कालिकापुराणम् अष्टादशोऽध्यायः शिवविषादवर्णनम्
अथ कालिका पुराण अध्याय १८
।। मार्कण्डेय उवाच ।।
दाक्षायणीगुणगणान् गणयन् गोरङ्गस्तदा ।
विललापातिदुःखार्तो मनुजः प्राकृतो यथा ।। १॥
विलपन्तं तदा भर्ग विज्ञाय मकरध्वजः ।
रतीबसन्तसहित आससाद महेश्वरम् ।।२।।
तं शुचातिपरिभ्रष्टं युगपत् स रतिपतिः ।
जघान पञ्चभिर्बाणैः रुदन्तं भ्रष्टचेतनम् ।।३।।
शोकाभिहतचित्तोऽपि स्मरबाण समाकुलः ।
सङ्कीर्णभावमापन्नः शुशोच च मुमोह च ॥४॥
क्षणं भूमौ निपतति क्षणमुत्थाय धावति ।
क्षणं भ्रमति तत्रैव निमीलति विभुः पुनः ।। ५ ।।
ध्यायन् दाक्षायणीं देवीं हसमानः कदाचन ।
परिष्वजति भूमिष्ठां रसभावैरिव स्थिताम् ॥६॥
सती सतीति सततं नाम व्याहृत्य शङ्करः ।
मानं त्यज वृथेत्येवमुक्त्वा स्पृशति पाणिना ॥७॥
पाणिनापरिमाज्यैनामलङ्कारान् यथास्थितान् ।
तस्या विश्लिष्य च पुनस्तत्रैवानुयुयोज च ॥८॥
एवं कुर्वति भूतेशे मृता नोवाच किञ्चन ।
यदा सती तदा भर्गः शोकाद्गाढं रुरोद ह ।।९।।
रुदतस्तस्य पततो वाष्पान् वीक्ष्य तदा सुराः ।
ब्रह्मादयः परां चिन्तां जग्मुश्चिन्तापरायणाः ।।१०।।
वाष्पाः पतन्तो भूमौ चेद्दहेयुः पृथिवीमिमाम् ।
उपायस्तत्र कः कार्य इति हा हेति चुक्रुशुः ।।११।।
ततो विमृष्यते देवा ब्रह्माद्यास्तु शनैश्चरम् ।
तुष्टुवुर्मूढभर्गस्य वाष्पधारणकारणात् ।।१२।।
शनिस्तोत्र
।। देवा ऊचुः ।।
शनैश्चर महाभाग लोकानुग्रहकारक ।
मूलशक्तिसमुद्भूत नमस्ते सूर्यसम्भव ।।१३।।
नमस्ते शूलहस्ताय पाशहस्ताय धन्विने ।
तथा वरदहस्ताय तमश्छायात्मजाय ते ।।१४।।
नीलमेघ प्रतीकाश भिन्नाञ्जनचयोपम ।
नमस्ते सर्व-लोकानां प्राणधारणहेतवे ।। १५ ।।
गृध्रध्वज नमस्तेऽस्तु प्रसीद भगवन् दृढम् ।
वाष्पेभ्यः शोकजेभ्यश्च पाहि भर्गस्य नः क्षितिम् ।।१६।।
यथा पुरा शतं वर्षानवजग्राह वर्षणम् ।
भवानेव तु मेघेभ्यस्तथा कुरु हराम्बुनि ।।१७।।
तव चापग्रहं दृष्ट्वा मेघास्ते पुष्करादयः ।
मुमुचुः सततं वर्ष महेन्द्रस्य किलाज्ञया ।। १८ ।।
आकाश एव वर्षाम्भस्तत्सर्वं भवता पुरा ।
विनाशितं यथा वाष्पं तथा नाशय शूलिनः ।। १९ ।।
न त्वामृतेऽन्यः शक्तोऽस्ति हरवाष्पनिवारणे ।
दहेत् सदेवगन्धर्वब्रह्मलोकान् सपर्वतान् ।
पृथिवीं पतितो वाष्पस्तस्माद्धारय मायया ।।२०।।
।। मार्कण्डेय उवाच । ।
इत्येवम्भाषमाणेषु देवेषु मिहिरात्मजः ।
