कामसूत्रम्/अधिकरणम् २/अध्यायः ८
← अध्यायः ७ | कामसूत्रम् अध्यायः ८ वात्स्यायन: |
अध्यायः ९ → |
नायकस्य संतताभ्यासात्प्रैश्रमं उपलभ्य रागस्य चानःउपशमं अनुमता तेन तं अधोऽवपात्य पुरुषायितेन साहाय्यं दद्यात्. ॥ २.८.१ ॥
स्वाभिप्रायाद्वा विकल्पयोजनार्थिनी. ॥ २.८.२ ॥
नयककुतूहलाद्वा. ॥ २.८.३ ॥
तत्र युक्तयन्त्रेणैवेतरेणोत्थाप्यमाना तं अधः पातयेत्. एवं च रतं अःविछिन्नरसं तथा प्रवृत्तं एव स्यात्. इत्येकोऽप्ययं मार्गः. ॥ २.८.४ ॥
पुनरारम्भेणादित एवोपक्रमेत्. इति द्वितीयः. ॥ २.८.५ ॥
सा प्रकीर्यमाणकेशकुसुमा श्वासविच्छिन्नहासिनी वक्त्रसंसर्गार्थं स्तनाभ्यां उरः पीडयन्ती पुनः पुनः शिरो नामयन्ती याश्चेष्टाः पूर्वं असौ दर्शितवांस्ता एव प्रकुर्वीत. पातिता प्रतिपातयामीति हसन्ती तर्जयन्ती प्रतिघ्नती च ब्रूयात्. पुनश्च व्रीडां((२७)) दर्शयेत्. श्रमं विरामाभीप्सां च. पुरुषोपसृप्तैरेवोपसर्पेत्. ॥ २.८.६ ॥
तानि च वक्ष्यामः((२८)) ॥ २.८.७ ॥
सेच्तिओन्(प्रकरण)१८
पुरुषः शयनस्थाया योषितस्तद्वचनव्याक्षिप्तचित्ताया इव नीवीं विश्लेषयेत्. तत्र विवदमानां कपोलचुम्बनेन पर्याकुलयेत्. ॥ २.८.८ ॥
स्थिरलिङ्गश्च तत्रैनां परिस्पृशेत्. ॥ २.८.९ ॥
प्रथमसंगता चेत्संहतोर्वोरन्तरे घट्टनम्. ॥ २.८.१० ॥
कन्यायाश्च. ॥ २.८.११ ॥
तथा स्तनयोः संहतयोर्हस्तयोः कक्षयोरंसयोर्ग्रीवायां इति च. ॥ २.८.१२ ॥
स्वैरिण्यां यथाःसात्म्यं यथायोगं च. अलके चुम्बनार्थं एनां निर्दयं अवलम्बेत्हनुदेशे चाङ्गुलिसंपुतेन. ॥ २.८.१३ ॥
तत्रेतरस्य व्रीडा निमीलनं च. प्रथमसमागमे कन्यायाश्च. ॥ २.८.१४ ॥
रतिसंयोगे चैनां कथं अनुरज्यत इति प्रवृत्त्या परीक्षेत. ॥ २.८.१५ ॥
युक्तयन्त्रेणोपसृप्यमाना यतो दृष्टिं आवर्तयेत्तत एवैनां पीडयेत्. एतद्रहस्यं युवतीनां इति सुवर्णनाभः. ॥ २.८.१६ ॥
गात्राणां स्रंसनं नेत्रनिमीलनं व्रीडानाशः समधिका च रतियोजनेति स्त्रीणां भावलक्षणम्..२.८.१८ हस्तौ विधुनोति स्विद्यति दशत्युत्थातुं न ददाति पादेनाहन्ति रतावमाने च पुरुषातिवर्तिनी. ॥ २.८.१७ ॥
तस्याः प्राग्यन्त्रयोगात्करेण संबाधं गज इव क्षोभयेत्. आ मृदुभावात्. ततो यन्त्रयोजनम्. ॥ २.८.१९ ॥
उपसृप्तकं [१]मन्थनं [२]हुलो((२९)) [३]अवमर्दनं [४]पीडितकं [५]निर्घातो [६]वराहघातो [७]वृषघातश्[८]चटकविलसितं [९]संपुट इति पुरुषोपसृप्तानि. ॥ २.८.२० ॥
न्याय्यं ऋजुसंमिश्रणं उपसृप्तकम्. ॥ २.८.२१ ॥
हस्तेन लिङ्गं सर्वतो भ्रामयेदिति [१]मन्थनम्. ॥ २.८.२२ ॥
नीचीकृत्य जघनं उपरिष्टाद्घट्टयेदिति [२]हुलः. ॥ २.८.२३ ॥
तदेव विपरीतं सःरभसं [३]अवमर्दनम्. ॥ २.८.२४ ॥
लिङ्गेन समाहत्य पीडयंश्चिरं अवतिष्ठेतेति [४]पीडितकम्. ॥ २.८.२५ ॥
सुःदूरं उत्कृष्य वेगेन स्वजघनं अवपातयेदिति [५]निर्घातः. ॥ २.८.२६ ॥
एकत एव भूयिष्ठं अवलिखेदिति [६]वराहघातः. ॥ २.८.२७ ॥
स एवोभयतः पर्यायेण [७]वृषाघातः. ॥ २.८.२८ ॥
सकृन्मिश्रितं अःनिष्क्रमय्य द्विस्त्रिश्चतुरिति घट्टयेदिति [८]चटकविलसितम्. ॥ २.८.२९ ॥
रागावसानिकं व्याख्यातं करणं [९]संपुटं इति((३०)). ॥ २.८.३० ॥
तेषां स्त्रीसात्म्याद्विकल्पेन प्रयोगः. ॥ २.८.३१ ॥
सेच्तिओन्(प्रकरण)१७ब्((३१))
पुरुषायिते तु [१]संदंशो [२]भ्रमरकः [३]प्रेङ्खोलितम्((३२)) इत्यधिकानि. ॥ २.८.३२ ॥
बाडवेन लिङ्गं अवगृह्य निष्कर्षन्त्याः पीडयन्त्या वा चिरावस्थानं [१]संदंशः. ॥ २.८.३३ ॥
युक्तयन्त्रा चक्रवद्भ्रमेदिति [२]भ्रमरक आभ्यासिकः. ॥ २.८.३४ ॥
तत्रेतरः स्वजघनं उत्क्षिपेत्. ॥ २.८.३५ ॥
जघनं एव दोलायमानं सर्वतो भ्रामयेदिति [३]प्रेङ्खोलितकम्. ॥ २.८.३६ ॥
युक्तयन्त्रैव ललाटे ललाटं निधाय विश्राम्येत. ॥ २.८.३७ ॥
विश्रान्तायां च पुरुषस्य पुनरावर्तनम्. इति पुरुषायितानि. ॥ २.८.३८ ॥
भवन्ति चात्र श्लोकाः. ॥ २.८.३९ ॥
व्प्रच्छादितस्वभावापि गूढाकारापि कामिनी. विवृणोत्येव भावं स्वं रागादुपरिवर्तिनी.. ॥ २.८.३९ ॥
व्यथाशीला भवेन्नारी यथा च रतिलालसा. तस्या एव विचेष्टाभिस्तत्सर्वं उपलक्षयेत्.. ॥ २.८.४० ॥
व्न त्वेव र्तौ न प्रसूतां न मृगीं न च गर्भिणीम्. न चातिःव्यायतां((३३)) नारीं योजयेत्पुरुषायिते.. ॥ २.८.४१ ॥
चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे पुरुषोपसृप्तानि पुरुषायितं चाष्टमोऽध्यायः. आदितस्त्रयोदशः. ॥ २.८ ॥