नूतनजलधररुचये गोपवधूटीदुकूलचौराय।
(तस्मै कृष्णाय नमः संसारमहीरुहस्य बीजाय ॥ )
तस्मै कृष्णाय नमः संसारमहीरुहस्य बीजाय ॥ १ ॥

द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम्।
समवायस्तथाऽभावः पदार्थाः सप्त कीर्तिताः ॥ २ ॥

क्षित्यप्तेजोमरुव्द्योमकालदिग्देहिनो मनः।
द्रव्याणि, अथ गुणा रूप रसा गन्धस्ततः परम् ॥ ३ ॥

॥ इति गुणविभागग्रन्थः ॥


स्पर्शः सङ्ख्या परिमितिः पृथक्त्वं च ततः परम्।
संयोगश्च विभागश्च परत्वं चाऽपरत्वकम् ॥ ४ ॥

बुद्धिः सुखं दुःखमिच्छा द्वेषो यत्नोे गुरुत्वकम्।
द्रवत्वं स्नेह-संस्कारावदृष्टं शब्द एव च ॥ ५ ॥

उत्क्षेपणं ततोऽपक्षेपणमाकुञ्चनं तथा।
प्रसारणं च गमनं कर्माण्येतानि पञ्च च ॥ ६ ॥

भ्रमणं रेचनं स्यन्दनोर्ध्वज्वलनमेव च।
तिर्य्यग्गमनमप्यत्र गमनादेव लभ्यते ॥ ७ ॥

सामान्यं द्विविधं प्रोक्तं परं चाऽपरमेव च।
द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ॥ ८ ॥

परभिन्ना तु या जातिः सैवाऽपरतयोच्यते।
द्रव्यत्वादिकजातिस्तु परापरतयोच्यते ॥ ९ ॥

व्यापकत्वात् पराऽपि स्याद् व्याप्यत्वादपराऽपि च।
अन्त्यो नित्यद्रव्यवृत्तिर्विशेषः परिकीर्तितः ॥ १० ॥

घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः।
तेषु जातेश्च सम्बन्धः समवायः प्रकीर्तितः ॥ ११ ॥

अभावस्तु द्विधा संसर्गान्योन्याभावभेदतः।
प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च ॥ १२ ॥

एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते।
सप्तानामपि साधर्म्यं ज्ञेयत्वादिकमुच्यते ॥ १३ ॥

द्रव्यादयः पञ्च भावा अनेके समवायिनः।
सत्तावन्तस्त्रयस्त्वाद्या गुणादिर्निर्गुणक्रियः ॥ १४ ॥

॥ इति गुणादिषट्पदार्थसाधर्म्यकथनम् ॥


सामान्यपरिहीनास्तु सर्वे जात्यादयो मताः।
पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम् ॥ १५ ॥

॥ इति पारिमाण्डल्यभिन्नपदार्थसाधर्म्यकथनम् ॥


अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता।
कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्तितम् ॥ १६ ॥

समवायिकारणत्वं ज्ञेयमथाऽप्यसमवायिहेतुत्वम्।
एवं न्यायनयज्ञैस्तृतीयमुक्तं निमित्तहेतुत्वम् ॥ १७ ॥

यत्समवेतं कार्यं भवति ज्ञेयं तु समवायिजनकं तत्।
तत्राऽऽसन्नं जनकं द्वितीयमाभ्यां परं तृतीयं स्यात् ॥ १८ ॥

येन सह पूर्वभावः, कारणमादाय वा यस्य।
अन्यं प्रति पूर्वत्वे ज्ञाते यत्पूर्वभावविज्ञानम् ॥ १९ ॥

जनकं प्रति पूर्ववृत्तितामपरिज्ञाय न यस्य गृह्यते।
अतिरिक्तमथाऽपि यद्भवेन्नियतावश्यकपूर्वभाविनः ॥ २० ॥

एते पञ्चाऽन्यथासिद्धा दण्डत्वादिकमादिमम् ।
घटादौ दण्डरूपादि द्वितीयमपि दर्शितम् ॥ २१ ॥

तृतीयं तु भवेव्द्योम कुलालजनकोऽपरः।
पञ्चमो रासभादिः स्यादेतेष्वावश्यकस्त्वसौ ॥ २२ ॥

समवायिकारणत्वं द्रव्यस्यैवेति विज्ञेयम्।
गुणकर्ममात्रवृत्ति ज्ञेयमथाऽप्यसमवायिहेतुत्वम् ॥ २३ ॥

अन्यत्र नित्यद्रव्येभ्य आश्रितत्वमिहोच्यते।
क्षित्यादीनां नवानां तु द्रव्यत्वं गुणयोगिता ॥ २४ ॥

क्षितिर्जलं तथा तेजः पवनो मन एव च।
परापरत्वमूर्तत्व क्रियावेगाश्रया अमी ॥ २५ ॥

कालखात्मदिशां सर्वगतत्वं परमं महत्।
क्षित्यादि पञ्च भूतानि चत्वारि स्पर्शवन्ति हि ॥ २६ ॥

द्रव्यारम्भश्चतुर्षु स्यादथाऽऽकाशशरीरिणाम्।
अव्याप्यवृत्तिक्षणिको विशेषगुण इष्यते ॥ २७ ॥

रूप-द्रवत्व-प्रत्यक्ष-योगिनः प्रथमास्त्रयः।
गुरुणी द्वे रसवती द्वयोर्नैमित्तिको द्रवः ॥ २८ ॥

॥ इति वैधर्म्यनिरूपणम् ॥


आत्मानो भूतवर्गाश्च विशेषगुणयोगिनः।
यदुक्तं यस्य साधर्म्यं वैधर्म्यमितरस्य तत् ॥ २९ ॥

स्पर्शादयोऽष्टौ वेगाख्यः संस्कारो मरुतो गुणाः।
स्पर्शाद्यष्टौ रूपवेगौ द्रवत्वं तेजसो गुणाः ॥ ३० ॥

स्पर्शादयोऽष्टौ वेगाश्च गुरुत्वं च द्रवत्वकम्।
रूपं रसस्तथा स्नेहो वारिण्येते चतुर्दश ॥ ३१ ॥

स्नेहहीना गन्धयुताः क्षितावेते चतुर्दश।
बुद्धवादिषट्कं सङ्ख्यादिपञ्चकं भावना तथा ॥ ३२ ॥

धर्माधर्मौ गुणा एते आत्मनः स्युश्चतुर्दश।
सङ्ख्यादिपञ्चकं कालदिशोः शब्दश्च ते च खे ॥ ३३ ॥

सङ्ख्यादिपञ्चकं बुद्धिरिच्छा यत्नोऽपि चेश्वरे।
परापरत्वे सङ्ख्याद्याः पञ्च वेगश्च मानसे ॥ ३४ ॥

तत्र क्षितिर्गन्धहेतुः नानारूपवती मता।
षड्विधस्तु रसस्तत्र गन्धस्तु द्विविधो मतः ॥ ३५ ॥

स्पर्शस्तस्यास्तु विज्ञेयो ह्यनुष्णाशीतपाकजः।
नित्याऽनित्या च सा द्वेधा नित्या स्यादणुलक्षणा ॥ ३६ ॥

अनित्या तु तदन्या स्यात् सैवाऽवयवयोगिनी।
अणुलक्षणा-परमाणुरूपा पृथिवी नित्या ॥ ३६ ॥

अनित्या तु तदन्या स्याद् सैवावयवयोगिनि
सा च त्रिधा भवेद्देहमिन्द्रियं विषयस्तथा ॥ ३७ ॥

योनिजादिर्भवेद्देह इन्द्रियं घ्राणलक्षणम्।
विषयो द्व्यणुकादिश्च ब्रह्माण्डान्त उदाहृतः ॥ ३८ ॥

वर्णः शुक्लो रस-स्पर्शौ जले मधुर-शीतलौ।
स्नेहस्तत्र द्रवत्वं तु सांसिद्धिकमुदाहृतम् ॥ ३९ ॥

नित्यतादि प्रथमवत्, किन्तु देहमयोनिजम्।
इन्द्रियं रसनं सिन्धुर्हिमादिर्विषयो मतः ॥ ४० ॥

उष्णस्पर्शस्तेजसस्तु स्याद्रूपं शुक्लभास्करम् ।
नैमित्तिकं द्रवत्वं तु नित्यतादि च पूर्ववत् ॥ ४१ ॥

इन्द्रियं नयनं वह्निः स्वर्णादिर्विषयो मतः।
अपाकजोऽनुष्णाशीतस्पर्शस्तु पवने मतः ॥ ४२ ॥

तिर्यग्गमनवानेष ज्ञेयः स्पर्शादिलिङ्गकः।
पूर्ववन्नित्यत्यताद्युक्तं देहव्यापि त्वगिन्द्रियम् ॥ ४३ ॥

प्राणादिस्तु महावायुपर्यन्तो विषयो मतः।
आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः ॥ ४४ ॥

इन्द्रयन्तु भवेच्छोत्रमेकः सन्नप्युपाधितः।
जन्यानां जनकः कालः जगतामाश्रयो मतः ॥ ४५ ॥

परापरत्वधीहेतुः, क्षणादिः स्यादुपाधितिः।
दूरान्तिकादिधीहेतुरेका नित्या दिगुच्यते ॥ ४६ ॥

उपाधिभेदादेकाऽपि प्राच्यादिव्यपदेशभाक्
आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम् ॥ ४७ ॥

शरीरस्य न चैतन्यं मृतेषु व्यभिचारतः।
तथात्वं चेदिन्द्रियाणामुपघाते कथं स्मृतिः ॥ ४८ ॥

मनोऽपि न तथा, ज्ञानाद्यनध्यक्षं तदा भवेत्।
धर्माधर्माश्रयोऽध्यक्षो विशेषगुणयोगतः ॥ ४९ ॥

प्रवृत्त्याद्यनुमेयोऽयं रथगत्येव सारथिः।
अहङ्कारस्याऽऽश्रयोऽयं मनोमात्रस्य गोचरः ॥ ५० ॥

विभुर्बुद्ध्यादिगुणवान् बुद्धिस्तु द्विविधा मता ॥
अनुभूतिः स्मृतिश्च स्यात् अनुभूतिश्चतुर्विधा ॥ ५१ ॥

प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे।
घ्राणजादिप्रभेदेन प्रत्यक्षं षड्विधं मतम् ॥ ५२ ॥

घ्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः।
तथा रसो रसज्ञायाः तथा शब्दोऽपि च श्रुतेः ॥ ५३ ॥

उद्भूतरूपं नयनस्य गोचरो द्रव्याणि तद्वन्ति पृथक्त्वसङ्ख्ये
विभागसंयोगपरापरत्वस्नेहद्रवत्वं परिमाणयुक्तम् ॥ ५४ ॥

क्रियां जातिं योग्यवृत्तिं समवायं च तादृशम्।
गृह्णाति चक्षुःसम्बन्धादालोकोद्भूतरूपयोः ॥ ५५ ॥

उद्भूतस्पर्शवत् द्रव्यं गोचरः सोऽपि च त्वचः।
रूपान्यच्चक्षुषो योग्यं रूपमत्राऽपि कारणम् ॥ ५६ ॥

ज्ञानं यन्निर्विकल्पाख्यं तदतीन्द्रियमिष्यते।
महत्त्वं षड्विधे हेतुः, इद्रियं करणं मतम् ॥ ५८ ॥

विषयेन्द्रियसम्बन्धो व्यापारः सोऽपि षड्विधः।
द्रव्यग्रहस्तु संयोगात् संयुक्तसमवायतः ॥ ५९ ॥

द्रव्येषु समवेतानां तथा तत्समवायतः।
तत्राऽपि समवेतानां शब्दस्य समवायतः ॥ ६० ॥

तद्वृत्तीनां समवेतसमवायेन तु ग्रहः।
प्रत्यक्षं समवायस्य विशेषणतया भवेत् ॥ ६१ ॥

विशेषणतया तद्वदभावानां ग्रहो भवेत्।
यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते ॥ ६२ ॥

अलौकिकस्तु व्यापारस्त्रिविधः परिकीर्तितः।
सामान्यलक्षणो ज्ञानलक्षणो योगजस्तथा ॥ ६३ ॥

