कालिकापुराणम्/अध्यायः ११
कालिकापुराणम् एकादशोऽध्यायः त्रिदेवानामेकत्वप्रतिपादनम्
अथ कालिका पुराण अध्याय ११
।। मार्कण्डेय उवाच ।।
ततः समागताः सर्वे मानसाश्च सनारदाः ।
विधेः स्मरणमात्रेण वातेनैव विनोदिताः ।।१।।
तैः सार्धं ब्रह्मणा शम्भुः सगणो दक्षमन्दिरम् ।
जगाम मोदयुक्तोऽथ काले तत्कर्मयोगिनि ॥२॥
गणाः शङ्खाश्च पटहान् डिण्डिमांस्तूर्यवंशकान् ।
वादयन्तो मुदायुक्ता अनुगच्छन्ति शङ्करम् ॥३॥
केचित्तालं करतलैः कुर्वन्तोंऽघ्रितलस्वनम् ।
विमानैरतिवेगैः स्वैरनुयान्ति वृषध्वजम् ।।४।।
कोलाहलं प्रकुर्वन्तस्तथा नानाविधान् रवान् ।
गणा अनेकाकृतयः शब्दयोगेन निर्ययुः ।।५।।
ततो देवा मुदा युक्ता गन्धर्वाप्सरसो गणाः ।
वाद्यैर्मोदैस्तथा नृत्यैरन्वीयुर्वृषभध्वजम् ।।६।।
तेषां शब्देन विप्रेन्द्रा गन्धर्वाणां गरीयसाम् ।
गणानाञ्च दिशः सर्वाः पूरिता च वसुन्धरा ॥७॥
कामोऽपि सगणः शम्भुं सशृङ्गाररसादिभिः ।
मोदयन् मोहयन् कायमन्वियात् स समन्वतः ॥८॥
हरौ गच्छति भार्यार्थे तदानीं सकलाः सुराः ।
ब्रह्माद्या: स्वयमेवाशु वाद्यं चक्रुर्मनोहरम् ।।९।।
दिशः सर्वाः सुप्रसन्ना बभूवुर्द्विजसत्तमाः ।
जज्वलुश्चाग्नयः शान्ता: पुष्पवृष्टिरजायत ।। १० ।।
ववुर्वाताः सुरभयो वृक्षाश्चापि सुपुष्पिताः ।
बभूवुः प्राणिनः स्वस्था अस्वस्था येऽपि केचन ।। ११ ।।
हंससारसकादम्बा नीलकम्बुश्च चातकाः ।
चुक्रुशुर्मधुरान् शब्दान् प्रेरयन्त इवेश्वरम् ।।१२।।
भुजगो व्याघ्रकृत्तिश्च जटा चन्द्रकला तथा ।
जगाम भूषणत्वञ्च तेनापि परिदीपितः ।। १३ ।।
ततः क्षणेन बलिना बलीवर्देन वेगिना ।
सब्रह्मनारदाद्यैश्च प्राप दक्षालयं हरः ।।१४।।
ततो दक्षो महातेजा अभ्युत्थाय स्वयं हरम् ।
ब्रह्मादीञ्चाददौ तेषामासनानि यथोचितम् ।। १५ ।।
कृत्वा यथोचितां तेषां पूजां पाद्यादिभिस्तथा ।
चकार संविदं दक्षो मुनिभिर्मानसैः पुनः ।। १६ ।।
ततः शुभे मुहूर्ते तु लग्ने च द्विजसत्तमाः ।
सतीं निजसुतां दक्षो ददौ हर्षेण शम्भवे ।। १७ ।।
उद्वाहविधिना सोऽपि पाणिं जग्राह हर्षितः ।
दाक्षायण्या वरतनोस्तदानीं वृषभध्वजः ।। १८ ।।
ब्रह्माश्च नारदाद्याश्च मुनयः सामगीतिभिः ।
ऋचा यजुर्भिः सुश्राव्यैस्तोषयामासुरीश्वरम् ।।१९।।
वाद्यं चक्रुर्गणाः सर्वे ननृतुश्चाप्सरोगणाः ।
पुष्पवृष्टिञ्च ससृजुर्मेघा गगनसङ्गताः ।।२०।।
अथ शम्भुमुपागत्य गरुडेनातिवेगिना ।
