कालिकापुराणम्/अध्यायः १४
कालिकापुराणम् चतुर्दशोऽध्यायः शिवसतीविहारवर्णनम्
अथ कालिका पुराण अध्याय १४
।। मार्कण्डेय उवाच ।।
जलदेष्वथ गर्जत्सु महादेवः सतीपतिः ।
विसृज्य विष्णुप्रभृतिं जगाम हिमवद्गिरिम् ॥१॥
आरोप्य वृषभे तुङ्गे सतीमामोदशालिनीम् ।
जगाम हिमवत्प्रस्थं रम्यं कुञ्जसमन्वितम् ॥२॥
अथ सा शङ्कराभ्यासे सुदती चारुहासिनी ।
विरेजे वृषभस्थाति चन्द्रान्ते कालिकोपमा ॥३॥
ब्रह्मादयश्च ते सर्वे मरीच्याद्याश्च मानसाः ।
दक्षोऽपि सर्वे मुदिता अभवन् ससुरासुराः ।।४।।
केचिच्छंखान् वादयन्तं केचित्तालान् सुमङ्गलाः ।
केचिद्धास्यं प्रकुर्वन्तो अनुजग्मुर्वृषध्वजम् ॥५॥
विसृष्टा अपि ब्रह्माद्याः शम्भुना पुनरेव ते ।
अनुजग्मुः कियद्दूरं मुदा परमया युताः ।।६।।
ततः शम्भुं समाभाष्य ब्रह्माद्या मानसाश्च ते ।
स्वं स्वं स्थानं तदा जग्मुः स्यन्दनैराशुगामिभिः ॥७॥
देवाश्च सर्वे सिद्धाश्च तथैवाप्सरसां गणाः I
यक्षविद्याधराद्याश्च ये ये तत्र समागताः ॥८॥
ते हरेण विसृष्टास्तु गतवन्तो निजास्पदम् ।
वभूवुरामोदयुताः कृतदारे वृषध्वजे ।।९।।
ततो हरः सस्वगण: संस्थानं प्राप्य मोदनम् ।
कैलासं तत्र वृषभादवतारयति प्रियाम् ।।१०।।
ततो विरूपाक्ष इमां प्राप्य दाक्षायणी गणान् ।
स्वीयान् विसर्जयामास नन्द्यादीन् गिरिकन्दरात् ।।११।।
उवाच शम्भुस्तान् सर्वान् नन्द्यादीनतिसुनृतम् ।
यदाहं वः स्मराम्यत्र स्मरणाच्चलमानसाः ।
समागमिष्यथ तदा मत्पार्श्वं भोस्तदा तदा ।। १२ ।।
इत्युक्ते वामदेवेन ते नन्दिभैरवादयः ।
महाकौषी प्रपाताय जग्मुस्ते हिमवगिरौ ।।१३।।
ईश्वरोऽपि तया सार्धं तेषु यातेषु मोहितः ।
दाक्षायण्या चिरं रेमे रहस्यनुदिनं भृशम् ।। १४ ।।
कदाचिद् वन्यपुष्पाणि समाहृत्य मनोहराम् ।
मालां विधाय सत्यास्तु हारस्थाने न्ययोजयत् ।।१५।।
कदाचिद्दर्पणे वक्त्रं वीक्षन्तीमात्मनः सतीम् ।
अनुगम्य हरो वक्त्रं स्वीयमप्यवलोकयत् ।। १६ ।।
कदाचित् कुन्तलांस्तस्या उल्लास्योल्लासमागतः ।
बध्नाति मोचयत्येवं शश्वत्सन्मार्जयत्यपि ।।१७।।
सरागौ चरणावस्या यावकेनोज्वलेन च ।
निसर्गरक्तौ कुरुते सरागो वृषभध्वजः ।। १८ ।।
उच्चैरपि यदाख्येयमन्येषां पुरतो मुहुः ।
तत् कर्णे कथयत्यस्या हरो स्प्रष्टुं तदाननम् ।।१९।।
न दूरमपि गत्वासौ समागम्य प्रयत्नतः ।
अनुबध्नाति तामक्ष्णि पृष्ठदेशेऽन्यमानसाम् ।।२०।।
अन्तर्हितस्तु तत्रैव मायया वृषभध्वजः ।
तामालिलिङ्ग भीत्या सा चकिता व्याकुलाभवत् ।। २१ ।।
सौवर्णपद्मकलिकातुल्ये तस्याः कुचद्वये ।
चकार भ्रमराकारं मृगनाभिविशेषकम् ।।२२।।
हारमस्याः कुचयुगाद्वियोज्य सहसा हरः ।
नियोजयति तत्रैव सकरस्पर्शनं मुहुः ।।२३।।
अङ्गदान् वलयान् वर्मीं विश्लेष्य च पुनः पुनः ।
तत्स्थानात् पुनरेवासौ तत्स्थाने प्रयुयोज च ।। २४ ।।
कालिकेयं समायाति सवर्णा ते सखीति ताम् ।
पश्येत् यस्यास्तथेच्छन्त्याः प्रोक्त्वा जग्राह तत्कुचौ ।। २५ ।।
कदाचिन्मदनोन्मादचेतनः प्रमथाधिपः ।
चकार नर्मकर्माणि तया हृत्प्रियया मुदा ।। २६ ।।
आहृत्य पद्मपुष्पाणि वन्यपुष्पाणि शङ्करः ।
पुष्पाभरणसर्वाङ्गीं कुरुते स्म कदाचन ।। २७ ।।
गिरिकुंजेषु रम्येषु तया सह सतीपतिः ।
विजहार समस्तेषु वनेषु मुदितो हरः ।।२८।।
न याने नोपवेशे च न स्थितौ नापि चेष्टिते ।
तया विना क्षणमपि शर्म लेभे वृषध्वजः ।।२९।।
विहृत्य सुचिरं कालं कैलासगिरिकन्दरे ।
महाकौषीप्रपाताय जगाम हिमवद्विरौ ।।३० ॥
तस्मिन् प्रविष्टे हिमवत् पर्वते वृषभध्वजे ।
कामोऽपि सह मित्रेण रत्या च प्रजगाम ह ।।३१।।
तस्मिन् प्रविष्टे कामे तु वसन्तः शङ्करान्तिके ।
विततान निजाः श्रीश्च वृक्षे तोये तथा भुवि ।।३२।।
सर्वे सुपुष्पिता वृक्षा लताश्चान्याः सुपुष्पिताः ।
अम्भांसि फुल्लपद्मानि पद्मेषु भ्रमरास्तथा ।।३३।।
प्रविष्टे तत्र सुरतौ प्रववुर्मलयानिलाः ।
सुगन्धिपुष्पगन्धेन मोहिताश्च पुरन्ध्रयः ।। ३४ ।।
मुनीनामपि चेतांसि प्रमथ्य सुरभिस्तदा ।
स्मरः सारं समुद्धध्रे तक्रौघादाज्यवत्कृती ।। ३५ ।।
सन्ध्यार्द्धचन्द्रसंकाशाः पलाशाश्च विरेजिरे ।
कामास्त्रवत्सुमनसः प्रमोदायाभवन् सदा ।। ३६ ।
वभुः पङ्कजपुष्पाणि सरःसु सकलं जनान् ।
सम्मोहयितुमुद्युक्ता सुमुखीवाम्बुदेवता ।। ३७।।
नागकेशरवृक्षाश्च स्वर्णवर्णप्रसूनकैः ।
वभुर्मदनकेत्वाभा मनोज्ञाः शङ्करान्तिके ।। ३८ ।।
चम्पकास्तरवो हैमपुष्पत्वं प्रकटं मुहुः ।
कुर्वन्तः प्रचुरैः पुष्पैः सम्यग्रेजुस्तथास्फुटैः ।। ३९ ।।
प्रफुल्लपाटलापुष्पैर्दिशः स्युः पाटलांशवः ।
यथा तथा पुष्पितास्ते पाटलाख्या महीरुहाः ।।४०।।
लवंगवल्लीसुरभिर्गन्धेनोद्वास्य मारुतम् ।
सम्मोहयति चेतांसि भृशं कामिजने पुरा ।। ४१ ।।
वासन्तीवासितास्तत्र वल्वजाः किल रेजिरे ।
तद्गन्धलुब्ध भ्रमरा रतिमिश्रा मनोहराः ।।४२।।
चारु जावकवर्च् स्वि शिखराश्चूतशाखिनः ।
वभुर्मदनवाणौघ पर्यंकवदनावृताः ।।४३।।
अम्भांसि मलहीनानि रेजु; फुल्लकुशेशयैः ।
मुनीनामिव चेतांसि प्रव्यक्तज्योतिरुद्गमात् ।। ४४ ।।
तुषारा: सूर्यरश्मीनां सङ्गमादगमन् क्षयम् ।
ममत्वानीव विज्ञानशालिनां हृदयात्तदा ।। ४५ ।।
निःशङ्काः कोकिलाः शब्दं तन्वते स्म तदान्वहम् ।
प्राणिव्यधनपुष्पेषु पुष्पज्याशब्दवत् भृशम् ।। ४६ ।।
चुकूजुर्भ्रमरास्तत्र वनान्तर्गतपुष्पगाः ।
कान्तालीलावुभुक्षोस्तु स्मरव्याघ्रस्य शब्दवत् ।।४७।।
चन्द्रस्तुषारवद्भानुर्नचैताः सकलाः कलाः ।
कम्राद्वभार मोहाय जनानां कुशलं भुवि ।। ४८ ।।
प्रसन्ना: सह चन्द्रेण निस्तुषारास्तदाभवन् ।
विभावर्यः प्रियेणैव कामिन्यः सुमनोहराः ।। ४९ ।।
तस्मिन् काले महादेवः सह सत्या भूधरोत्तमे ।
रेमे च सुचिरं छन्नो निकुञ्जेषु दरीषु च ।।५०।।
सापि तेन समं रेमे तथा दाक्षायणी शुभा ।
यथा हरः क्षणमपि शान्तिं नावाप तां विना ।।५१।।
संभोगविषये देवी सती तस्य मनः प्रिया ।
विशतीव हरस्याङ्गे पाययन्तीव तद्रसम् ।।५२।।
तस्याः कुसुममालाभिर्भूषयन् सकलां तनुम् ।
स्वहस्तरचिताभिश्च वरं नर्म चकार सः ।।५३॥
आलापैर्वीक्षणैर्हासैस्तथा सम्भाषणैर्हरः ।
तस्यां विवेश गिरिशः संयमीवात्मसंविदम् ।।५४।।
तद्वक्त्रचन्द्रपीयूषपानस्थिरतनुर्हर: ।
नावाप शैषिकीं तन्वीमवस्थां स कदाचन ।।५५।।
तद्वक्त्राम्बुजवासेन तत्सौन्दर्यस्य नर्मभिः ।
गुणैरिव महादन्ती बद्धो नान्यद्विचेष्टते ।। ५६ ।।
इति हिमगिरिकुंजे प्रस्थभागे दरीषु प्रतिदिनमधिरेमे दक्षपुत्र्या महेशः ।
क्रतुभुज परिमाणैः क्रीडतस्तस्य जाता नव दश च मुनीन्द्रा वत्सराः पञ्च चान्ये ।। ५७ ।।
॥ इति श्रीकालिकापुराणे शिवसतीविहारवर्णननाम चतुर्दशोऽध्यायः ॥ १४ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand