← अध्यायः १ कामसूत्रम्
अध्यायः २
वात्स्यायन:
अध्यायः ३ →

शतायुर्वै पुरुषो विभज्य कालं अन्योन्यानुबद्धं परस्परस्यानुपघातकं त्रिवर्गं सेवेत. ॥ १.२.१ ॥

बाल्ये विद्याग्रहणादीनर्थान्. ॥ १.२.२ ॥

कामं च यौवने. ॥ १.२.३ ॥

स्थाविरे धर्मं मोक्षं च. ॥ १.२.४ ॥

अःनित्यत्वादायुषो यथोपपादं वा सेवेत. ॥ १.२.५ ॥

ब्रह्मचर्यं एव त्वा विद्याग्रहणात्. ब्) अवबोधः ॥ १.२.६ ॥

अःलौकिकत्वादःदृष्टार्थत्वादःप्रवृत्तानां अज्ञादीनां शास्त्रात्प्रवर्तनं लौकि[क]त्वाद्दृष्टार्थत्वाच्च प्रवृत्तेभ्यश्च मांसभक्षणादिभ्यः शास्त्रादेव निवारणं धर्मः. ॥ १.२.७ ॥

तं श्रुतेर्धर्मज्ञसमवायाच्च प्रतिपद्येत. ॥ १.२.८ ॥

विद्याभूमिहिरण्यपशुधान्यभाण्डोपस्करमित्रादीनां अर्जनं अर्जितस्य विवर्धनं अर्थः. ॥ १.२.९ ॥

तं अध्यक्षप्रचाराद्वार्तासमयविद्भ्यो वणिग्भ्यश्चेति. ॥ १.२.१० ॥

श्रोत्रत्वक्चक्सुर्जिह्वाघ्राणानां आत्मसंयुक्तेन मनसाधिष्ठितानां स्वेषु स्वेषु विषयेष्वानुकूल्यतः प्रवृत्तिः कामः. ॥ १.२.११ ॥

स्पर्शविशेषविषयात्त्वस्याभिमानिकसुखानुविद्धा फलवत्यर्थप्रतीतिः प्राधान्यात्कामः. ॥ १.२.१२ ॥

तं कामसूत्रान्नागरिकजनसमवायाच्च प्रतिपद्येत. ॥ १.२.१३ ॥

एषां समवाये पूर्वः पूर्वो गरीयान्. ॥ १.२.१४ ॥

अर्थश्च राज्ञः. तन्मूलत्वाल्लोकयात्रायाः. वेश्यायाश्च इति त्रिवर्गप्रतिपत्तिः((४)). च्) संप्रतिपत्तिः ॥ १.२.१५ ॥

धर्मस्याःलौकिकत्वात्तदभिदायकं शास्त्रं युक्तम्. उपायपूर्वकत्वादर्थसिद्धेः. उपायप्रतिपत्तिः शास्त्रात्. ॥ १.२.१६ ॥

तिर्यग्योनिष्वपि तु स्वयं प्रवृत्तत्वात्कामस्य नित्यत्वाच्च न शास्त्रेण कृत्यं अस्तीत्याचार्याः. ॥ १.२.१७ ॥

संप्रयोगपराधीनत्वात्स्त्रीपुंसयोरुपायं अपेक्षते. ॥ १.२.१८ ॥

सा चोपायप्रतिपत्तिः कामसूत्रादिति वात्स्यायनः. ॥ १.२.१९ ॥

तिर्यग्योनिषु पुनरनःआवृतत्वात्श्त्रीजातेश्च ऋतौ यावदर्थं प्रवृत्तेरःबुद्धिपूर्वकत्वाच्च प्रवृत्तीनां अनःउपायः प्रत्ययः. ॥ १.२.२० ॥