सार्धं कमलया चेदमुवाच गरुड़ध्वजः ।। २१ ।।
।। श्रीभगवानुवाच ।।
स्निग्धनीलाञ्जनश्याम शोभया शोभसे हर ।
दाक्षायण्या यथा चाहं प्रातिलोम्येन पद्मया ।। २२ ।।
कुरु त्वमनया सार्धं रक्षा देवस्य वा नृणाम् ।।२३।।
अनया सह संसारसारिणां मंगलं सदा ।
कुरु दस्यून् यथायोग्यं हनिष्यसि च शङ्कर ।। २४ ।।
य एवैनां साभिलाषो दृष्ट्वा श्रुत्वाथवा भवेत् ।
तं हनिष्यसि भूतेश नात्र कार्या विचारणा ।। २५ ।।
।। मार्कण्डेय उवाच ।।
एवमस्त्विति सर्वज्ञः प्रोवाच परमेश्वरम् ।
प्रहृष्टमानसं प्रीत्या प्रसन्नवदनो द्विजाः ।।२६।।
अथ ब्रह्मा तदा दृष्ट्वा दक्षजां चारुहासिनीम् ।
स्मराविष्टमना वक्तं वीक्षांचक्रे तदीयकम् ।। २७।।
मुहुर्मुहुस्तदा ब्रह्मा पश्यति स्म सतीमुखम् ।
तदेन्द्रियविकारञ्च प्राप्तवानवश: पुनः ।।२८।।
अथ तस्य पपाताशु तेजो भूमौ द्विजोत्तमाः ।
तज्जलद्दहनाभासं मुनीनां पुरतस्तदा ।। २९ ।।
ततस्तस्मात् समभवंस्तोयदाः शब्दसंयुताः ।
सम्बर्तश्च तथावर्तः पुष्करो द्रोण एव च ।
गर्जन्तश्चाथ मुञ्चन्तस्तोयानि द्विजसत्तमाः ।।३०॥
तैस्तु सञ्छादिते व्योम्नि तेषु गर्जत्सु शङ्करः ।
पश्यन् दाक्षायणीं देवीं भृशं कामेन मोहितः ।। ३१ ।।
मोहितोऽप्यथ कामेन तदा विष्णुवचः स्मरन् ।
इयेष हन्तुं ब्रह्माणं शूलमुद्यम्य शङ्करः ।।३२।।
शम्भुनोद्यमिते शूले विधिं हन्तुं द्विजोत्तमाः ।
मरीचिनारदाद्यास्ते चक्रुर्हाहाकृतिं तदा ।।३३॥
दक्षो मैवं मैवमिति पाणिमुद्यम्य शङ्कितः ।
वारयामास भूतेशं क्षिप्रमेत्य पुरोगतः ।।३४।।
अथाग्रे मीलितं वीक्ष्य तदा दक्षं महेश्वरः ।
प्रत्युवाचाप्रियमिदं स्मारयन् वैष्णवीं गिरम् ।।३५।।
।। ईश्वर उवाच ।।
नारायणेन विप्रेन्द्र यदिदानीमुदीरितम् ।
मयाप्यंगीकृतं कर्तुं तदिहैव प्रजापते ॥३६॥
एनां यः साभिलाषः सन् वीक्षते तं हनिष्यसि ।
इति वाचन्तु सफलमेनं हत्वा करोम्यहम् ।। ३७।।
साभिलाषः कथं ब्रह्मा सतीं समवलोकयत् ।
अभवत्यक्ततेजास्तु ततो हन्मि कृतागसम् ।। ३८ ।।
।। मार्कण्डेय उवाच ।।
तमेवं वादिनं विष्णुः क्षिप्रं भूत्वा पुरःसरः ।
इदमूचे वारयंस्तं हन्तुं सर्वजगत्प्रभुः ।।३९।।
।। श्रीभगवानुवाच ।।
हनिष्यसि भूतेश स्रष्ट्रारं जगतां वरम् ।
अनेनैव सती भार्या भवदर्थे प्रकल्पिता ।।४०।।
प्रजाः स्रष्टुमयं शम्भो प्रादुर्भूतश्चतुर्मुखः ।
अस्मिन् हते जगत्स्रष्टा नास्त्यन्यः प्राकृतोऽधुना ।।४१।।
सृष्टिस्थित्यन्तकर्माणि करिष्यामः कथं पुनः ।
अनेनापि मया चैव भवता च समञ्जसम् ॥४२ ।।
एकस्मिन्निहतेऽमीषु कस्तत्कर्म करिष्यति ।
तस्मान्न वध्यो भवता विधाता वृषभध्वज ।। ४३ ।।
।। ईश्वर उवाच ।।
प्रतिज्ञां पूरयिष्यामि हत्वैनं चतुराननम् ।
अहमेव प्रजाः स्रक्ष्ये स्थावराणि चराणि च ।। ४४ ।।
अन्यं स्रक्ष्ये विधातारमथवाहं स्वतेजसा ।
स एव सृष्टिकर्ता स्यात् सर्वदा मदनुज्ञया ॥४५ ।।
हत्वैनं विधिमेवाहं प्रतिज्ञां पालयन् विभो ।
स्रष्टारमेकं स्त्रक्ष्यामि न वारय चतुर्भुज ।।४६।।
।। मार्कण्डेय उवाच ।।
इति तस्य वचः श्रुत्वा गिरिशस्य चतुर्भुजः ।
स्मितप्रसन्नवदनः पुनरैरेवमितीरयन् ।।४७।।
प्रतिज्ञापूरणं कर्तुं योग्यमात्मनि नो भवेत् ।
इत्युवाचाभिवदनमीश्वरस्य द्विजोत्तमाः ।।४८ ।।
ततः पुनः शम्भुरूचे कथमात्मा विधिर्मम ।
लक्ष्यते भिन्न एवायं प्रत्यक्षेणाग्रतः स्थितः ।। ४९ ।।
अथ ग्रहस्य भगवान् मुनीनां पुरतस्तदा ।
इदमूचे महादेवं तोषयन् गरुड़ध्वजः ।।५०॥
।। श्रीभगवानुवाच ।।
न ब्रह्मा भवतो भिन्नो न शम्भुर्ब्रह्मणस्तथा ।
न चाहं युवयोर्भिन्नोऽभिन्नत्वं सदातनम् ।।५१।।
प्रधानस्याप्रधानस्य भागाभागस्वरूपिणः ।
ज्योतिर्मयस्य भागो मे युवामेकोऽहमंशकः ।। ५२ ।।
कस्त्वं कोऽहञ्च को ब्रह्मा ममैव परमात्मनः ।
अंशत्रयमिदं भिन्नं सृष्टिस्थित्यन्तकारणम् ।। ५३ ।।
चिन्तयस्वात्मनात्मानं संस्तवं कुरु चात्मनि ।
एकत्र ब्रह्मवैकुण्ठशम्भूनां हृद्गतं कुरु ।।५४।।
शिरोग्रीवादिभेदेन यथैकस्यैव धर्मिणः ।
अङ्गानि मे तथैकस्य भागत्रयमिदं हर ।। ५५ ।।
यज्योतिरग्र्यं स्वपरप्रकाशंकूटस्थमव्यक्तमनन्तरूपम् ।
नित्यञ्च दीर्घादिविशेषणाद्यैर्हीनं परं तच्च वयं न भिन्नाः ॥५६ ॥
।। मार्कण्डेय उवाच ।।
एतच्छ्रुत्वा वचस्तस्य महादेवो विमोहितः ।
जानन् स चाप्यभिन्नत्वं सद्विस्मृत्यान्यचिन्तनात् ।।५७।।
पुनः प्रपच्छ गोविन्दमनन्यत्वं त्रिभेदिनाम् ।
ब्रह्मविष्णुत्र्यम्बकानामेकस्य च विशेषकम् ।।५८ ।।
ततो नारायणः पृष्टः कथयामास शम्भवे ।
अनन्यत्वं त्रिदेवानामेकत्वञ्च व्यदर्शयत् ।। ५९ ।।
श्रुत्वा ततो विष्णुमुखाब्जकोशा-दनन्यतां विष्णुविधशतत्त्वे ।
दृष्ट्वां स्वरूपं च जघान नैनं विधिं मृड: पुष्पमधुप्रकाशकम् ।।६०।।
॥ श्रीकालिकापुराणे त्रिदेवानामेकत्वप्रतिपादन नामैकादशोऽध्यायः ॥ ११ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand