कामसूत्रम्/अधिकरणम् ७/अध्यायः १
← अधिकरणम् ६/अध्यायः ६ | कामसूत्रम् अध्यायः १ वात्स्यायन: |
अध्यायः २ → |
व्याख्यातं च कामसूत्रम्. ॥ ७.१.१ ॥
तत्रोक्तेस्तु विधिभिरभिप्रेतं अर्थं अनःअधिगच्छनौपनिषदिकं आचरेत्. ॥ ७.१.२ ॥
रूपं गुणो वयस्त्याग इति सुभगंकरणम्. ॥ ७.१.३ ॥
तगरकुष्ठतालीसपत्त्रकानुलेपनं सुभगंकरणम्. ॥ ७.१.४ ॥
एतैरेव सुःपिष्टैर्वर्तिं आलिप्याक्षतैलेन नरकपाले साधितं अञ्जनं च. ॥ ७.१.५ ॥
पुनर्नवासहदेवीसारिवाकुरण्टोत्पलपत्त्रैश्च सिद्धं तैलं अभ्यञ्जनम्. ॥ ७.१.६ ॥
तद्युक्ता एव स्रजश्च. ॥ ७.१.७ ॥
पद्मोत्पलनागकेसराणां शोषितानां चूर्णं मधुघृताभ्यां अवलिह्य सुभगो भवति. ॥ ७.१.८ ॥
तान्येव नगरतालीसतमालपत्त्रयुक्तान्यनुलिप्य. ॥ ७.१.९ ॥
मयूरस्याक्षि तरक्षोर्वा सुवर्णेनावलिप्य दक्षिणहस्तेन धारयेद् ॥ ७.१.१० ॥
चिति सुभगंकरणम्((१८४)). ॥ ७.१.१० ॥
तथा बादरमणिं शङ्खमणिं च तथैव तेषु चाथर्वणान्योगान्गमयेत्. ॥ ७.१.११ ॥
विद्यातन्त्राच्च विद्यायोगात्प्राप्तयौवनां परिचारिकां स्वामी संवत्सरमात्रं अन्यतो वारयेत्. ततो वातितां बालां वामत्वाल्लालसीःभूतेषु गम्येषु योऽस्यै संघर्षेण बहु दद्यात्तस्मै विसृजेदिति सौभाग्यवर्धनम्. ॥ ७.१.१२ ॥
गणिका प्राप्तयौवनां स्वां दुहितरं तस्या विज्ञानशीलरूपानुरूप्येण तानभिनिमन्त्र्य सारेण योऽस्या इदं इदं च दद्यात्स पाणिं गृह्णीयादिति संभाष्य रक्षयेदिति. ॥ ७.१.१३ ॥
सा च मातुरःविदिता नाम नागरिकपुत्रैर्धनिभिरत्यःअर्थं प्रीयेत. ॥ ७.१.१४ ॥
तेषां कलाग्रहणे गन्धर्वशालायां भीक्षुकीभवने तत्र तत्र च संदर्शनयोगाः. ॥ ७.१.१५ ॥
तेषां यथोक्तदायिनां माता पाणिं ग्राहयेत्. ॥ ७.१.१६ ॥
तावदर्थं अःलभमाना तु स्वेनाप्येकदेशेन दुहित्र एतद्दत्तं अनेनेति ख्यापयेत्. ॥ ७.१.१७ ॥
ऊढाया वा कन्याभावं विमोचयेत्. ॥ ७.१.१८ ॥
प्रच्छन्नं वा तैः संयोज्य स्वयं अःजानती भूत्वा ततो विदितेष्वेतं धर्मस्थेषु((१८५)) निवेदयेत्. ॥ ७.१.१९ ॥
सख्यैव तु दास्या वा मोचितकन्याभावां सुःगृहीतकामसूत्रां आभ्यासिकेषु योगेषु प्रतिष्ठितां प्रतिष्ठिते वयसि सौभाग्ये च दुहितरं अवसृजन्ति गणिका इति प्राच्योपचाराः. ॥ ७.१.२० ॥
पाणिग्रहश्च संवत्सरं अःव्यभिचार्यस्ततो यथा कामिनी स्यात्. ॥ ७.१.२१ ॥
ऊर्ध्वं अपि संवत्सरात्परिणीतेन निमन्त्र्यमाणा लाभं अप्युत्सृज्य तां रात्रिं तस्यागच्छेत्. ॥ ७.१.२२ ॥
चिति वेश्यायाः पाणिग्रहणविधिः सौभाग्यवर्धनं च. ॥ ७.१.२२ ॥
एतेन रङ्गोपजीविनां कन्या व्याख्याताः. ॥ ७.१.२३ ॥
तस्मै तु तां दद्युर्य एषां तूर्ये विशिष्टं उपकुर्यात्. ॥ ७.१.२४ ॥
- ५९चिति सुःभगंकरणम्((१८६)).
सेच्तिओन्(प्रकरण)६०
धत्तूरकमरिचपिप्पलीचूर्णैर्मधुमिश्रैर्लिप्तलिङ्गस्य सम्प्रयोगो वशीकरणम्. ॥ ७.१.२५ ॥
वातोद्भान्तपत्त्रं मृतकनिर्माल्यं मयूरास्थिचूर्णावचूर्णं वशीकरणम्. ॥ ७.१.२६ ॥
स्वयं मृताया मण्डलकारिकायाश्चूर्णं मधुसंयुक्तं सहामलकैः स्नानं वशीकरणम्. ॥ ७.१.२७ ॥
वज्रस्नुहीगण्डकानि खण्डशः कृतानि मनःशिलागन्धपाषाणचूर्णेनाभ्यज्य सप्तकृत्वः शोषितानि चूर्णयित्वा मधुना लिप्तलिङ्गस्य संप्रयोगो वशीकरणम्. ॥ ७.१.२८ ॥
एतेनैव रात्रौ धूमं कृत्वा तद्धूमतिरसःकृतं सौवर्णं चन्द्रमसं दर्शयति. ॥ ७.१.२९ ॥
एतैरेव चूर्णितैर्वानरपुरीषमिश्रितैर्यां कन्यां अवकिरेत्शान्यस्मै न दीयते. ॥ ७.१.३० ॥
वचागण्डकानि सहकारतैललिप्तानि शिशपावृक्षस्कन्धं उत्कीर्य षण्मासं निदध्यात्ततः षड्भिर्मासैरपनीतानि देवकान्तं अनुलेपनं वशीकरणं चेत्याचक्षते. ॥ ७.१.३१ ॥
तथा खदिरसारजानि शकलानि तनूनि यं वृक्षं उत्कीर्य षण्मासं निदध्यात्तत्पुष्पगन्धानि भवन्ति गन्धर्वकान्तं अनुलेपनं वशीकरणं चेत्याचक्षते. ॥ ७.१.३२ ॥
प्रियङ्गवस्तगरमिश्राः सहकारतैलदिग्धा नागवृक्षं उत्कीर्य षण्मासं निहिता नागकान्तं अनुलेपनं वशीकरणं इत्याचक्षते..७.१.३४ उष्ट्रास्थि भृगराजरसेन भावितं दग्धं अञ्जनं नलिकायां निहितं उष्ट्रास्थिशलाकयैव स्नातोऽञ्जनसहितं पुण्यं चक्षुष्यं वशीकरणं चेत्याचक्षते. ॥ ७.१.३३ ॥
एतेन श्येनभासमयूरास्थिमयान्यञ्जनानि व्याख्यातानि((१८७)). ॥ ७.१.३५ ॥
सेच्तिओन्(प्रकरण)६१
उच्चटाकन्दश्चव्या यष्ठीमधुकं च सःशर्करेण पयसा पीत्वा वृषीभवति. ॥ ७.१.३६ ॥
मेषवस्तमुष्कसिद्धस्य पयसः सःस्शर्करस्य पानं वृषत्वयोगः. ॥ ७.१.३७ ॥
तथा विदार्याः क्षीरिकायाः स्वयंगुप्तायाश्च क्षीरेण पानम्. ॥ ७.१.३८ ॥
तथा प्रियालबीजानां मोरटाविदार्योश्च क्षीरेणैव. ॥ ७.१.३९ ॥
शृङ्गाटककसेरुकामधूलिकानि क्षीरकाकोल्या सह पिष्टानि सशर्करेण पयसा घृतेन मन्दाग्निनोत्करिकां पक्त्वा यावदर्थं भक्षितवाननःअन्ताः स्त्रियो गच्छतीत्याचार्याः प्रचक्षते. ॥ ७.१.४० ॥
माषकमलिनीं पयसा धौतां उष्णेन घृतेन मृदुकृत्योद्धृतां वृद्धवत्सायाः गोः पयःसिद्धं पायसं मधुसर्पिर्भ्यां अशित्वानःअन्ताः स्त्रियो गच्छतीत्याचार्याः प्रचक्षते. ॥ ७.१.४१ ॥
विदारी स्वयंगुप्ता शर्करा मधुसर्पिर्भ्यां गोधूमचूर्णेन पोलिकां कृत्वा यावदर्थं भक्षितवाननःअन्ताः स्त्रियो गच्छतीत्याचार्याः प्रचक्षते. ॥ ७.१.४२ ॥
चटकाण्डरसभावितैस्तण्डुलैः पायसं सिद्धं मधुसर्पिर्भ्यां प्लावितं यावदर्थं इति समानं पूर्वेण. ॥ ७.१.४३ ॥
चाटकाण्डरसभावितानपगतत्वचस्तिलाञ् शृगाटककसेरुकस्वयंगुप्ताफलानि गोधूममाषचूर्णैः सःशर्करेण पयसा सर्पिषा च पक्वं संयावं यावदर्थं प्राशितवानिति समानं पूर्वेण. ॥ ७.१.४४ ॥
सर्पिषो मधुनः शर्कराया मधुकस्य च द्वे द्वे पले मधुरसायाः कर्षः प्रस्थं पयस इति षडङ्गं अःमृतं मेध्यं वृष्यं आयुष्यं युक्तरसं इत्याचार्याः प्रचक्षते. ॥ ७.१.४५ ॥
शतावरीश्वदंष्ट्रागुडकषाये पिप्पलीमधुकल्के गोक्षीरच्छागघृते पक्वे तस्य पुष्यारम्भेणान्वःअहं प्राशनं मेध्यं वृष्यं आयुष्यं युक्तरसं इत्याचार्याः प्रचक्षते. ॥ ७.१.४६ ॥
शतावर्याः श्वदंष्ट्रायाः श्रीपर्णीफलानां च क्षुण्णानां चतुर्गुणितजलेन पाक आ प्रकृत्यवस्थानात्तस्य पुष्यारम्भेण प्रातः प्राशनं मेध्यं वृष्यं आयुष्यं युक्तरसं इत्याचार्याः प्रचक्षते. ॥ ७.१.४७ ॥
श्वदंष्त्राचूर्णसमन्वितं तत्समं एव यवचूर्णं प्रातरुत्थाय द्विपलकं अनुःदिनं प्राश्नीयान्मेध्यं वृष्यं युक्तरसं इत्याचार्याः प्रचक्षते. ॥ ७.१.४८ ॥
वायुर्वेदाच्च वेदाच्च विद्यात्तन्त्रेभ्य एव च. आप्तेभ्यश्चावबोद्धव्या योगा ये प्रीतिकारकाः.. ॥ ७.१.४९ ॥
व्न प्रयुञ्जीत संदिग्धान्न शरीरात्ययावहान्. न जीवघातसंबद्धान्नाःशुचिद्रव्यसंयुतान्.. ॥ ७.१.५० ॥
व्तपोयुक्तः प्रयुञ्जीत शिष्टैरनुगतान्विधीन्. ब्राह्मणैश्च सुहृद्भिश्च मङ्गलैरभिनन्दितान्((१८८)).. ॥ ७.१.५१ ॥
चिति श्रीवात्स्यायनीये कामसूत्रे औपनिषदिके सप्तमेऽधिकरणे सुभगंकरणं वशीकरणं वृष्ययोगाः प्रथमोऽध्यायः. ॥ ७.१ ॥