प्रत्युवाच स तान् देवान्नातिहृष्टमना इव ।। २१ ।।
॥ शनैश्वर उवाच ॥
करिष्ये भवतां कर्म यथाशक्ति सुरोत्तमाः ।
तथा किन्तु विदग्धं हि न मां वेत्ति यथा हरः ।। २२ ।।
दुःखशोकाकुलस्यास्य समीपे वाष्पधारिणः ।
कोपान्नश्येच्छरीरं मे नियतं नात्र संशयः ।। २३ ।।
तस्माद् यथा मां भूतेशो न जानाति सतीपतिः ।
तथा कुरुध्वं नेत्रेभ्यो हरलोतकधारिणम् ।।२४।।
।। मार्कण्डेय उवाच ।।
ततो ब्रह्मादयो देवास्ते सर्वे शङ्करान्तिकम् ।
गत्वा हरं सम्मुमुहुः सांसार्या योगमायया ।। २५ ।।
शनैश्चरोऽपि भूतेशमासाद्यान्तर्हितस्तदा ।
वाष्पवृष्टिं दुराधर्षामवजग्राह मायया ।।२६।।
यदा स नाशकद्वाष्पान् सन्धारयितुमर्कजः ।
तदा महागिरौ क्षिप्ता वाष्पास्ते जलधारके ।। २७ ।।
लोकालोकस्य निकटे जलधाराह्वयो गिरिः ।
पुष्करद्वीपपृष्ठस्थस्तोयसागर पश्चिमे ।। २८ ।।
स तु सर्वप्रमाणेन मेरुपर्वतसन्निभः ।
तस्मिन् विन्यस्तवान् वाष्पांस्तदाशक्तः शनैश्चरः ।। २९ ।।
स पर्वतोपि तान् वाष्पान्न धर्तुं क्षम ईशितुः ।
विदीर्णस्तैस्तु वाष्पौघैर्भग्नमध्योऽभवद्द्भुतम् ॥३०॥
ते वाष्पाः पर्वतं भित्वा विविशुस्तोयसागरम् ।
सागरोऽपि ग्रहीतुं तन्न शशाक खरानति ।। ३१ ।।
ततस्तु सागरं मध्ये भित्वा वाष्पाः समागताः ।
तोयधेः प्राग्भवां वेलां स्पर्शमात्राद्विभेद ताम् ।।३२।।
विभिद्य वेलां ते वाष्पाः पुष्करद्वीपमध्यगाः ।
नदी भूत्वा वैतरणी पूर्वसागरगाभवत् ।।३३॥
जलधारस्य भेदेन संसर्गात् सागरस्य च ।
अवाप्य सौम्यतां किञ्चिद्वाष्पास्ते नाभिन्दन् क्षितिम् ॥३४॥
वैवस्वतपुरद्वारे योजनद्वयविस्तृता ।
अद्यापि तिष्ठत्यपगा हरलोतकसम्भवा ।।३५।।
।। शक्ति पीठ स्थापन ।।
अथ शोकविमूढात्मा विलपन् वृषभध्वजः ।
जगाम प्राच्यदेशांस्तु स्कन्धे कृत्वा सतीशवम् ।। ३६ ।।
उन्मत्तवद्गच्छतोऽस्य दृष्ट्वा भावं दिवौकसः ।
ब्रह्माद्याश्चिन्तयामासुः शवभ्रंशनकर्मणि ।। ३७।।
हरगात्रस्य संस्पर्शाच्छवो नायं विशीर्णताम् ।
गमिष्यति कथं तस्मादस्य भ्रंशो भविष्यति ।। ३८ ।।
इति सञ्चिन्तयन्तस्ते ब्रह्मविष्णुशनैश्चराः ।
सतीशवान्तर्विविशुरदृश्या योगमायया ।। ३९ ।।
प्रविश्याथ शवं देवाः खण्डशस्ते सतीशवम् ।
भूतले पातयामासुः स्थाने स्थाने विशेषतः ।।४० ।।
देवीकूटे पादयुग्मं प्रथमं न्यपतत् क्षितौ ।
उड्डीयाने चोरुयुग्मं हिताय जगतां ततः ।। ४१ ।।
कामरूपे कामगिरौ न्यपतत्योनिमण्डलम् ।
तत्रैव न्यपतद्भूमौ पर्वते नाभिमण्डलम् ।।४२।।
जालन्धरे स्तनयुगं स्वर्णहारविभूषितम् ।
अंशग्रीवं पूर्णगिरौ कामरूपात्ततः शिरः ।। ४३ ।।
यावद्भुवं गतो भर्गः समादाय सतीशवम्
प्राच्येषु याज्ञिको देशस्तावदेव प्रकीर्तितः ।। ४४ ।।
अन्ये शरीरावयवा लवश: खण्डिताः सुरैः ।
आकाशगङ्गामगमन् पवनेन समीरिताः ।। ४५ ।।
यत्र यत्रापतन् सत्यास्तदापादादयो द्विजाः ।
तत्र तत्र महादेव: स्वयं लिङ्गस्वरूपधृक् ।
तस्थौ मोहसमायुक्तः सतीस्नेहवशानुगः ।। ४६ ।।
ब्रह्मविष्णुशनिश्चापि सर्वे देवगणास्तथा ।
पूजयाञ्चक्रुरीशस्य प्रीत्या सत्याः पदादिकम् ॥४७ ।।
देवीकूटे महादेवी महाभागेति गीयते ।
सतीपादयुगे लीना योगनिद्रा जगत् प्रभुः ।। ४८ ।।
कात्यायनी चोड्डीयाने कामाख्या कामरूपिणी ।
पूर्णेश्वरी पूर्णगिरौ चण्डी जालन्धरे गिरौ ।। ४९ ।।
पूर्वान्त कामरूपस्य देवी दिक्करवासिनी ।
तथा ललितकान्तेति योगनिद्रा प्रगीयते ॥५०॥
यत्रैव पतितं सत्या: शिरस्तत्र वृषध्वजः ।
उपविष्टः शिरो वीक्ष्य श्वसञ्छोकपरायणः ।। ५१ ।।
उपविष्टे हरे तत्र ब्रह्माद्यास्ते दिवौकसः ।
समीपमगमंस्तस्य दूरत: सान्त्वयन् हरम् ।।५२।।
देवानागच्छतो दृष्ट्वा शोक- लज्जासमन्वितः ।
गत्वा शिलात्वं तत्रैव लिङ्गत्वं गतवान् हरः ।। ५३ ।।
हरे लिङ्गत्वमापन्ने ब्रह्माद्यास्तु दिवौकसः ।
तुष्टुवुत्र्यम्बकं तत्र लिङ्गरूपं जगद्गुरूम् ।।५४।।
शिव स्तुति
।। देवा ऊचुः ।।
महादेवं शिवं स्थाणुमुग्रं रूद्रं वृषध्वजम् ।
श्मशानवासिनं भर्गं सर्वान्तकरणं परम् ।।५५।।
त्वां नमामो वयं भक्त्या शङ्करं नीललोहितम् ।
गिरीशं वरदं देवं भूतभावनमव्ययम् ।।५६ ।।
अनादिमध्यसंसारयोगविद्याय शम्भवे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ।।५७।।
जटिलाय गिरीशाय विद्याशक्तिधराय ते ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ।। ५८ ।।
ज्ञानामृतान्तसम्पूर्णशुद्धदेहान्तराय च ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ।।५९।।
आदिमध्यान्त भूताय स्वभावानलदीप्तये ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ।। ६० ।।
प्रलयार्णवसंस्थाय प्रलयस्थितिहेतवे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ।।६१।।
यः परेभ्यः परस्तस्मात् पराय परमात्मने ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ।।६२।।
ज्वालामालावृताङ्गाय नमस्ते विश्वरूपिणे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ।।६३।।
नमः परमार्थाय ज्ञानदीपाय वेधसे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ।।६४।।
नमो दाक्षायणीकान्त मृड शर्व महेश्वर ।
नमस्ते सर्वभूतेश प्रसीद भगवञ्छिव ।। ६५ ।।
सशोके त्वयि लोकेशे चेष्टमाने महेश्वर ।
सुराः समाकुलाः सर्वे तस्माच्छोकं परित्यज ॥६६॥
नमो नमस्ते भूतेश सर्वकारणकारण ।
प्रसीद रक्ष नः सर्वांस्त्यज शोकं नमोऽस्तुते ॥६७।।
।। मार्कण्डेय उवाच ।।
इति संस्तूयमानस्तु महादेवो जगत्पतिः ।
निजं रूपं समास्थाय प्रादुर्भूतः शुचाहतः ।।६८।।
तं शुचा विह्वलं दृष्टा प्रादुर्भूतं विचेतसम् ।
शोकापहं विधिं साम्ना तुष्टाव वृषभध्वजम् ॥६९ ।।
ब्रह्मकृता शिवस्तुति
।। ब्रह्मोवाच ।।
हिरण्यबाहो ब्रह्मा त्वं विष्णुस्त्वं जगतः पतिः ।
सृष्टिस्थितिविनाशानां हेतुस्त्वं केवलं हर ।।७०॥
त्वमष्टमूर्तिभिः सर्वं जगद्व्याप्य चराचरम् ।
उत्पादकः स्थापकश्च नाशक श्चापि विश्वकृत् ।। ७१ ।।
त्वामाराध्य महादेव मुक्तिं याता मुमुक्षवः ।
रागद्वेषादिभिस्त्यक्ताः संसारविमुखा बुधाः ।।७२।।
विभिन्नवाय्वग्निजलौघवर्जितं न दूरसंस्थं रविचन्द्रसंयुतम् ।
त्रिमार्गमध्यस्थमनुप्रकाशकं तत्त्वं परं शुद्धमयं महेश्वर ।।७३।।
यदष्टशाखस्य तरोः प्रसूनं चिदम्बुवृद्धस्य समीपजस्य ।
तपश्छदः संस्थगितस्य पीनं सूक्ष्मोपगं ते वशगं सदैव ॥७४॥
अधः समाधाय समीरणस्वनं निरुद्ध्यं चोर्द्धं निशि हंसमध्यतः ।
हृत्पद्ममध्ये सुमुखीकृतं रजः परन्तु तेजस्तव सर्वदेक्ष्यताम् ।।७५।।
प्राणायामैः पूरकैः स्तम्भकैर्वा रिक्तैश्चित्रैश्चोदनं यत्पराख्यम् ।
दृश्यादृश्यं योगिभिस्ते प्रपञ्चाः शुद्धं वृद्धं तत्त्वतस्तेऽस्ति लब्धम् ।।७६॥
सूक्ष्मं जगद्व्यापि गुणौघपीनं मृग्यम्बुधेःसाधनसाध्यरूपम् ।
चौरैर क्षैनोज्झितं नैव नीतं वित्तं तवास्त्यर्थहीनं महेश ॥७७।।
न कोपेन न शोकेन न मानेन न दम्भतः ।
उपयोज्य तु तद्वित्तमन्यथेव विवर्धते ॥७८॥
मायया मोहितः शम्भो विस्मृतं ते हृदि स्थितम् ।
मायां भिन्नं परिज्ञाय धारयात्मानमात्मना ।।७९।।
मायास्माभिः स्तुता पूर्वं जगदर्थे महेश्वर ।
तया ध्यानगतं चित्तं बहुयत्नैः प्रसाधितम् ॥८०॥
शोकः क्रोधश्च लोभश्च कामो मोहः परात्मता ।
ईर्ष्यामानौ विचिकित्सा कृपासूया जुगुप्सता ।।८१ ।।
द्वादशैते बुद्धिनाशहेतवो मनसो मलाः ।
न त्वादृशैर्निषेव्यन्ते शोकं त्यज ततो हर ।।८२ ।।
।। मार्कण्डेय उवाच ।।
इति शाम्ना स्तुत: शम्भुः संस्मृत्यपि स्ववाञ्छितम् ।
नावदध्रे तदात्मानं शोकात् सत्या विनाकृतः ।। ८३ ।।
अधोमुखः स्थितं वीक्ष्य ब्रह्माणं सः शनैरिदम् ।
प्राह ब्रह्मन्नायतिगं वद किं करवाण्यहम् ॥८४ ।।
।। मार्कण्डेय उवाच ॥
इत्युक्तो वामदेवेन विधाता सर्वदेवतैः ।
इदमाह तदेशस्य शोकविध्वंसकं वचः ॥८५॥
।। ब्रह्मोवाच ।।
त्यज शोकं महादेव संस्मृत्यात्मानमात्मना ।
न त्वं शोकस्य सदनं परं शोकात्तवान्तरम् ।। ८६ ।।
सशोके त्वयि भूतेश देवा भूताः ससाध्वसाः ।
भ्रंशयेज्जगतीं कोपः शोकः सर्वांश्च शोषयेत् ।। ८७ ।।
त्वद्वाष्पव्याकुला पृथ्वी विदीर्णा स्यान्न चेच्छनिः ।
अवजग्राह ते वाष्पं सोऽपि कृष्णोऽभवद् हठात् ।। ८८ ।।
यत्र देवाः सगन्धर्वाः सदा क्रीडन्ति सोत्सुकाः ।
सुमेरुसदृशो योऽसौ मानतः पर्वतोत्तमः ।। ८९ ।।
यस्मिन् प्रविश्य शिशिरे पद्मनालनिभे घनाः ।
उत्पिबन्ति स्म तोयानि पुष्करावर्तकादयः ।। ९० ।।
मन्दरात् सततं यत्र कुम्भयोनिर्महामुनिः ।
गत्वा गत्वा तपस्तेपे हिताय जगतो हरः ।।९१।।
यस्मिन् स्थित्वा गिरौ पूर्वमगस्त्यस्तोयसागरम् ।
पपौ तपोबलात् कृत्वा करमध्यगतं किल ।।९२।।
शनैश्चरेण ते वोढुमसमर्थेन लोतकैः ।
क्षिप्तैर्विदारितस्तेऽसौ जलधाराह्वयो गिरिः ।। ९३ ।।
विभिद्य पर्वतं शम्भो वाष्पास्ते सागरं ययुः ।
भित्त्वा तु सागरं शीघ्रं प्रभीताण्डजसंकुलम् ।।९४।।
जग्मुस्ते पूर्वपुलिनं तस्य द्विभिदुश्च ते ।
भित्वा वेलां ततः पृथ्वीं यिभिद्याशु तरङ्गिणीम् ।। ९५ ।।
चक्रुर्वैतरणीं नाम्ना पूर्वसागरगामिनीम् ।
न नावा न विमानेन न द्रोण्या स्यन्दनेन च ।। ९६ ।।
तर्तुं शक्या सा तु नदी तप्ततोयातिभीषणा ।
दुःखेन तान्तु पृथिवी विभर्ति महताधुना ।। ९७ ।।
सदा चोर्द्धगतैर्वाष्पैर्विक्षिपन्ती नभश्चरान् ।
तस्यास्तूपरि नो यान्ति देवा अपि भयातुराः ।। ९८ ।।
यमद्वारं परावृत्य योजनद्वयविस्तृता ।
निम्ना वहति सम्पूर्णा भीषयन्ती जगत्त्रयम् ।।९९ ।।
त्वन्निःश्वासमरुज्जातैर्व्यस्ता पर्वतकाननाः ।
समाकुलद्वीपिनागा नाद्यापि प्रतिशेरते ।। १०० ॥
तव निःश्वासजो वायुः पीडयन् जगतः सुखम् ।
नाद्यापि प्रशमं याति बाधाहीनः सनातनः ।। १०१ ।।
सतीशवं ते वहतः शीर्यमाणा पदे पदे ।
नाद्यापि व्याकुला पृथ्वी व्याकुलत्वं विमुञ्चति ।। १०२ ।।
न स्वर्गे न च पाताले तत्सत्त्वं विद्यतेऽधुना ।
यत्ते क्रोधेन शोकेन नाकुलं वृषभध्वज ।। १०३ ।।
तस्माच्छोकममर्षञ्च त्यक्त्वा शान्तिं प्रयच्छ नः।
आत्मानञ्चात्मना वेत्थ धारयात्मानमात्मना ।। १०४ ।।
सती च दिव्यमानेन व्यतीते शरदां शते ।
सा च त्रेतायुगस्यादौ भार्या तव भविष्यति ।। १०५ ।।
।। मार्कण्डेय उवाच ।।
इत्युक्तो वेधसा शम्भुस्तूष्णीं ध्यानपरायणः ।
अधोमुखस्तदा प्राह ब्रह्माणममितौजसम् ।। १०६ ।।
।। ईश्वर उवाच ।।
यावद् ब्रह्मन्नहं शोकादुत्तरामि सतीकृतान् ।
तावन्मम सखा भूत्वा कुरु शोकापनोदनम् ।। १०७ ।।
तस्मिन्नवसरे यत्र यत्र गच्छाम्यहं विधे ।
तत्र तत्र भवान् गत्वा शोकहानिं करोतु मे ।। १०८ ।।
।। मार्कण्डेय उवाच ।।
एवमस्त्विति लोकेश प्रोक्त्वा वृषभवाहनम् ।
हरेण सार्धं कैलासं गन्तुं चक्रे मनस्ततः ।। १०९ ।।
ब्रह्मणा सहितं शम्भुं कैलासगमनोत्सुकम् ।
समासेदुर्गणा दृष्ट्वा नन्दिभृंगिमुखाश्च ये ।। ११० ।।
ततः पर्वतसंकाशो वृषभ: पुरतो विधेः ।
उपतस्थे सिताभ्रस्य सदृशो गैरिको यथा ।। १११ ।।
वासुक्याद्याश्च ये सर्पा यथास्थानञ्च ते हरम् ।
भूषयांचक्रुरुद्रम्य शिरोबाह्वादिषु द्रुतम् ।।११२।।
ततो ब्रह्मा च विष्णुश्च महादेवः सतीपतिः ।
सर्वैः सुरगणैः सार्धं जग्मुः प्रालेयपर्वतम् ।।११३।।
ततस्तानौषधिप्रस्थान् निःसृत्य नगराद्गिरिः ।
सर्वैरमात्यैः सहित उपतस्थे सुरोत्तमान् ।। ११४।।
ततः सम्पूजितास्तेन सुरौघा गिरिणा सह ।
सचिवैः पौरवर्णैश्च मुमुदुस्ते सुरर्षभाः ।। ११५।।
ततो ददर्श तत्रैव गिरीन्द्रस्य पुरे हरः ।
विजयामौषधिप्रस्थे सखीभिर्गौतमात्मजाम् ।।११६ ।।
सापि सर्वान् सुरवरान् प्रणम्य हरमुक्तवान् ।
चुक्रोश मातृभगिनीं पृच्छन्तीं गिरिशं सतीम् ।। ११७ ।।
क्व सती ते महादेव शोभसे न तया विना ।
विस्मृतापि त्वया तात मद्हृदो नापसर्पति ।। ११८ ।।
ममाग्रे सा पुरा प्राणान् यदा त्यजति कोपतः ।
तदैवाहं शोकशल्यविद्धा नाप्नोमि वै सुखम् ।।११९ ।।
इत्युक्त्वा वदनं वस्त्रप्रान्तेनाच्छाद्य सा भृशम् ।
रुदन्ती प्रापतद्भूमौ कश्मलञ्चाविशत्तदा ।। १२० ।।
॥ इति श्रीकालिकापुराणे शिवविषादवर्णनम् नाम अष्टादशोऽध्यायः ॥ १८ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand