य्याद् यदि मोहात् कथञ्चन ।
यतस्तदन्यथाभूतं तत एव समापयेत् ।। 3.4 ।।
समाप्ते यदि जानीयान्मयैतदयथाकृतम् ।
तावदेव पुनः कुर्य्यान्नावृत्तिः सर्व्वकर्म्मणः ।। 3.5 ।।
प्रधानस्याक्रिया यत्र साङ्गं ततं क्रियते पुनः ।
तदङ्गस्याक्रियायाञ्च नावृत्तिर्नैव तत्क्रिया ।। 3.6 ।।
मधुमध्विति यस्तत्र त्रिर्जपोऽशितुमिच्छताम् ।
गायत्र्यनन्तरं सोऽत्र मधुमन्त्रविवर्ज्जितः ।। 3.7 ।।
न चास्नत्सु जपेदत्र कदाचित् पितृसंहिताम् ।
अन्य एव जपं कर्य्यः सोमसामादिकः शुभः ।। 3.8 ।।
यस्तत्र प्रकरोऽन्नस्य तिलवदु यववत्तथा ।
उच्छिष्टसन्निधौ सोऽत्र तृप्तेषु विपरीतकः ।। 3.9 ।।
सम्पन्नमिति तृप्ताः स्थ प्रश्रस्थाने विधीयते ।
सुसम्पन्नमिति प्रोक्ते शेषमन्नं निवेदयेत् ।। 3.10 ।।
प्रागग्रेष्वथ दर्भेषु आद्यमामन्त्र्य पूर्व्ववत् ।
अपः क्षिपेम्मूलदेशेऽवनेनिक्ष्वेति पात्रतः ।। 3.11 ।।
द्वितीयञ्च तृतीयञ्च मध्यदेशाग्रदेशयोः ।
मातामहप्रभृतींस्त्रीनितरानेव वामतः ।। 3.12 ।।
सर्व्वम्मादन्नमुद्धृत्य व्यञ्जननैरूपसिच्य च ।
संयोज्य यवकर्कन्धूदधिभिः प्राङ्मुखस्ततः ।। 3.13 ।।
अवनेजनवत् पिण्डान् दत्त्वा विल्वप्रमाणकान् ।
तत्पात्रक्षालनेनाथ पुनरप्यवनेजयेत् ।। 3.14 ।।
इति तृतीयः खण्डः ।। 3 ।।
चतुर्थः खण्डः ।
उत्तरोत्तरदानेन पिण्डानामुत्तरोत्तरः ।
भवेदधश्चाधराणमधरश्राद्धकर्म्मणि ।। 4.1 ।।
तस्माच्छ्राद्धेषु सर्व्वेषु वुद्धिमत्स्वितरेषु च ।
मूलमध्याग्रदेशेषु ईषत्सक्तांश्च निर्व्विपेत् ।। 4.2 ।।
गन्धादीन्नक्षिपेत्तूष्णों तत आचामयेद्द्विजान् ।
अन्यत्राप्येष एव स्याद्यवादिरहितो विधिः ।। 4.3 ।।
दक्षिणाप्लवने देशे दक्षिणाभिमुखस्य च ।
दक्षिणाग्रेषु दर्भेषु एषोऽन्यत्र विधिः स्मृतः ।। 4.4 ।।
अथाग्रभूमिमासिञ्चेत् सुसम्प्रोक्षितमस्त्विति ।
शिवा आपः सन्त्विति च युग्मानेवोदकेन च ।। 4.5 ।।
सौमनस्यमस्त्विति च पुष्पदानमनन्तरम् ।
अक्षतञ्चारिष्टञ्चास्त्वित्यक्षतान् प्रतिपादयेत् ।। 4.6 ।।
अक्षय्योदकदानन्तु अर्घ्य दानवदिष्यते ।
षष्ठ्येव नित्यं तत्कुर्य्यान्न चतुर्थ्या कदाचन ।। 4.7 ।।
अर्घ्योऽक्षय्योदके चैव पिण्डदानेऽवनेजने ।
तन्त्रस्य तु निवृत्तिः स्यात् स्वधावाचन एव च ।। 4.8 ।।
प्रार्थनासु प्रतिप्रोक्ते सर्व्वास्वेव द्विजोत्तमैः ।
पवित्रानार्हितान् पिण्डान् सिञ्चेदुत्तानपात्रकृत् ।। 4.9 ।।
युग्भानेव स्वस्ति वाच्यमङ्गष्ठाग्रग्रहं सदा ।
कृत्वा धुर्य्यस्य विप्रस्य प्रणम्यानुव्रजेत् ततः ।। 4.10 ।।
एष श्राद्धविधिः कृत्स्न उक्तः संक्षेपतो मया ।
ये विन्दन्ति न मुह्यन्ति श्राद्धकर्म्म्सु ते क्वचित् ।। 4.11 ।।
इदं शास्त्रञ्च गुह्यञ्च परिसङ्ख्यानमेव च ।
वसिष्ठोक्तञ्च यो वेद स श्राद्धं वेद नेतरः ।। 4.12 ।।
इति चतुर्थः खण्डः ।। 4 ।।
पञ्चमः खण्डः ।
असकृत् तानि कर्म्माणि क्रियेरन् कर्म्मकारिभिः ।
प्रतिप्रयोगं नैताः स्युर्म्मातरः श्राद्धमेव च ।। 5.1 ।।
आधानहोमयोश्चैव वैश्वटेवे तथैव च ।
वलिकर्म्मणि दर्शे च पौर्णमासे तथैव च ।। 5.2 ।।
नवयज्ञे च यज्ञयज्ञा वदन्त्येव मनीषिणः ।
एवमेव भेवच्छ्राद्धमेतेषु न पृथक् पृथक् ।। 5.3 ।।
नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते ।
न सोष्यन्ती जातकर्म्म प्रोषितागतकर्म्मसु ।। 5.4 ।।
विवाहादिः कर्म्मगणो य उक्तो गर्भाधानं शुश्रुम यस्य चान्ते ।
विवाहादावेकमेवात्र कुर्य्यात् श्राद्धं नादौ कर्म्मणः कर्म्मणः स्यात् ।। 5.5 ।।
प्रदोषे श्राद्धमेकं स्याद्गोनिष्क्रमप्रवेशयोः ।
न श्राद्धं युज्यते कर्त्तं प्रथमे पुष्टिकर्म्मणि ।। 5.6 ।।
हलाभियोगादिषु तु षट्सु कुर्य्यात् पृथक् पृथक् ।
प्रतिप्रयोगमप्येवानादावेकन्तु कारयेत् ।। 5.7 ।।
वृहत्पत्रक्षुद्रपशुस्वस्त्यर्थं परिविन्यतोः ।
सूर्य्येन्दोः कर्म्मणीये तु तयोः श्राद्धं न विद्यतेः ।। 5.8 ।।
न दशाग्रन्थिके चैव विषवद्दष्टकर्म्मणि ।
कृमिदष्टचिकित्सायां नैव शेषेषू विद्यते ।। 5.9 ।।
गणशः क्रियमाणेषु मातृभ्यः पूजनं सकृत् ।
सकृदेव भवेच्छ्राद्धमादौ न पृथगादिषु ।। 5.10 ।।
यत्र यत्र भवेच्छ्राद्धं तत्र तत्र च मातरः ।
प्रासिङ्किकमिदं प्रोक्तमतः प्रकृतमुच्यते ।। 5.11 ।।
इति पञ्चमः खण्डः ।। 5 ।।
षष्ठः खण्डः ।
आधानकाला ये प्रोक्तास्तथा यश्चाग्नियोनयः ।
तदाश्रयाऽग्निमादद्यादग्निमानग्रजो यदि ।। 6.1 ।।
दाराधिगमनाधाने यः कुर्य्यादग्रजाग्रिमः ।
परिवेत्ता म विज्ञेयः परिवित्तिस्तु पूर्व्वजः ।। 6.2 ।।
परिवित्तिपरिवेत्तारौ नरकं गच्छतो ध्रुवम् ।
अपि चौर्णप्रायश्चित्तौ पादोनफलबागिनौ ।। 6.3 ।।
देशान्तरस्थल्कोवैकवृषणानसहोदरान् ।
वेश्याभिसक्तपतितशूद्रतूल्यातिरोगिणः ।। 6.4 ।।
जड़मूकान्धवधिरकुब्जवामनकुण्ठकान् ।
अतिवृद्धानभ्यार्य्यांञ्च कृषिसक्तान् नृपस्य च ।। 6.5 ।।
धवनृद्धिप्रलसक्तांश्च कामतः कारिणस्तथा ।
कुलटोन्मत्तचौरांश्च परिविन्दन् न दुष्यति ।। 6.6 ।।
धनवार्द्धुषिकं राजसेवकं कर्षकं तथा ।
प्रोषितञ्च प्रतौक्षेत वर्षत्रयमपि त्वरन् ।। 6.7 ।।
प्रोषितं यद्यशृण्वानमब्दादूर्द्धं समाचरेत् ।
आगते तु पुनस्तस्मिन् पादं तच्छुद्धये चरेत् ।। 6.8 ।।
लक्षणे प्राग्गतयास्तु प्रमाणां द्वादशाङ्नुलम् ।
तन्मलसक्ता योदौचौ तस्या एतन्नवोत्तरम् ।। 6.9 ।।
उदग्तायाः संलग्नाः शेषाः प्रदिशमात्रिकाः ।
सप्तसप्ताङ्नुलांस्त्वक्त्वा कुशेनैव समुल्लिखेत् ।। 6.10 ।।
मानक्रियायामुक्तायामनुक्ते मानकर्त्तरि ।
मानकृद्यजमानः स्याद्विदुषामेव निश्चयः ।। 6.11 ।।
पुण्यमेवादधीताग्निं स हि सर्व्वैः प्रशस्यते ।
अनर्द्धुकत्वं यत्तस्य काम्यैस्तन्नीयते शमौम् ।। 6.12 ।।
यस्य दत्ता भवेत् कन्या वाचा सत्येन केनचित् ।
सोऽन्त्यां समिधमाधास्यन्नादधीतैव नान्यथा ।। 6.13 ।।
अनूढैव तू सा कन्या पञ्चत्वं यदि गच्छति ।
न तथा व्रतलोपोऽस्य तेनैवान्यां समुद्धहेत् ।। 6.14 ।।
अथ चेन्न लभेतान्यां याचमानोऽपि कन्यकाम् ।
तमग्निमात्मसात् कृत्वा क्षिप्रं स्यादुत्तराश्रमी ।। 6.15 ।।
इति षष्ठः खण्डः ।। 6 ।।
सप्तमः खण्डः ।
अश्वत्थो यः शमौगर्भः प्रशस्तार्ब्बीसमुद्भवः ।
तस्य या प्राङ्मुखो शाखा वोदीची वोर्द्धगापि वा ।। 7.1 ।।
अरणिस्तन्मयौ प्रोक्ता तन्मय्येवोत्तरागणिः ।
सारवद्दारवं चत्रमोविलो च प्रशस्यते ।। 7.2 ।।
संसक्तमूलो यः शम्याः स शमीगर्भ उच्यते ।
अलाभे त्वशमीगर्भादुर्द्धरेदविलभ्वितः ।। 7.3 ।।
चतुर्व्विंशतिरङ्गुष्ठदैर्घ्यं षड़पि पार्थिवम् ।
चत्वार उच्छ्रये मानमरण्योः परिकोर्त्तिंतम् ।। 7.4 ।।
अष्टाङ्गुलः प्रमन्थः स्याद्धादशाङ्गुलम् ।
ओविलो द्वादशैव स्यादेतन्मन्थनयन्त्रकम् ।। 7.5 ।।
अङ्गुष्ठाङ्गुलमानन्तु यत्र यत्रोपदिश्यते ।
तत्र तत्र वृहत्पर्व्वग्रन्थिभिर्मिनुयात् सदा ।। 7.6 ।।
गोवालैः शणसम्मिश्रैस्त्रिवृत्तममलात्मकम् ।
व्यामप्रमाणं नेत्रं स्यात् प्रमष्यस्तेन पावकः ।। 7.7 ।।
मूर्द्धाक्षिकर्णवक्ताणि कन्धरा चापि पञ्चमी ।
अङ्गुष्ठमात्राण्येतानि द्व्यङ्गुष्ठं वक्ष उच्यते ।। 7.8 ।।
अङ्गुष्ठमात्रं हृदयं त्र्यङ्गुष्ठमुदरं स्मृतम् ।
एकाङ्गष्ठा कटिर्ज्ञेया द्वौ वस्ति द्वो च गुह्यकम् ।। 7.9 ।।
ऊरु जङ्घेच पादौ च चतुस्त्येकैर्यथाक्रमम् ।
अरण्यवयवा ह्येते याज्ञिकैः परिकीर्त्तिताः ।। 7.10 ।।
यत्तद्गुह्यमिति प्रोक्तं देवयोनिस्तु सोच्यते ।
अस्यां यो जायते वह्निः स कल्याणकृदुच्यते ।। 7.11 ।।
अन्येष ये तु मथन्ति ते रोगभयमाप्नुयुः ।
प्रथमे मन्थने त्वेष नियमो नोत्तरेषु च ।। 7.12 ।।
उत्तरारणिनिष्पन्नः प्रमन्थः सर्व्वदा भवेत् ।
योनिशङ्करदोषेण युज्यते ह्यन्यमन्थकृत् ।। 7.13 ।।
आर्द्रा सशुषिरा चैव घूर्णाङ्गी पाटिता तथा ।
न हिता यजमानानामरणिश्चोत्तरारणिः ।। 7.14 ।।
इति सप्तमः खण्डः ।। 7 ।।
अष्टमः खण्डः ।
परिधायाहतं वासः प्रावृत्य च यथाविधि ।
विभृयात् प्राङ्मुखो यन्त्रमावृता वक्ष्यमाणया ।। 8.1 ।।
चत्रवृध्ने प्रमन्थाग्रं गाढं कृत्वा विचक्षणः ।
कृत्वोत्तराग्रामरणिं तद्वृध्नमुपरि न्यसेत् ।। 8.2 ।।
चत्राधः कौलकाग्रन्थामोविलौमुदगग्रकाम् ।
विष्टम्भाद्धारयेद्यन्त्रं निष्कम्पं प्रयतः शुचिः ।। 8.3 ।।
त्रिरूद्वेष्ट्याथ नेत्रेण चत्रं पत्र्योहतांशुकाः ।
पूर्व्वं मथ न्त्यरण्यान्त्याः प्राच्याग्नेः स्याद्यथाच्युतिः ।। 8.4 ।।
नैकयापि विना कार्य्यमाधानं भार्य्यया द्विजैः ।
अकृतं तद्विजानीयात् सर्व्वान्वाचारभन्ति यत् ।। 8.5 ।।
वर्णज्यैष्ठ्येन वह्वीभिः सवर्णाभिश्च जन्मतः ।
कार्य्यमग्निच्युतेराभिः साध्वोभिर्मथनं पुनः ।। 8.6 ।।
ततः शक्ततरा पश्चादासामन्यतरापि वा ।
उपेतानां वान्यतमा मथ्ने दग्निं निकामतः ।। 8.7 ।।
नात्र शूद्रीं प्रयुञ्जीत न द्रोहद्वैषकारिणीम् ।
न चैवाव्रतस्थां नान्यपुंसा च सह सङ्गताम् ।। 8.8 ।।
जातस्य लक्षणं कृत्वा तं प्रणीय समिध्य च ।
आधाय समिधञ्चैव ब्राह्मणञ्चोपवेशयेत् ।। 8.9 ।।
ततः पूर्णाहुतिं हुत्वा सर्व्वमन्त्रसमन्विताम् ।
गां दद्याद्यज्ञवास्त्वन्ते ब्रह्मणे वाससी तथा ।। 8.10 ।।
होमपात्रमनादेशे द्रवद्रव्ये स्रुवः स्मृतः ।
पाणिरेवेतरस्मिंस्तु स्रुचैवात्र तु हूयते ।। 8.11 ।।
खादिरो वाथ पालाशो द्विवितस्तिः स्रुवः स्मृतः ।
स्रुग्वाहुमात्रा विज्ञेया वृत्तस्तु प्रग्रहस्तयोः ।। 8.12 ।।
स्रुवाग्रे घ्राणवत् खातंद्व्यङ्गुष्ठपरिमण्डलस्थलम् ।
जुह्वाः शराववत्खातं सनिर्व्वाहं षड़ङ्गुलं कुर्य्यात् ।। 8.13 ।।
तेषां प्राक्शः कुशैः कार्य्यः सम्प्रमार्गो जुहूयता ।
प्रतापनञ्च लिप्तानां प्रक्षाल्योष्णेन वारिणा ।। 8.14 ।।
प्राञ्चं प्राञ्चमुद्गग्नेरूद्गग्रं समोपतः ।
तत्तथासादयेद्द्रव्यं यद्यथा विनियुज्यते ।। 8.15 ।।
आज्यं हव्यमनादेशे जुहोतिषु विधीयते ।
मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिः ।। 8.16 ।।
नाङ्गुष्ठादधिका ग्राह्या समित् स्थूलतया क्वचित् ।
न वियुक्ता त्वचा चैव न सकौटा न पाटिता ।। 8.17 ।।
प्रादेशान्नाधिका नोना तथा न स्याद्विशाखिखा ।
न सम्पूर्णान निर्व्वीर्य्या होमेषु च विजानता ।। 8.18 ।।
प्रादेशद्वयमिध्मस्य प्रमाणं परिकीर्त्तितम् ।
एबंविधाः स्युरेवेह समिधः सर्व्वकर्म्मसु ।। 8.19 ।।
समिधोऽष्टादशेध्मस्य प्रवदन्ति मनीषिणः ।
दर्शे च पौर्णमासे च क्रियास्वन्यासु विंशतिः ।। 8.20 ।।
समिदादिषु होमेषु मन्त्रदेवतवर्ज्जिता ।
पुरस्ताच्चोपरिष्टाच्च हीन्धनार्थं समिद्भवेत् ।। 8.21 ।।
इध्मोऽप्येधार्थमाचार्य्यैर्हविराहुतिषु स्मृतः ।
यत्र चास्य निवृत्तिः स्यात् तत् स्पष्टीकरवाण्यहम् ।। 8.22 ।।
अङ्गहोमसमित्तन्त्रसोष्यन्त्याख्येषु कर्म्मसु ।
येषाञ्चैवैतदप्युक्तं तेषु तत्सदृशेषु च ।। 8.23 ।।
अक्षभङ्गादिविपदि जलहोमादिकर्म्मणि ।
सोमाहुतिषु सर्व्वासु नैतेष्विध्म विधीयते ।। 8.24 ।।
इति अष्टमः खण्डः ।। 8 ।।
नवमः खण्डः ।
सूर्य्येऽस्तशैलमप्राप्ते षटत्रिंशद्भिः सदाङ्गुलैः ।
प्रादुष्करणमग्नीनां प्रातर्भासाञ्च दर्शनात् ।। 9.1 ।।
हस्तादूर्द्धं रविर्यावह्निरिं हित्वा न गच्छति ।
तावद्धोमविधिः पुण्यो नात्येत्युदितहोमिनाम् ।। 9.2 ।।
यावत् सम्यङ्न भाव्यन्ते नभस्पृक्षाणि सर्व्वतः ।
न च लौहित्यमापैति तावत् सायञ्च हूयते ।। 9.3 ।।
रजोनीहारधूमाभ्रवृक्षाग्रान्तरिते रवौ ।
सन्ध्यामुद्दिश्य जुहुयाद्धुतमस्य न लुप्यते ।। 9.4 ।।
न कुर्य्यात् क्षिप्रहोमेषु द्विजः परिसमूहनम् ।
विरुपाक्षञ्च न जपेत् प्रवदञ्च विवर्ज्जयेत् ।। 9.5 ।।
पर्य्युक्षणञ्च सर्व्वत्र कर्त्तव्यमादितेऽन्विति ।
अन्ते च वामदेवस्य गानं कुर्य्यादृचस्त्रिधा ।। 9.6 ।।
अहोमकेष्वपि भवेद्यथोक्तं चन्द्रदर्शनम् ।
वामदेव्यं गणेष्वन्ते वल्यन्ते वैश्वदेविके ।। 9.7 ।।
यान्यध स्तरणान्तानि न तेषु स्तरणं भवेत् ।
एककार्य्यार्थसाध्यत्वात् परिधीनपि वर्ज्जयेत् ।। 9.8 ।।
वर्हिः पर्य्युक्षणञ्चैव वामदेव्यजपस्तथा ।
क्रत्वाहुतिषु सर्ब्बासु त्रिकमेतन्न विद्यते ।। 9.9 ।।
हविष्येषु यवा मुख्यास्तदनु व्रीहयः स्मृताः ।
माषकोद्रवगौरादि सर्व्वालाभेऽपि वर्ज्जयेत् ।। 9.10 ।।
पाण्याहतिर्द्वादशपर्व्वपूरिका कांसादिना चेत् स्रुवमात्रपावका ।
दैवेन तीर्थेन च हूयते हविः खङ्गारिणि स्वर्च्चिषि तच्च पावके ।। 9.11 ।।
योऽनर्च्चिषि जुहोत्यग्नौ व्यङ्गारिणि च मानवः ।
मन्दाग्निरामयावी च दरिद्रश्च स जायते ।। 9.12 ।।
तस्मात् समिद्धेहोतव्यं नासमिद्धे कदाचन ।
आरोग्यमिच्छोरायूश्च श्रियमात्यन्तिकीम्पराम् ।। 9.13 ।।
होतव्ये च हुते चैव पाणिशूर्पस्फ्यदारूभिः ।
न कुर्य्यादग्निधमनं कुर्य्याद्वा व्यजनादिना ।। 9.14 ।।
मुखेनैके धमन्त्यग्निं मुखाद्वेदोऽध्यजायत ।
नाग्निं मुखेनेति च यल्लौकिके योजयन्ति तत् ।। 9.15 ।।
इति नवमः खण्डः ।। 9 ।।
दशमः खण्डः ।
यथाहनि तथा प्रातर्नित्यं स्रायादनातुरः ।
दन्तान् प्रक्षाल्य नद्यादौ गृहे चेत्तदमन्त्रवत् ।। 10.1 ।।
नारदाद्युक्तवाक्षे यदष्टाङ्गुलमपाटितम् ।
सत्वचं दन्तकाष्ठं स्यात् तदग्रेण प्रधावयेत् ।। 10.2 ।।
उत्थाय नेत्रे प्रक्षाल्य शुचिर्भूत्वा समाहितः ।
परिजप्य च मन्त्राणि भक्षयेद्दन्तधावनम् ।। 10.3 ।।
आयुर्व्वलं यशो वर्च्चं प्रजाः पशून् वसूनि च ।
ब्रह्म प्रज्ञाञ्च मेधाञ्च त्वन्नो धेहि वनस्पते ।। 10.4 ।।
यप्य द्वयं श्रावणादि सर्व्वा नद्यो रजस्वलाः ।
तासु स्नानं न कुर्व्वीत वर्ज्जयित्वा समुद्रगाः ।। 10.5 ।।
धनुः सहस्राण्यष्टौ तु गतिर्य्यासां न विद्यते ।
न ता नदोशब्दवहा गर्त्तास्ताः परिकीर्त्तिताः ।। 10.6 ।।
उपाकर्म्मणि चोत्सर्गे प्रेतस्नाने तथैव च ।
चन्द्रसूर्य्यग्रहे चैव रजोदोषो न विद्यते ।। 10.7 ।।
वेदाश्छन्दांसि सर्व्वाणि ब्रह्माद्याश्च दिवौकसः ।
जलार्थिनोऽथ पितरो मरीच्याद्यास्तथर्षयः ।। 10.8 ।।
उपाकर्म्मणि चोत्मर्गे स्नानार्थं ब्रह्मवादिनः ।
यियासूननुगच्छन्ति सन्तुष्टाः स्वशरौरिणः ।। 10.9 ।।
समागमस्तु यत्रैषां यत्र हत्यादयो मलाः ।
नवं सर्व्व क्षयं यान्ति किमूतैकं नदीरजः ।। 10.10 ।।
ऋषोणां सिच्यमानानामन्तरालं समाश्रितः ।
सम्पिवेद् यः शऱीरेण पर्य्यन्मूक्तजलच्छटाः ।। 10.11 ।।
विद्यादीन् ब्राह्मणः कामान् वरादीन् कन्याका ध्रुवम् ।
आमुष्मिकानपि सुखान्याप्नुयात् स न संशयः ।। 10.12 ।।
अशुच्यशुचिना दत्तमाममन्तर्जलादिना ।
अनिर्गतदशाहास्तु प्रेता रक्षांसि भुञ्जते ।। 10.13 ।।
स्वर्धन्यम्भः समानि स्युः सर्व्वाण्यन्भांसि भूतले ।
कूपस्थान्यपि सोमार्कग्रहणे नात्र संशयः ।। 10.14 ।।
इति दशमः खण्डः ।। 10 ।।
इति कर्म्मप्रदीपपरिशिष्टे कात्यायनविरचिते प्रथमः प्रपाठकः ।। 1 ।।
एकादशः खण्डः ।
अत ऊर्द्धं प्रवक्ष्यामि सन्ध्योपासनकं विधिम् ।
अनर्ह कर्म्मणां विप्रः सन्ध्याहीनो यतः स्मृतः ।। 11.1 ।।
सव्ये पाणौ कुशान् कृत्वा कुर्य्यादाचमनक्रियाम् ।
ह्नस्वाः प्रवरणीयाः स्युः कुशा दीर्घास्तु वर्हिषः ।। 11.2 ।।
दर्भाः पवित्रमित्युक्तमतः सन्ध्यादि कर्म्मणि ।
सव्यः सोपग्रहः कार्य्यो दक्षिणः सपवित्रकः ।। 11.3 ।।
रक्षयेद्वारिणात्मानं परिक्षिप्य समन्ततः ।
शिरसो मार्ज्जनं कुर्य्यात् कुशैः सोदकविन्दुभिः ।। 11.4 ।।
प्रणवो भूर्भूवः स्वश्च सावित्रीच तृतीयका ।
अब्दैवत्यं त्र्यृचञ्चैव चतुर्थमिति मार्ज्जनम् ।। 11.5 ।।
भूराद्यास्तिस्र एवैता महाव्याहृतयोऽव्ययाः ।
महर्ज्जनस्तपः सत्यं गायत्रो च शिरस्तथा ।। 11.6 ।।
आपज्योतौरसोमृतं ब्रह्मभुर्भूवः स्वरिति शिरः ।
प्रतीप्रतीकं प्रणवमूच्चारयेदन्ते च शिरसः ।। 11.7 ।।
एता एतां सहासेन तथैभिर्द्दशभिः सह ।
त्रिर्ज्जपेदायतप्राणः प्राणायामः स उच्यते ।। 11.8 ।।
करेणोद्धृत्य सलिलं घ्राणमासज्य तत्र च ।
जपेदनायतासुर्ब्बा त्रिः सकृद्वाघमर्षनम् ।। 11.9 ।।
उप्त्यायार्कं प्रतिप्रोहे त्रिकेणाञ्जलिनाम्भसः ।
उच्चित्रमृग्द्वयेनाथ चोद्तिष्ठेदनन्तरम् ।। 11.10 ।।
सन्ध्याद्वयेऽप्युपस्थानमेतदाहुर्म्मनौषिणः ।
मध्ये त्वह्न उपर्यस्य विभ्राड़ादीच्छया जपेत् ।। 11.11 ।।
तदसंसक्तपार्ष्णि र्व्वा एकपादार्द्धपादपि ।
कुर्य्यात् कृताञ्जलिर्ब्बापि ऊर्द्ध वाहुरथापि वा ।। 11.12 ।।
यत्र स्यात् कृच्छ्रभूयस्त्वं श्रेयसोऽपि मनीषिणः ।
भूयस्त्वं ब्रुवते तत्र कृच्छ्राच्छ्रेयो ह्यवाप्यते ।। 11.13 ।।
तिष्ठेदुदयनात् पूर्व्वां मध्यमामपि शक्तितः ।
आनीतोड़ूद्गमाच्चान्त्यं सन्ध्यां पूर्व्वत्रिकं जपन् ।। 11.14 ।।
एतत् सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यं यत्र तिष्ठति ।
यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते ।। 11.15 ।।
सन्ध्यालोपाच्च चकितः स्नानशीलश्च यः सदा ।
तं दोषा नोपसर्पन्ति गरूत्मन्तमिवोरगाः ।। 11.16 ।।
वेदमादित आरभ्य शक्तितोऽहरहर्ज्जपेत् ।
उपतिष्ठेत्ततो रूद्रं सर्व्वाद्वा वैदिकाज्जपात् ।। 11.17 ।।
इति एकादशः खण्डः ।। 11 ।।
द्वादशः खण्डः ।
अथाद्भिस्तर्पयेद्देवान् सतिलाभिः पितॄनपि ।
नमोऽन्ते तर्पयामीति आदावोमिति च ब्रुवन् ।। 12.1 ।।
ब्रह्माणं विष्णुं रूद्रं प्रजापतिं वेदान् देवांश्छन्दांस्यषीन् पुराणानार्य्यान् गन्धर्व्वानितरान् मासं संवत्सरं सावयवं देवीरसरसो वेदानुगान् नागान् सागरान् पर्व्वतान् सरितो दिव्यान् मनुष्यानितरान् मनुष्यान् यक्षांसि सुपर्णान् पिशाचान् पृथिवीमोषधीः पशून् वनस्पतीन् भूतग्रामं चतुर्ब्बिधमित्युपवीत्यथ प्राचीनावीती यमं यमपुरुषान् कव्यवाड़नलं सोमं यममर्य्यमण्मग्निष्वात्तान् सोमपीथान् वर्हिषदोऽथ स्वान् पितॄन् सकृत सकृन्मातामहांश्चेति प्रतिपूरूषमभ्यस्येज्जेष्ठ भ्रातृश्वशुरपितृव्यमातुलांश्च पितृवंशमातृवंशौ ये चान्ये मत्त उदकमर्हन्ति तांस्पर्ययामीत्ययमवसानाञ्जलिरथ श्लोकाः ।। 12.2 ।।
छायां यथेच्छेच्छरदातपात्तः पयः पिपासुः क्षुधितोऽलमन्नम् ।
वालो जनित्रीं जननी च वालं योषित् पुमांसं पुरूषश्च योषाम् ।। 12.3 ।।
तथा सर्व्वाणि भूतानि स्थावराणि चराणि च ।
विप्रादुदकमिच्छन्ति सर्ब्बाभ्युदयकृद्धि सः ।। 12.4 ।।
तस्मात् सदैव कर्त्तव्यमकुर्व्वन् महतैनसा ।
युज्यते ब्राह्मणः कुर्ब्बन् विश्वमेतद्विभर्त्तिहि ।। 12.5 ।।
अल्पत्वाद्धोमकालस्य वहुत्वात् स्नानकर्म्मणः ।
प्रातर्न तनुयात् स्नानं होमलोपो हि गर्हितः ।। 12.6 ।।
इति द्वादशः खण्डः ।। 12 ।।
त्रयोदशः खण्डः ।
पञ्चानामथ सत्राणां महतामुच्यते विधिः ।
यैरिष्ट्वा सततं विप्रः प्राप्नुयात् सद्म शाश्वतम् ।। 13.1 ।।
देवभूतपितृब्रह्ममनुष्याणामनुक्रमात् ।
महः सत्राणि जीनीयात् त एवेह महामखाः ।। 13.2 ।।
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो वलिर्भौतो नृयज्ञोऽतिथिपूजनम् ।। 13.3 ।।
श्राद्धं वा पितृयज्ञः स्यात् पित्र्ये वलिरथापि वा ।
यश्च श्रुतिजपः प्रोक्ता ब्रह्मयज्ञः स वोच्यते ।। 13.4 ।।
स चार्व्वाक् तर्पणात् कार्य्यः पश्चाद्वा प्रातराहुतेः ।
वैश्वदेवावसाने वा नान्यत्तर्त्तौ निमित्तकात् ।। 13.5 ।।
अनेकमाशयेद्विप्रं पितृयज्ञार्थसिद्धये ।
अदैवं नास्ति चेदन्यो भोक्ता भोज्यमथापि वा ।। 13.6 ।।
अप्युद्धृत्य यथाशक्त्या किञ्चिदन्नं यथाविधि ।
पितृभ्योऽथ मनुष्येभ्यो दद्यादहरहर्द्विजः ।। 13.7 ।।
पितृभ्य इदमित्युक्त्वा स्वधाकारमुदौरयेत् ।
हन्तकारं मनुष्येभ्यस्तदर्द्धेनिनयेदपः ।। 13.8 ।।
मुनिभिर्द्विरशनमुक्तं विप्राणां मर्त्त्यवासिनां नित्यम् ।
अहनि च तथा तमस्विन्याः सार्द्धप्रहरयामान्तः ।। 13.9 ।।
सायं प्रातर्व्वैश्वदेवः कर्त्तव्यो वलिकर्म्म च ।
अनश्रतापि सततमन्यथा किल्वीषी भवेत् ।। 13.10 ।।
अमुष्मै नम इत्येवं वलिदानं विधीयते ।
वलिदानप्रदानार्थं नमस्कारः कृतो यतः ।। 13.11 ।।
स्वाहाकारवषट्कारनमस्कारा दिवौकसाम् ।
स्वधाकारः पितॄणाञ्च हन्तकारो नृणां कृतः ।। 13.12 ।।
स्वधाकारेण निनयेत् पित्र्यं वलिमतः सदा ।
तदध्येके नमस्कारं कुर्व्वते नेति गौतमः ।। 13.13 ।।
नावरार्द्ध्यावलयोभवन्ति महामार्ज्जारश्रवणप्रमाणात् ।
एकत्र चेदविकृष्टा भवन्तीतरेतर संसक्ताश्च ।। 13.14 ।।
इति त्रयोदशः खण्डः ।। 13 ।।
चतुर्द्दशः खण्डः ।
अथ तद्विन्यासो वृद्धिपिण्डानिवोत्तरांश्चतूरो वलीन् निदध्यात् पृथिव्यै वायवे विश्वेभ्यो देवेभ्यः प्रजापतय इति सव्यत एवेषामेकैकमद्भ्य ओषधिवनस्यतिभ्य आकाशाय कामायेत्येतेषामपि मन्यव इन्द्राय वासुकये व्रक्षण इत्येतेषामपि रक्षोजनेभ्य इति सर्ब्बेषां दक्षिणतः पितृभ्य इति चतुर्द्दश नित्या आलस्यप्रभृतयः काम्याः सर्व्वेषामुभयतोऽद्भिः परिषेकः पिण्डवच्च पश्चिमा प्रतिपत्तिः ।। 14.1 ।।
न स्यातां काम्यसामान्ये जुहोतिवलिकर्म्मणोः ।
पूर्व्वं नित्यविशेषोक्तं जुहोतिवलिकर्म्मणोः ।। 14.2 ।।
काममन्ते भवेयातां न तु मध्ये कदाचन ।
नैकस्मिन् कर्म्मणि ततो कर्म्माण्यत्तायते यतः ।। 14.3 ।।
अग्न्यादिर्गोतमाद्युक्तो होमः शाकल एव च ।
अनाहिताग्नेरप्येष युज्यते वलिभिः सह ।। 14.4 ।।
स्पृष्ट्वापो वीक्षमाणोऽग्निं कृताञ्जलिपुटस्ततः ।
वामदेव्यजपात् पूर्व्वं प्रार्थयेदद्रविणोदयम् ।। 14.5 ।।
आरोग्यमायुरैश्वर्य्यं धीर्धृतिः शं वलं यशः ।
ओजोवर्च्चः पशून् वीर्य्यं ब्रह्म ब्रह्मण्यमेव च ।। 14.6 ।।
सौभाग्यं कर्म्मसिद्धिञ्च कुलज्यैष्ठं सुकर्त्तृताम् ।
सर्व्वमेतत् सर्व्वसाक्षिन् द्रविणोदरिरौहिणः ।। 14.7 ।।
न ब्रह्मयज्ञादधिकोऽस्ति यज्ञो न तत्प्रदानात् परमस्ति दानम् ।
सर्व्वे तदन्ताः क्रतवः सदाना नान्तो दृष्टः कैश्चिदस्य द्विकस्य ।। 14.8 ।।
ऋचः पठन् मधुपयः कुल्याभिस्तर्पयेत् सुरान् ।
घृतामृतौघकुल्याभिर्यजूंष्यपि पठन् सदा ।। 14.9 ।।
सामान्यपि पठन् सोमघृतकुल्याभिरन्वहम् ।
मेदः कुल्याभिरपि च अथर्व्वाङ्गिरसः पठन् ।। 14.10 ।।
मांसक्षीरौदनमधुकुल्याभिस्तर्पयेत् पठन् ।
वाकोवाक्यं पुराणानि इतिहासानि चान्वहम् ।। 14.11 ।।
ऋगादौनामन्यतममेतेषां शक्तितोऽन्वहम् ।
पठन् मध्वाज्यकुल्याभिः पितॄनपि च तर्पयेत् ।। 14.12 ।।
ते तृप्तास्तर्पयन्त्येनं जीवन्तं प्रेतमेव च ।
कामचारी च भवति सर्व्वेषु सुरसद्मसु ।। 14.13 ।।
गुर्व्वप्येनो न तं स्पृशेत् पङ्क्तिञ्चैव पुनाति सः ।
यं यं क्रतुञ्च पठति फलभाक् तस्य तस्च च ।। 14.14 ।।
वसुपूर्णा वसुमती त्रिर्द्दानफलमाप्नुयात् ।
ब्रह्मयज्ञादपि ब्रह्म दानमेवातिरिच्यते ।। 14.15 ।।
इति चतुर्द्दशः खण्डः ।। 14 ।।
पञ्चदशः खण्डः ।
ब्रह्मणो दक्षिणा देया यत्र या परिकीर्त्तिता ।
कर्म्मन्तेऽनुच्यमानापि पूर्णपात्रादिका भवेत् ।। 15.1 ।।
यावता वहुभोक्तुस्तु तृप्तिः पूर्णेन विद्यते ।
नावरार्द्ध्यमतः कुर्य्यात् पूर्णपात्रमिति स्थितिः ।। 15.2 ।।
विदध्याद्धौत्रमन्यश्चेद्दक्षिणार्द्धहरो भवेत् ।
स्वयञ्चेदुभयं कुर्य्यादन्यस्मैं प्रतिपादयेत् ।। 15.3 ।।
कुलर्त्विजमधीयानं सन्निकृष्टं तथा गुरूम् ।
नातिक्रामेत् सदा दित्सन् य इच्छेदात्मनो हितम् ।। 15.4 ।।
अहमस्मै ददामौति एवमाभाष्य दीयते ।
नैतावपृष्ट्वा ददतः पात्रेऽपि फलमस्ति हि ।। 15.5 ।।
दूरस्थाभ्यामपि द्बाभ्यां प्रदाय मनसा वरम् ।
इतरेभ्यस्ततो देयादेव दानविधिः परः ।। 15.6 ।।
सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् ।
यद्ददाति तमुल्लङ्घ्य ततः स्येयेन युज्यते ।। 15.7 ।।
यस्य त्वेकगृहे मूर्खो दूरस्थश्च गुणान्वितः ।
गुणान्विताय दातव्यं नास्ति मुर्खे व्यतिक्रमः ।। 15.8 ।।
ब्राह्मणाभिक्रमो नान्ति विप्रे वेदविवर्ज्जिते ।
ज्वलन्तमग्निमुतसृज्य न हि भस्मनि हूयते ।। 15.9 ।।
आज्यस्थालो च कर्त्तव्या तैजसद्रव्यसम्भवा ।
महीमयो वा कर्त्तव्या सर्ब्बास्वाज्याहुतीषु च ।। 15.10 ।।
आज्यस्थाल्याः प्रमाणन्तु यथाकामन्तु कारयेत् ।
सुदृढ़ामव्रणां भद्रामाज्यस्थालीं प्रचक्षेत् ।। 15.11 ।।
तिर्य्यगूर्द्धं समिन्मात्रा दृड़ा नातिवृहन्मुखी ।
मृन्मय्यौड़ुम्वरो वापि चरूस्थाली प्रशस्यते ।। 15.12 ।।
स्वशाखोक्तिः प्रसुखिन्नो ह्यदग्धोऽकठिनः शुभः ।
न चातिशिथिलः पाच्यो न चरूश्चारसस्तथा ।। 15.13 ।।
इध्मजातीयमध्मार्द्धप्रमाणं मेक्षणं भवेत् ।
वृत्ताञ्चाङ्गुष्ठपृथ्वग्रमवदानक्रियाक्षमम् ।। 15.14 ।।
एषैव दर्व्वी यस्तत्र विशेषस्तमहं व्रुवे ।
दर्व्वी द्व्यङ्गुलपृथ्वग्रा तुरीयोऽनन्तमेक्षणम् ।। 15.15 ।।
मुषलोलूखले वार्क्षे स्वायते सुदृढ़े तथा ।
इच्छाप्रमाणे भवतः शूर्पं वैण्वमेव च ।। 15.16 ।।
दक्षिणं वामतो वाह्यामात्माभिमुखमेव च ।
करं करस्य कुर्व्वीत करणेन्यञ्च कर्म्मणः ।। 15.17 ।।
कृत्वाग्न्यभिमुखौ पाणी स्वस्थानस्थौ सुसंयतौ ।
प्रदक्षिणं तथासीनः कुर्य्यात् परिसमूहनम् ।। 15.18 ।।
वाहुमात्राः परिधय ऋजवः सत्वचोऽव्रणाः ।
त्रयो भवन्ति शीर्णाग्रा एकेषान्तु चतुर्द्दिशम् ।। 15.19 ।।
प्रागग्रावभितः पश्चादुदगग्रमथापरम् ।
न्यसेत् परिधिमन्यञ्चेदुदगग्रः स पूर्व्वतः ।। 15.20 ।।
यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत् ।
यवानामिव गोध्रमा व्रीहीणामिव शालयः ।। 15.21 ।।
इति पञ्चदशः खण्डः ।। 15 ।।
षोड़शः खण्डः ।
पिण्डान्वाहार्य्यकं श्राद्धं क्षीणे राजनि शस्यते ।
वासरस्य तृतीयांशे नातिसन्ध्यासमीपतः ।। 16.1 ।।
यदा चतुर्द्दशीयामं तुरीयमनुपूरयेत् ।
अमावास्या क्षीयमाण तदैव श्राद्धमिष्यते ।। 16.2 ।।
यदुक्तं यदहस्त्वेव दर्शनं नैति चन्द्रमाः ।
आनयापेक्षया ज्ञेयं क्षीणे राजनि चेत्यपि ।। 16.3 ।।
यच्चोक्तं दृश्यमानेऽपि तच्चतुर्द्दश्यपेक्षया ।
अमावास्यां प्रतीक्षेत तदन्ते वापि निर्व्वपेत् ।। 16.4 ।।
अष्टमेंऽशे चतुर्द्दश्याः क्षीणो भवति चन्द्रमाः ।
अमावास्याष्टमांशे च पुनः किल भवेदणुः ।। 16.5 ।।
आग्रहायण्यमावास्या तथा ज्यैष्ठस्य या भवेत् ।
विशेषमाभ्यां व्रुवतो चन्द्रचारविदो जनाः ।। 16.6 ।।
अत्रेन्दुराद्ये प्रहरेऽवतिष्ठते, चतुर्थभागो न कलावशिष्टाः ।
तदन्त एव क्षयमेति कृत्स्नमेवं ज्यातिश्चक्रविदो वदन्ति ।। 16.7 ।।
यस्मिन्नब्दे द्वादशैकश्च यव्यस्तस्मिंस्तृतीयया परिदृश्यो नोपजायते ।
एवं चारं चन्द्रमसो विदित्वा क्षीणे तस्मिन्नपराह्ने च दद्यात् ।। 16.8 ।।
सम्मिश्रा च चतुर्द्दश्या अमावस्या भवेत् क्वचित् ।
खर्व्वितां तां विदुं केचिद्गताध्वामिति चापरे ।। 16.9 ।।
वर्द्धमानाममावास्यां लभेच्चेदपरेऽहनि ।
यामांस्त्रीनधिकान् वापि पितृयज्ञस्ततो भवेत् ।। 16.10 ।।
पक्षादावेव कुर्व्वीत सदा पक्षादिकं चरूम् ।
पूर्व्वाह्न एव कुर्व्वन्ति विद्धेऽप्यन्ये मणीषिणः ।। 16.11 ।।
स्वपितुः पितृकत्येषु ह्यधिकारो न विद्यते ।
न जीवन्तमतिक्रम्य किञ्चिद्दद्यादिति श्रुतिः ।। 16.12 ।।
पितामहे ध्रियति च पितुः प्रेतस्य निर्व्वपेत् ।
पितुस्तस्य च वृत्तस्य जीवेच्चेत् प्रपितामहः ।। 16.13 ।।
पितुः पितुः पितुश्चैव तस्यापि पितुरेव च ।
कुर्य्यात पिण्डत्रयं यस्य संस्थितः प्रपितामहः ।। 16.14 ।।
जीवन्तमपि दद्याद्वा प्रेतायान्नोदके द्विजः ।
पितुः पितृभ्यो वा दद्यात् स्वपितेत्यपरा श्रुतिः ।। 16.15 ।।
पितामहः पितुः पश्चात् पञ्चत्वं यदि गच्छति ।
पौत्रेणैकादशाहादि कर्त्तव्यं श्राद्धपोड़शम् ।। 16.16 ।।
नैतत् पौत्रेण कर्त्तव्यं पुत्रवांश्चेत् पितामहः ।
पितुः सपिण्डनं कृत्वा कुर्य्यान्मासानुमासिकम् ।। 16.17 ।।
असंस्कृतौ न संस्कार्य्यौ पूर्व्वौ पौत्रप्रपौत्रकैः ।
पितरं तत्र संस्कुर्य्यादिति कात्यायनोऽव्रवीत् ।। 16.18 ।।
पापिष्ठमति शुद्धेन शुद्धं पापीकृतापि वा ।
पितामहेन पितरं संस्कुर्य्यादिति निश्चयः ।। 16.19 ।।
ब्राह्मणादिहते ताते पतिते सङ्गवर्ज्जिते ।
व्युत्क्रमाच्च मृते देयं येभ्य एव ददात्यसौ ।। 16.20 ।।
मातुः सपिण्डीकरणं पितामह्या सहोदितम् ।
यथोक्तेनैव कल्पेन पुत्रिकाया न चेत् सुतः ।। 16.21 ।।
न योषिद्भ्यः पृथग्दद्यादवसानदिनादृते ।
स्वभर्त्तृपिण्डमात्राभ्यस्तृप्तिरासां यतः स्मृता ।। 16.22 ।।
मातुः प्रथमतः पिण्डं निर्व्वपेत् पुत्रिकासुतः ।
द्वितीयन्तु पितुस्तस्यास्तृतीयस्तु पितुः पितुः ।। 16.23 ।।
इति षोड़शः खण्डः ।। 16 ।।
सप्तदशः खण्डः ।
पुरतो यात्मनः कर्षूः सा पूर्व्वा परिकौर्त्त्यते ।
मध्यमा दक्षिणेनास्यास्तद्दक्षिणत उत्तमा ।। 17.1 ।।
वायुग्निदिङ्मुखान्तास्ताः कार्य्याः सार्द्धाङ्गुलान्तराः ।
तीक्ष्णान्ता यवमध्याश्च मध्यं नाव इवोत्किरेत् ।। 17.2 ।।
शङ्गुश्च खादिरः कार्य्यो रजतेन विभूषितः ।
शङ्कश्चैवोपवेषश्च द्वादशाङ्गुल इष्यते ।। 17.3 ।।
अग्न्याशाग्रैः कुशैः कार्य्यं कर्षूणं स्तरणं घनैः ।
दक्षिणान्तं तदग्रैस्तु पितृयज्ञे परिस्तरेत् ।। 17.4 ।।
तगरं मुरभि ज्ञेयं चन्दनादि विलेपनम् ।
सौवीराञ्जनमित्युक्तं पिञ्जलीनां यदञ्जनम् ।। 17.5 ।।
स्वस्तरे सर्व्वमासाद्य यथावदुपयुज्यते ।
देवपूर्व्वं ततः श्राद्धमत्वरः शुचिरारभेत् ।। 17.6 ।।
आसनाद्यर्घ्यपर्य्यन्तं वसिष्ठेन यथेरितम् ।
कृत्वा कर्म्माथ पात्रेषु उक्तं दद्यात्तिलोदकम् ।। 17.7 ।।
तूष्णीं पृथगपो दत्त्वा मन्त्रेण तु तिलोदकम् ।
गन्धोदकञ्च दातव्यं सन्निकर्षक्रमेण तु ।। 17.8 ।।
आसुरेण तु पात्रेण यस्तु दद्यात् तिलोदकम् ।
पितरस्तस्य नाश्रन्ति दश वर्षाणि पञ्च च ।। 17.9 ।।
कुलालचक्रनिष्पन्नमासुरं मृन्मयं स्मृतम् ।
तदेव हस्तघटितं स्थाल्यादि दैविकं भवेत् ।। 17.10 ।
गन्धान् ब्राह्मणसात् कृत्वा पुष्पाण्यर्त्तुभवानि च ।
धूपञ्चैवानुपूर्ब्बेण ह्यग्नौ कुर्य्यादनन्तरम् ।। 17.11 ।।
अग्नोकरणहोमश्च कर्त्तव्य उपवौतिना ।
प्राङ्मुखेनैव देवेभ्यो जुहोतीति श्रुतिः श्रुतेः ।। 17.12 ।।
अपसव्येन वा कार्य्यो दक्षिणाभिमुखेन च ।
निरुप्य हविरन्यस्मा अन्यस्मैन हि हूयते ।। 17.13 ।।
स्वाहा कुर्य्यान्नचात्रान्ते न चैव जुहुयाद्धविः ।
स्वाहाकारेण हुत्वाग्नौ पश्चान्मन्त्रं समापयेत् ।। 17.14 ।।
पित्र्येयः पङ्क्तिमूर्द्धन्यस्तस्य पाणावनग्निमान् ।
हुत्वा मन्त्रवदन्येषां तूञ्चीं पात्रेषु निक्षिपेत् ।। 17.15 ।।
न कुर्य्याद्धोममन्त्राणां पृथगादिषु कुत्रचित् ।
अन्येषाञ्चाविकृष्टानां कालेनाचमनादिना ।। 17.16 ।।
सव्येन पाणिनेत्येवं यदत्र समुदीरितम् ।
परिग्रहणमात्रं तत् सव्यस्यादिशति व्रतम् ।। 17.17 ।।
पिञ्जल्याद्यभिमंगृह्य दक्षिणेनेतरात् करात् ।
अन्वारभ्य च सव्येन कुर्य्यादुल्लेखनादिकम् ।। 17.18 ।।
यावदर्थमुपादाय हविषोऽर्भकमर्भकम् ।
चरूणा सह सन्नोय पिण्डान् दातुमुपक्रमेत् ।। 17.19 ।।
पितुरूत्तरकर्ष्वंशे मध्यमे मध्यमस्य तु ।
दक्षिणे तत्पितुश्चैव पिण्डान् पर्व्वणि निर्व्वपेत् ।। 17.20 ।।
वाममावर्त्तनं केचिदुदगन्तं प्रचक्षते ।
सर्व्वं गोतमशाण्डिल्यौ शाण्डिल्यायन एव च ।। 17.21 ।।
आवृत्यः प्राणमायम्य पितॄन् ध्यायन् यथार्थतः ।
जपंस्तेनैव चावृत्य ततः प्राणं प्रमोचयेत् ।। 17.22 ।।
शाकञ्च फाल्गुनाष्टम्यां स्वयं पत्न्यपि वा पचेत् ।
यस्तु शाकादिको होमः कार्य्योऽपूपाष्टकावृतः ।। 17.23 ।।
आन्वष्टक्यं मध्यमायामिति गोभिलगोतमौ ।
वार्कैखण्डिश्च सर्व्वासु कौतसो मेनेऽष्टकासु च ।। 17.24 ।।
स्थालीपाकं पशुस्थाने कुर्य्याद्यद्यनुकल्पितम् ।
श्रपयेत्तं सवत्सायास्तरूण्या गोः पयस्यनु ।। 17.25 ।।
इति सप्तदशः खण्डः ।। 17 ।।
अष्टादशः खण्डः ।
सायमादि प्रातरन्तमेकं कर्म्म प्रचक्षते ।
दर्शान्तं पौर्णमासाद्यमेकमेव मनीषिणः ।। 18.1 ।।
ऊर्द्धं पूर्णाहुतेर्द्दर्शः पौर्णमासोऽपि वाग्रिमः ।
य आयाति स होतव्यः स एवादिरिति श्रुतिः ।। 18.2 ।।
ऊर्द्धं पूर्णाहुतेः कुर्य्यात् सायं होमादनन्तरम् ।
वश्वदेवन्तु पाकान्ते वलिकर्म्मसमन्वितम् ।। 18.3 ।।
ब्राह्मणआन् भाजयेन् पश्चादभिरुपान् स्वशक्तितः ।
यजमानस्ततोऽश्रीयादिति कात्यायनोऽव्रवोत् ।। 18.4 ।।
वैवाहिकेऽग्नौ कुर्व्वीत सायं प्रातस्त्वतन्द्रितः ।
चतुर्थीकर्म्म कृत्वैतदेतच्छाट्यायनेर्म्मतम् ।। 18.5 ।।
ऊर्द्धं पूर्णाहुतिः प्रातर्हुत्वा तां सायंमाहुतिम् ।
प्रतर्होमस्तदैव स्यादेष एवोत्तरो विधिः ।। 18.6 ।।
पौर्णमास्यत्यये हव्यं हीता वा यदहर्भवेत् ।
तदहर्ज्जुहुयादेवममावास्यात्ययेऽपि च ।। 18.7 ।।
अहूयमानेऽनश्रंश्चेन्नयेत् कालं समाहितः ।
सम्पन्नेतु यथा तत्र हूयते तदिहोच्यते ।। 18.8 ।।
आहूताः परिसङ्ख्याय पात्रे कृत्वाहुतीः सकृत् ।
मन्त्रेण विधिवद्धूत्वाधिकमेवापरा अपि ।। 18.9 ।।
यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत् ।
चतस्रस्तत्र विज्ञेयाः स्त्रीपाणिग्रहणे यथा ।। 18.10 ।।
अपि वाज्ञातमित्येषा प्राजापत्यापि वाहुतिः ।
होतव्या त्रिविकल्पोऽयं प्रायश्चित्तविधिः स्मृतः ।। 18.11 ।।
यद्याग्निरग्निनान्येन सम्भवेदाहितः क्वचित् ।
अग्नये विधिचय इति जुहुयाद्बा घृताहुतिम् ।। 18.12 ।।
अग्नयेऽपसुमते चैव जुहुयाद्बैद्युतेन चेत् ।
अग्नये शुचये चैव जुहुयाच्चेहुरग्निना ।। 18.13 ।।
गृहदाहाग्निनाग्निस्तु यष्टव्यः क्ष्मामवान् द्विजैः ।
दावाग्निना च संसर्गे हृदयं यदि तप्यते ।। 18.14 ।।
द्विभूतो यदि संसृज्येत् संमृष्टमुपशामयेत् ।
असंमृष्टं जागरयेद्गिरिशर्म्मैवमुक्तवान् ।। 18.15 ।।
न स्वेऽग्नावन्यहोमः स्यान्मुक्तैकां समिदाहुतिम् ।
स्वगर्भसत्क्रियार्थांश्च यावन्नासौ प्रजायते ।। 18.16 ।।
अग्निस्तु नामधेयादौ होमे सर्व्वत्र लौकिकः ।
न हि पित्रा समानौतः पुत्रस्य भवति क्वचित् ।। 18.17 ।।
यस्याग्नावन्यहोमः स्यात् स वैश्वानरदैवतम् ।
चरूं निरुप्य जुहुयात् प्रायश्चित्तन्तु तस्य तत् ।। 18.18 ।।
परेणाग्नौ हुते स्वार्थं परस्याग्नौ हुते स्वयम् ।
पितृयज्ञात्यये चैव वैश्वदेवद्वयस्य च ।। 18.19 ।।
अनिष्ट्वा नवयज्ञेन नवान्नप्राशने तथा ।
भोजने पतितान्नस्य चरूर्व्वैश्वानरो भवेत् ।। 18.20 ।।
स्वपितृम्यः पिता दद्यात् सुतसंस्कारकर्म्मसु ।
पिण्डानोद्बहनात्तेषां तस्याभावे तु तत्क्रमात् ।। 18.21 ।।
भूतप्रवाचने पत्नी यद्यसन्निहिता भवेत् ।
रजोरोगादिना तत्र कथं कुर्व्वन्ति याज्ञिकाः ।। 18.22 ।।
महानसेऽन्नं या कुर्य्यात् सवर्णां तां प्रवाचयेत् ।
प्रणवाद्यपि वा कुर्य्यात् कात्यायनवचो यथा ।। 18.23 ।।
यज्ञवास्तुनि मुष्ट्यञ्च स्तम्वे दर्भवटौ तथा ।
दर्भसङ्ख्या न विहिता विष्टरास्तरणेषु च ।। 18.24 ।।
इत्यष्टादशः खण्डः ।। 18 ।।
एकोनविंशः खण्डः ।
निक्षिप्याग्निं स्वदारेषु परिकल्प्यर्त्विजं तथा ।
प्रवसेत् कार्य्यवान् विप्रो वृथैव नचिरं क्वचित् ।। 19.1 ।।
मनसा नैत्यिकं कर्म्म प्रवसन्नप्यतन्द्रितः ।
उपविश्य शुचिः सर्व्वं यथाकालमनुद्रवेत् ।। 19.2 ।।
पत्र्या चाप्यवियोगिन्या शुश्रुष्योऽग्निर्व्विनीतया ।
सौभाग्यवित्तावैधव्यकामया भर्त्तृभक्तया ।। 19.3 ।।
या वा स्याद्वोरसूरासामाज्ञासम्पादिनी प्रिया ।
दक्षा प्रियंवदा शुद्धा तामत्र विनियोजयेत् ।। 19.4 ।।
विनैकेन न कर्म्मस्यात् यथाज्यैष्ठं स्वशक्तितः ।
विभज्य सह वा कुर्य्युर्यथाज्ञानञ्च शास्त्रवत् ।। 19.5 ।।
स्त्रीणां सौभाग्यतो जैष्ठं विद्ययैव द्विजन्मनाम् ।
न हि ख्यात्या न तपसा भर्त्ता तुष्यति योषिताम् ।। 19.6 ।।
भर्त्तुरादेशवर्त्तिन्या यथोमा वहुभिर्व्रतैः ।
अग्निश्च तोषितोऽमुत्र सा स्त्री सौभाग्यमाप्नुयात् ।। 19.7 ।।
विनयावनतापि स्त्रौ भर्त्तुर्या दुर्भगा भवेत् ।
अमुत्रोमाग्निभर्त्तॄणामवज्ञातिः कृता तया ।। 19.8 ।।
श्रोत्रियं सुभगां गाञ्च अग्निमग्निचितिं तथा ।
प्रातरूत्थाय यः पश्येदापद्भ्यः स प्रमुच्यते ।। 19.9 ।।
पापिष्ठं दुर्भगामन्त्यं नग्नमुत्कृत्तनासिकम् ।
प्रातरूत्थाय यः पश्येत् स कलेरूपयुज्यते ।। 19.10 ।।
पतिमुन्नङ्घ्य मोहात् स्री किंन किं नरकं व्रजेत् ।
कृच्छ्रान्मनुष्यतां प्राप्य किं किं दुःखं न विन्दति ।। 19.11 ।।
पतिशुश्रूषयैव स्त्रो कान् न लोकान् समश्रुते ।
दिः पिनरिहायाता सुखानामम्वुधिर्भवेत् ।। 19.12 ।।
सदारोऽन्यान् पुनर्द्दारान् कथञ्चित् कारणन्तरात् ।
य इच्छेदम्निमान् कर्त्तुं क्व होमोऽस्य विधीयते ।। 19.13 ।।
स्वेऽम्नावेव भवेद्धोमो लौकिके न कदाचन ।
न आहिताग्नेः स्वं कर्म्म लौकिकेऽग्नौ विधीयते ।। 19.14 ।।
षड़ाहुतिक्रमन्येन जुहुयाद्ध्रुवदर्शनात् ।
न ह्यात्मनोऽर्थं स्यात् तावद्यावन्न परिणीयते ।। 19.15 ।।
पुरस्तात् त्रिविकल्पं यत् प्रायश्चित्तमुदाहृतम् ।
तत् षड़ाहुतिकं शिष्टैर्यज्ञविद्भिः प्रकीर्त्तितम् ।। 19.16 ।।
इत्येकोनविंशः खण्डः ।। 19 ।।
इति कान्यायनविरचिते कर्म्मप्रदीपे द्वितीयः प्रपाठकः ।।
विंशः खण्डः ।
असमक्षन्तु दम्पत्योर्होतव्यं निर्त्विगादिना ।
द्वयोरप्यसमक्षं हि भवेद्धु तमनर्थकम् ।। 20.1 ।।
विहायाग्निं समार्य्यश्चेत् सीमामदुल्लङ्घ्य गच्छति ।
होमकालात्ययोतस्य पुनराधानमिष्यते ।। 20.2 ।।
अरूण्योः क्षयनाशाग्निदाहेष्वग्निंसमाहितः ।
पालयेटुपशान्तेऽस्मिन् पुनराधानमिष्यते ।। 20.3 ।।
दाहयित्वाग्निभिर्भार्य्यां सदृशीं पूर्व्व संस्थिताम् ।
पात्रैश्चाथाग्निमादध्यात् कृतदारोऽविलम्बितः ।। 20.4 ।।
ज्येष्ठा चेद्वहुभार्य्यस्य अतिचारेण गच्छति ।
पुनराधानमत्रैक इच्छन्ति न तु गोतमः ।। 20.5 ।।
एवंवृत्तां सवर्णां स्त्रीं द्विजातिः पूर्व्वमारिणीम् ।
दाहयित्वाग्निहोत्रेण यज्ञपात्रैश्च धर्म्मवित् ।। 20.6 ।।
द्वितीयाञ्चैव यः पत्नीं दहेद्वैतानिकाग्निभिः ।
जीवन्त्यां प्रथमायान्तु ब्रह्मघ्नेन समं हि तत् ।। 20.7 ।।
मृतायान्तु द्वितीयायां योऽग्निहोचं समुतमृजेत् ।
ब्रह्मोजझं तं विजानीयादयश्च कामात् समुत्सृजेत् ।। 20.8 ।।
मृतायामपि भार्य्यायां वैदिकाग्निं न हि त्यजेत् ।
उपाधिनापि तत्कर्म्म यावज्जीवं समापयेत् ।। 20.9 ।।
रामोऽपि कृत्वा सौवर्णं सीतां पत्नीं यशस्विनीम् ।
ईजे यज्ञैर्व्व हुविधै सह म्रातृभिरच्युतः ।। 20.10 ।।
यो दहेदग्निहोत्रेण स्वेन भार्य्यां कथञ्चन ।
स स्त्री सम्पद्यते तेन भार्य्या वास्य पुमान् भवेत् ।। 20.11 ।।
भार्य्या मरणमापन्ना देशान्तरगतापि वा ।
अधिकारी भवेत् पुत्रो महापातकिनि द्विजे ।। 20.12 ।।
मान्या चेननम्रियते पूर्व्वं भार्य्या पतिविमानिता ।
त्रौणि जन्मानि सा पुंस्त्वं पुरूषः स्त्रीत्वमर्हति ।। 20.13 ।।
पूर्व्वैव योनिः पूर्व्वावृत् पुनराधानकर्म्मणि ।
विशेषोऽत्राग्न्युपस्थानमाज्याहुत्यष्टकं तथा ।। 20.14 ।।
कृत्वा व्याहृतिहोमान्तमुपतिष्ठेत पावकम् ।
अधम्यायः केवलाम्नेयः कस्तेजामिरमानसः ।। 20.15 ।।
अग्निमीड़ो अग्न आयाह्यग्न आयाहि वीतये ।
तसोऽग्निर्ज्योतिरित्यग्निं दूतमग्ने मृड़ेति च ।। 20.16 ।।
इत्यष्टावाहुतीर्हुत्वा यथाविध्यनुपूर्व्वशः ।
पूर्णाहुत्यादिकं सर्व्वमन्यत् पूर्व्ववदाचरेत् ।। 20.17 ।।
अरण्योरल्पमप्यङ्गं यावत् तिष्ठति पूर्व्वयोः ।
न तावत् पुनराधानमन्यारण्योर्विधीयते ।। 20.18 ।।
विनष्टं स्रुक् स्रुवं न्युब्जं प्रत्यक्स्थलमुदर्च्चिषि ।
प्रत्यगाग्रञ्च मुषलं प्रहरेज्जातवेदसि ।। 20.19 ।।
इति विंशः खण्ड ।। 20 ।।
एकविंशः खण्डः ।
स्वयं होमासमर्थस्यसमीपमुपसर्पणम् ।
तत्राप्यसक्तस्य सतः शयनाच्चोपवेशनम् ।। 21.1 ।।
हुतायां सायमाहुत्यां दुर्व्वलश्चेद्गृही भवेत् ।
प्रातर्होमस्तदैव स्याज्जीवेच्चेच्छुः पुनर्न वा ।। 21.2 ।।
दुर्व्वलं स्रापयित्वा तु शुद्धचैलाभिसंवृतम् ।
दक्षिणाशिरसं भूमौ बर्हिमत्यां निवेशयेत् ।। 21.3 ।।
घृतेनाभक्तमाप्लव्य सवस्त्रमुपवीतिनम् ।
चन्दनोक्षितसर्व्वाङ्गं मुमनोभिर्व्विभूषितम् ।। 21.4 ।।
हिरण्यशकलान्यस्य क्षिक्त्वा च्छिद्रेषु सप्तसु ।
मुखेष्वथापिधायैनं निर्हरेयूः सुतादयः ।। 21.5 ।।
आमपात्रेऽन्नमादाय प्रेतमग्निपुरः सरम् ।
एकोऽनुगच्छेत् तस्याद्वमर्द्धं पथ्युत्सृजेश्रुवि ।। 21.6 ।।
अर्द्धमादहनं प्राप्त आसीनो दक्षिणामुखः ।
सव्यं जान्वाच्च्य शनकैः सतिलः पिण्डदानवत् ।। 21.7 ।।
अथ पुत्रादिराप्लत्य कुर्य्याद्दारूचयं महत् ।
भूप्रदेशे शुचौ देशे पश्चाच्चित्यादिलक्षणे ।। 21.8 ।।
तत्रोत्तानं निपात्यैनं दक्षिणाशिरसं मुखे ।
आज्यपूर्णां स्रुवं दद्याद्दक्षिणाग्रां नसि स्रुवम् ।। 21.9 ।।
पादयोरधरां प्राचीमरणीमुरसीतराम् ।
पार्श्वयोः शूर्पचमसे सव्यदक्षिण्योः क्रमात् ।। 21.10 ।।
मूषलेन सहान्युब्जमन्तरुर्व्वोरूदूखलम् ।
चत्रौ विलीकमत्रैवमनश्रुनयनो विभीः ।। 21.11 ।।
अपसव्येन कृत्वैतद्धाग्यतः पितृदिङ्मुखः ।
अथाग्निं सव्यजान्वक्तो दद्याद्दक्षिणतः शनैः ।। 21.12 ।।
अस्मात्वमधइजातोऽसि त्वदयं जायतां पुनः ।
असौ स्वर्गाय लोकाय स्वाहेति ययुरीरयन् ।। 21.13 ।।
एवं गृहपतिर्द्दग्धः सर्व्वं तरति दुष्कृतम् ।
यश्चैनं दाहयेत् सोऽपि प्रजां प्राप्नोत्यनिन्दिताम् ।। 21.14 ।।
यथा स्वायुधवृक् पान्यो ह्यरण्यान्यपि निर्भयः ।
अतिक्रम्यात्मनोऽभीष्टं स्थानमिष्टञ्च विन्दति ।। 21.15 ।।
एवमेषोऽग्निमान् यज्ञपात्रायुधविभूषितः ।
लोकानन्यानतिक्रम्य एवं ब्रह्मैव विन्दति ।। 21.16 ।।
इत्येकविंशः खण्डः ।। 21 ।।
द्वाविंशः खण्डः ।
अथानवेक्षमेत्यापः सर्व्व एव शवष्पृशः ।
स्नात्वा सचैलमाचम्य दद्युरस्योदकं स्थले ।। 22.1 ।।
गोत्रनामानुरादान्ते तर्पयामीत्यनन्तरम् ।
दक्षिणाग्रान् कुशान् कृत्वा सतिलन्तु पृथक् पृथक् ।। 22.2 ।।
एवं कृतोदकान् सम्यक् सर्व्वान् शाद्वलसंस्थितान् ।
आप्नुत्य पुनराचान्तान् वदेयुस्तेऽनुयायिनः ।। 22.3 ।।
मा शोकं कुरूतानित्ये सर्व्वंस्मिन् प्राणधर्म्मणि ।
धर्म्मं कुरूत यत्नेन यो वः सह गमिष्यति ।। 22.4 ।।
मानुष्ये कदलीस्तम्भे निः सारे सारमार्गणम् ।
यः करोति स सन्मूदो जलवुद्व्दसन्निमे ।। 22.5 ।।
गन्त्रो वसुमती नाशमुदधिर्द्दैवतानि च ।
फेनाप्रख्यः कथं नाशं मर्त्तलोको न याप्यति ।। 22.6 ।।
पञ्चधा स स्मृतः कायो यदि पञ्चत्वमागतः ।
कर्म्मभिः स्वशरीरोप्त्यैस्तत्र का परिवेदना ।। 22.7 ।।
सर्व्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ।। 22.8 ।।
श्रेष्माश्रु वान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ।
अतो न रोदितव्यं हि क्रियाः कार्य्याः प्रयत्नतः ।। 22.9 ।।
एवमुक्ता व्रजेयुस्ते गृहाल्लघुपुरः सराः ।
स्नानाग्निस्पर्शनाड्याशैः शुध्येयुरितरे कृतैः ।। 22.10 ।।
इति द्वाविंशः खण्डः ।। 22 ।।
त्रयोविंशः खण्डः ।
एवमेवाहिताग्नेस्तु पात्रन्यासादिकं भवेत् ।
कृष्णाजिनादिकश्चात्र विशेषः सूत्रचोदितः ।। 23.1 ।।
विदेशमरणेऽस्थीनि ह्याहृत्याभ्यज्य सर्पिषा ।
दाहयेदूर्णयाच्छाद्य पात्रन्यासादि पूर्व्ववत् ।। 23.2 ।।
अस्थ्रामलाभे पर्णानि सकलान्युक्तयावृता ।
भर्ज्जयेदस्थिसङ्ख्यानि ततः प्रभृति सूतकम् ।। 23.3 ।।
महापातकसंयुक्तो दैवात् स्यादग्निमान् यदि ।
पुत्रादिः पालयेदग्निं युक्त आन्दोषसंक्षयात् ।। 23.4 ।।
प्रायश्चित्तं न कुर्य्यादयः कुर्ब्बन् वा म्रियते यदि ।
गृह्यं निर्व्वापयेच्छ्रौतमपस्वस्येत् सपरिच्छदम् ।। 23.5 ।।
सादयेदुभयं वाप्सु ह्यद्भ्योऽग्निरभवद् यतः ।
पात्राणि दद्याद्विप्राय दहेदप्स्वेव वा क्षिपेत् ।। 23.6 ।।
अनयैवावृता नारौ दग्धव्या वा व्यवस्थिता ।
अग्निप्रदानमन्त्रोऽस्या न प्रयोज्य इति स्थितिः ।। 23.7 ।।
अग्निमेव दहेद्भार्य्यां सतन्त्रा पतिता न चेत् ।
तदुत्तरेण पात्राणि दाहयेत् पृथगन्तिके ।। 23.8 ।।
अपरेद्युस्तृतौये वा अस्थ्वा सञ्चयनं भवेत् ।
यस्तत्र विधइरादिष्ट ऋषिभिः सोऽधुनोच्यते ।। 23.9 ।।
स्रान्तं पूर्व्व वत् कृत्वा गव्येन पयसा ततः ।
सिञ्चेदस्थौनि सर्व्वाणि प्राचीनावीत्यभाषयन् ।। 23.10 ।।
शमीपलाशशाखाभ्यामुद्धृत्योद्धृत्य भस्मनः ।
आज्येनाभ्यज्य गव्येन सेचयेद्गन्धवारिणा ।। 23.11 ।।
मृत्पात्रसम्पुटं कृत्वा सूचेण परिवेष्ट्य च ।
श्वम्रं खात्वा शुचौ भूमौ निखनेद्दक्षिणामुखः ।। 23.12 ।।
पुरयित्वावटं पङ्कपिण्डशैवालसंयुतम् ।
द्रुत्त्वोपरि समं शेषं कुर्य्यात् पूर्व्वाह्नकर्म्मणा ।। 23.13 ।।
एवमेवामृहौताम्नेः प्रेतस्य विधिरिष्यते ।
स्त्रीणामिवाम्निदानं स्यादयातोऽनुक्तमुच्यते ।। 23.14 ।।
इति त्रयोविंशः खण्डः ।। 23 ।।
चतुर्व्विंशः खण्डः ।
सूतके कर्म्मणां त्यागः सन्व्यादीनां विधीयते ।
होमः श्रौते तु कर्त्तव्यः शुष्कान्नेनापि वा फलैः ।। 24.1 ।।
अकृतं हावयेय स्मार्त्ते तदभावे कृताकृतम् ।
कृतं वा हावयेदन्नमन्नरम्भविधानतः ।। 24.2 ।।
कृतमोदनशक्त्वादि तण्डुलादि कृताकृतम् ।
व्रीह्यादि चाकृतं प्रोक्तमिति हव्यं त्रिधा वुधैः ।। 24.3 ।।
सूतके च प्रवासेषु चाशक्तौ श्राद्धभोजने ।
एवमादिनिमित्तेषु हावयेदिति योजयेत् ।। 24.4 ।।
न त्यजेत् सूतके कर्म्म ब्रह्मचारी स्वकं क्वचित् ।
न दीक्षणात् परं यज्ञे न कृच्छ्रादि तपश्चरन् ।। 24.5 ।।
पितर्य्यपि मृते नैषां दोषो भवति कर्हिंचित् ।
अशौचं कर्म्मणोऽन्ते स्यात् त्र्यहं वा ब्रह्मचारिणः ।। 24.6 ।।
श्राद्धमग्निमतः कार्य्यं दाहादेकादशेऽहनि ।
प्रत्याव्दिकन्तु कुर्व्वीत प्रमीताहनि सर्व्वदा ।। 24.7 ।।
द्वादश प्रतिमास्यानि आद्यं षान्मासिके तथा ।
अपिण्डीकरणञ्चैव एतद्वै श्राद्धषोड़शम् ।। 24.8 ।।
एकाहेन तु षन्मासा यदा स्युरपि वा त्रिभिः ।
न्यूनाः संवत्रश्चैव स्यातां षान्मासिके तदा ।। 24.9 ।।
यानि पञ्चदिशाद्यानि अपुत्रस्येतराणि तु ।
एकस्मिन्नह्निदेयानि सपुत्रस्यैव सर्व्वदा ।। 24.10 ।।
न योषायाः पतिर्दद्यादपुत्रया अपि क्वचित् ।
न पुत्रस्य पिता दद्यान्नानुजस्य तथाग्रजः ।। 24.11 ।।
एवादशेऽह्निनिर्व्वर्त्त्य अर्व्वाग्दर्शाद्यथाविधि ।
प्रकुर्व्वीताग्निमान् पुत्रो मातापित्रोः सपिण्डताम् ।। 24.12 ।।
सपिण्डिकरणादूर्द्धं न दद्यात् प्रतिमासिकम् ।
एकोद्दिष्टेन विधिना दद्यादित्याह गोतमः ।। 24.13 ।।
कर्षूसमन्वितं मुक्त्वा यथाद्यं श्राद्धषोड़शम् ।
प्रत्याद्विकञ्च शेषेषु पिण्डाः स्युः षड़िति स्थितिः ।। 24.14 ।।
अर्ध्येऽक्षय्योदके चैव पिण्डदानेऽवने जने ।
तन्त्रस्य तु निवृत्तिः स्यात् स्वधावाचन एव च ।। 24.15 ।।
ब्रह्मदण्डादियुक्तानां येषां नास्त्वग्निसत्क्रिया ।
श्राद्धादिसत्क्रियाभाजो न भवन्तीह ते क्वचित् ।। 24.16 ।।
इति चतुर्व्विंशः खण्डः ।। 24 ।।
पञ्चविंशः खण्डः ।
मन्त्राम्नायेऽग्न इत्येतत् पञ्चकं लाघवार्थिभिः ।
पठ्यते तत्प्रयोगे स्यानमन्त्राणामेव विंशतिः ।। 25.1 ।।
अग्नेः स्थाने वायुचन्द्रसूर्य्याबहुवदूह्य च ।
समस्य पञ्चमौसूत्रे चतुश्चतुरिति श्रउतेः ।। 25.2 ।।
प्रथमे पञ्चके पापी लक्षीरिति पदं भवेत् ।
अपि पञ्चसु मन्त्रेषुः इति यज्ञविदो विदुः ।। 25.3 ।।
द्वितीये तु पतिघ्नीस्यादपुत्रेति तृतीयके ।
चतुर्थे त्वपसव्येति इदमाहुतिविंशकम् ।। 25.4 ।।
धृतिहोमे न प्रयुञ्ज्याद्नोनामसु तथाष्टसु ।
चतुर्थ्यामघ्न्य इत्यतद्गोनामसु हि हूयते ।। 25.5 ।।
लताग्रपल्लवो गूढ़ः शुङ्गेति परिकीर्त्त्यते ।
पतिव्रता व्रतवती ब्रह्मवन्धुस्तथाश्रुतः ।। 25.6 ।।
शलाटु नीलमित्युक्तं ग्रन्थः स्तवक उच्यते ।
कपुष्णिकाभितः केशा मूरद्ध्रि पश्चात् कपुच्छलम् ।। 25.7 ।।
श्वाविच्छलाका शलली तथा वीरतरः शरः ।
तिलतण्डुलसम्पर्कः कृषरः सोऽभिधीयते ।। 25.8 ।।
नामधेये मुनिवसुपिशाचाबहुवत् सदा ।
यज्ञाश्च पितरो देवा यष्टव्यास्तिथिदेवताः ।। 25.9 ।।
आग्नेयाद्येऽथ सर्पाद्ये विशाखाद्ये तथैव च ।
आषाढ़ाद्ये धनिष्टाद्ये अश्विन्याद्ये तथैव च ।। 25.10 ।।
द्वन्द्वान्येतानि बहुवदृक्षाणा जुहुयात् सदा ।
द्वन्द्वद्वयं द्विवच्छेषमवशिष्टान्यथैकवत् ।। 25.11 ।।
देवता अपि हूयन्ते बहुवत् सर्पवस्वपः ।
देवाश्च पितरश्चैव द्विषद्ब्रध्नाश्विनौ सदा ।। 25.12 ।।
ब्रह्मचारी समादिष्टो गुरूणा व्रतकर्मणि ।
वाढ़मोमिति वा ब्रूयात् तथा चैवानुपालयेत् ।। 25.13 ।।
सशिखं वपनं कार्य्यमास्नानाद्ब्रह्मचारिणा ।
आशरीरविमोक्षाय ब्रहमचर्य्यं न चेद्भवेत् ।। 25.14 ।।
न गात्रात्सादनं कुर्य्यादनापदि कदाचन ।
जलक्रीड़ामलङ्कारान् व्रती दण्ड इवाप्लवेत् ।। 25.15 ।।
देवतानां विपर्य्यासे जुहोतिषु कथं भवेत् ।
सर्व्वं प्रायश्चित्तं हुत्वा क्रमेण जुहुयात् पुनः ।। 25.16 ।।
संस्कारा अतिपत्येरन् स्वकालञ्चेत् कथञ्चन ।
हुत्वैतदेव कर्त्तव्या ये तूपनयनादधः ।। 25.17 ।।
अनिष्ट्वा नवयज्ञेन नवान्नं योषऽत्त्यकामतः ।
वैश्वानरश्चरूस्तस्य प्रायश्चित्तं विधीयते ।। 25.18 ।।
इति पञ्चविंशः खण्डः ।। 25 ।।
षड़्विंशः खण्डः ।
चरूः समसनीयो यस्तथा गोयज्ञकर्म्मणि ।
वृषभोत्सर्ज्जने चैव अश्वयज्ञे तथैव च ।। 26.1 ।।
श्रावण्यां वा प्रदोषे यो कृष्यारम्भे तथैव च ।
कथमेतेषु निर्व्वापाः कथञ्चैव जुहोतयः ।। 26.2 ।।
देवतासङ्ख्यया ग्राह्या निर्व्वपास्तु पृथक् पृथक् ।
तूष्णीं द्विरेव गृह्नोयाद्धोमश्चापि पृथक् पृथक् ।। 26.3 ।।
यावता होमनिर्व्वृत्तिर्भवद्वो यत्र कीर्त्तिता ।
शेषञ्चैव भवेत् किञ्चित् तावन्तं निर्व्वपेच्चरूम् ।। 26.4 ।।
चरौ समशनौये तु पितृयज्ञे चरौ तथा ।
होतव्यं मेक्षणेनान्य उपस्तीर्णाभिधारितम् ।। 26.5 ।।
कालः कात्यायनेनोक्तो बिधिश्चैव समासतः ।
वृषोत्सर्गे यतो नोऽत्र गोभिलेन तु भाषितः ।। 26.6 ।।
पारिभाषिक एव स्यात् कालो गोवाजियज्ञयोः ।
अन्यस्मादुपदेशात्तु प्रस्तरारोहणस्य च ।। 26.7 ।।
अथवा मार्गपाल्येऽह्नि कालो गोयज्ञकर्म्मणः ।
नीराजनेऽह्नि वाश्वानामितितन्त्रान्तरे विधिः ।। 26.8 ।।
शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते ।
धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः ।। 26.9 ।।
आश्वयुज्यां तथा कृष्यां वासुकर्म्मणि याज्ञिकाः ।
यज्ञार्थतत्त्ववेत्तारो होममेवं प्रचक्षते ।। 26.10 ।।
द्वे पञ्च द्वे क्रमेणैता हविराहुतयः स्मृताः ।
शेषा आज्येन होतव्या इति कात्यायनोऽव्रवीत् ।। 26.11 ।।
पयो यदाज्यसंयुक्तं तत् पृषातकमुच्यते ।
दध्येके तदुपासाद्य कर्त्तव्यः पायसश्चरूः ।। 26.12 ।।
व्रीहयः शालयो मुद्गा गोधूमाः सर्यपास्तिलाः ।
यवाश्चौषधयः सप्त विपदं घ्नन्ति धारिताः ।। 26.13 ।।
संस्काराः पुरूषस्यैते स्मर्य्यन्ते गोतमादिभिः ।
अतोऽष्टकादयः कार्य्याः सर्व्वे कालाक्रमोदिताः ।। 26.14 ।।
सकृदप्यष्टकादीनि कुर्य्यात् कर्म्माणि यो द्विजः ।
स पङ्क्तिपावनो भूत्वा लोकान् प्रैति घृतश्च्युतः ।। 26.15 ।।
एकाहमपि कर्म्मस्थो योऽग्निशुश्रुषकः शुचिः ।
नयत्यत्र तदेवास्य शताहं दिवि जायते ।। 26.16 ।।
यस्त्वाधायाग्निमाशास्य देवादीन्नैभिरिष्टवान् ।
निराकर्त्तामरादीनां स विज्ञेयो निराकृतिः ।। 26.17 ।।
इति षड़्विंशः खण्डः ।। 26 ।।
सप्तविंशः खण्डः ।
यच्छ्राद्धं कर्म्मणामादौ या चान्ते दक्षिणा भवेत् ।
अमावास्यां द्वितीयं यदन्वाहार्य्यं तदुच्यते ।। 27.1 ।।
एकसाध्येष्ववर्हिःषु न स्यात् परिसमूहनम् ।
नोदगासादनञ्चैव क्षिप्रहोमा हि ते मताः ।। 27.2 ।।
अभावे व्रीहियवयोर्द्दध्ना वा पयसापि वा ।
तदभावे यवाग्वा वा जुहुयादुदकेन वा ।। 27.3 ।।
रौद्रन्तु राक्षसं पित्र्यमासुरञ्चाभिचारिकम् ।
उक्त्वा मन्त्रं स्पृशेदाप आलभ्यात्मानमेव च ।। 27.4 ।।
यजनीयेऽस्थ्रि सोमश्चेद्वारूण्यां दिशि दृश्यते ।
तत्र व्याहृतिभिर्हुत्वा दण्डं दद्याद्विजातये ।। 27.5 ।।
लवणं मधु मांसञ्च क्षारांशो येन हूयते ।
उपवासेन भुञ्जीत नोरूरात्रौ न किञ्चन ।। 27.6 ।।
स्वकाले सायमाहुत्य अप्राप्तौ होतृहव्ययोः ।
प्राक्प्रातराहुतेः कालः प्रायश्चित्ते हुते सति ।। 27.7 ।।
प्राक्सायमाहुतेः प्रातर्होमकालानतिक्रमः ।
प्राक्पौर्णमासाद्दर्शश्य प्राग्दर्शादितरस्य तु ।। 27.8 ।।
वैश्वदेवे त्वतिक्रान्ते अहोरात्रमभोजनम् ।
प्रायश्चित्तमथो हुत्वा पुनः सन्तनुयाद्व्रतम् ।। 27.9 ।।
होमद्वयात्यये धर्शपौर्णमासात्यये तथा ।
पुनरेवाग्निमादध्यादिति भार्गवशासनम् ।। 27.10 ।।
अनृचो मानवो ज्ञेय एणः कृष्णमृगः स्मृतः ।
रूरूर्गौरमृगः प्रोक्तसृमरः शल उच्यते ।। 27.11 ।।
केशान्तिको ब्राह्मणस्य दण्डः कार्य्यः प्रमाणतः ।
ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः ।। 27.12 ।।
ऋजवस्ते तु सर्व्वे स्युरव्रणाः सौम्यदर्शनाः ।
अनुद्वेगकरा नृणां सत्वचोऽनग्निदूषिताः ।। 27.13 ।।
गौर्विशिष्टतयाः विप्रैर्व्वेदेष्वपि निगद्यते ।
न ततोऽन्यद्वरं यस्मात्तस्माद्गौर्व्वर उच्यते ।। 27.14 ।।
येषां व्रतानामन्तेषु दक्षिणा न विधीयते ।
वरस्तत्र भवेद्दानमपि वाच्छादयेद्गुरूम् ।। 27.15 ।।
अस्थानोच्छासविच्छेदघोषणाध्यापनादिकम् ।
प्रमादिकं श्रुतौ यत् स्याद्यातयामत्वकारि तत् ।। 27.16 ।।
प्रत्यब्दं यदुपाकर्म्म सोत्सर्गं विधिवद्द्विजैः ।
क्रियते च्छन्हसां तेन पुनराप्यायनं भवेत् ।। 27.17 ।।
अयातयामैश्चन्दोभिर्यत् कर्म्म क्रियते द्विजैः ।
क्रीड़मानमपि सदा तत्तेषां सिद्धिकारकम् ।। 27.18 ।।
गायत्रीञ्च सगायत्रां बार्हस्पत्यमिति त्रिकम् ।
शिष्येभ्योऽनूच्य विधिवदुपाकुर्य्यात्ततः श्रुतिम् ।। 27.19 ।।
छन्दसामेकविंशानां संहितायां यथाक्रमम् ।
तच्छन्दस्काभिरेवर्गभिराद्याभिर्होम इष्यते ।। 27.20 ।।
पर्व्वभिश्चैव गानेषु ब्राह्मणेयुत्तरादिभिः ।
अङ्गेषु चर्च्चामन्त्रेषु इति षष्टिर्जुहोतयः ।। 27.21 ।।
इति सप्तविंशः खण्डः ।। 27 ।।
अष्टाविंशः खण्डः ।
अत्रतास्तु यवाः प्रोक्ता भृष्टा धाना भवन्ति ते ।
भृष्टास्तु ब्रीहयो लाजा घटः स्वाण्डिक उच्यते ।। 28.1 ।।
नाधीयीत रहस्यानि सोत्तराणि विचक्षणः ।
न चोपनिषदश्चैव षण्मासान् दक्षिणायनान् ।। 28.2 ।।
उपाकृत्योदगयने ततोऽधीयीत धर्म्मवित् ।
उत्सर्गश्चैक एवैषां तैष्यां प्रौष्ठपदेऽपि वा ।। 28.3 ।।
अजातव्यञ्जना लोम्नी न तया सह संविशेत् ।
अयुगूः काकवन्ध्याया जाता तां न विवाहयेत् ।। 28.4 ।।
संसक्तपदविन्यासस्त्रिपदः प्रक्रमः स्मृतः ।
स्मार्त्ते कर्म्मणि सर्व्वत्र श्रौते त्वद्धर्य्युणोदितः ।। 28.5 ।।
यस्यां दिशि वलिं दद्यात्तामेवाभिमूखो वलिम् ।
श्रवणाकर्म्मणि भवेन्न्यञ्चकर्म्म न सर्व्वदा ।। 28.6 ।।
वलिशेषस्य हवनमग्निप्रण्यनं तथा ।
प्रत्यहं न भवेयातामुल्मुकन्तु भवेत् सदा ।। 28.7 ।।
पृषातकप्रेषणयोर्नवस्य हविषस्तथा ।
शिष्टस्य प्राशने मन्त्रस्तत्र सर्व्वेऽधिकारिणः ।। 28.8 ।।
ब्राह्मणानामसान्निध्ये स्वयमेव पृषातकम् ।
अवेक्षेद्धविषः शेषं नवयज्ञेऽपि भक्षयेत् ।। 28.9 ।।
सकला वदरीशाखा कलवत्यभिधीयते ।
धनाविसिकताशङ्काः स्मृता जातुशिलास्तुताः ।। 28.10 ।।
नष्टो विनष्टो मणिकः शिलानाशे तथैव च ।
तदेवाहृत्य संस्कार्य्या नापेक्षेदाग्रहायगीम् ।। 28.11 ।।
श्रवणाकर्म्म लुप्तञ्चेत् कथञ्चित् सूतकादिना ।
आग्रहायणिकं कुर्य्याद्वलिवर्ज्जमशेषतः ।। 28.12 ।।
ऊर्द्धं स्वस्तरशायी स्यान्मासमर्द्धमथापि वा ।
सप्तरात्रं त्रिरात्र वा एकां वा सद्य एव वा ।। 28.13 ।।
नोर्द्धं मन्त्रप्रयोगः स्यान्नाग्न्यागारं नियम्यते ।
नाहतास्तरणञ्चैव न पार्श्वञ्चापि दक्षिणम् ।। 28.14 ।।
दृढ़श्चेदाग्रहायण्यामावृत्तावपि कर्म्मणः ।
कुम्भौ मन्त्रवदासिञ्चेत् प्रतिकुम्भमृचं पठेत् ।। 28.15 ।।
अल्पानां यो विघातः स्यात् स वाधो वहुभिः स्मृतः ।
प्राणसम्मित इत्यादिवासिष्ठं वाधितं यथा ।। 28.16 ।।
विरोधो यत्र वाक्यानां प्रमाणं तत्र भूयसाम् ।
तुल्यप्रमाणकत्वे तु न्याय एवं प्रकीर्त्तितः ।। 28.17 ।।
त्रेयम्वकं करतलमपूपा मण्डकाः स्मृताः ।
पालाशा गोलकाश्चेव लोहचूर्णञ्च चीवरम् ।। 28.18 ।।
स्पृशन्ननामिकाग्रेण क्वचिदालोकयन्नपि ।
अनुमन्त्रणीयं सर्ब्बत्र सदैवमनुमन्त्रयेत् ।। 28.19 ।।
इत्यष्टाविंशः खण्डः ।। 28 ।।
एकोनत्रिंशः खण्डः ।
क्षालनं दर्भकूर्च्चेन सर्व्वंत्र स्रोतसां पशोः ।
तूष्णोमिच्छाक्रमेण स्याद्वसार्थे पार्णदारूणी ।। 29.1 ।।
सप्त तावन्मूर्द्धन्यानि तथा स्तनचतुष्टयम् ।
नाभिः श्रोणिरपानञ्च गोस्रोतांसि चतुर्द्दश ।। 29.2 ।।
क्षुरो मांसावदानार्थः कृत्स्ना शिष्टकृदावृता ।
वसामादाय जुहुयात् तत्र मन्त्रं समापयेत् ।। 29.3 ।।
हृज्जिह्वा क्रोड़मस्थीनि यकृहृक्कौ गुदं स्तनाः ।
श्राणिस्कन्धसटापार्श्वं पश्वङ्गानि प्रचक्षते ।। 29.4 ।।
एकादशानामङ्गानामवदानानि सङ्ख्यया ।
पार्श्वस्य वृक्कसथ्नोश्च द्वित्वादाहुश्चतुर्द्दश ।। 29.5 ।।
चरितार्था श्रुतिः कार्य्या यस्मादप्यनुकल्पशः ।
अतोऽष्टर्च्चेन होमः स्याच्छागपक्षे चरापवि ।। 29.6 ।।
अवदानानि यावन्ति क्रियेरन् प्राप्तये पशोः ।
तावतः पायसान् पिण्डान् पश्वभावेऽपि कारयेत् ।। 29.7 ।।
उहनव्यञ्जनार्थन्तु पश्वाभावेऽपि पायसम् ।
सद्रवं श्रपयेत् तद्वदन्वाष्टक्येऽपि कर्म्मणि ।। 29.8 ।।
प्राधान्यं पिण्डदानस्य केचिदाहुर्मनीषिणः ।
गयादौ पिण्डमात्रस्य दीयमानत्वदर्शनात् ।। 29.9 ।।
भोजनस्य प्रधानत्वं वदन्त्यन्ये महर्षयः ।
ब्राह्मणस्य परीक्षायां महायत्नप्रदर्शनात् ।। 29.10 ।।
आमश्राद्धविधानस्य विना पिण्डैः क्रियाविधिः ।
तदालभ्याप्यनध्यायविधानश्रवणादपि ।। 29.11 ।।
विद्वन्मतमुपादाय ममाप्येतद्धृदि स्थितम् ।
प्रधानमुभयोर्यस्मात् तस्मादेष समुच्चयः ।। 29.12 ।।
प्राचीनावीतिना कार्य्यं पित्र्येषु प्रोक्षणं पशोः ।
दक्षिणोद्वासनान्तञ्च चरोर्निर्व्वपणादिकम् ।। 29.13 ।।
मन्नयश्चावदानानां प्रधानार्थो न हीतरः ।
प्रधानं हबनञ्चैव शेषं प्रकृतिवद्भवेत् ।। 29.14 ।।
द्वीपमुन्नतमाख्यातं शाद् चैवेष्टका स्मृता ।
कीलिनं सजलं प्रोक्तं दूरखातोदको मरूः ।। 29.15 ।।
द्वारगवाक्षस्तम्भैः कर्द्दमभित्त्यन्तकोणवेधैश्च ।
नेष्टं वास्तुद्वारं विद्धमनाक्रान्तमार्य्यैश्च ।। 29.16 ।।
वशङ्गमाविति ब्रीहीञ्छङ्खश्चेति यवांस्तथा ।
अमावित्यत्र नामोक्त्वाजुहुयात् क्षिप्रहोमवत् ।। 29.17 ।।
साक्षतं सुमनोमुक्तमुदकं दधिसंयुतम् ।
अर्घ्यं दधिमधुभ्याञ्च मधुपर्को विधीयते ।। 29.18 ।।
कांस्येनैवार्हणीयस्य निनयेदर्घ्यमञ्जलौ ।
कांस्यापिधानं कांस्यस्थं मधुपर्कं समर्पये ।। 29.19 ।।
इत्येकोनत्रिंशः खण्डः ।। 29 ।।
इति कात्यायनविरचिते कर्म्मप्रदीपे तृतीयः प्रपाठकः ।।
******************---------------