न धर्मांश्चरेत्. एष्यत्फलत्वात्. संशयिकत्वाच्च. ॥ १.२.२१ ॥

को ह्यःबालिशो हस्तगतं परगतं कुर्यात्. ॥ १.२.२२ ॥

वरं अद्य कपोतः श्वो मयूरात्. ॥ १.२.२३ ॥

वरं सांशयिकान्निष्कादःसांशयिकः कार्षापणः. इति लौकायतिकाः..१.२.२५ शास्त्रस्यानःअभिशङ्कत्वादभिचारानुव्याहारयोश्च क्व चित्फलदर्शनान्नक्षत्रचन्द्र सूर्यताराग्रहचक्रस्य लोकार्थं बुद्धिपूर्वकं इव प्रवृत्तेर्दर्शनाद्वर्णाश्रमाचारस्थितिलक्षणत्वाच्च लोकयात्राया हस्तगतस्य च बीजस्य भविष्यतः सस्यार्थे त्यागदर्शनाच्चरेद्धर्मानिति वात्स्यायनः. ॥ १.२.२४ ॥

नार्थांश्चरेत्. प्रयत्नतोऽपि ह्येतेऽनुष्ठीयमाना नैव कदा चित्स्युः अनःअनुष्ठीयमाना अपि यदृच्छया भवेयुः. ॥ १.२.२६ ॥

तत्सर्वं कालकारितं इति. ॥ १.२.२७ ॥

काल एव हि पुरुषानर्थानर्थयोर्जयपराजययोः सुखदुःखयोश्च स्थापयति. ॥ १.२.२८ ॥

कालेन बलिरिन्द्रः कृतः. कालेन व्यपरोपितः. काल एव पुनरप्येनं कर्तेति कालकारणिकाः. ॥ १.२.२९ ॥

पुरुषकारपूर्वकत्वात्सर्वप्रवृत्तीनां उपायः प्रत्ययः. ॥ १.२.३० ॥

अःवश्यंभाविनोऽप्यर्थस्योपायपूर्वकत्वादेव. न निष्कर्मणो भद्रं अस्तीति वात्स्यायनः. ॥ १.२.३१ ॥

न कामांश्चरेत्. धर्मार्थयोः प्रधानयोरेवं अन्येषां च सतां प्रत्यनीकत्वात्. अनर्थजनसंसर्गं असद्व्यवसायं अशौचं अनःआयतिं चैते पुरुषस्य जनयन्ति. ॥ १.२.३२ ॥

तथा प्रमादं लाघवं अःप्रत्ययं अःग्राह्यतां च. ॥ १.२.३३ ॥

बहवश्च कामवशगाः सःगणा एव विनष्टाः श्रूयन्ते. ॥ १.२.३४ ॥

यथा दाण्डक्यो नाम भोजः कामाद्ब्राह्मणकन्यां अभिमन्यमानः सःबन्धुराष्ट्रो विननाश((५)). ॥ १.२.३५ ॥

देवराजश्च_अहल्यां अतिबलश्च कीचको द्रौपदीं रावणश्च सीतां अपरे चान्ये च बहवो दृश्यन्ते कामवशगा विनष्टा इत्यर्थचिन्तकाः. ॥ १.२.३६ ॥

शरीरस्थितिहेतुत्वादाहारसःधर्माणो हि कामाः. फलभूताश्च धर्मार्थयोः. ॥ १.२.३७ ॥

बोद्धव्यं तु दोषेष्विव. न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते. न हि मृगाः सन्तीति यवा नोप्यन्त इति वात्स्यायनः. ॥ १.२.३८ ॥

भवन्ति चात्र श्लोकाः ॥ १.२.३९ ॥

वेवं अर्थं च कामं च धर्मं चोपाचरन्नरः. इहामुत्र च निःशल्यं अत्यन्तं सुखं अश्नुते.. ॥ १.२.३९ ॥

किं स्यात्परत्रेत्याशङ्का कार्ये यस्मिन्न जायते. न चार्थघ्नं सुखं चेति शिष्टास्तत्र व्यवस्थिताः.. ॥ १.२.४०व्१ ॥
त्रिवर्गसाधकं यत्स्याद्द्वयोरेकस्य वा पुनः. कार्यं तदपि कुर्वीत न त्वेकार्थं द्विबाधकम्.. ॥ १.२.४०व्२ ॥

चिति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे त्रिवर्गप्रतिपत्तिर्द्वितीयोऽध्यायः.((६)) ॥ १.२ ॥