आसत्तिराश्रयाणां तु सामान्यज्ञानमिष्यते।
तदिन्द्रियजतद्धर्मबोधसामग्र्यपेक्ष्यते ॥ ६४ ॥

विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः।
योगजो द्विविधः प्रोक्तो युक्तयुञ्जानमेदतः ॥ ६५ ॥

युक्तस्य सर्वदा भानं, चिन्तासहकृतोऽपरः।


अथानुमानखण्ड

व्यापारस्तु परामर्शः करणं व्याप्तिधीर्भवेत् ॥ ६६ ॥

अनुमायां ज्ञायमानं लिङ्गं तु करणं न हि।
अनागतादिलिङ्गेन न स्यादनुमितिस्तदा ॥ ६७ ॥

व्याप्यस्य पक्षवृत्तित्वधीः परामर्श उच्यते ॥
व्याप्तिः साध्यवदन्यस्मिन्नसम्बन्ध उदाहृतः ॥ ६८ ॥

अथवा हेतुमन्निष्ठविरहाप्रतियोगिना।
साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते ॥ ६९ ॥

सिषाधयिषया शून्या सिद्धिर्यत्र न तिष्ठति।
स पक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत् ॥ ७० ॥

अनैकान्तो विरुद्धश्चाऽप्यसिद्धः प्रतिपक्षितः।
कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा ॥ ७१ ॥

॥ इति हेत्वाभाससामान्यनिरूपणम् ॥


आद्यः साधारणस्तु स्यादसाधारणकोऽपरः।
तथैवाऽनुपसंहारी त्रिधाऽनैकान्तिको भवेत् ॥ ७२ ॥

यः सपक्षे विपक्षे च भवेत्साधारणस्तु सः।
यस्तूभयस्माद्वयावृत्तः सत्त्वसाधारणो मतः ॥ ७३ ॥

तथैवाऽनुपसंहारी केवलान्वयिपक्षकः।
यः साध्यवति नैवाऽस्ति स विरुद्ध उदाहृतः ॥ ७४ ॥

आश्रयासिद्धिराद्या स्यात्, स्वरूपासिद्धिरप्यथ।
व्याप्यत्वासिद्धिरपरा स्यादसिद्धिरतस्त्रिधा ॥ ७५ ॥

पक्षासिद्धिर्यत्र पक्षो भवेन्मणिमयो गिरिः।
ह्रदो द्रव्यं धूमवत्त्वादत्राऽसिद्धिरथाऽपरा ॥ ७६ ॥

व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत्।
विरुद्धयोः परामर्शे हेत्वोः सत्प्रतिपक्षता ॥ ७७ ॥

॥ इति सत्प्रतिपक्षनिरूपणम् ॥


साध्यशून्यो यत्र पक्षस्त्वसौ बाध उदाहृतः।
उत्पत्तिकालीनघटे गन्धादिर्यत्र साध्यते ॥ ७८ ॥


अथ उत्पमितिखण्डम्।

ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम्।
सादृश्यधीर्गवादीनां या स्यात् सा करणं मतम् ॥ ७९ ॥

वाक्यार्थस्याऽतिदेशस्य स्मृतिव्र्यापार उच्यते।
गवयादिपदानां तु शक्तिधीरुपमाफलम् ॥ ८० ॥

॥ इति बाधमिरूपणम् ॥


शब्दखण्डः

पदज्ञानं करणं तु द्वारं तत्र पदार्थधीः।
शब्दबोधः फलं तत्र शक्तिधीः सहकारिणी ॥ ८१ ॥

लक्षणा शक्यसम्बन्धः तात्पर्यानुपपत्तितः।
आसत्तिर्र्योग्यताकाङ्क्षातात्पर्यज्ञानमिष्यते।८२ ॥

कारणं सन्निधानं तु पदस्याऽसत्तिरुच्यते ।
पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता ॥ ८३ ॥

सह तात्पर्यग्रहे तु तेन सहाऽन्वयबोधः स्यादेव।
॥ आकाङक्षा वक्तुरिच्छा तु तात्पर्यं परिकीर्तितम् ॥ ८४ ॥

साक्षात्कारे सुखादीनां करणं मन उच्यते।
अयौगपद्याज्ज्ञानानां तस्याणुत्वमिहोच्यते ॥ ८५ ॥

अथ द्रव्याश्रिता ज्ञेया निर्गुणा निष्क्रिया गुणाः ।
रूपं रसः स्पर्शगन्धौ परत्वमपरत्वकम् ॥ ८६ ॥

द्रवो गुरुत्वं स्नेहश्च वेगो मूर्तगुणा अमी।
धर्माधर्मौ भावना च शब्दो बुद्ध्यादयोऽपि च ॥ ८७ ॥

एतेऽमूर्तगुणाः सर्वे विद्वद्भिः परिकीर्तिताः।
सङ्ख्यादयो विभागान्ता उभयेषां गुणा मताः ॥ ८८ ॥

संयोगश्च विभागश्च सङ्ख्या द्वित्वादिकास्तथा।
द्विपृथक्त्वादयस्तद्वदेतेऽनेकाश्रिता गुणाः ॥ ८९ ॥

अतः शेषगुणाः सर्वे मता एकैकवृत्तयः।
बुद्ध्यादिषट्कं स्पर्शान्तः स्नेहः सांसिद्धिको द्रवः ॥ ९० ॥

अदृष्टभावनाशब्दा अमी वैशेषिका गुणाः।
सङ्ख्यादिरत्वान्तो द्रवोऽसांसिद्धिकस्तथा ॥ ९१ ॥

गुरुत्ववेगौ सामान्यगुणा एते प्रकीर्तिताः।
सङ्ख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च ॥ ९२ ॥

द्वीन्द्रियग्राह्या अथ स्पर्शान्तशब्दकाः।
बाह्यैकैकेन्द्रियग्राह्याः गुरुत्वादृष्टभावनाः ॥ ९३ ॥

अतीन्द्रीया विभूनां तु ये स्युवैशेषिका गुणाः ।
अकारणगुणोत्पन्ना एते तु परिकीर्तिताः ॥ ९४ ॥

अपाकजास्तु स्पर्शन्ता द्रवत्वं च तथाविधम्।
स्नेहवेगगुरुत्वैकपृथक्त्वपरिमाणकम् ॥ ९५ ॥

स्थितिस्थापक इत्येते स्युः कारणगुणोद्भवाः।
संयोगश्च विभागश्च वेगश्चैते तु कर्मजाः ॥ ९६ ॥

स्पर्शान्तपरिमाणैकपृथक्त्वस्नेहशब्दके।
भवेदसमवायित्वं, अथ वैशेषिके गुणे ॥ ९७ ॥

आत्मनः स्यान्निमित्तत्वं, उष्णास्पर्शगुरुत्वयोः।
वेगेऽपि च द्रवत्वे च संयोगादिद्वये तथा ॥ ९८ ॥

द्विधैव कारणत्वं स्यात्, अथ प्रादेशिको भवेत्।
वैशेषिको विभुगुणः संयोगादिद्वयं तथा ॥ ९९ ॥

चक्षुर्ग्राह्यं भवेद्रूपं द्रव्यादेरुपलम्भकम् ।
चक्षुषः सहकारि स्यात्, शुक्लादिकमनेकधा ॥ १०० ॥

जलादिपरमाणौ तन्नित्यमन्यत् सहेतुकम्।
रसस्तु रसनाग्राह्यो मधुरादिरनेकधा ॥ १०१ ॥

सहकारी रसज्ञाया नित्यतादि च पूर्ववत्।
घ्राणग्राह्यो भवेद्गन्धो घ्राणस्यैवोपकारकः ॥ १०२ ॥

सौरभं चाऽसौरभं च स द्वेधा परिकीर्तितः।
स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचः स्यादुपकारकः ॥ १०३ ॥

अनुष्णाशीतोशीताष्णभेदात् स त्रिविधो मतः।
काठिन्यादि क्षितावेव नित्यतादि च पूर्ववत् ॥ १०४ ॥

एतेषां पाकजत्वं तु क्षितौ नान्यत्र कुत्रचित् ।
तत्रापि परमाणौ स्यात् पाको वैशेषिके नये ॥ १०५

नैयायिकानां तु नये द्रव्यणुकादावपीष्यते
गणनाव्यवहारासाधारणं कारणं सङ्ख्येत्यर्थः ॥ १०६ ॥

नित्येषु नित्यमेकत्वमनित्येऽनित्यमिष्यते।
द्वित्वादयः परार्धान्ता अपेक्षाबुद्धिजा मताः ॥ १०७ ॥

अनेकाश्रयपर्याप्ता एते तु परिकीर्तितः।
अपेक्षाबुद्धिनाशाच्च नाशस्तेषां निरूपितः ॥ १०८ ॥

अनेकैकत्वबुद्धिर्या साऽपेक्षाबुद्धिरिष्यते।
परिमाणं भवेन्मानव्यवहारस्य कारणम् ॥ १०९ ॥

अणु दीर्घं महद्ह्रस्वमिति तद्भेद ईरितः
अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम् ॥ ११० ॥

सङ्ख्यातः परिमाणाच्च प्रचयादपि जायते।
अनित्यं, द्व्यणुकादौ तु संख्याजन्यमुदाहृतम् ॥ १११ ॥

परिमाणं घटादौ तु परिमाणजमुच्यते।
प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते ॥ ११२।

परिणामं तूलकादौ नाशस्त्वाश्रयनाशतः
संख्यावत्तु पृथक्त्वं स्यात् पृथक्प्रत्ययकारणम् ॥ ११३ ॥

अन्योन्याभावतो नाऽस्य चरितार्थत्वमिष्यते।
अस्मात् पृथगिदं नेति प्रतीतिर्हि विलक्षणा ॥ ११४ ॥

अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः।
कीर्तितस्त्रिविघस्त्वेष आद्योऽन्यतरकर्मजः ॥ ११५ ॥

तथोभयस्पन्दजन्यो भवेत् संयोगजोऽपरः।
आदिमः श्येनशैलादिमंयोगः परिकीर्तितः ॥ ११६ ॥

मेषयोः सन्निपातो यः स द्वितीय उदाहृतः।
कपालतरुसंयोगात् संयोगस्तरुकुम्भयोः ॥ ११७ ॥

तृतीयः स्यात् कर्मजोऽपि द्विधैव परिकीर्तितः।
अभिघातो नोदनं च शब्दहेतुरिहादिमः ॥ ११८ ॥

शब्दाहेतुर्द्वितीयः स्यात् विभागोऽपि त्रिधा भवेत्।
एककर्मोद्भवस्त्वाद्यो द्वयकर्मोद्भवोऽपरः ॥ ११९ ॥

विभागजस्तृतीयः स्यात् तृतीयोऽपि द्विधा भवेत्।
हेतुमात्रविभागोत्थोे हेत्वहेतुविभागजः ॥ १२०

परत्वं चाऽपरत्वं च द्विविधं परिकीर्तितम्।
दैशिकं कालिकं चाऽपि मूर्त एव तु दैशिकम् ॥ १२१ ॥

परत्वं मूर्तसंयोगभूयस्त्वज्ञानतो भवेत्।
अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम् ॥ १२२ ॥

तयोरसमवायी तु दिक्संयोगस्तदाश्रये।
दिवाकरपरिस्पन्दभूयस्त्वज्ञानतो भवेत् ॥ १२३ ॥

परत्वमपरत्वं तु तदीयाल्पत्वबुद्धितः ॥
अत्र त्वसमवायी स्यात् संयोगः कालपिण्डयोः ॥ १२४ ॥

अपेक्षाबुद्धिनाशेन नाशस्तेवां निरूपितः।
बुद्धेः प्रपञ्चः प्रागेव प्रायशो विनिरूपितः ॥ १२५ ॥

अथाऽवशिष्टोऽप्यपरः प्रकारः परिदश्र्यते।
अप्रमा च प्रमा चेति ज्ञानं द्विविधमिष्यते ॥ १२६ ॥

तच्छून्ये तन्मतिर्या स्यादप्रमा सा निरूपिता।
तत्प्रपञ्चो विपर्यासः संशयोऽपि प्रकीर्तितः ॥ १२७ ॥

आद्यो देहेष्वात्मबुद्धिः शङ्खादौ पीततामतिः।
भवेन्निश्चयरूपा या संशयोऽथ प्रदश्र्यते ॥ १२८ ॥

किंस्विन्नरो वा स्थाणुर्वेत्यादिबुद्धिस्तु संशयः।
तदभावाप्रकारा धीस्तत्प्रकारा तु निश्चयः ॥ १२९ ॥

स संशयो मतिर्या स्यादेकत्राऽभावभावयोः।
साधारणादिधर्मस्य ज्ञानं संशयकारणम् ॥ १३० ॥

दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत्।
पित्तदूरत्वादिरूपो दोषो नानाविधो मतः ॥ १३१ ॥

प्रत्यक्षे तु विशेष्येण विशेषणवता समम्।
सन्निकर्षो गुणस्तु स्यात्, अथ त्वनुमितौ पुनः ॥ १३२ ॥

पक्षे साध्यविशिष्टे तु परामर्शो गुणो भवेत्।
शक्ये सादृश्यबुद्धिस्तु भवेदुपमितौ गुणः ॥ १३३ ॥

शाब्दबोधे योग्यतायास्तात्पर्यस्याऽथवा प्रमा।
गुणः स्यात्, भ्रमभिन्नं तु ज्ञानमत्रोच्यते प्रमा ॥ १३४ ॥

अथवा तत्प्रकारं यज्ज्ञानं तद्वद्विशेष्यकम्।
तत्प्रमा, न प्रमा नाऽपि भ्रमः स्यान्निर्विकल्पकम् ॥ १३५ ॥

प्रकारतादिशून्यं हि सम्बन्धानवगाहि तत्।
प्रमात्वं न स्वतो ग्राह्यं संशयानुपपत्तितः ॥ १३६ ॥

॥ इत्यन्यथाख्यातिवादः ॥


व्यभिचारस्याग्रहोऽपि सहचारग्रहस्तथा।
हेतुव्र्याप्तिग्रहे, तर्कः क्वचिच्छङ्कानिवर्तकः ॥ १३७ ॥

साध्यस्य व्यापको यस्तु हेतोरव्यापकस्तथा।
स उपाधिर्भवेत् तस्य निष्कर्षोऽयं प्रदश्र्यते ॥ १३८ ॥

सर्वे साध्यसमानाधिकरणाः स्युरुपाधयः।
हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता ॥ १३९ ॥

व्यभिचारस्यानुमानमुपाधेस्तु प्रयोजनम्।
शब्दोपमानयोर्नैव पृथक्प्रामाण्यमिष्यते ॥ १४० ॥

अनुमानगतार्थत्वादिति वैशेषिकं मतम् ॥
तन्न सम्यग्विना व्याप्तिबोधं शाब्दादिबोधतः ॥ १४१ ॥

इति शब्दोपमानयोः पृथक्प्रामाण्यनिरूपणम् ॥


त्रैविध्यमनुमानस्य केवलान्वयिभेदतः।
द्वैविध्यं तु भवेद् व्याप्तेरन्वयव्यतिरेकतः ॥ १४२ ॥

॥ इत्यनुमानत्रैविध्यनिरूपणम् ॥


अन्वयव्याप्तिरुक्तैव व्यतिरेकादिहोच्यतं।
साध्याभावव्यापकत्वं हेत्वभावस्य यद्भवेत् ॥ १४३

अर्थापत्तिस्तु नैवेह प्रमाणान्तरमिष्यते।
व्यतिरेकव्याप्तिबुद्धया चरितार्था हि सा यतः ॥ १४४ ॥

सुखं तु जगतामेव काम्यं धर्मेण जायते।
अधर्मजन्यं दुःखं स्यात् प्रतिकूलं सचेतसाम् ॥ १४५ ॥

निर्दुःखत्वे सुखे चेच्छा तज्ज्ञानादेव जायते।
इच्छा तु तदुपाये स्यादिष्टोपायत्वधीर्यदि ॥ १४६ ॥

चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा तु या भवेत्।
तद्धेतुः कृतिसाध्येष्टसाधनत्वमतिर्भवत् ॥ १४७ ॥

बलवद्द्विष्टहेतुत्वमतिः स्यात्प्रतिबन्धिका।
तदहेतुत्वबुद्धेस्तु हेतुत्वं कस्यचिन्मते ॥ १४८ ॥

द्विष्टसाधनताबुद्धिर्भवेद् द्वेषस्य कारणम्।

॥ इति द्वेषनिरूपणम् ॥


प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् ॥ १४९ ॥

एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिकीर्तितम्।
चिकीर्षाकृतिसाध्येष्टसाधनत्वमतिस्तथा ॥ १५० ॥

उपादानस्य चाऽध्यक्षं प्रवृत्तौ जनकं भवेत्।
निवृत्तिस्तु भवेद् द्वेषाद् द्विष्टोपायत्वधीयदि ॥ १५१

यत्नो जीवनयोनिस्तु सर्वदाऽतीन्द्रियो भवेत्।
शरीरे प्राणसञ्चारे कारणं तत् प्रकीर्तितम् ॥ १५२ ॥

अतीन्द्रियं गुरुत्वं स्यात् पृथिव्यादिद्वये तु तत्।
अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम् ॥ १५३ ॥

तदेवाऽसमवायि स्यात् पतनाख्ये तु कर्मणि।
सांसिद्धिकं द्रवत्वं स्यान्नैमित्तिकमथाऽपरम् ॥ १५४ ॥

सांसिद्धिकं तु सलिले द्वितीयं क्षितितेजसोः।
परमाणौ जले नित्यमन्यत्राऽनित्यमिष्यते ॥ १५५ ॥

नैमित्तिकं वह्नियोगात् तपनीयघृतादिषु।
द्रवत्वं स्यन्दने हेतुर्निमित्तं सङ्ग्रहे तु तत्।१५६ ॥

स्नेहो जले स नित्योऽणावनित्योऽवयविन्यसौ।
तैलान्तरे तत्प्रकर्षाद् दहनस्याऽनुकूलता ॥ १५७ ॥

संस्कारभेदो वेगोऽथ स्थितिस्थापकभावने।
मूर्तमात्रे तु वेगः स्यात् कर्मजो वेगजः क्वचित् ॥ १५८ ॥

स्थितिस्थापकसंस्कारः क्षितौ केचिच्चतुष्र्वपि।
अतीन्द्रियोऽसौ विज्ञेयः क्वचित् स्पन्देऽपि कारणम् ॥ १५९ ॥

भावनाख्यस्तु संस्कारो जीववृत्तिरतीन्द्रियः।
उपेक्षानात्मकस्तस्य निश्चयः कारणं भवेत् ॥ १६० ॥

स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते।

॥ इति संस्कारनिरूपणम् ॥


धर्माधर्मावदृष्टं स्याद्, धर्मः स्वर्गादिकारणम् ॥ १६१ ॥

गङ्गास्नानादियागादिव्यापारः स तु कीर्तितः।
कर्मनाशाजलस्पर्शादिना नाश्यस्त्वसौ मतः ॥ १६२ ॥

अधर्मो नरकादीनां हेतुर्निन्दितकर्मजः।
प्रायश्चित्तादिनाश्योऽसौ जीववृत्ती त्विमौ गुणौ ॥ १६३ ॥

इमौ तु वासनाजन्यौ ज्ञानादपि विनश्यतः।
शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः ॥ १६४ ॥

कण्ठसंयोगादिजन्या वर्णास्ते कादयो मताः ।
सर्वः शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते ॥ १६५ ॥

वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्तिता।
कदम्बगोलकन्यायादुत्पत्तिः कस्यचिन्मते ॥ १६६ ॥

उत्पन्नः को विनष्टः क इति बुद्धेरनित्यता।
सोऽयं क इति बुद्धिस्तु साजात्यमवलम्बते ॥ १६७ ॥

तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात्।
तस्मादनित्या एवेति वर्णाः सर्वे मतं हि नः ॥ १६८ ॥

॥ इति श्रीविश्वनाथपञ्चाननकृता कारिकावली समाप्ता ॥


वर्गःन्यायदर्शनम्

"https://sa.wikisource.org/w/index.php?title=कारिकावलि&oldid=305452" इत्यस्माद् प्रतिप्राप्तम्